संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथत्रिकप्रसवशांति:

संस्कारप्रकरणम् - अथत्रिकप्रसवशांति:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ एकादशेद्वादशेअन्यस्मिन्वाशुभेऽहनिसभार्योदेशकालौसंकीर्त्यममसुतत्रयजन्मानंत
रंसुताजननसूचितसर्वारिष्टपरिहारद्वाराश्रीपरमेश्वरप्रीत्यर्थंसग्रहमखांगर्गोक्तामंशांतिंकरिष्ये ॥ सुतात्रयजननोत्तरंसुतजननेतथोह:कार्य: ॥
ततोगणेशपूजनाध्याचार्यर्त्विग्वरणतत्पूजांतेआचार्योयदत्रेत्याध्यग्न्युत्तारणांतंकृत्वा ॥
तत:स्थंडिलपूर्वभागेग्रहपूजाकलशस्थापनवरुणपूजनांतंकृत्वा तदुत्तरतउदक्संस्थानांपंचकल
शानांमहीध्यौरित्यादित्यादिविधिनायथाशक्तिधान्योपरिस्थापितानामुपरियथाशक्तिहेमनि
र्मिता:ब्रह्मविष्णुमहेशेंद्ररुद्रप्रतिमा:स्थापयित्वातासुदेवता:पूजयेत् ॥
ब्रह्मजज्ञानंवामदेवोब्रह्मात्रिष्टुप् ॥ इदंविष्णुरित्यस्यमेधातिथिर्विष्णुर्गायत्री ॥ तत्पुरुषाये
त्यस्यहिरण्यगर्भोमहेशोगायत्री ॥ यतइंद्रेत्यस्यभर्गइंद्रोबृहती ॥ कद्रुदायेत्यस्यघौर:कण्वोरु
द्रोगायत्री ॥ पूजांतेरुद्रकलशंस्पृष्ट्वाचत्वारिरुद्रसूक्तानिकश्चिदृत्विग्पजपेत् ॥
कद्रुदायेतिनवर्चस्यकण्वोरुद्रोगायत्र्यंत्यानुष्टुप् ॥ इमारुद्रायतवसइत्येकादशर्चस्यसूक्तस्य
कुत्सोरुद्र:आध्यानवजगत्योंऽत्येद्वेत्रिष्टुभौ ॥ आतेपितरितिपंचदशर्चस्यसूक्तस्यगृत्समदो
रुद्रस्त्रिष्टुप् ॥
इमारुद्रायस्थिरधन्वनइतिचतसृणांवसिष्ठोरुद्र आध्यास्तिस्त्रोजगत्योंऽत्यात्रिष्टुप् ॥ जपेवि० ॥ प्रत्येकमेकादशवारंसूक्तानांजप: ॥ तदंतेआनोभद्राइत्यादिशांतिसूक्तानिजपेत् ॥ ततोऽग्निप्रतिष्ठापनादि अन्वाधानेचक्षुषीआज्येनेत्यंतेप्रसिध्दग्रहपीठगतदेवतान्वाधानं
कृत्वा ब्रह्माणंविष्णुंमहेशंइंद्रंरुद्रंचसमिदाज्यतिलचरुणांप्रत्येकंप्रतिद्रव्यमष्टोत्तरसहस्त्राहुति
भि: १०८/२८ वाशेषेणेत्यादि ॥
आज्यभागांतेयथान्वाधानंत्याग: ॥ तत:प्रधानहोममुक्तमंत्रैराचार्यर्त्विक्कर्तृकग्रहोमपुर:सरं
कुर्यात् ॥
प्रायश्चित्तहोमांते बलि: पूर्णाहुतिश्च ॥ तत:प्रणीताविमोकसंस्थाजपपरिस्तरणविमोकांतेष
ट्‍कलशोदकेनसमुद्रज्येष्ठाइत्यादिमंत्रै: सकुटुंबयजमानाभिषेक: ॥
ततआचार्यायसहिरण्यधेनुंदत्त्वाऋत्विग्भ्योयथाशक्तिदक्षिणादानंचकृत्वास्थापितदेवतानामु
त्तरपूजनविसर्जनांतेता:प्रतिमाआचार्यहस्तेप्रतिपाध्यकांस्यपात्रंसाज्यंरुपंरुपमितिदत्त्वा
ब्राह्मणभोजनंसंकल्प्यशांतिपठित्वापरमेश्वरर्पणंकुर्यात् ॥ इति ॥

N/A

References : N/A
Last Updated : August 06, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP