संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथनामकरणप्रयोग:

संस्कारप्रकरणम् - अथनामकरणप्रयोग:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ यजमान:आचम्यप्राणानायम्यदेशकालौसंकीर्त्य ममास्यशिशो:बीजगर्भसमुभ्दवैनो
निबर्हणायुरभिवृध्दिव्यवहारसिध्दिद्वाराश्रीपरमेश्वरप्रीत्यर्थंनामकरणंकरिष्ये ॥
तदंगतयागणपतिपूजनपूर्वकंस्वस्तिपुण्याहवाचनंमातृकापूजनंनांदीश्राध्दंचकरिष्येइतिसंकल्प्य ॥ स्वस्तिवाचनेपुण्याहत्रयमुक्त्वाकरिष्यमाणंनामचतुर्थ्यंतमुक्त्वात्रिरेतन्नाम्नेस्व
स्तिभवंतोब्रुवंत्वित्युक्ते विप्रैरेतन्नाम्नेस्वस्तीतित्री:प्रत्युक्तेशेषंस्वस्तिवाचनंसमाप्य ॥
इदमार्या:कुमारस्यनामाहंविदधामीतिविप्राननुज्ञाप्य तैर्विधीयतामित्यनुमोदित:सन् तंडुला
कांस्यपात्रेप्रसार्यदुपरिसुवर्णशलाकयाअमुककुलदेवताभक्त इतिनामलेख्यं ॥ ततोजन्मका
लीनमासनाम ॥ कृष्णोनंतोच्युतश्चक्रीवैकुंठोथजनार्दन: ॥ उपेंद्रोयज्ञपुरुषोवासुदेवस्तथा
हरि: ॥ योगीश:पुंडरीकाक्षोमासनामान्यनुक्रमात् ॥ अत्रचैत्रादिर्मार्गशीर्षादिर्वाक्रम: ॥
ततोभिवादनीयंनाम उपांशुकुर्यात् ॥ तच्चमौंजीबंधनान्मातापितरावेवजानीयातां ॥ उपनयनकालेचानेननाम्नाभिवादयेतिकुमारंप्रतिवाच्यं ॥ ततस्त्रिपुरुषवाचिदेवतावाचिवाना
मस्वेष्टंवायुग्माक्षरंद्व्यक्षरंप्रतिष्ठाकामश्चतुरक्षरंब्रह्मवर्चसकामोविप्रादिवर्णक्रमेणशर्मवर्म
गुप्तदासान्यतमपदांतुंकुर्यात् ॥ ततोवकहडाचक्राख्यज्योति:शास्त्रोक्तचक्रानुसारेणजन्मन
क्षत्रपादप्रयुक्ताक्षरादिनाम ॥ ततोव्यावहारिकंस्वेष्टंनामेतिनामचतुष्टयंलिखित्वा ॥
नामदेवताभ्योनमइतिसंपूज्यामुकनाम्नात्वममुकोसिइतिस्वदक्षिणस्थमातुरुत्संगस्थश्यशि
शोर्दक्षिणकर्णेकथयित्वा ॥ ॐ तदस्तुमित्रावरुणा० गृहावैप्रतिष्ठा० इत्यादिमंत्रपाठांतेविप्रै
र्नामसुप्रतिष्ठतमस्त्वित्युक्ते अमुकनाम्नाअमुकनामायंभवतोऽभिवादयतेइत्युक्त्वाविप्रान
भिवादयेत् ॥ तेचायुष्मान् भवत्वमुकशर्मा३इतिवदेयु: ॥ तत:कर्ता देवताब्राह्मणान् पित्रा
दींश्चनत्वा यथाविभवंविप्रान्भोजयेदृक्षिणांचदध्यात् ॥ (कुमार्याअपिनामकरणममंत्रकंकार्य ॥ विषमाक्षरंतुतन्नाम) ॥ होमकरणपक्षेतुपार्थिवाग्नौजातकर्मवदेवप्रधानाहुतीर्हुत्वानामय
थोक्तंकृत्वास्विष्टकृदादिहोमशेषतंत्रंकुर्यात् ॥ इतिनामकरणप्रयोग: ॥

N/A

References : N/A
Last Updated : July 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP