संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथोपवेशनविधि:

संस्कारप्रकरणम् - अथोपवेशनविधि:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ पंचमेमासिशुक्लपक्षेज्योति:शास्त्रोक्तशुभतिथ्यादौपूर्वाह्णेस्वस्तिवानंकृत्वावराहपृ
थिवीगुरुदेवद्विजान् पूजयित्वाभूभागमुपलिप्यतत्रमंडलंकृत्वा शंखतूर्यादिमांगलिकध्वनौ
क्रियमाणेभूमौशिशुमुपवेशयेदेतैर्मंत्रै: ॥ रक्षैवसुधेदेविदासर्वगतंशुभे ॥ आयु:प्रमाणंनिखिलं
निक्षिपस्वहरिप्रिये ॥ अचिरादायुषस्वस्ययेकेचित्परिपंथिन: ॥ जीवितारोग्यवित्तेषुनिर्दह
स्वाचिरेणतान् ॥ धारिण्यशेषभूतानांमातस्त्वमधिकाह्यसि ॥ कुमारंपाहिमातस्त्वंब्रह्मात
दनुमन्यताम् ॥ इति ॥ ततोब्राह्मणान्पूजयित्वाशिषोवाचयित्वानीराजनाध्युत्सवंकुर्यात् ॥ एवंकुमार्याअपि ॥ इत्युपवेशनम् ॥

N/A

References : N/A
Last Updated : July 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP