काशीखण्डः - अध्याय १००
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ सूत उवाच ॥
इदं स्कांदमहं श्रुत्वा काशीखंडमनुत्तमम् ॥
नितरां परितृप्तोस्मि हृदि चापि विधारितम् ॥१॥
अनुक्रमणिकाध्यायं तथा माहात्म्यमुत्तमम् ॥
पाराशर्य समाचक्ष्व यथापूर्वमिदं भवेत् ॥२॥
॥ व्यास उवाच ॥
सूतावधेहि धर्मात्मञ्जातूकर्ण्य निशामय ॥
शुकवैशंपायनाद्याः शृण्वंत्वपि च बालकाः ॥३॥
अनुक्रमणिकाध्यायं माहात्म्यं चापि खंडजम् ॥
प्रवक्ष्याम्यघनाशाय महापुण्यप्रवर्धनम् ॥४॥
विंध्यनारदसंवादः प्रथमे परिकीर्तितः ॥
सत्यलोकप्रभावश्च द्वितीयः समुदाहृतः ॥५॥
अगस्तेराश्रमपदे देवानामागमस्ततः ॥
पतिव्रता चरित्रं च प्रस्थानं कुंभसंभवः ॥६॥
तीर्थप्रशंसा च ततः सप्तपुर्यस्ततः स्मृताः ॥
संयमिन्याः स्वरूपं च ब्रध्नलोकस्ततः परम् ॥७॥
इंद्राग्न्योर्लोकसंप्राप्तिस्ततश्च शिवशर्मणः ॥
अग्नेः समुद्भवस्तस्मात् क्रव्याद्वरुणसंभवः ॥८॥
गंधवत्यलकापुर्योरीशयोस्तु समुद्भवः ॥
चंद्रलोकपरिप्राप्तिः शिवशर्मद्विजन्मनः ॥९॥
उडुलोक कथा तस्मात्ततः शुक्रसमुद्भवः ॥
माहेय गुरुसौरीणां लोकानां वर्णनं ततः ॥१०॥
सप्तर्षीणां ततो लोका ध्रुवस्य च तपस्ततः ॥
ततो ध्रुवपदप्राप्तिर्ध्रुवलोक स्थितिस्ततः. ॥११॥
दर्शनं सत्यलोकस्य तस्य वै शिवशर्मणः ॥
चतुर्भुजाभिषेकश्च निर्वाणं शिवशर्मणः ॥१२॥
स्कंदागस्त्योश्च संवादो मणिकर्ण्याः समुद्भवः ॥
ततस्तु गंगामाहात्म्यं ततो दशहरास्तवः ॥१३॥
प्रभावश्चापि गंगाया गंगानामसहस्रकम् ॥
वाराणस्याः प्रशंसाथ भैरवाविर्भवस्ततः ॥१४॥
दंडपाणेः समुद्भूतिर्ज्ञानवाप्युद्भवस्ततः ॥
आख्यानं च कलावत्याः सदाचारस्ततः परम् ॥१५॥
ब्रह्मचारि प्रकरणं ततः स्त्रीलक्षणानि च ॥
कृत्याकृत्यप्रकरणमविमुक्तेशवर्णनम् ॥१६॥
ततो गृहस्थधर्माश्च ततो योगनिरूपणम् ॥
कालज्ञानं ततः प्रोक्तं दिवोदासस्य वर्णनम् ॥१७॥
काश्याश्च वर्णनं तस्माद्योगिनीवर्णनं ततः ॥
लोलार्कस्य समाख्यानमुत्तरार्ककथा ततः॥ १८॥
सांबादित्यस्य महिमा द्रुपदादित्य शंसनम् ॥
ततस्तु गरुडाख्यानमरुणार्कादयस्ततः ॥१९॥
दशाश्वमेधिकं तीर्थं मंदराच्च गणागमः ॥
पिशाचमोचनाख्यानं गणेशप्रेषणं ततः ॥२०॥
मायागणपतेश्चाथ ढुंढिप्रादुर्भवस्ततः ॥
विष्णुमायाप्रपंचोथ दिवोदासविसर्जनम् ॥२१॥
ततः पंचनदोत्पत्तिर्बिंदुमाधवसंभवः ॥
ततो वैष्णवतीर्थानां माहात्म्यपरिवर्णनम् ॥२२॥
प्रयाणं मंदरात्काशीं वृषभध्वजशूलिनः ॥
जैगीषव्येन संवादो ज्येष्ठस्थाने महेशितुः ॥२३॥
ततः क्षेत्ररहस्यस्य कथनं पापनाशनम् ॥
अथातः कंदुकेशस्य व्याघ्रेशस्य समुद्भवः ॥२४॥
ततः शैलेश्वरकथा रत्नेशस्य च दर्शनम् ॥
कृत्तिवासः समुत्पत्तिस्ततश्चायतनागमः ॥२५॥
देवतानामधिष्ठानं दुर्गासुरपराक्रमः ॥
दुर्गाया विजयश्चाथ तत ओंकारवर्णनम् ॥२६॥
पुनरोंकारमाहात्म्यं त्रिलोचनसमुद्भवः ॥
त्रिलोचनप्रभावोथ केदाराख्यानमेव च ॥२७॥
ततो धर्मेशमहिमा ततः पक्षिकथा शुभा ॥
ततो विश्वभुजाख्यानं दुर्दमस्य कथा ततः ॥२८॥
ततो वीरेश्वराख्यानं वीरेश महिमा पुनः ॥
गंगातीर्थैश्च संयुक्ता कामेश महिमा ततः ॥२९॥
विश्वकर्मेश महिमा दक्षयज्ञसमुद्भवः ॥
सत्या देहविसर्गश्च ततो दक्षेश्वरोद्भवः ॥३०॥
ततो वै पार्वतीशस्य महिम्नः परिकीर्तनम् ॥
गंगेशस्याथ महिमा नर्मदेशसमुद्भवः ॥३१॥
सतीश्वरसमुत्पत्तिरमृतेशादि वणर्नम् ॥
व्यासस्य हि भुजस्तंभो व्यासशापविमोक्षणम् ॥३२॥
क्षेत्रतीर्थकदंबं च मुक्तिमंडप संकथा ॥
विश्वेशाविर्भवश्चाथ ततो यात्रापरिक्रमः ॥३३॥
एतदाख्यानशतकं क्रमेण परिकीर्तितम् ॥
यस्य श्रवणमात्रेण सर्वखंड श्रुतेः फलम् ॥
अनुक्रमणिकाध्यायेप्यस्ति यात्रापरिक्रमः ॥३४॥
॥ सूत उवाच ॥
यात्रा परिक्रमं ब्रूहि जनानां हितकाम्यया ॥
यथावत्सिद्धिकामानां सत्यवत्याः सुतोत्तम ॥३५॥
॥ व्यास उवाच॥
निशामय महाप्राज्ञ लोमहर्षण वच्मि ते ॥
यथा प्रथमतो यात्रा कर्तव्या यात्रिकैर्मुदा ॥३६॥
सचैलमादौ संस्नाय चक्रपुष्करिणीजले ॥
संतर्प्यदेवासपितॄन्ब्राह्मणांश्च तथार्थिनः ॥३७॥
आदित्यं द्रौपदीं विष्णुं दंडपाणिं महेश्वरम् ॥
नमस्कृत्य ततो गच्छेद्द्रष्टुं ढुंढिविनायकम् ॥३८॥
ज्ञानवापीमुपस्पृश्य नंदिकेशं ततोर्चयेत् ॥
तारकेशं ततोभ्यर्च्य महाकालेश्वरं ततः ॥३९॥
ततः पुनर्दंडपाणिमित्येषा पंचतीर्थिका ॥४०॥
दैनंदिनी विधातव्या महाफलमभीप्सुभिः ॥
ततो वैश्वेश्वरी यात्रा कार्या सर्वार्थ सिद्धिदा ॥४१॥
द्विसप्तायतनानां च कार्या यात्रा प्रयत्नतः ॥
कृष्णां प्रतिपदं प्राप्य भूतावधि यथाविधि ॥४२॥
अथवा प्रतिभूतं च क्षेत्रसिद्धिमभीप्सुभिः ॥
तत्तत्तीर्थकृतस्नानस्तत्तल्लिंगकृतार्चनः ॥४३॥
मौनेन यात्रां कुर्वाणः फलं प्राप्नोति यात्रिकः॥
ओंकारं प्रथमं पश्येन्मत्स्योदर्यां कृतोदकः ॥४४॥
त्रिविष्टपं महादेवं ततो वै कृत्तिवाससम् ॥
रत्नेशं चाथ चंद्रेशं केदारं च ततो व्रजेत् ॥४५॥
धर्मेश्वरं च वीरेशं गच्छेत्कामेश्वरं ततः ॥
विश्वकर्मेश्वरं चाथ मणिकर्णीश्वरं ततः ॥४६॥
अविमुक्तेश्वरं दृष्ट्वा ततो विश्वेशमर्चयेत् ॥
एषा यात्रा प्रयत्नेन कर्तव्या क्षेत्रवासिना ॥४७॥
यस्तु क्षेत्रमुषित्वा तु नैतां यात्रां समाचरेत् ॥
विघ्नास्तस्योपतिष्ठंते क्षेत्रोच्चाटनसूचकाः ॥४८॥
अष्टायतन यात्रान्या कर्तव्या विघ्रशांतये ॥
दक्षेशः पार्वतीशश्च तथा पशुपतीश्वरः ॥४९॥
गंगेशो नर्मदेशश्च गभस्तीशः सतीश्वरः ॥
अष्टमस्तारकेशश्च प्रत्यष्टमि विशेषतः ॥५०॥
दृश्यान्येतानि लिंगानि महापापोपशांतये ॥
अपरापि शुभा यात्रा योगक्षेमकरी सदा ॥५१॥
सर्वविघ्रोपहंत्री च कर्तव्या क्षेत्रवासिभिः ॥
शैलेशं प्रथमं वीक्ष्य वरणास्नानपूर्वकम् ॥५२॥
स्नानं तु संगमे कृत्वा द्रष्टव्यः संगमेश्वरः ॥
स्वलीन तीर्थे सुस्नातः पश्येत्स्वलीनमीश्वरम् ॥५३॥
स्नात्वा मंदाकिनी तीर्थे द्रष्टव्यो मध्यमेश्वरः ॥
पश्येद्धिरण्यगर्भेशं तत्र तीर्थे कृतोदकः ॥५४॥
मणिकर्ण्यां ततः स्नात्वा पश्येदीशानमीश्वरम्॥
ततः कूपमुपस्पृश्य गोप्रेक्षमवलोकयेत् ॥५५॥
कापिलेय ह्रदे स्नात्वा वीक्षेत वृषभध्वजम् ॥
उपशांतशिवं पश्येत्तत्कूपविहितोदकः ॥५६॥
पंचचूडाह्रदे स्नात्वा ज्येष्ठस्थानं ततोर्चयेत् ॥
चतुःसमुद्रकूपे तु स्नात्वा देवं समर्चयेत् ॥५७॥
देवस्याग्रे तु या वापी तत्रोपस्पर्शने कृते ॥
शुक्रेश्वरं ततः पश्येत्तत्कूपविहितोदकः ॥५८॥
दंडखाते ततः स्नात्वा व्याघ्रेशं पूजयेत्ततः ॥
शौनकेश्वरकुंडे तु स्नानं कृत्वा ततोर्चयेत् ॥५९॥
जंबुकेशं महालिंगं कृत्वा यात्रामिमां नरः॥
क्वचिन्न जायते भूयः संसारे दुःखसागरे ॥६०॥
समारभ्य प्रतिपदं यावत्कृष्णा चतुर्दशी ॥
एतत्क्रमेण कर्तव्यान्ये तदायतनानि वै ॥६१॥
इमां यात्रां नरः कृत्वा न भूयोप्यभिजायते ॥
अन्या यात्रा प्रकर्तव्यैका दशायतनोद्भवा ॥६२॥
आग्नीध्र कुंडे सुस्नातः पश्येदाग्नीध्रमीश्वरम् ॥
उर्वशीशं ततो गच्छेत्ततस्तु नकुलीश्वरम् ॥६३॥
आषाढीशं ततो दृष्ट्वा भारभूतेश्वरं ततः ॥
लांगलीशमथालोक्य ततस्तु त्रिपुरांतकम् ॥६४॥
ततो मनःप्रकामेशं प्रीतिकेशमथो व्रजेत् ॥
मदालसेश्वरं तस्मात्तिलपर्णेश्वरं ततः ॥६५॥
यात्रैकादशलिंगानामेषा कार्या प्रयत्नतः॥
इमां यात्रां प्रकुर्वाणो रुद्रत्वं प्राप्नुयान्नरः ॥६६॥
अतः परं प्रवक्ष्यामि गारी यात्रामनुत्तमाम्॥
शुक्लपक्षे तृतीयायां या यात्रा विष्वगृद्धिदा ॥६७॥
गोप्रेक्षतीर्थे सुस्नाय मुखनिर्मालिकां व्रजेत् ॥
ज्येष्ठावाप्यां नरः स्नात्वा ज्येष्ठागौरीं समर्चयेत् ॥६८॥
सौभाग्यगौरी संपूज्या ज्ञानवाप्यां कृतोदकैः॥
ततः शृंगारगौरीं च तत्रैव च कृतोदकः ॥६९॥
स्नात्वा विशालगंगायां विशालाक्षीं ततो व्रजेत् ॥
सुस्नातो ललितातीर्थे ललितामर्चयेत्ततः ॥७०॥
स्नात्वा भवानीतीर्थेथ भवानीं परिपूजयेत् ॥
मंगला च ततोभ्यर्च्या बिंदुतीर्थकृतोदकैः ॥७१॥
ततो गच्छेन्महालक्ष्मीं स्थिरलक्ष्मीसमृद्धये ॥
इमां यात्रां नरः कृत्वा क्षेत्रेस्मिन्मुक्तिजन्मनि ॥७२॥
न दुःखैरभिभूयेत इहामुत्रापि कुत्रचित् ॥
कुर्यात्प्रतिचतुर्थीह यात्रां विघ्नेशितुः सदा ॥७३॥
ब्राह्मणेभ्यस्तदुद्देशाद्देया वै मोदका मुदे ॥
भौमे भैरवयात्रा च कार्या पातकहारिणी ॥७४॥
रविवारे रवेर्यात्रा षष्ठ्यां वारविसंयुजि ॥
तथैव रविसप्तम्यां सर्वविघ्नोपशांतये ॥७५॥
नवम्यामथवाष्टम्यां चंडीयात्रा शुभा मता ॥
अंतर्गृहस्य वै यात्रा कर्तव्या प्रतिवासरम् ॥७६॥
प्रातःस्नानं विधायादौ नत्वा पंचविनायकान् ॥
नमस्कृत्वाथ विश्वेशं स्थित्वा निर्वाणमंडपे ॥७७॥
अंतर्गृहस्य यात्रा वै करिष्ये घौघशांतये ॥
गृहीत्वा नियमं चेति गत्वाथ मणिकर्णिकाम् ॥७८॥
स्नात्वा मौनेन चागत्य मणिकर्णीशमर्चयेत् ॥
कंबलाश्वतरौ नत्वा वासुकीशं प्रणम्य च ॥७९॥
पर्वतेशं ततो दृष्ट्वा गंगाकेशवमप्यथ ॥
ततस्तु ललितां दृष्ट्वा जरासंधेश्वरं ततः ॥८०॥
ततो वै सोमनाथं च वाराहं च ततो व्रजेत् ॥
ब्रह्मेश्वरं ततो नत्वा नत्वागस्तीश्वरं ततः ॥८१॥
कश्यपेशं नमस्कृत्य हरिकेशवनं ततः ॥
वैद्यनाथं ततो दृष्ट्वा ध्रुवेशमथ वीक्ष्य च ॥८२॥
गोकर्णेश्वरमभ्यर्च्य हाटकेशमथो व्रजेत् ॥
अस्थिक्षेप तडागे च दृष्ट्वा वै कीकसेश्वरम् ॥८३॥
भारभूतं ततो नत्वा चित्रेगुप्तेश्वरं ततः ॥
चित्रघंटां प्रणम्याथ ततः पशुपतीश्वरम् ॥८४॥
पितामहेश्वरं गत्वा ततस्तु कलशेश्वरम् ॥
चंद्रेशस्त्वथ वीरेशो विद्येशोग्नीश एव च ॥८५॥
नागेश्वरो हरिश्चंद्रश्चिंतामणिविनायकः ॥
सेनाविनायकश्चाथ द्रष्टव्यः सर्वविघ्नहृत् ॥८६॥
वसिष्ठवामदेवौ च मूर्तिरूपधरावुभौ ॥
द्रष्टव्यौ यत्नतः काश्यां महाविघ्नविनाशिनौ ॥८७॥
सीमाविनायकं चाथ करुणेशं ततो व्रजेत् ॥
त्रिसंध्येशो विशालाक्षी धर्मेशो विश्वबाहुका ॥
आशाविनायकश्चाथ वृद्धादित्यस्ततः पुनः ॥८८॥
चतुर्वक्त्रेश्वरं लिंगं ब्राह्मीशस्तु ततः परः ॥
ततो मनःप्रकामेश ईशानेशस्ततः परम् ॥८९॥
चंडीचंडीश्वरौ दृश्यौ भवानीशंकरौ ततः ॥
ढुंढिं प्रणम्य च ततो राजराजेशमर्चयेत् ॥९०॥
लांगलीशस्ततोभ्यर्च्यस्ततस्तु नकुलीश्वरः ॥
परान्नेशमथो नत्वा परद्रव्येश्वरं ततः ॥९१॥
प्रतिग्रहेश्वरं वापि निष्कलंकेशमेव च ॥
मार्कंडेयेशमभ्यर्च्य ततश्चाप्सरसेश्वरम् ॥९२॥
गंगेशोर्च्यस्ततो ज्ञानवाप्यां स्नानं समाचरेत् ॥
नंदिकेशं तारकेशं महाकालेश्वरं ततः ॥९३॥
दंडपाणिं महेशं च मोक्षेशं प्रणमेत्ततः ॥
वीरभद्रेश्वरं नत्वा अविमुक्तेश्वरं ततः ॥९४॥
विनायकांस्ततः पंच विश्वनाथं ततो व्रजेत् ॥.
ततो मौनं विसृज्याथ मंत्रमेतमुदीरयेत् ॥९५॥
अंतर्गृहस्य यात्रेयं यथावद्या मया कृता ॥
न्यूनातिरिक्तया शंभुः प्रीयतामनया विभुः ॥९६॥
इति मंत्रं समुच्चार्य क्षणं वै मुक्तिमंडपे ॥
विश्रम्य यायाद्भवनं निष्पापः पुण्यवान्नरः ॥९७॥
संप्राप्य वासरं विष्णोर्विष्णुतीर्थेषु सर्वतः ॥
कार्या यात्रा प्रयत्नेन महापुण्य समृद्धये ॥९८॥
नभस्य पंचदश्यां च कुलस्तंभं समर्चयेत् ॥
दुःखं रुद्रपिशाचत्वं न भवेद्यस्य पूजनात् ॥९९॥
श्रद्धापूर्वमिमा यात्रा कर्तव्याः क्षेत्रवासिभिः ॥
पर्वस्वपि विशेषेण कार्या यात्राश्च सर्वतः ॥१००॥
न वंध्यं दिवसं कुर्याद्विनायात्रां क्वचित्कृती ॥
यात्राद्वयं प्रयत्नेन कर्तव्यं प्रतिवासरम् ॥१॥
आदौ स्वर्गतरंगिण्यास्ततो विश्वेशितुर्ध्रुवम् ॥
यस्य वंध्यं दिनं यातं काश्यां निवसतः सतः ॥२॥
निराशाः पितरस्तस्य तस्मिन्नेव दिनेऽभवन् ॥
स दष्टः कालसर्पेण स दृष्टो मृत्युना स्फुटम् ॥३॥
स मुष्टस्तत्र दिवसे विश्वेशो यत्र नेक्षितः ॥
सर्वतीर्थेषु सस्नौ स सर्वयात्रां व्यधात्स च ॥
मणिकर्ण्यां तु यः स्नातो यो विश्वेशं निरैक्षत ॥४॥
सत्यं सत्यं पुनः सत्यं सत्यं सत्यं पुनःपुनः ॥
दृश्यो विश्वेश्वरो नित्यं स्नातव्या मणिकर्णिका ॥५॥
॥ व्यास उवाच ॥
सूत स्कांदमिदं श्रुत्वा काशीमाहात्म्यमुत्तमम् ॥
नरो न निरयं याति कृत्वाप्यघसहस्रकम् ॥६॥
स्नात्वा सर्वाणि तीर्थानि यच्छ्रेयः समुपार्ज्यते ॥
काशीखंडस्य श्रवणात्तत्स्यात्सूत न संशयः ॥७॥
दत्त्वा दानानि सर्वाणि कृत्वा यज्ञाननेकशः ॥
तत्पुण्यं लभते मर्त्यस्तदा तच्छ्रवणाद्ध्रुवम् ॥८॥
तप्त्वा तपांसि चोग्राणि प्राप्यते यन्महत्फलम् ॥
श्रवणादस्य खंडस्य लभते तन्न संशयः ॥९॥
अधीत्य चतुरो वेदान्सांगान्यत्फलमाप्यते ॥
काशीखंडं समाकर्ण्य तत्फलं लभ्यते नरैः ॥११०॥
गययां श्राद्धदानाच्च यथा तृप्यंति पूर्वजाः ॥
तथैतच्छ्रवणान्नृणां तृप्नुवंति पितामहाः ॥११॥
तैश्च सर्वपुराणानि श्रुतानि स्थिरबुद्धिभिः ॥
काशीखंडं श्रुतं यैश्च सर्वेषां श्रेयसां पदम् ॥१२॥
श्रुताश्च सर्वधर्मास्तैर्महापुण्येकराशिभिः ॥
श्रुतं यैः स्थिरचेतोभिः काशीमाहात्म्यमुत्तमम् ॥१३॥
इदमेव हि देवेज्या परमा परिकीर्तिता ॥
जपेत्तत्खंडमखिलं श्रोतव्यं श्रद्धया द्विजाः ॥१४॥
शृणुयादेकमपि य आख्यानं काशिखंडजम् ॥
श्रुतानि तेन सर्वाणि धर्मशास्त्राण्यसंशयम् ॥१५॥
महाधर्मैकजननं महार्थप्रतिपादकम् ॥
कारणं सर्वकामाप्तेः काशीखंडमिदं स्मृतम् ॥१६॥
एतच्छ्रवणतः पुंसां कैवल्यं नैव दूरतः ॥
तुष्यंति सर्वे पितरः श्रुत्वैतत्खंडमुत्तमम् ॥१७॥
प्रीणंत्यमर्त्याः सर्वेपि ब्रह्मविष्णुशिवादयः ॥
मुनयः परिमोदंते माद्यंति सनकादयः ॥१८॥
हृष्टः सर्वो भवेदेव भूतग्रामश्चतुर्विधः ॥
महिमश्रवणादस्माद्वाराणस्या न संशयः ॥१९॥
य इदं श्रावयेद्विद्वान्समस्तं त्वर्धमेव वा ॥
पादमात्रं तदर्धं वा त्वेकं व्याख्यानमुत्तमम् ॥१२०॥
स नमस्यः प्रयत्नेन संपूज्यस्त्विष्टदेववत् ॥
तस्मै देयं प्रयत्नेन विश्वेश प्रीतये सदा ॥२१॥
तस्मिंस्तुष्टे हि संतुष्टो विश्वेशो नात्र संशयः॥
यत्रैतत्पठ्यते खंडं परानंदसमाश्रयम् ॥२२॥
न तत्र प्रभवेत्कश्चिदमंगलसमुद्भवः ॥
य इदं शृणुयाद्विद्वान्यश्चेदं श्रावयेत्सुधीः ॥२३॥
यः पठेदपि पुण्यात्मा ते सर्वे रुद्रमूर्तयः ॥
य एतत्पुस्तकं रम्यं लेखयित्वा समर्पयेत् ॥२४॥
अखिलानि पुराणानि तेन दत्तानि नान्यथा ॥
अत्राख्यानानि यावंति श्लोका यावंत एव हि ॥२५॥
तथा पदानि यावंति वर्णा यावंत एव हि ॥
यावंत्यपि च मात्राणि यावंत्यः पदपंक्तयः ॥२६॥
गुणे सूत्राणि यावंति यावंतः पटतंतवः ॥
चित्ररूपाणि यावंति रम्यपुस्तकसंचके ॥२७॥
तावद्युगसहस्राणि दाता स्वर्गे महीयते ॥
एतद्द्वादशकृत्वो यः शृणुयात्खंडमुत्तमम् ॥२८॥
ब्रह्महत्यापि तस्याशु नश्येच्छंभोरनुग्रहात् ॥
अपुत्रः शृणुयाद्यस्तु सुस्नातः श्रद्धयान्वितः ॥२९॥
तस्य पुत्रो भवत्येव शंभोराज्ञा प्रभावतः ॥
किं बहूक्तेन सूतेह यस्य यस्य मनोरथः ॥१३०॥
यो यस्तं तं स ससदा श्रुत्वैतत्प्राप्नुयात्कृती ॥
शृणुयाद्दूरदेशेपि यः काशीखंडमुत्तमम् ॥३१॥
स काशीवासपुण्यस्य भाजनं स्याच्छिवाज्ञया ॥
एतच्छ्रवणतः पुंसां सर्वत्र विजयो भवेत् ॥
सौभाग्यं चापि सर्वत्र प्राप्नुयान्निर्मलाशयः ॥३२॥
यस्य विश्वेश्वरस्तुष्टस्तस्यैतच्छ्रवणे मतिः ॥
जायते पुण्ययुक्तस्य महानिर्मलचेतसः ॥३३॥
सर्वेषां मंगलानां च महामंगलमुत्तमम् ॥
गृहेपि लिखितं पूज्यं सर्वमंगलसिद्धये ॥१३४॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धेऽनुक्रमणिकानाम शततमोऽध्यायः ॥१००॥
श्रीकाशीखण्डोत्तरार्धं सम्पूर्णम् ॥
॥ समाप्तं चेदं चतुर्थं काशीखंडम् ॥४॥
N/A
References : N/A
Last Updated : November 27, 2024
TOP