संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्| अथसत्येनोत्तभितासूक्तम् अथसंस्कारप्रकरणम् अथसंस्कारप्रकरणम् अथसंस्कारक्रम: अथगणपतिपूजनम् अथपुण्याहवाचनम् अथकर्मांगदेवता: अथमातृकापूजनम् अथनांदीश्राध्दविचार: अथनांदीश्राध्दम् अथग्रहयज्ञ:परिशिष्टोक्त: ग्रहयज्ञोमात्स्योक्त: (अयुतहोम:) अथबलिदानम् अथवसोर्धारानुवाक: अथाग्न्युपघातेप्रायश्चित्तानि अथाग्निनामानि अथस्थालीपाकप्रयोग: अथगृह्याग्ने:पुन:संधानम् अथभुवनेश्वरीशांति: अथगर्भाधानम् अथनारायणबलि: अथनागबलि: अथदत्तपुत्रविधानम् पुंसवनानवलोभनसीमंतोन्नयनानि अथानवलोभनम् अथसीमंतोन्नयनम् अथजातकर्मप्रयोग: अथषष्ठीपूजा अथनामकरणप्रयोग: अथसूर्यावलोकनम् अथनिष्क्रमणप्रयोग: अथोपवेशनविधि: अथावन्नप्राशनप्रयोग: अववर्धापनविधि: अथकूष्मांडहोम: अथबृहस्पतिशांति: अथोपनयनम् अथमंडपदेवताप्रतिष्ठा अथघटीस्थापनं अथयेयज्ञेनसूक्तम् उपनयनप्रयोग: अथानुप्रवचनीयहोम: अथप्रदोषगर्जितादिशांति: उपनयनाग्मिनाशेप्रायश्चित्तम् अथमेधाजननप्रयोग: अथविवाहपूर्वंदिनकृत्यम् अथसीमांतपूजनम् अथवरस्यवधूग्रहगमनम् अथमधुपर्क: अथगौरीहरपूजा अथसत्येनोत्तभितासूक्तम् अथऋक् चवेत्यादिब्राह्मणखंडवाक्यानि अथकन्यादानम् अथविवाहहोम: अथगृहप्रवेशनीयहोम: अथविवाहचतुर्थदिनकृत्यम् अथवधूगृहप्रवेश: अथदेवकोत्थापनमंडपोद्वासने अथाग्निद्वयसंसर्गप्रयोग: अथाशौचेहोमविधि: अथापत्कालेकर्तव्योहोमद्वयसमासप्रयोग: अथगुर्वापदिपक्षहोम: अथाग्निसमारोपविधि: अथाग्रयणहोम: अथपिंडपितृयज्ञ: अथाग्निसंसर्गदोषेप्रायश्चित्तम् अथार्कविवाह: अथगोप्रसवशांति: अथमूलजननशांति: अथाश्लेषाजननशांति: अथज्येष्ठाजननशांति: अथकृष्णचतुर्दशीजननशांति: अथसिनीवालीकुहुजननशांति: अथदर्शजननशांति: अथव्यतीपातसंक्रमणजननशांति: अथवैधृतिजननशांति: अभद्राजननशांति: अथाधोमुखजननशांति: अथैकनक्षत्रजननशांति: अथग्रहणजननशांति: अथनक्षत्रगंडांतशांति: अथतिथ्यादिगंडांतशांति: अथविषनाडीजननशांति: अथयमलजननशांति: अथत्रिकप्रसवशांति: अथसदंतजननशांति: अथसिंहार्केगोप्रसवशांति: अथप्रसववैकृतशांति: संस्कारप्रकरणम् - अथसत्येनोत्तभितासूक्तम् ऋग्वेदीयब्रह्मकर्मसमुच्चयः Tags : brahmarugvedsanskritॠग्वेदब्रह्मसंस्कृत अथसत्येनोत्तभितासूक्तम् Translation - भाषांतर श्री: ॥ ॐ सत्येनोत्तभिताभूमि:सूर्येणोत्तभिताध्यौ: ॥ ऋतेनादित्यास्तिष्ठंतिदिविसोमोअधिश्रित: ॥ सोमोनादित्याबलिन: सोमेनपृथिवीमही ॥ अथोनक्षत्राणामेषामुपस्थेसोम आहित: ॥ सोमंमन्यतेपपिवान्यत्संपिंषंत्योषधिं ॥ सोमंयंब्रह्मणोविदुर्नतस्याश्नातिकश्चन ॥ आचद्विधानैर्गुपितोबार्हतै:सोमरक्षित: ॥ ग्राव्णामिच्छृण्वन्तिष्ठसिनतेअश्नातिपार्थिव: ॥ यत्त्वादेवप्रपिबंतिततआप्यायसेपुन: ॥ वायु:सोमस्यरक्षितासमानांमासआकृति: ॥१॥ रैभ्यासीदनुदेयीनाराशंसीन्योचनी ॥ सूर्यायाभद्रमिद्वासोगाथयैतिपरिष्कृतं ॥ चित्तिराउपबर्हणंचक्षुराअभ्यंजनं ॥ ध्यौर्भूमि:कोशआसीध्यदयात्सूर्यापतिं ॥ स्तोमाआसन्प्रतिधय:कुरीरंछंदओपश: ॥ सूर्यायाअश्विनावराग्निरासीत्पुरोगव: ॥ सोमोवधूयुरभवदश्विनास्तामुभावरा ॥ सूर्यायत्पत्येशंसंतींमनसासवितादात् ॥ मनोअस्याअनआसीध्यौरासीदुतच्छदि: ॥ शुक्रावनड्वाहावास्तांयदयात्सूर्यागृहं ॥२॥ऋक्सामाभ्यामभिहितौगावौतेसामनावित: ॥ श्रोत्रंतेचक्रेआस्तांदिविपंथाश्चराचर: ॥ शुचीतेचक्रेयात्याव्यानोअक्षआहत: ॥ अनोमनस्मयंसूर्यारोहत्प्रयतीपतिं ॥ सूर्यायावहतु:प्रागात्सवितायमवासृजत् ॥ अघासुहन्यंतेगावोर्जुन्यो:पर्युह्यते ॥ यदश्विनापृच्छमानावयातंत्रिचक्रेणवहतुंसूर्याया: ॥ विश्वेदेवाअनुतद्वामजानन्पुत्र:पितराववृणीतपूषा ॥ यदयातंशुभस्पतीवरेयंसूर्यामुप ॥ क्कैकंचक्रंवामासीत्क्कदेष्ट्रायतस्थथु: ॥३॥द्वेतेचक्रेसूर्येब्रह्माणऋतुथाविदु: ॥ अथैकंचक्रंयद्गुहातदध्दातयइद्विदु: ॥ सूर्यायैदेवेभ्योमित्रायवरुणायच ॥ येभूतस्यप्रचेतसइदंतेभ्योकरंनम: ॥ पूर्वापरंचरतोमाययैतौशिशूक्रीळंतौपरियातोअध्वरं ॥ विश्वान्यन्योभुवनाभिचष्टऋतूँरन्योविदधज्जायतेपुन: ॥ नवोनवोभवतिजायमानोह्नांकेतुरुषसामेत्यग्रं ॥ भागंदेवेभ्योविदधात्यायन्प्रचंद्रमास्तिरतेदीर्घमायु: ॥ सुकिंशकंशल्मालिंविश्वरुपंहिरण्यवर्णसुवृतंसुचक्रं ॥ आरोहसूर्येअमृतस्यलोकंस्योनंपत्येवहतुंकृणुष्व ॥४॥उदीर्ष्वात:पतिवतीह्ये३षाविश्वावसुंनमसागीर्बिरीळे ॥ अन्यामिच्छपितृषदंव्यक्तांसतेभागोजनुषातस्यविध्दि ॥ उदीर्ष्वातोविश्वावसोनमसेळामहेत्वा ॥ अन्यामिच्छप्रफर्व्य१ संजायापत्यासृज ॥ अनृक्षराऋजव:संतुपंथायेभि:सखायोयंतिनोवरेयं ॥ समर्यमासंभगोनोनिनीयात्संजास्पत्सुयममस्तुदेवा: ॥ प्रत्वामुंचामिवरुणस्यपाशाध्येनत्वाबध्नात्सवितासुशेव: ॥ ऋतस्ययोनौसुकृतस्यलोकेरिष्टांत्वासहपत्यादधामि ॥ प्रेतोमुंचामिनामुत:सुबध्दाममुतस्करं ॥ यथेयमिंद्रमीढ्व:सुपुत्रासुभगासति ॥५॥पूषात्वेतोनयतुहस्तगृह्याश्विनात्वाप्रवहतांरथेन ॥ गृहान्गच्छगृहपत्नीयथासोवशिनीत्वंविदथमावदाथ: ॥ नीललोहितंभवतिकृत्यासक्तिर्व्यज्यते ॥ एधंतेअस्याज्ञातय:पतिर्बंधेषुबध्यते ॥ परादेहिशामुल्यंब्रह्मभ्योविभजावसु ॥ कृत्यैषापद्वतीभूत्व्याजायाविशतेपतिं ॥ अश्रीरातनूर्भवतिरुशतीपापयामुया ॥ पतिर्यद्वध्वो३वाससास्वमंगमभिधित्सते ॥६॥येवध्वश्चंद्रंवहतुंयक्ष्मायंतिजनादुनु ॥ पुनस्तान्यज्ञियादेवानयंतुयतआगता: ॥ माविदन्परिपंथिनोयआसीदंतिदंपती ॥ सुगेभिर्दुर्गमतीतामपद्रांत्वरातय: । सुमंगलीरियंवधूरिमांसमेतपश्यत ॥ सौभाग्यमस्यैदत्वायाथास्तंविपरेतन ॥ तृष्टमेत्कटुकमेतदपाष्ठवद्विषवन्नैतदत्तवे ॥ सूर्यांया:पश्यरुपाणितानिब्रह्मातुशुंधति ॥७॥गृभ्णामितेसौभगत्वायहस्तंमयापत्याजरदष्टिर्यथास: ॥ भगोअर्यमासवितापुरंधिर्मह्यंत्वादुर्गार्हपत्यायदेवा: ॥ तांपूषंछिवतमामेरयस्वयस्यांबीजंमनुष्या३वंपति ॥ यानऊरुशतीविश्रयातेयस्यामुशंत: प्रहरामशेपं ॥ तुभ्यमग्रेपर्यवहन्सूर्यांवहतुनासह ॥ पुन:पतिभ्योजायांदाअग्नेप्रजयासह ॥ पुन:पत्नीमग्निरदादायुषासहवर्चसा ॥ दीर्घायुरस्याय:पतिजींवातिशरद:शतं ॥ सोम:प्रथमोविविदेगंधर्वोविविदउत्तर: ॥ तृतीयोअग्निष्टेपतिस्तुरीयस्तेमनुष्यजा: ॥८॥सोमोददग्दंधर्वायगंधर्वोददग्नये ॥ रयिंचपुत्रांश्चादादग्निर्मह्यमथोइमां ॥ इहैवस्तंमावियौष्टंविश्वमायुर्व्यश्रुतं ॥ क्रीळंतौपुत्रैर्नप्तृभिर्मोदमानौस्वेगृहे ॥ आन:प्रजांजनयतुप्रजापतिराजरसायसमनक्त्वर्यमा ॥ अदुर्मंगलींपतिलोकमाविशशंनोभवद्विपदेशंचतुष्पदे ॥ अघोरचक्षुरपतिघ्न्येधिशिवापशुभ्य:सुमना:सुवर्चा: ॥ वीरसूर्देवकामास्योनाशंनोभवद्विपदेशंचतुष्पदे ॥ इमांत्वमिद्रमीढ्व:सुपुत्रांसुभगांकृणु ॥ दशास्यांपुत्रानाधेहिपतिमेकादशंकृधि ॥ सम्राज्ञीश्वशुरेभवसम्राज्ञीश्वश्र्वांभव ॥ ननांदरिसम्राज्ञीभवसम्राज्ञीअधिदेवृषु ॥ समंजंतुविश्वेदेवा:समापोहृदयानिनौ ॥ संमातरिश्वासंधातासमुदेष्ट्रीदधातुनौ ॥९॥इतिसूक्तंपठेयु:पुरंध्र्योमंगलगीती:कुर्यु: ॥ कन्यावरयो:पित्रादिर्ज्योतिर्विदंवस्त्रादिनापूजयेत् तद्दत्ता:सपूगीफलकुंकुमाक्षता: कन्यावरयोरंजलौदध्यात् ॥ वधूवरौचमनसेष्टदेवतांध्यायंतौसमाहितौतिष्ठेतां ॥ अथज्यौतिषिकेनमंगलपध्यपाठपूर्वकंस्वोक्तकालेतदेवलग्नमितिपठित्वसुमुहूर्तमस्तु ॐ प्रतिष्ठेत्युक्तेसध्योंत:पटमुदगपसार्यकन्यावराभ्यांपरस्परशिरसोरंजलिस्थतंडुलाध्यवकिरणंपरस्परनिरीक्षणंचकारणीयं ॥ तदावर: ॥ ॐ अभ्रातृघ्नींवरुणापतिघ्नींबृहस्पते ॥ इंद्रापुत्रघ्नींलक्ष्म्यंतामस्यैसवितु:सुवइतिजपन्कन्यांवीक्षेत ॥ ॐ अघोरचक्षुपतिघ्न्येधिशिवापशुभ्य:सुमना:सुवर्चा: ॥ वीरसूर्देवकामास्योनाशंनोभवद्विपदेशंचतुष्पदे ॥ इतिजपित्वादर्भाग्रेनतस्याभ्रुवोर्मध्यं ॐ भूर्भव:स्वरितिपरिमृज्यदर्भंनिरस्यापउपस्पृशेत् ॥ ततस्त्रिवारंपंचवारंवापरस्परंशिरसिऋक् चवाइत्यादिखंडवाक्यांतेवधूपूर्वकमक्षतारोपणंकारणीयम् ॥ N/A References : N/A Last Updated : July 29, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP