संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथाग्निद्वयसंसर्गप्रयोग:

संस्कारप्रकरणम् - अथाग्निद्वयसंसर्गप्रयोग:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ द्वितीयादिविवाहव्रतांतेशुभदिनेप्राणायामदेशकालस्मरणादिकृत्वाममविवाहद्वयेन
जातयोर्व्दयोर्गृह्योग्न्यौ:संसर्गमहंकरिष्ये ॥
इतिसंकल्प्योदक्संस्थयोर्व्दयो:स्थंडिलयोरुपलेपादिपूर्वकंक्रमेणगृह्याग्नीप्रतिष्ठाप्यप्रथमा
ग्नावन्वादध्यात् ॥ तत्रक्रम: ॥ क्रियमाणेऽग्निद्वयसंसर्गकर्मण्यन्वाधानंकरिष्ये ॥
अस्मिन्नित्याध्याज्यभागांमुक्त्वाअग्निंप्रधानदेवतांनवभिराज्याहुतिभिर्यक्ष्ये ॥ शेषेणस्वि
ष्टकृतमित्याध्याज्यभागांतंकृत्वाआध्ययापत्न्यासमन्वारब्धोनवाहुतीर्जुहुयात् ॥ अग्निमी
ळइतिनवानांमधुच्छंदाअग्निर्गायत्री ॥ अग्निद्वयसंसर्गप्रधानाज्यहोमेविनियोग: ॥
ॐ अग्निमीळे० इतिनवभि:स्वाहांताभिर्नवाहुतीर्हुत्वाप्रत्याहुत्यग्नयइदंनममेतित्यक्त्वास्वि
ष्टकृदादिहोमशेषमुपस्थानांतंसमाप्यअग्नेत्वंनइतिचतसृभिश्चोपस्थाय तमग्निं अयंतेयो
निऋत्वियइत्यस्यगाथिनोविश्वामित्रोग्निरनुष्टुप् ॥ अग्निसमारोपणेविनियोग: ॥ ॐ अयंतेयोनिऋत्वियोयतोजातोअरोचथा: ॥ तंजानन्नग्न आसीदाथानोवर्धयागिर: ॥ इतिसमिधिसमारोप्यद्वितीयाग्नौप्रत्यवरोहयेत् ॥ तध्यथा ॥ प्रत्यवरोहेत्यस्यहिरण्यगर्भो
ग्निस्त्रिष्टुप् ॥ अग्निप्रत्यवरोहणेविनि० ॥ ॐ प्रत्यवरोहजातवेद:पुनस्त्वंदेवेभ्योहव्यंवह
न:प्रजानन् ॥ प्रजांपुष्टिंरयिमस्मासुधेह्यथाभवयजमानायशंयो: ॥ इतितंप्रत्यवरोह्यान्वा
धानेपूर्ववदाज्यभागांतमुक्त्वात्रप्रधानं ॥ षड्रवारमग्निंचतुर्गृहीताज्येनशेषेणस्विष्टकृतमि
त्याध्याज्यभागांतंकृत्वातत:स्त्रुचिस्त्रुवेणचतुर्वारंप्रभूतमाज्यंगृहीत्वा पत्नीभ्यामन्वारब्धस्ते
नाज्येनावयश:षडाहुतीर्जुहुयान्मंत्रै: ॥ तेच ॥ अग्नावग्निर्हिरण्यगर्भोग्नि:शक्करी ॥
अग्निद्वयसंसर्गप्रधानाज्यहोमेविनियोग: ॥ ॐ अग्नावग्निश्चरतिप्रविष्टऋषीणांपुत्रोअधि
राजएष: ॥ तस्मैजुहोमिहविषाघृतेनमादेवानांमोमुहभ्दागधेयंमोअस्माकंमोमुहभ्दागधेयं
स्वाहा ॥१॥
अग्नयइदंनममेतिसर्वत्रत्याग: ॥ अग्निनाग्निर्मधुच्छंदाअग्निर्गायत्री ॥ अग्निद्वयसंसर्ग
प्रधानाज्यहोमिवि० ॥ ॐ अग्निनाग्नि:समिध्यतेकविर्गृहपतिर्युवा ॥ हव्यवाड्‍जुह्वास्य:
स्वाहा ॥२॥
अस्तीदमधिमंथनमितितिसृणांविश्वामित्रोग्निरनुष्टुप् ॥ अंत्येद्वेत्रिष्टुभौ ॥ वि० प्राग्वत्
॥ ॐ अस्तीदमधिमंथनमस्तिप्रजननंकृतं ॥ एतांविश्पत्नीमाभराग्निंमंथामपूर्वथास्वाहा ॥३॥
ॐ अरण्योर्निहितोजातवेदागर्भइवसुधितोगर्भिणीषु ॥ दिवेदिवईडयोजागृवभ्दिर्हविष्मभ्दि
र्मनुष्येभिरग्नि:स्वाहा ॥४॥
ॐ उत्तानायामवभराचिकित्वान्सध्य:प्रवीतावृषणंजजान ॥ अरुषस्तूपोरुदस्यपाजइळाया
स्पुत्रोवयुनेजनिष्टस्वाहा ॥५॥
पाहिनोअग्नएकयेतिप्रगाथोभर्गोग्निर्बृहती ॥ विनियोग:प्राग्वत् ॥ ॐ पाहिनोअग्नएकया
पाह्यु१ तद्वितीयया ॥ पाहिगीर्भिस्तिसृभिरुर्जांपतेपाहिचतसृभिर्वसोस्वाहा ॥६॥
गृह्यपरिशिष्टमतेस्त्रुवेणैवअष्टाहुतय: ॥ ताश्च ॥ अग्निनाग्नि:समिध्यतइत्युक्तयैका ॥१॥
त्वंह्यग्नेअग्निनेत्यस्यविरुपोग्निर्गायत्री ॥ विनियोग:प्राग्वत् ॥ ॐ त्वंह्यग्नेअग्निनावि
प्रोविप्रेणसन्त्सता ॥ सखासख्यासमिध्यसेस्वाहा ॥२॥
पाहिनोअग्नइतितृचस्यप्रगाथोभर्गोग्निर्बृहती ॥ विनियोग:प्राग्वत् ॥ ॐ पाहिनोअग्नइत्यु
क्ता ॥ ॐ पाहिविश्वस्माद्रक्षसोअराव्ण:प्रस्मवाजेषुनोव ॥ त्वामिध्दिनेदिष्ठंदेवतातया
आपिंनक्षामहेवृधेस्वाहा ॥ ॐ आनोअग्नेवयोवृधंरयिंपावकशंश्यं ॥ रास्वाचनउपमातेपुरु
स्पृहंसुनीतीस्वयशस्तरंस्वाहा ॥ अस्तीदमितितृचउक्त: ॥ सर्वत्राग्नयइदंनमतेतित्याग: ॥ एवंहुत्वास्विष्टकृदादिहोमशेषंसमाप्यआयतनेऽग्निंनिधायथापूर्वंपरिचरेत् ॥ इतिअग्नि
द्वयसंसर्गप्रयोग: ॥

N/A

References : N/A
Last Updated : August 06, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP