संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्| अथमूलजननशांति: अथसंस्कारप्रकरणम् अथसंस्कारप्रकरणम् अथसंस्कारक्रम: अथगणपतिपूजनम् अथपुण्याहवाचनम् अथकर्मांगदेवता: अथमातृकापूजनम् अथनांदीश्राध्दविचार: अथनांदीश्राध्दम् अथग्रहयज्ञ:परिशिष्टोक्त: ग्रहयज्ञोमात्स्योक्त: (अयुतहोम:) अथबलिदानम् अथवसोर्धारानुवाक: अथाग्न्युपघातेप्रायश्चित्तानि अथाग्निनामानि अथस्थालीपाकप्रयोग: अथगृह्याग्ने:पुन:संधानम् अथभुवनेश्वरीशांति: अथगर्भाधानम् अथनारायणबलि: अथनागबलि: अथदत्तपुत्रविधानम् पुंसवनानवलोभनसीमंतोन्नयनानि अथानवलोभनम् अथसीमंतोन्नयनम् अथजातकर्मप्रयोग: अथषष्ठीपूजा अथनामकरणप्रयोग: अथसूर्यावलोकनम् अथनिष्क्रमणप्रयोग: अथोपवेशनविधि: अथावन्नप्राशनप्रयोग: अववर्धापनविधि: अथकूष्मांडहोम: अथबृहस्पतिशांति: अथोपनयनम् अथमंडपदेवताप्रतिष्ठा अथघटीस्थापनं अथयेयज्ञेनसूक्तम् उपनयनप्रयोग: अथानुप्रवचनीयहोम: अथप्रदोषगर्जितादिशांति: उपनयनाग्मिनाशेप्रायश्चित्तम् अथमेधाजननप्रयोग: अथविवाहपूर्वंदिनकृत्यम् अथसीमांतपूजनम् अथवरस्यवधूग्रहगमनम् अथमधुपर्क: अथगौरीहरपूजा अथसत्येनोत्तभितासूक्तम् अथऋक् चवेत्यादिब्राह्मणखंडवाक्यानि अथकन्यादानम् अथविवाहहोम: अथगृहप्रवेशनीयहोम: अथविवाहचतुर्थदिनकृत्यम् अथवधूगृहप्रवेश: अथदेवकोत्थापनमंडपोद्वासने अथाग्निद्वयसंसर्गप्रयोग: अथाशौचेहोमविधि: अथापत्कालेकर्तव्योहोमद्वयसमासप्रयोग: अथगुर्वापदिपक्षहोम: अथाग्निसमारोपविधि: अथाग्रयणहोम: अथपिंडपितृयज्ञ: अथाग्निसंसर्गदोषेप्रायश्चित्तम् अथार्कविवाह: अथगोप्रसवशांति: अथमूलजननशांति: अथाश्लेषाजननशांति: अथज्येष्ठाजननशांति: अथकृष्णचतुर्दशीजननशांति: अथसिनीवालीकुहुजननशांति: अथदर्शजननशांति: अथव्यतीपातसंक्रमणजननशांति: अथवैधृतिजननशांति: अभद्राजननशांति: अथाधोमुखजननशांति: अथैकनक्षत्रजननशांति: अथग्रहणजननशांति: अथनक्षत्रगंडांतशांति: अथतिथ्यादिगंडांतशांति: अथविषनाडीजननशांति: अथयमलजननशांति: अथत्रिकप्रसवशांति: अथसदंतजननशांति: अथसिंहार्केगोप्रसवशांति: अथप्रसववैकृतशांति: संस्कारप्रकरणम् - अथमूलजननशांति: ऋग्वेदीयब्रह्मकर्मसमुच्चयः Tags : brahmarugvedsanskritॠग्वेदब्रह्मसंस्कृत अथमूलजननशांति: Translation - भाषांतर श्रीगणेशायनम: ॥ मूलोत्पत्तौद्वादशाहेअव्यहितागामिमूलनक्षत्रयुतेशुभदिनेवागोप्रसवशांतिमुक्तविधिनाकृत्वादेशकालकीर्तनांतेस्यकुमारस्यमूलप्रथमचरणजन्मसूचितसकलारिष्टपरिहाराश्रीपरमेश्वरप्रीत्यर्थंशौनकोक्तप्रकारांसग्रहमखांशांतिंकरिष्ये इतिसंकल्प्य गणपतिपूजादिऋत्विग्वरणांतंकुर्यात् ॥ द्वितीदिचरणोत्पत्तौसंकल्पेतथोहोबोध्दव्य: ॥ ब्रह्मसदस्यौकृताकृतौ ॥ ऋत्विजोष्टौचतुरोवावृत्वायथाविभूवंपूजयेत् ॥ ततआचार्य:पवित्रपाणि:प्रान्णानयम्ययथाचारंसंकल्प्यसुसमीकृतपुण्यदेशेयदत्रसंस्थितमितिसर्षपान्विकीर्य एतोन्विंद्रस्तवामेतितिसृभिग्भिर्जलमभिमंत्र्य तेनापोहिष्ठेतितृचेनतांभूमिंप्रोक्ष्यप्रतिमाग्न्युत्तारणंकृत्वामंडपाभावे प्रोक्षितभूमौऐशान्यांस्वस्तिकंविरच्य महीध्यौरितिभुवंस्पृष्ट्वा ओषधय:समितिद्रोणपरिमितव्रीन्प्रक्षिपेत् ॥यथोक्तलक्षणंकलशंयुवासुवासाइतिप्रक्षालितवस्त्रावगुंठितंकृत्वा तीर्थवारिणेमंमेगंगेइत्यापूर्य शरास:कुशरासइतिहिरण्यरुपइतिकूर्चंहेमसमायुक्तंविधाय चूतपल्लवै:संयुक्तंस्वस्तिकेव्रीहिषुविन्यसय सपल्लवा:क्षीरद्रुमशाखाअश्वत्थेवइतिनिक्षिप्यसहिरत्नानितिपंचरत्नानियाओषधीरितिसर्वौषधी:प्रक्षिप्य गंधद्वारामितिगंधं या:फलिनीरितिपुष्पफले ओषधयइतियवान् कांडात्कांडादितिपूर्वा: स्योनेतिमृद: आपोहिष्ठेतितृचेनपंचगव्यंनिक्षिप्य पूर्णादवींतिपूर्णपात्रंनिधाय तस्मात्कलशाच्चतुर्दिक्षुमहीध्यौरित्यादिमंत्रावृत्त्याचतुर्णांकलशानांपूर्णपात्रनिधानांतंकृत्वा मध्यकलशेस्थितसाष्टदलवाससिहेमप्रतिमायां ॥ यातेरुद्रेतिमंत्रस्यकश्यपोरुद्र:स्वराडनुष्टुप् रुद्रवाहनेविनियोग: ॥ ॐ यातेरुद्रशिवातनूरघोरापापकाशिनी ॥ तयानस्तनुवाशंतमयागिरिशंताभिचाकशीहि ॥ एतेनमंत्रेणरुद्रमावाह्यतेनैवसंपूज्य ॥ चतुर्षुइमंमेवरुणतत्त्वायामित्वन्नोअग्नेसत्वंनो अग्नइतिक्रमेणवरुणमावाह्यपंचोपचारै:संपूज्य ॥ यजुर्वेदीयजमानश्चेत्कंचिदृत्विजंमध्यकुंभेषडंगैकादशिनीजपेयोजयेत् ॥ सचरुद्रकलशंस्पृशन् जपेत् ॥ बह्वृचोयजमानश्चेद्रुद्रसूक्तजपेकंचिध्योजयेत् ॥ छंदोगश्चेद्रुद्रसामजपेसामगांस्त्रीन् योजयेत् ॥ तेपिकलशंस्पृशंतोजपेयु: ॥ सूक्तसामजपयोरेकादशाष्टद्वित्र्येकसंख्यानांविकल्प: ॥ कद्रुदायेतिनवर्चस्यघौर:कण्वोरुद्रोगायत्रीअंत्यानुष्टुप् ॥इमारुद्रायेत्येकादशर्चस्यसूक्तस्यकुत्सोरुद्रोनवजगत्योंत्येत्रिष्टुभौ ॥ आतेपितरितिपंचदशर्चस्यगृत्समदोरुद्रस्त्रिष्टुप् ॥ सर्वेषांजपेविनियोग: ॥ ॐ कद्रुद्रायप्रचेतसे० ऋच:९ ॥ ॐ इमारुद्रायतवसेकपर्दिने० ऋच: ११ ॥ आतेपितर्मरुतांसुम्रमेतु० ऋच:१५ ॥ (सूक्तांतरसत्त्वेपिनतज्जप:बहुवचनस्यत्रिषूपपत्ते) ॥ आवोराजानमितित्रयाणांसाम्नांवामदेवोरुद्रआध्यस्यत्रिष्टुप् योर्गायत्री जपेवि० ॥ ॐ आवोराजानमध्वरस्यरुद्रं० ऋच: ३ ॥ ततआशु:शिशानइत्यादिचतुर्णामन्येषामपितत्रैवजप:कार्य: तत्रत्यजपसंदंशपाठात् ॥ आशु:शिशानइतित्रयोदशर्चस्यसूक्तस्यैंद्रोपतिरथइंद्रश्चतुर्थ्यावृहस्पतिर्द्वादश्याआप्वांत्यायामरुतस्त्रिष्टुबंत्यानुष्टुप् ॥ त्वमग्नेरुद्रइत्यनुवाकस्यहव्यवाडग्न्यात्मारुद्र आध्याजगतीशिष्टानियजूंषि ॥ रक्षाणोअग्नेइत्यस्यवामदेवोग्निस्त्रिष्टुप् ॥ रक्षोहनमितिपंचविंशर्चस्यसूक्तस्यांगिरस:पायुरग्निस्त्रिष्टुप् चतस्त्रोंत्याअनुष्टुभ: सर्वेषांजपेविनियोग: ॥ अत्रापिशक्त्यापूर्वोक्तसंख्यास्वीकार: ॥ ततस्त्रैयंवकमंत्रस्याऽष्टोत्तरसहस्त्रंजपंतत्रैवकश्चित्कुर्यात् पावमानीनांतिसृणामृचांच ॥ आसांमधुच्छंदा:पवमान:सोमोगायत्री ॥ अन्येषुकलशेषुशांतिजपमृत्विज:कुर्यु: ॥ यद्वाकुंभपंचकस्थानेकुंभद्वयंसंस्थाप्यतत्रैकादिमरुद्रकुंभेरुद्रादिसर्वजप: ॥अन्यकुंभेतदुत्तरस्थेवरुणमावाह्यशांतिजप: ॥ यद्वाचतु:प्रस्त्रवणएकवक्र:कुंभ:पंचकुंभस्थानेस्थापनीय: ॥ तत्रमुखेमध्यमकुंभकार्यंचतुर्षुप्रस्त्रवणेषुकुंभचतुष्टयकार्यकर्तव्यमितिव्यवस्था ॥ तत:स्थापितकुंभोत्तरतोरक्तवर्णै:शुक्लैर्वाव्रीहितिंडुलैश्चतुर्विंशतिदलोपेतंसकरर्णिकंपंजंविधाय तत्कर्णिकायां महीध्यौरितिभूमिंस्पृष्ट्वा ओषधय:समितिव्रीहीन्निक्षीप्य सौवर्णराजतंमृन्मयंवाकुंभंपूर्वोक्तमंत्रेणशुध्दवस्त्रवेष्टितंकृत्वा तत्रेमंमेगंगेइति तीर्थजलमानीय बर्हिशिखादीनि शतमूलानि तदभावे विष्णुक्रांतासहदेवीतुलसीशतावरीर्निक्षिप्योक्तमंत्रैर्यवादिप्रक्षेपंकृत्वा गंधाध्यलंकृतंकूर्चहोमोपेतंकुंकुमसर्वौषधिसंयुतंविधाय आकलशेष्वितिकर्णिकायांस्थापयेत् ॥ तत:पूर्ववत् याओषधीरित्यादिमंत्रैर्यवादिप्रक्षेपंकृत्वा पूर्णादवींतिनिहितपूर्णपात्रे साष्टदलंवस्त्रंनिधाय निष्कतदर्धतदर्धान्यतरमानहेमनिर्मितांनिऋतिप्रतिमांप्रतिमांतराणिचपंचामृतेनप्रक्षावाल्य तत्रवस्त्रेनिऋतिप्रतिमांतद्दक्षिणउत्तरतश्चेंद्रप्रतिमामपांप्रतिमां पूर्वादिदलेषुविश्वेदेवप्रतिमास्तदभावेफलानितंडुलपुंजान्वानिधाय प्राच्यादिस्थानेषुलोकपालप्रतिमा:फलादिवानिधाय प्रतिमासुदेवता आवाहयेत् ॥ यथा ॥ मोषुणोघौर:कण्वोनिऋतिगायत्री निऋत्यावा० ॥ तद्दक्षिणे इंद्रंवोमधुच्छंदाइंद्रोगायत्री इंद्रावा० ॥ उत्तरे अप्सुमेमेधातिथिरापोनुष्टुप् अबावाह० ॥ विश्वान् देवानावाहयामि विष्णुं वसून् वरुणं अजैकपदं अहिर्बुध्न्यं पूषणं अश्विनौ यमं अग्निं प्रजापतिं सोमं रुद्रम अदितिं बृहस्पतिं सर्पान् पितृन् भगं अर्यमणं सवितारं त्वष्टारं वायुं इंद्राग्नी मित्रं इत्यावाहनांतेग्रहमखरीत्यालोकपालानावाह्यनैऋतिप्रदेशेस्थंडिलाध्यग्निस्थापनांतंकृत्वा ॥ स्थापितकुंभैशानदेशेग्रहानावाह्यसंपूज्यदैशान्यांकलशप्रार्थनांतंकुर्यात् ॥ ततोन्वाधानम् ॥ चक्षुषीआज्येनेत्यंतेआदित्यादिनवग्रहान् प्रत्येकंअर्कादिजातीयसमिच्चर्वाज्याहुतिभिरेतत्संख्याभि: अधिदेवताप्रत्यधिदेवताविनायकादिक्षेत्रपालांता:लोकपालांश्च पूर्वोक्ताहुतिभिरेतत्संख्याभि: निऋतिंप्रत्येकंअष्टोत्तरशतसंख्याभिर्घृतसंमिश्रपायससमिदाज्यचर्वाहुतिभि: ॥ (समिदाध्याहुतीनांशक्तितोन्यूनसंख्याकरणपक्षेतथैवनिर्देश:) ॥ इंद्रमपश्चप्रतिद्रव्यमष्टाविंशतिसंख्याभिरुक्ताहुतिभिर्विश्वेदेवाध्याश्चतुर्विंशतिदेवता: अष्टाष्टसंख्याभि:पायसाहुतिभि: रक्षोहणमग्निंविंशत्यधिकशतसंख्याभि:कृसराहुतिभि: सवितारंदुर्गात्र्यबकंकविन् दुर्गावास्तोष्पतिं अग्निंक्षेत्राधिपतिंमित्रावरुणौअग्निंचएतादेवता:प्रत्येकमष्टाष्टसंख्याभि;कृसराहुतिभि: श्रियंप्रतिद्रव्यंविंशत्यधिकशतसंख्याभि:समिदाज्यचर्वाहुतिभि: सोमंत्रयोदशवारंपायसाहुतिभि: रुद्रंस्वराजंचतुर्गृहीताज्येन अग्निंपृथिवींमहांतंवायुमंतरिक्षंमहांतं आदित्यंदिवंमहांतंचंद्रमसंनक्षत्रानिदिशोमहांतंचाज्येन शेषेणत्यादिपात्रासादनेपायसचरुकृसरार्थस्थालीनांस्त्रवाणामाज्यस्थालीनांशूर्पाणांचासादनादिप्रनीतास्थापनांकृत्वानिऋत्यादीनांवक्ष्यमाणतत्तन्मंत्रै:पूजांकुर्यात् ॥ निऋतयेवस्त्रयुग्मंरक्तचंदनंकृष्णसितादिपुष्पाणिमेषश्रृंगधूप:आज्यदीप:पोलिकौदनसुरामांसात्मकंपुरुषाहारपर्याप्तंनैवेध्यं ॥ तत्रब्राह्मणेनसुरास्थानेसैंधवमिश्रंक्षीरंमांसस्थानेलवनमिश्रंपायसंदेयम् ॥ अन्यै:संभवेमुख्यमेवोभयम् ॥ पुष्पांजल्यंतेपूजनेकृतेनिऋतिमिंद्रमपश्चोद्दिश्यर्पयो:पायसार्थंचर्वर्थंचद्वादशमुष्टीन् तूष्णींनिरुप्य पुन:शूर्पांतरेकृसरार्थंचतुश्चत्वारिंशत्संख्यान्मुष्टीन्निरुप्य चर्वर्थेपुनश्चतुर: पायसार्थेद्विपंचाशन्मुष्टीन्निरुप्य तत्तसंख्ययाप्रोक्ष्य क्रमेणावहत्यपात्रत्रयेहविस्त्रयंश्रपयेत् ॥ ततोयथान्वाधानंत्याग: ॥ यथा एतत्संख्याहुतिपर्याप्तंसमिद्रव्यंचरुराज्यंच आदित्यायसोमायेत्यादि एवमधिदेवतादिभ्यस्त्याग: ॥ ततोऽष्टोत्तरशतसंख्याहुतिपर्याप्तंसमिश्रपायसंनिऋतये ॥ समिदादिषुसैवसंख्यान्यूनसंख्यावायापूर्वसंकल्पितातदनुसारित्याग: ॥ इयदाहुतिपर्याप्तंपायससमिदाज्यचर्वात्मकंद्रव्यचतुष्टयंनिऋतये, अष्टाविंशत्याहुतिपर्याप्तंउक्तद्रव्यचतुष्टयंइंद्राय, एवमभ्ध्य:, अष्टाष्टसंख्याहुतिपर्याप्तंपायसंविश्वेभ्योदेवेभ्य: विष्णवे वसुभ्यो वरुणाय अजायैकपदे अहयेबुध्नियाय पूष्णे अश्विभ्यां यमाय अग्नये प्रजा पतये सोमाय रुद्रायअतिदये बृहस्पतये सर्पेभ्य: पितृभ्य: भगाय अर्यम्णे सवित्रे त्वष्ट्रे वायवे इंद्राग्निभ्यांमित्राय विंशत्यधिकशता हुतिपर्याप्तंकृसरंहवि:रक्षोघ्नेग्नये, अष्टाष्टसंख्याहुतिपर्याप्तंकृसरंद्रव्यं सवित्रे दुर्गायै त्र्यंबकाय कविभ्यो दुर्गायै वास्तोष्पतयेअग्नये क्षेत्राधिपतये मित्रावरुणाभ्यां अग्नयेच, विंशत्यधिकशतसंख्याहुतिपर्याप्ता:समिध:तावदाज्यंतावांश्चरु:श्रियै, त्रयोदशाहुतिपर्याप्तंपायसंसोमाय, चतुर्गृहीताज्यंरुद्रायस्वराजे, एकैकाहुतिपर्याप्तमाज्यं अग्नयेपृथिव्यैमहते वायवेंतरिक्षायमहते आदित्यायदिवेमहते चंद्रमसेनक्षत्रेभ्योदिग्भ्योमहतेच एवंत्यागेकृतेसाचार्याऋत्विजस्तथैवजुहुयु: तत्रादावुक्तसंख्ययाग्रहहोमंकृत्वा ॥ मोषुणोघौर:कण्वोनिऋतिर्गायत्री होमेविनि० ॥ॐ मोषुण:परापरा० ॥ इंद्रवोमधुच्छंदाइंद्रोगायत्रीहोमे० ॥ अप्सुमेमेधातिथिरापोनुष्टुप् होमेविनि० ॥ एतैर्मंत्रै:प्रणवादिस्वाहांतै:यज्ञियतरुसमिध:संकल्पानुसारिसंख्याकादधिमधुघृताक्ताहोतव्या:पायसचरुचतुरवत्ताध्यवदानविधिनाहविर्गृहीत्वाजुहुयात् (विधिवदित्याकरोक्ते:पायसहोमेसमाप्तेसमिदादिहोमारंभ:) ॥ तत: ॐ विश्वेभ्योदेवेभ्य:स्वाहेत्येवंउक्तचतुर्विंशतिनाममंत्रै:प्रत्येकमष्टाष्टसंख्ययापायसहोम: ॥ कृणुष्वेतिपंचदशर्चस्यगौतमोवामदेवोरक्षोहाग्निस्त्रिष्टुप् कृसरहोमेवि० ॥ ॐ कृणुष्वपाज:प्रसितिं० ऋच: १५ प्रत्यृचमष्टाष्टसंख्ययाहोम: ॥ गायत्र्याप्यष्टौतदाहुतय: ८ ॥ जातवेदसेकश्यपोदुर्गात्रिष्टुप् कृसरहोमे० ॥ ॐ जातवेदसे० ८ ॥ त्र्यंबकंवसिष्ठोरुद्रोनुष्टुप् कृसरहो० ॥ ॐ त्र्यंबकं० ८ ॥ सीरायुंजंतीत्यस्यबुध:कवयोगायत्री कृसरहोमे० ॥ ॐ सीरायुंजंति० ८ ॥ तामग्निवर्णांसौभरिर्दुर्गात्रिष्टुप् कृसरहो० ॥ ॐ तामग्निवर्णांतपसाज्वलंतीं० ॥ वास्तोष्पतेवसिष्ठोवास्तोष्पतिस्त्रिष्टुप् कृसरहो० ॥ ॐ वास्तोष्पतेप्रति० ८ ॥ अग्निंदूतंमेधातिथिरग्निर्गायत्री कृसरहोमे० ॥ ॐ अग्निंदूतं० ८ ॥ क्षेत्रस्यपतिनावामदेव:क्षेत्राधिपतिरनुष्टुप् कृसरहोमे० ॥ ॐ क्षेत्रस्यपतिनावयं० ८ ॥ गृणानाजमदग्निर्मित्रावरुणौगायत्री कृसरहोमे० ॥ ॐ गृणानाजमदग्निना० ८ ॥ अग्निंदूतंपुरोदधइत्यस्यविरुपोग्निर्गायत्री कृसरहोमे० ॥ ॐ अग्निंदूतंपुरोदधे० ८ ॥ तत:हिरण्यवर्णामितिपंचदशर्चस्यसूक्तस्य आनंदकर्दमचिक्लीतेंदिरासुताऋषय: श्रीर्देवता आध्यास्तिस्त्रोनुष्टुभ: चतुर्थीबृहती पंचमीषष्ठयौत्रिष्टुभौ ततोऽष्टावनुष्टुभ:अंत्याप्रस्तारपंक्ति:होमेविनियोग: ॥ ॐ हिरण्यवर्णांहरिणीं० ऋच: १५ ॥प्रत्यृचंसमिदाज्यचरुन् अष्टसंख्ययाजुहुयात् ॥ त्वंन:सोमविश्वतइत्यस्यप्रगाथ:सोमस्त्रिष्टुप् पायसहोमे० ॥ ॐ त्वंन;सोमविश्वतो० १३ ॥ यातेरुद्रेत्यस्यकश्यपोरुद्र:स्वराडनुष्टुप् आज्यहोमे० ॥ ॐ यातेरुद्रशिवा० ॥ अनेनचतुर्गृहीतंहुत्वास्त्रुवेणचतस्त्र आज्याहुतीर्जुहुयात् ॥ ॐ भूरग्नयेचपृथिव्यैचमहतेचस्वाहा ॥ ॐ भुवोवायवेचांतरिक्षायचमहतेचस्वाहा ॥ ॐ सुवरादित्यायचदिवेचमहतेच० ॥ ॐ भूर्भव:सुवश्चंद्रमसेचनक्षत्रेभ्यश्चदिग्भ्यश्चमहतेचस्वाहेति ॥ तत:स्विष्टकृत्पायसाज्यचरुकृसराणांसकृत्सकृदवदायाज्यंद्विर्गृहीत्वा ॥ यदस्येति० ॥तत:प्रायश्चित्तहोमांतेकृतेदिक्पालग्रहविनायकादिभ्योरुद्रायनिऋतयेइंद्रायाभ्ध्य:क्षेत्रपालायचसदीपमाषभक्तबलिदानंकार्यं ॥ अथाचार्योयजमानोवापूर्णाहुतिंजुहुयात् ॥ समुद्रादूर्मिरित्येकादशर्चस्यसूक्तस्यगौतमोवमदेवोग्निस्त्रिष्टुप् अंत्याजगतीपूर्णाहुतिहोमेवि० ॥ ॐ समुद्रादूर्मिर्मधुमाँउदार० ऋच: ११ ॥प्रजापतेहिरण्यगर्भ:प्रजापतिस्त्रिष्टुप् पूर्णाहुतिहोमे० ॥ ॐ प्रजापतेन० ऋक् १ ॥ पूर्णादवींतिविश्वेदेवा:शतक्रतुरनुष्टुप् पूर्णाहुति० ॥ ॐ पूर्णादर्विपरापत० ऋक् १ ॥सप्ततेअग्नेसप्तवानग्निर्जगती पूर्णाहुतिहोमे० ॥ ॐ सप्ततेअग्ने० १ ॥ अग्नयेप्रजापतयेशतक्रतवेसप्तवतेग्नयइदंनमम ॥ तत:प्रणीतानिनयनसंस्थाजपपरिस्तरणविसर्जनपरिसमूहनपर्युक्षणानिकृत्वागृह्याग्नौएतच्छांतिकरणपक्षेतत्समारोप: ॥ ततोरुद्रकलशंदक्षिणत:स्पृशन् त्र्यंबकमितिमंत्रंशतकृत्वोजपेत् ॥ यजमानस्ययाजुषत्वादिनिमित्तकंचपूर्ववद्रुदैकादशिन्यादिजपमपिजपेत् अत्राप्येकादशादिसंख्याविकल्प:पूर्ववत् ॥ अथरुद्रकुंभनिऋतिकुंभगतदेवता:पंचोपचारै:संपूज्य भवत्प्रसादेनयजमानाभिषेकंकरिष्यइतिता:प्रार्थयेत् ॥ अस्मिन्समयेभूतिमिच्छताग्रहपूजनंकार्यम् ॥ सर्वकलशोदकंक्वचित्पात्रेआदायविनायकशांतिवत्स्वस्तिकचर्मपीठनिर्मितेभद्रासनेउपविष्टंघृतनववस्त्रंसर्वौषध्यनुलिप्तांगंयजमानं तद्वामभागोपविष्टांतादृशींसापत्यांपत्नींचसर्त्विगाचार्योभिषिंचेत् ॥ कश्यपोक्तंशतच्छिद्रांतर्धारणंकृताकृतम् ॥ अभिषेकमंत्रा: ॥ अक्षीभ्यामितिषण्णांकश्यपोविवृहायक्ष्मनाशनोनुष्टुप् अभिषेकेवि० ॥ ॐ अक्षीभ्यांतेनासिकाभ्यां० ऋच: ॥ त्रिभिष्वंदेवेतिसप्तानांवसिष्ठऋषि:आध्यानांत्रयाणामग्निश्चतुर्णांविश्वेदेवा: आध्यागायत्रीद्वितीयानुष्टुप् तिस्त्रोगायत्र्योंत्येद्वेऽष्टुभौ अभिषेके० ॥ॐ त्रिभिष्टंदेवसवित:० ऋच: ७ ॥ आपोहिष्ठेतिनवर्चस्यसूक्तस्यांबरीष:सिंधुद्वीप आपोगायत्री पंचमीवर्धमानासप्तमीप्रतिष्ठाअंत्येद्वेअनुष्टुभौअभिषेके० ॥ ॐ आपोहिष्ठामयो० ऋच० ९ ॥आपइद्वेतिद्वयो:सप्तर्षयोविश्वेदेवाअनुष्टुप् अभिषेके० ॥ ॐ आपइद्वाउभेषजी० ऋचौ २ ॥ सहस्त्राक्षेणेतितृचस्यप्राजापत्योयक्ष्मनाशनोयक्ष्मात्रिष्टुबंत्यानुष्टुप् अभिषेके० ॥ ॐ सहस्त्राक्षेणशतशारदेन० ॥ ऋच: ३ ॥ देवस्यत्वेतित्रिभिर्याजुषै: ॥ यज्जाग्रतइतिषण्णांप्रजापतिर्मनस्त्रिष्टुप् अभिषेके० ॥ ॐ यज्जाग्रतो० ॥ ऋच: ६ ॥ अथ यौसोवज्रधरोदेवोमहेंद्रोगजवाहन: ॥ मूलजातशिशोर्दोषंमातापित्रोर्व्यपोहतु ॥ योसौशक्तिधरोदेवोहुतभुडग्रेषवाहन: ॥ सप्तजिह्वश्चदेवोग्निर्मूलदोषंव्यपोहतु ॥ यौसौदंडधरोदेवोधर्मोमहिषवाहन: ॥ मूलजातशिशोरोषंव्यपोहतुयमोमम ॥ योसौखड्गधरोदेवोनिऋतिराक्षसाधिप: ॥ प्रशामयतुमूलोत्थंदोषंगंडातसंभवम् ॥ योसौपाशधरोदेवोवरुण:सलिलेश्वर: ॥ नक्रवाह:प्रचेतानोमूलोत्थाघंव्यपोहतु ॥ योसौदेवोजगत्प्राणोमारुतोमृगवाहन: ॥ प्रशामयतुमूलोत्थंदोषंबाल्स्यशांतिद: ॥ योसौनिधिपतिर्देव:खड्गभृद्वाजिवाहन: ॥ मातापित्रो:शिशोश्चैवमूलदोषंव्यपोहतु ॥ योसौपशुपतिर्देव:पिनाकीवृषवाहन: ॥ आश्लेषामूलगंडांतदोषमाशुव्यपोहतु ॥विघ्नेश:क्षेत्रपोदुर्गालोकपालानवग्रहा: ॥ सर्वदोषप्रशमनंसर्वेकुर्वंतुशांतिदा: ॥९॥इतिमंत्रै:सुरास्त्वामित्यादिभिश्चाभिषिच्य ॥ तच्छंयो:शंयुर्विश्वेदेवा:शक्करी अभिषेके० ॥ॐ तच्छंयोरावृणीमहे० ॥ ततस्तूष्णींवस्त्रवेष्टितमुखाभ्यांरुद्रनिऋतिकुंभाभ्यामभिषिक्तोयजमान:शुक्लवस्त्रगंधमाल्यधर:सपत्नीक:सापत्योविभूतिधारणंकृत्वा निऋतिरुद्रकलशस्थदेवता:संपूज्यविसृज्यग्रहाणामुत्तरपूजांविसर्जनंचकृत्वा आचार्यादींश्चंदनादिनासंपूज्य आचार्यायवत्सांपयस्विनींगांदध्यात् ॥ निऋतिप्रतिमांसोपस्करांतत्कलशंतथाग्रहप्रतिमाग्रप्रीत्यर्थंदक्षिणाश्च ॥ ततोरुद्रजापिनेकृष्णोनड्वान् देय: ॥ रुद्रप्रतिमा:सोपस्करास्तत्कुभांश्च इतरेभ्योपियथाशक्तिदक्षिणांदध्यात् ॥ धेन्वनडुहोरसंभवेतुदशकार्षापणाधेनावष्टावनडुहिस्मृता:इतिमूल्यंदेयम् ॥ तदसंभवेयथाशक्तिदध्यात् ॥ तत्राचार्यदत्तार्धंब्रह्मणेतद्दत्तार्धंसदस्यायतदृत्तार्धंप्रत्येकमृत्विग्भ्योदेयम् ॥ ततस्तेभ्योमूलजननसूचितसर्वारिष्टनिवृत्तिरस्त्वित्याशिषंगृहीत्वाप्रणम्यक्षमापयेत् ॥ तत:पायसादिनाशतंतर्धंदशवाब्राह्मणान्भोजयेत् ॥ तैश्चब्राह्मणै:सर्वशांतिपाठपूर्वकंभुक्त्वाशिषोदेया: ॥ यजमानोनिऋति: प्रीयतामितितान्क्षमापयेत् ततईश्वरार्पणंकुर्यात् ॥ इतिमूलजननशांति: ॥ N/A References : N/A Last Updated : August 06, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP