संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्| अथभुवनेश्वरीशांति: अथसंस्कारप्रकरणम् अथसंस्कारप्रकरणम् अथसंस्कारक्रम: अथगणपतिपूजनम् अथपुण्याहवाचनम् अथकर्मांगदेवता: अथमातृकापूजनम् अथनांदीश्राध्दविचार: अथनांदीश्राध्दम् अथग्रहयज्ञ:परिशिष्टोक्त: ग्रहयज्ञोमात्स्योक्त: (अयुतहोम:) अथबलिदानम् अथवसोर्धारानुवाक: अथाग्न्युपघातेप्रायश्चित्तानि अथाग्निनामानि अथस्थालीपाकप्रयोग: अथगृह्याग्ने:पुन:संधानम् अथभुवनेश्वरीशांति: अथगर्भाधानम् अथनारायणबलि: अथनागबलि: अथदत्तपुत्रविधानम् पुंसवनानवलोभनसीमंतोन्नयनानि अथानवलोभनम् अथसीमंतोन्नयनम् अथजातकर्मप्रयोग: अथषष्ठीपूजा अथनामकरणप्रयोग: अथसूर्यावलोकनम् अथनिष्क्रमणप्रयोग: अथोपवेशनविधि: अथावन्नप्राशनप्रयोग: अववर्धापनविधि: अथकूष्मांडहोम: अथबृहस्पतिशांति: अथोपनयनम् अथमंडपदेवताप्रतिष्ठा अथघटीस्थापनं अथयेयज्ञेनसूक्तम् उपनयनप्रयोग: अथानुप्रवचनीयहोम: अथप्रदोषगर्जितादिशांति: उपनयनाग्मिनाशेप्रायश्चित्तम् अथमेधाजननप्रयोग: अथविवाहपूर्वंदिनकृत्यम् अथसीमांतपूजनम् अथवरस्यवधूग्रहगमनम् अथमधुपर्क: अथगौरीहरपूजा अथसत्येनोत्तभितासूक्तम् अथऋक् चवेत्यादिब्राह्मणखंडवाक्यानि अथकन्यादानम् अथविवाहहोम: अथगृहप्रवेशनीयहोम: अथविवाहचतुर्थदिनकृत्यम् अथवधूगृहप्रवेश: अथदेवकोत्थापनमंडपोद्वासने अथाग्निद्वयसंसर्गप्रयोग: अथाशौचेहोमविधि: अथापत्कालेकर्तव्योहोमद्वयसमासप्रयोग: अथगुर्वापदिपक्षहोम: अथाग्निसमारोपविधि: अथाग्रयणहोम: अथपिंडपितृयज्ञ: अथाग्निसंसर्गदोषेप्रायश्चित्तम् अथार्कविवाह: अथगोप्रसवशांति: अथमूलजननशांति: अथाश्लेषाजननशांति: अथज्येष्ठाजननशांति: अथकृष्णचतुर्दशीजननशांति: अथसिनीवालीकुहुजननशांति: अथदर्शजननशांति: अथव्यतीपातसंक्रमणजननशांति: अथवैधृतिजननशांति: अभद्राजननशांति: अथाधोमुखजननशांति: अथैकनक्षत्रजननशांति: अथग्रहणजननशांति: अथनक्षत्रगंडांतशांति: अथतिथ्यादिगंडांतशांति: अथविषनाडीजननशांति: अथयमलजननशांति: अथत्रिकप्रसवशांति: अथसदंतजननशांति: अथसिंहार्केगोप्रसवशांति: अथप्रसववैकृतशांति: संस्कारप्रकरणम् - अथभुवनेश्वरीशांति: ऋग्वेदीयब्रह्मकर्मसमुच्चयः Tags : brahmarugvedsanskritॠग्वेदब्रह्मसंस्कृत अथभुवनेश्वरीशांति: Translation - भाषांतर श्रीगणेशायनम: ॥ रजोदर्शनानंतरंपंचमादिनेदिनेचंद्रताराध्यानुकूल्येशुचिदेशेसुस्त्रातयापत्न्यायुत:पति:प्राड्मुखउपविश्याचम्यप्राणानायम्यदेशकालौस्मृत्वा ममपत्न्या:प्रथमरजोदर्शनेऽमुकदुष्टमासादिसूचितसकलारिष्टनिरसनद्वाराश्रीपरमेश्वरप्रीत्यर्थंसग्रहमखांशौनकोक्तांशांतिंकरिष्यइतिसंकल्प्यगणेशपूजनपुण्याहवाचनमातृकापूजननांदीश्राध्दनिकृत्वा शांतंदांतंकुटुंबिनंमंत्रतंत्रज्ञमाचार्य ब्रह्माणंजपोमार्थमष्टौषट्चतुरोवाऋत्विजोवृत्वागंधादिनापूजयेत् ॥ ततआचार्यआचम्यप्राणानायम्यदेशाध्युच्चार्ययजमानेनास्मिनूशांतौवृतोहमाचार्यकर्मकरिष्यइतिसंकल्प्ययदत्रेतिगौरसपविकिरणाध्याचार्यकर्मकृत्वा ॥ भुवनेश्वर्यादिप्रतिमात्रयस्याग्न्युत्तारणंकुर्यात् ॥ ततोगृहैशानदेशेशुचौ ॥ ॐ महीध्यौरितिभूमिंस्पृष्ट्वातद्दक्षिणोत्तरयोश्चतथैवभूमिंस्पृष्ट्वाओषधय:संवदंत:इतिद्रोणप्रमाणव्रीहिभिर्मध्येतद्दक्षिणोत्तरतश्चस्पृष्टदेशेमंत्रावृत्त्याराशिवयंकृत्वा तेनैवक्रमेणराशित्रये नवमकालकमभग्नंकुंभत्रयमाकलशेष्वितिमंत्रावृत्त्यास्थापयेत् ॥ तत:प्रसुवआपइतिनवर्चस्यसूक्तस्यसिंधुक्षित् प्रैयमेधोनध्योजगती ॥ कलशेषूदकपूरणेविनियोग: ॥ ॐ प्रसुवाआपोमहिमानमुत्तमंकारुर्वोचातिसदनेविवस्वत: ॥ प्रसप्तसप्तत्रेधाहिचक्रमु:प्रसृत्वरीणामतिसिंधुरोजसा ॥ प्रतेरदद्वरुणोयातवेपथ:सिंधोयद्वाजाँऽअभ्यद्रवस्त्वं ॥ भूम्याअधिप्रवतायासिसानुनायदेषामग्रंजगतामिरज्यसि ॥ दिविस्वनोयततेभूम्योपर्यनंतंशुष्ममुदियर्तिभानुना ॥ अभ्रादिवप्रस्तनयंतिवृष्टय:सिंधुर्यदेतिवृषभोनरोरुवत् ॥ अभित्वासिंधोशिशुमिन्नमातरोवाश्राअर्षंतिपयसेवधेनव: ॥ राजेवयुध्वानयसित्वमित्सिचौयदासामग्रंप्रवतामिनक्षसि ॥ इमंमेगंगेयमुनेसरस्वतिशुतुद्रिस्तोमंसचातापरुष्ण्या ॥ असिक्न्यामरुद्वृधेवितस्तयार्जीकीयेशृणुह्यासुषोमया ॥१॥तृष्टामयाप्रथमंयातवेसजू:सुसर्त्वारसयाश्वेत्यात्या ॥ त्वंसिंधोकुभयागोमतींक्रमुंमेहत्न्वासरथंयाभिरीयसे ॥ ऋजीत्येनीरुशतीमहित्वापरिज्रयांसिभरतेरजांसि ॥ अदब्धासिंधुरपसामपस्तमाश्वानचित्रावपुषीवदर्शता ॥ स्वश्वसिंधु:सुरथा:सुवासा:हिरण्यसीसुकृतावाजिनीवती ॥ऊर्णावतीयुवति:सीलमावत्युताधिवस्तेसुभगामधुवृधं ॥ सुखंरथंयुयुजेसिंधुरश्विनंतेनवाजंसनिषदस्मिन्नाजौ ॥ मुहान्ह्यस्यमहिमापनस्यतेऽदब्धस्यस्वयशसोविरप् शिन्: ॥३॥या:प्रवतइत्यस्यवसिष्ठोनध्य:शक्करी ॥ विनियोग:प्राग्वत् ॥ ॐ या:प्रवतो० इत्युदकेनापूर्य ॥ गंधद्वारामितित्रिष्वपिगंधंप्रक्षिप्य याओषधीरितिसर्वौषधी: ओषधय:समितियवान् क्षिपेत् ॥ ततोमध्यकुंभेयवव्रीहितिलमाषकंगुश्यामाकमुद्गान् क्षिप्त्वा गायत्र्योदुंबरकुशदूर्वारक्तोत्पलचंपकबिल्वविष्णुक्रातातुलसीबर्हि:शंखपुष्पीशतावर्यश्वगंधानिर्गुंडीरक्तपीतसर्षपापामार्गपलाशपनसजीवकप्रियंगुगोधूमव्रीह्यश्वत्थदधिदुग्धघृत पद्मपत्रनीलोत्पलसितरक्तपीतकुरंटगुंजावचाभद्रमुस्तकाख्यानिद्वात्रिंशदौषधानिसर्वाणि यथासंभवंवाक्षिपेत् ॥ ततस्त्रिषुकलशेषुकांदात्कांडादितिदूर्वा: ॥ अश्वत्थेवइतिअश्वत्थोदुंबरप्लक्षचूतन्यग्रोधपंचपल्लवान् । स्योनापृथिवीतिगजाश्वस्थानरथ्यावल्मीकसंगमह्दगोष्ठस्थामृद:क्षिप्त्वा ॥या:फलिनीरितिपूगीफलानि ॥ सहिरत्नानीतिकनककुलिशनीलपद्मरागमौक्तिकानिपंचरत्नानि ॥ हिरण्यरुपइतिहिरण्यंचक्षिपेत् ॥ युवासुवासाइतिसूत्रेणवाससाचकलशकंठान् वेष्टयित्वागंधाक्षतपुष्पमालाभि:कलशान् भूषयेत् ॥ तत:कलशत्रयोपरितेनैवक्रमेणसौवर्णंराजतंकांस्यमयंताम्रमयंवैणवंमृन्मयंवायवादिपूरितंपात्रत्रयंपूर्णादेवींतिनिधायतदुपरिश्वेतंवस्त्रयंन्यस्यतत्रचंदनादिनाष्टदलानिकुर्यात् ॥ तत्रमध्यमे ॥ गायत्र्याविश्वामित्रोभुवनेश्वरीगायत्री ॥ भुवनेश्वर्यावाहनादौविनियोग: ॥ ॐ तत्सवितु० ॥ भुवनेश्वरीमावाहयामीतियथाशक्तिसुवर्णनिर्मितांभुवनेश्वरीप्रतिमामग्न्युत्तारणपूरकंस्थापयेत् ॥ तद्दक्षिणकुंभोपरिवस्त्रे ॥ इंद्राणीमास्वित्यस्यवृषाकपिरिंद्राणीपंक्ति: ॥ इंद्राण्यावाहनादौविनि० ॥ ॐ इंद्राणीमासुनारिषु० ॥ इंद्राणीमावाहयामीतितथैवसौवणींमिंद्राणीप्रतिमांसंस्थापयेत् ॥ततउत्तरकलशोपरि ॥ इंद्रत्वाविश्वामित्रइंद्रोगायत्री ॥ इंद्रावाहनेविनियोग: ॥ ॐ इंद्रत्वावृषभंवयं० ॥ इंद्रमावाहयामीतिसौवर्णीभिंद्रप्रतिमांसंस्थापयेत् ॥ ततउक्तमंत्रैरुक्तक्रमेण्देवतात्रयस्यकांडानुसमयेनपदार्थानुसमयेनवाषोडशोपचारै:पूजांकुर्यात् ॥ ततोमध्यकुंभेआचार्योऽष्टसहस्त्रमष्टशतंवागायत्रींजप्त्वाश्रीसूक्तंजपेत् ॥ हिरण्यवर्णामितिपंचदशर्चस्यसूक्तस्यानंदकर्दमचिक्लीतेंदिरासुताऋषय: ॥ श्रीरग्निश्चेत्युभेदेवते ॥ आध्यास्तिस्त्रोऽनुष्टुभ: ॥ चतुर्थीबृहती ॥ पंचमीषष्ठयौत्रिष्टुभौ ॥ ततोष्टावनुष्टुभोंऽत्याप्रस्तारपंक्ति: ॥ जपेविनियोग: ॥ ॐ हिरण्यवर्णामित्यादिसूक्तं ॥ तपएकऋत्विग्दक्षिणकुंभेरुद्रसूक्तानिजपेत् ॥ यथा ॥ कद्रुद्रायेतिनवर्चस्यसूक्तस्यघौर:कण्वोरुद्रोगायत्री अंत्यानुष्टुप् तृतीयामैत्रावरुणीजपेविनियोग: ॥ ॐ कद्रुद्रायप्रचेतसेमीह्लुष्टमायतव्यसे ॥ वोचेमशंतमह्र्दे ॥ यथानोअदिति:करत्पश्वेनृभ्योयथागवे ॥ यथातोकायरुद्रियं ॥ यथानोमित्रोवरुणोयथारुद्रश्चिकेतति ॥ यथाविश्वेसजोषस: ॥ गाथपतिंमेधपतिंरुद्रंजलाषभेषजं ॥ तच्छंयो:सुम्नमीमहे ॥ य:शुक्रइवसूर्योहिरण्यमिवरोचते ॥ श्रेष्ठोदेवानांवसु: ॥१॥शंन:करत्यर्वतेसुगंमेषायमेष्ये ॥ नृभ्योनारिभ्योगवे ॥ अस्मेसोमश्रियमधिनेधेहिस्तस्यनृणां ॥ महिश्रवस्तुविनृम्णं ॥ मान:सोमपरिबाधोमारातयोजुहुरंत ॥ आनइंदोवाजेभज ॥ यास्तेप्रजाअमृतस्यपरस्मिन्धामन्नृतस्य ॥ मूर्धानाभासोमवेन आभूषंती:सोमवेद: ॥२॥इमारुद्रायतवस इत्येकादशर्चस्यसूक्तस्यकुत्सोरुद्र आध्यानवजगत्योंत्येद्वेत्रिष्टुभौ ॥ जपेविनियोग: ॥ ॐ इमारुद्राय० (प०१४१) ॥ आतेपितरितिपंचदशर्चस्यसूक्तस्यगृत्समदोरुद्रस्त्रिष्टुप् ॥ जपेविनियोग: ॥ ॐ आतेपि० (प०१४२) ॥इमारुद्रायस्थिरधन्वनइतिचतसृणांवसिष्ठोरुद्रस्तिस्त्रोजगत्योंत्यात्रिष्टुप् ॥ जपेविनियोग: ॥ ॐ इमारुद्रायस्थिरधन्वनेगिर:क्षिप्रेषवेदेवायस्वधाम्ने ॥ अपाह्लायसहमानायवेधसेतिग्मायुधायभरताशृणोतुन: ॥ सहिक्षयेणक्षम्यस्यजन्मन:साम्राज्येनदिव्यस्यचेतति ॥ अवंनवंतिरुपनोदुरश्चरानमीवोरुद्रजासुनोभव ॥ यातेदिध्युदवसृष्टादिवस्परिक्ष्मयाचरतिपरिसावृणक्तुन: ॥ सहस्त्रंतेस्वपिवातभेषजामानस्तोकेषुतनयेषुरीरिष: ॥ मानोवधीरुद्रमापरादामातेभूमप्रसितौहीळितस्य ॥ आनोभजबर्हिषिजीवशंसेयूयंपातस्वस्तिभि:सदान: ॥१॥आवोराजानंवामदेवोरुद्रष्टुप् ॥ जपेविनियोग: ॥ ॐ आवोराजानमध्वरस्यरुद्रंहोतारंसत्ययजंरोदस्यो: ॥ अग्निंपुरातनयित्नोरचित्ताध्दिरण्यरुपमवसेकृणुध्वं ॥ तमुष्टुहिभौमौत्रीरुद्रस्त्रिष्टुप् ॥ जपेविनियोग: ॥ ॐ तमष्टुहिय:स्विषु:सुधन्वायोविश्वस्यक्षयतिभेषजस्य ॥यक्ष्वामहेसौमनसायरुद्रंनमोभिर्देवमसुरंदुवस्य ॥ भुवनस्यपितरमृजिश्वारुद्रस्त्रिष्टुप् ॥ जपेविनियोग: ॥ ॐ भुवनस्यपितरंगीर्भिराभीरुद्रंदिवावर्धयारुद्रमक्तौ ॥ बृहंतमृष्वमजरंसुषुम्नमृजिश्वारुद्रस्त्रिष्टुप् ॥ जपेविनियोग: ॥ ॐ भुवनस्यपितरंगीर्बिराभीरुद्रंदिवावर्धयारुद्रमक्तौ ॥ बृहंतमृष्वमजरंसुषुम्नमृधग्घुवेमकविनेषितास: ॥ त्र्यंबकंमैत्रावरुणिर्वसिष्ठोरुद्रोनुष्टुप् ॥ जपेविनियोग: ॥ ॐ त्र्यंबकंयजामहेसुगंधिंपुष्टिवर्धनं ॥ उर्वारुकमिवबंधननान्मृत्योर्मुक्षीयमामृतात् ॥ अथान्यऋत्विगुत्तरकुंभे एकादशावृत्तिभीरुद्रंन्यासर्ष्यादिस्मरणपूर्वकंजप्त्वा ॥ नमकानुवाकामग्नीरुद्रोमहविराट् ॥ जपेविनियोग: ॥ शंनइंद्राग्नीइतिसूक्तंजपेत् ॥ शंनइंद्राग्नीइतिपंचदशर्चस्यसूक्तस्यवसिष्ठोविश्वेदेवास्त्रिष्टुप् ॥ जपेविनियोग: ॥तत:कुंभपश्चिमदेशेस्थंडिलेवरदनामानमग्निंप्रतिष्ठाप्य तदीशान्यांवेध्यादौनवग्रहादींस्तत्तन्मंत्रैरावाह्यषोडशोपचारै:संपूज्य तदीशान्यांप्राग्वत् कुंभंसंस्थाप्यतत्रवरूणमावाह्याग्निसमीपमेत्यान्वाधानंकुर्यात् ॥ यथा ॥ क्रियमाणेसग्रहमखदुष्टरजोदर्शनशांतिहोमेदेवतापरिग्रहार्थमन्वाधानंकरिष्ये ॥ अस्मिन्नन्वाहितेग्नावित्यादिचक्षुषीआज्येनेत्यंतमुक्त्वा नवग्रहान् प्रत्येकममुकसंख्याभि: समित्तिलाज्याहुतिभि: ॥ अधिदेवताप्रत्यधिदेवताश्चप्रत्येकममुकसंख्याभि:समि० ॥ क्रतुसाद्गुण्यदेवता:क्रतुसंरक्षकदेवताश्चअमुकसंख्याकाभि:समि० ॥भुवनेश्वरींप्रतिद्रव्यमष्टसहस्त्राष्टशताध्यन्यतमसंख्याभिर्दूर्वातिलमिश्रगोधूमपायसाज्याहुतिभि: इंद्राणीमिंद्रंचप्रत्येकमष्टशताष्टाविंशत्यन्यतमसंख्याभिदूर्वातिलमिश्रगोधूमपायसाज्याहुतिभि: शेषेणस्विष्टकृतमित्यादिसध्योयक्ष्य इत्युक्त्वा ॥ अन्येतु गायत्र्यैवतुहोतव्यंहविरत्रचतुष्टयं ॥ तत:स्विष्टकृतंहुत्वेतिशौनकेनेंद्राणींद्रयोर्होमानभिधानात्तयोर्होमानास्तीत्याहुस्तन्मतेऽन्वाधानादौतत्कीर्तनाभाव: ॥ तत:परिसमूहनपरिस्तरणादिपूर्णपात्रनिधानांकृत्वाभुवनेश्वरींद्राणींद्रेभ्योमुष्मैत्वेतिमनसाध्यायन् तूष्णींचतुरश्चतुरोमुष्टीन्निरुप्य आहुतीनांबहुत्वादनिरुप्यवा गोदुग्धेपायसंश्रयपयित्वाज्यसंस्काराध्याज्यभागांतंकुर्यात् ॥ ततोयजमानोदक्षिणतउपविश्यअंगप्रधानदेवताउद्दिश्यएताभ्यइदंनममेतित्यजेत् ॥ तत:सर्त्विगाचार्योनवग्रेहेभ्योऽष्टशताष्टाविंशत्यष्टान्यतमसंख्याकाघृताक्ताअर्कादिसमिधस्तिलाज्याहुतीश्चहुत्वा ॥ अधिदेवताप्रत्यधिदेवताभ्योविनायकादिपंचभ्योलोकपालेभ्यस्तन्न्यूनसंख्याकाघृताक्ताअर्कादिसमिधस्तिलाज्याहुतीश्चहुत्वा अधिदेवताप्रत्यधिदेवताभ्योविनायकादिपंचभ्योलोकपालेभ्यस्तन्न्यूसंख्ययाजुहुयात् ॥ ग्रहाणांयदाष्टौतदान्येभ्यश्चतस्त्र इतिसंप्रदाय: ॥ ततोभुवनेश्वर्यैगायत्र्यादधिमधुघृताक्ताभिस्तिसृभिर्दूर्वाभिरेकाहुतिरित्येवमष्टसहस्त्रमष्टशतंवा दूर्वाहुतीर्घृताक्ततिलमिश्रगोधूमाहुती: पायसाहुतीर्घृताहुतीश्चजुहुयात् ॥ एवमिंद्राणींद्रयो:प्रागुक्तमंत्राभ्यांक्रमेणतदेवहविश्चतुष्टयंप्रत्येकमष्टशतसंख्यंभुवनेश्वर्याअष्टसहस्त्रपक्षेजुहुयात् ॥ तस्याअष्टशतपक्षेतुतयोरष्टाविंशतिरितिसंप्रदाय: ॥ पक्षेतयोर्नहोम: ॥ तत:स्विष्टकृदादिप्रायश्चित्तहोमांतंकृत्वायजमान: इंद्रादिद्क्पालेभ्योनवग्रहेभ्योभुवनेश्वरींद्राणींद्रेभ्य:क्षेत्रपालायचसदीपान्माषभक्तबलींस्तत्तन्मंत्रैर्दत्वापूर्णाहुतिंसमुद्रादूर्मिरितितृचेनजुहुयात् ॥ समुद्रादूर्मिरितितृचस्यगोतमोवामदेवोग्निस्त्रिष्टुप् ॥ पूर्णाहुतिहोमेविनियोग: ॥ ॐ समुद्रदूर्मि० ॥ स्वाहा ॥ अग्नयइदं० ॥ तत:प्रणीताविमोकंकृत्वाभुवनेश्वर्यादिकलशोदकंग्रहकलशोदकंचपात्रांतरेगृहीत्वातेनतस्थपंचपल्लवै: सकुशदूर्वैर्धृतनववस्त्रंयजमानंधृतनववस्त्रकंचुकींचतद्वामस्थांऋतुमतींपत्नींसर्त्विगुदड्मुखआचार्योभिषिंचेदेभिर्मंत्रै: ॥ आपोहिष्ठेतिनवर्चस्यांबरीष:सिंधुद्वीपआपोगायत्री पंचमीवर्धमानासप्तमीप्रतिष्ठा अंत्येद्वेअनुष्टुभौ ॥ अभिषेकेविनियोग: ॥ ॐ आपोहिष्ठा० ऋ० ९ ॥यएकइद्विदयतइतिगोतमोरहूगण इंद्र उष्णिक् ॥ ॐ यएकइद्विदयतेवसुमर्तायदाशुषे ॥ ईशानोअप्रतिष्कुतइंद्रोअंग ॥ त्रिभिष्ट्वंदेवेतिसप्तर्चस्यवसिष्ठआध्यानांत्रयाणामग्निस्ततश्चतुर्णांविश्वेदेवाआध्यागायत्री द्वितीयानुष्टुप् ततस्तिस्त्रोगायत्र्य: अंत्येद्वेअनुष्टुभौ ॥ॐ त्रिभिष्ट्वंदेवसवित० ऋ० ॥७॥उभयंश्रृणवच्चनेतिप्रगाथोभर्गइंद्रोबृहती ॥ ॐ उभयंशृणवच्चनइंद्रोअर्वागिदंवच: ॥ सत्राच्यामघवासोमपीतयेधियाशविष्ठआगमत् ॥ स्वस्तिदाविशोभरद्वाज:शासइंद्रोनुष्टुप् ॥ ॐ स्वस्तिदाविशस्पतिर्वृत्रहाविमृधोवशी ॥ वृषेंद्र:पुरएतुन:सोमपाअभयंकर: ॥ त्र्यंबकंवसिष्ठोरुद्रोनुष्टुप् ॥ ॐ त्र्यंबकं० ॥ जातवेदसेकश्यपोजातवेदाअग्निस्त्रिष्टुप् ॥ ॐ जातवेदसे० ॥ समुद्रज्येष्ठाइतिचतसॄणांवसिष्ठआपस्त्रिष्टुप् ॥ ॐ समुद्रज्येष्ठा:० ॥४॥त्रायंतामितितिसृणांसप्तर्षयआपोनुष्टुप् ॥ ॐ त्रायंतामिह०३ ॥ इमाआपइतितिसृणामैतरेयआपोनुष्टुप् जगत्यनुष्टुभ: ॥ ॐ इमाआप:०३॥ देवस्यत्येत्यस्यैतरेय:सविताश्विनौपूषाचयजु: ॥ अभि० ॥ ॐ देवस्यत्वासवितु:प्रसवेश्विनोर्बाहुभ्यांपूष्णोहस्ताभ्यामग्नेस्तेजसासूर्यस्यवर्चसेंद्रस्येंद्रियेणाभिषिंचामि ॥ तमीशानंगोतमईशानोजगती ॥ ॐ तमीशानंजगत:० ॥ त्वमग्नेरुद्रोगृत्समदोग्निर्जगती ॥ ॐ त्वमग्नेरुद्रोअसुरोमहोदिवस्त्वंशर्धोमारुतंपृक्षईशिषे ॥ त्वंवातैररुणैर्यासिशंगयस्त्वंपूषाविधत:पासिनुत्मना ॥ तमुष्टुहिभौमात्रीरुद्रस्त्रिष्टुप् ॥ ॐ तमुष्टुहि० ॥ भुवनस्यपितरमृजिश्वारुद्रस्त्रिष्टुप् ॥ ॐ भुवनस्यपितरंगीर्भिराभीरुद्रंदिवावर्धयारुद्रमक्तौ ॥ बृहंतमृष्वमजरंसुषुम्नमृधग्घुबेमकविनेषितास: ॥ यानेरुद्रेतिकश्यपोरुद्र:स्वराडनुष्टुप् ॥ ॐ यातेरुद्रशिवातनूरघोरापापकाशिनी ॥ तयानस्तनुवाशंतमयागिरिशंताभिचाकशीहि ॥ यज्जाग्रतइतिषण्णांशिवसंकल्पमंत्राणांप्रजापतिर्मनास्त्रिष्टुप् ॥ ॐ यज्जाग्रतोदूरमुदैतुदैवंतदुसप्तस्यतथैवैति ॥ दूरंमगमंज्योतिषांज्योतिरेकंतन्मेमन:शिवसंकल्पमस्तु ॥ येनकर्माण्यपसोमनीषिणोयज्ञेकृण्वंतिविदथेषुधीरा: ॥ यदपूर्वंयक्ष्ममंत:प्रजानांतन्मे० ॥ यत्प्रज्ञानमुतचेतोधृतिश्चयज्ज्योतिरंतरमृतंप्रजासु ॥ यस्मान्नऋतेकिंचनकर्मक्रियतेतन्मे० ॥ येनेदंभूतंभुवनंभविष्यत्परिगृहीतममृतेनसर्व ॥ येनयज्ञस्तायतेसप्तहोतातन्मेमन:शिवसंकल्पमस्तु ॥ यस्मिन्नृच:सामयजूषियस्मिन्प्रतिष्ठितारथनाभाविवारा: ॥ यस्मिश्चित्तसर्वमोतंप्रजानांतन्मेमन:शिवसंकल्पमस्तु ॥ सुषारथिरश्वानिवयन्मनुष्यान्नेनीयतेऽभीशुभिर्वाजिनइव ॥ हृत्प्रतिष्ठंयदजिरंयविष्ठंतन्मेमन:० ॥ इंद्रत्वावृषभंयमितिपंचानांविश्वामित्रइंद्रोगायत्री ॥ ॐ इंद्रत्वावृषभंवयंसुतेसोमेहवामहे ॥ सपाहिमध्वोअंधस: ॥ इंद्रक्रतुविदंसुतंसोमंहर्यपुरुष्टुत ॥ पिबावृषस्वस्तातृपि ॥ इंद्रप्रणोधितावानंयज्ञंविश्वेभिर्देवेभि: ॥ तिर:स्तवानविश्पते ॥ इंद्रसोमा:सुताइमेतवप्रयंतिसत्पते ॥ क्षयंचंद्रासइंदव: ॥ दधिष्वाजठरेसुतंसोममिंद्रवरेण्यं ॥ तवध्युक्षासइंदव: ॥ तत:सुरास्त्वामभिषिंचंत्वितिपौराणेर्मंत्रैरभिषिंचेत् ॥ तत:कलशोदकेनान्येनचोदकेनसुस्नातौदंपतीशुक्लवासोगंधपुष्पवस्त्रालंकारादिभिर्त्यथाशक्तिपूजयित्वाचार्यायधेनुंदक्षिणांचदध्यात् ॥ ततोऽन्येभ्यऋत्विग्भ्योऽन्येभ्यश्चब्राह्मणेभ्योभूयसींदक्षिणांदध्यात् ॥ ततोग्रहपीठदेवतानांभुवनेश्वर्यादीनांचोत्तरपूजांपंचोपचारै:कृत्वाक्षमाप्ययांतुदेवगणाइतिविसृज्य आचार्यहस्तेप्रतिपाध्याग्निंसंपूज्यगच्छगच्छसुरश्रेष्ठेतिमन्त्रेणविसर्जयेत् ॥ ततोब्राह्मणामहाशांतिंपठेयु: ॥ सायथा ॥आनोभद्राइतिदशानांगोतमोराहूगणोविश्वेदेवाआध्या:पंचसप्तमीचजगत्य:षष्ठीविराट्स्थाना अष्टभ्याध्यास्तिस्त्रस्त्रिष्टुभ: ॥ स्वस्तिनोमिमीतामितिपंचानांस्वस्त्यात्रेयोविश्वेदेवाआध्यास्तिस्त्रस्त्रिष्टुभस्ततोद्वेअनुष्टुभौ ॥ शंनइंद्राग्नीइतिपंचमीदशानां वसिष्ठोविश्वेदेवास्त्रिष्टुप् ॥ शंवतीरितिपंचानांवसिष्ठोविश्वेदेवास्त्रिष्टुप् ॥ त्यमूष्वितितिसृणांतार्क्ष्योरिष्टनेमिस्तार्क्ष्यस्त्रिष्टुप् ॥ तच्छंयो:शंयुर्विश्वेदेवा:शक्करी ॥ सर्वेषांशांतिपाठेविनियोग: ॥ ॐ आनोभद्रा: १० ॥ ॐ स्वस्तिनो० ५ ॥ ॐ शंनइंद्राग्नी० १५ ॥ ॐ त्यमूषुवाजिनं० ३ ॥ ॐ तच्छंयोरावृणी० १॥ततोयजमानोनवग्रहप्रीत्यर्थंत्रीन् भुवनेश्वरींद्राणींद्रपीतयेचप्रत्येकंत्रींस्त्रीन् ब्राह्मणान् भोजयित्वासंकल्प्यवाविप्राशिषोगृहीत्वासुहृध्युक्तोभुंजीत ॥ इतिभुवनेश्वरीशांति: ॥ N/A References : N/A Last Updated : July 28, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP