काशीखण्डः - अध्याय २७
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
स्कंद उवाच ॥
वाराणसीति प्रथितं यथा चानंदकाननम् ॥
तथा च कथयामीह देवदेवेनभाषितम् ॥१॥
॥ ईश्वर उवाच ॥
निशामय महाबाहो विष्णो त्रैलोक्यसुंदर ॥
प्राप्तं वाराणसीत्याख्यामविमुक्तं यथा तथा ॥२॥
निर्दग्धान्सागराञ्छ्रुत्वा कपिलक्रोधवह्निना ॥
अश्वमेधाश्वसंयुक्तान्पूर्वजान्स्वान्भगीरथः ॥३॥
सूर्यवंशे महातेजा राजा परमधार्मिकः ॥
आरिराधयिषुर्गंगां तपसे कृतनिश्चयः ॥४॥
हिमवंतं नगश्रेष्ठममात्य न्यस्तराज्यधूः ॥
जगाम यशसां राशिरुद्दिधीर्षुः पितामहान् ॥५॥
ब्रह्मशापाग्निनिर्दग्धान्महादुर्गतिगानपि ॥
विना त्रिमार्गगां विष्णो को जंतूंस्त्रिदिवं नयेत् ॥६॥
ममैव सा परामूर्तिस्तोयरूपा शिवात्मिका ॥
ब्रह्मांडानामनेकानामाधारः प्रकृतिः परा ॥७॥
शुद्धविद्यास्वरूपा च त्रिशक्तिः करुणात्मिका ॥
आनंदामृतरूपा च शुद्धधर्मस्वरूपिणी ॥८॥
यामेतां जगतां धात्रीं धारयामि स्वलीलया ॥
विश्वस्य रक्षणार्थाय परब्रह्मस्वरूपिणीम् ॥९॥
त्रैलोक्ये यानि तीर्थानि पुण्यक्षेत्राणि यानि च ॥
सर्वत्र सर्वे ये धर्माः सर्वयज्ञाः सदक्षिणाः ॥१०॥
तपांसि विष्णो सर्वाणि श्रुतिः सांगा चतुर्विधा ॥
अहं च त्वं च कश्चापि देवतानां गणाश्च ये ॥११॥
पुरुषार्थाश्च सर्वे वै शक्तयो विविधाश्च याः ॥
गंगायां सर्व एवैते सूक्ष्मरूपेण संस्थिताः ॥१२॥
स स्नातः सर्वतीर्थेषु सर्वक्रतुषु दीक्षितः ॥
चीर्णसर्वव्रतः सोपि यस्तु गंगां निषेवते ॥१३॥
तपांसि तेन तप्तानि सर्वदानप्रदः स च ॥
स प्राप्त योगनियमो यस्तु गंगां निषेवते ॥१४॥
सर्ववर्णाश्रमेभ्यश्च वेदविद्भ्यश्च वै तथा ॥
शास्त्रार्थपारगेभ्यश्च गंगास्नायी विशिष्यते ॥१५॥
मनोवाक्कायजैर्दोषैर्दुष्टो बहुविधैरपि ॥
वीक्ष्य गंगां भवेत्पूतः पुरुषो नात्र संशयः ॥१६॥
कृते सर्वत्र तीर्थानि त्रेतायां पुष्करं परम् ॥
द्वापरे तु कुरुक्षेत्रं कलौ गंगैव केवलम् ॥१७॥
पूर्वजन्मांतराभ्यास वासनावशतो हरे ॥
गंगातीरे निवासः स्यान्मदनुग्रहतः परात् ॥१८॥
ध्यानं कृते मोक्षहेतुस्त्रेतायां तच्च वै तपः ॥
द्वापरे तद्द्वयं यज्ञाः कलौ गंगैव केवलम् ॥१९॥
यो देहपतनाद्यावद्गंगातीरं न मुंचति ॥
स हि वेदांतविद्योगी ब्रह्मचर्यव्रती सदा ॥२०॥
कलौ कलुषचित्तानां परद्रव्यरतात्मनाम् ॥
विधिहीनक्रियाणां च गतिर्गंगा विना नहि ॥२१॥
अलक्ष्मीः कालकर्णी च दुःस्वप्नो दुर्विचिंतितम् ॥
गंगागंगेति जपनात्तानि नोपविशंति हि ॥२२॥
गंगा हि सर्वभूतानामिहामुत्र फलप्रदा ॥
भावानुरूपतो विष्णो सदा सर्वजगद्धिता ॥२३॥
यज्ञ दान तपो योग जपाः सनियमा यमाः ॥
गंगासेवासहस्रांशं न लभंते कलौ हरे ॥२४॥
किमष्टांगेन योगेन किं तपोभिः किमध्वरैः ॥
वास एव हि गंगायां ब्रह्मज्ञानस्य कारणम् ॥२५॥
अपि दूरस्थितस्यापि गंगामाहात्म्यवेदिनः ॥
अयोग्यस्यापि गोविंदभक्त्या गंगा प्रसीदति ॥२६॥
श्रद्धा धर्मः परः सूक्ष्मः श्रद्धा ज्ञानं परं तपः ॥
श्रद्धा स्वर्गश्च मोक्षश्च श्रद्धया सा प्रसीदति ॥२७॥
अज्ञानरागलोभाद्यैः पुंसां संमूढचेतसाम् ॥
श्रद्धा न जायते धर्मे गंगायां च विशेषतः ॥२८॥
बहिः स्थितं जलंयद्वन्नारिकेलांतरे स्थितम् ॥
तथा ब्रह्मांडबाह्यस्थं परब्रह्मांबु जाह्नवी ॥२९॥
गंगालाभात्परो लाभः क्वचिदन्यो न विद्यते ॥
तस्माद्गंगामुपासीत गंगैव परमः पुमान् ॥३०॥
शक्तस्य पंडितस्यापि गुणिनो दानशीलिनः ॥
गंगास्नानविहीनस्य हरे जन्म निरर्थकम् ॥३१॥
वृथा कुल वृथा विद्या वृथा यज्ञा वृथातपः ॥
वृथा दानानि तस्येह कलौ गंगां न यो भजेत् ॥३२॥
गुणवत्पात्रपूजायां न स्याद्वै तादृशं फलम् ॥
यथा गंगाजलस्नान पूजने विधिना फलम् ॥३३॥
ममतेजोग्निगर्भेयं ममवीर्यातिसंवृता ॥
दाहिका सर्वदोषाणां सर्वपापविनाशिनी ॥३४॥
स्मरणादेव गंगायाः पापसंघातपंजरम् ॥
शतधा भेदमायाति गिरिर्वज्रहतो यथा ॥३५॥
गंगां गच्छति यस्त्वेको यस्तु भक्त्यानुमोदयेत् ॥
तयोस्तुल्यफलं प्राहुर्भक्तिरेवात्र कारणम् ॥३६॥
गच्छंस्तिष्ठञ्जपन्ध्यान्भुंजञ्जाग्रत्स्वपन्वदन् ॥
यः स्मरेत्सततं गंगां स हि मुच्येत बंधनात् ॥३७॥
पितॄनुद्दिश्य योभक्त्या पायसं मधुसंयुतम् ॥
गुडसर्पिस्तिलैःसार्धं गंगांभसि विनिक्षिपेत् ॥३८॥
तृप्ता भवंति पितरस्तस्य वर्षशतं हरे ॥
यच्छंति विविधान्कामान्परितुष्टाः पितामहाः ॥३९॥
लिंगे संपूजिते सर्वमर्चितं स्याज्जगद्यथा ॥
गंगास्नानेन लभते सर्वतीर्थफलं तथा ॥४०॥
गंगायां तु नरः स्नात्वा यो लिंगं नित्यमर्चति ॥
एकेन जन्मना मुक्तिं परां प्राप्नोति स ध्रुवम् ॥४१॥
अग्निहोत्रं च यज्ञाश्च व्रतदानतपांसि च ॥
गंगायां लिंगपूजायाः कोट्यंशेनापि नो समाः ॥४२॥
गंगां गंतुं विनिश्चित्य कृत्वा श्राद्धादिकं गृहे ॥
स्थितस्य सम्यक्संकल्पात्तस्य नंदंति पूर्वजाः ॥४३॥
पापानि च रुदंत्याशु हा क्व यास्याम इत्यलम् ॥
लोभमोहादिभिः सार्धं मंत्रयंति पुनःपुनः ॥४४॥
यथा न गंगां यात्येष तथा विघ्नं प्रकुर्महे ॥
गंगां गतो यथा चैष न उच्छित्तिं विधास्यति ॥४५॥
गृहाद्गंगावगाहार्थं गच्छतस्तु पदेपदे ॥
निराशानि व्रजंत्येव पापान्यस्य शरीरतः ॥४६॥
पूर्वजन्मकृतैः पुण्यैस्त्यक्त्वा लोभादिकं हरे ॥
व्युदस्य सर्वविघ्नौघान्गंगां प्राप्नोति पुण्यवान् ॥४७॥
अनुषंगेण मौल्येन वाणिज्येनापि सेवया ॥
कामासक्तोपि वा मर्त्यो गंगास्नातो दिवं व्रजेत् ॥४८॥
अनिच्छयापि संस्पृष्टो दहनो हि यथा दहेत् ॥
अनिच्छयापि संस्नाता गंगा पापं तथा दहेत् ॥४९॥
तावद्धमति संसारे यावद्गंगां न सेवते ॥
संसेव्य गंगां नो जंतुर्भवक्लेशं प्रपश्यति ॥५०॥
यो गंगांभसि निस्नातो भक्त्या संत्यक्तसंशयः ॥
मनुष्यचर्मणा नद्धः स देवो नात्र संशयः ॥५१॥
गंगास्नानार्थमुद्युक्तो मध्येमार्गं मृतो यदि ॥
गंगास्नानफलं सोपि तदाप्नोति न संशयः ॥५२॥
माहात्म्यं ये च गंगायाः शृण्वंति च पठंति च ॥
तेप्यशेषैर्महापापैर्मुच्यंते नात्र संशयः ॥५३॥
दुर्बुद्धयो दुराचारा हैतुका बहुसंशयाः ॥
पश्यंति मोहिता विष्णो गंगामन्य नदीमिव ॥५४॥
जन्मांतरकृतैर्दानैस्तपोभिर्नियमैर्व्रतैः ॥
इह जन्मनि गंगायां नृणां भक्तिः प्रजायते ॥५५॥
गंगाभक्तिमतामर्थे महेंद्रादि पुरेषु च ॥
हर्म्याणि रम्यभोगानि निर्मितानि स्वयंभुवा ॥५६॥
सिद्धयः सिद्धिलिंगानि स्पर्शलिंगान्यनेकशः ॥
प्रासादा रत्नरचिताश्चिंतामणिगणा अपि ॥५७॥
गंगाजलांतस्तिष्ठंति कलिकल्मषभीतितः ॥
अतएव हि संसेव्या कलौ गंगेष्टसिद्धिदा ॥५८॥
सूर्योदये तमांसीव वज्रपातभयान्नगाः ॥
तार्क्ष्येक्षणाद्यथासर्पा मेघा वाताहता इव ॥५९॥
तत्त्वज्ञानाद्यथा मोहः सिंहं दृष्ट्वा यथा मृगाः ॥
तथा सर्वाणि पापानि यांति गंगेक्षणात्क्षयम् ॥६०॥
दिव्यौषधैर्यथा रोगा लोभेन च यथा गुणाः ॥
यथा ग्रीष्मोष्मसंपत्तिरगाधह्रद मज्जनात् ॥६१॥
तूलशैलः स्फुलिंगेन यथा नश्यति तत्क्षणात् ॥
तथा दोषाः प्रणश्यंति गंगांभः स्पर्शनाद्ध्रुवम् ॥६२॥
क्रोधेन च तपो यद्वत्कामेन च यथा मतिः ॥
अनयेन यथा लक्ष्मीर्विद्या मानेन वै यथा ॥६३॥
दंभ कौटिल्य मायाभिर्यथाधर्मो विनश्यति ॥
तथा नश्यंति पापानि गंगाया दर्शनेन तु ॥६४॥
मानुष्यं दुर्लभं प्राप्य विद्युत्संपातचंचलम् ॥
गंगां यः सेवते सोत्र बुद्धेः पारं परं गतः ॥६५॥
विधूतपापा ये मर्त्याः परं ज्योतिःस्वरूपिणीम् ॥
सहस्रसूर्यप्रतिमां गंगां पश्यंति ते भुवि ॥६६॥
साधारणांभसा पूर्णां साधारण नदीमिव॥
पश्यंति नास्तिका गंगां पापोपहतलोचनाः ॥६७॥
संसारमोचकश्चाहं जनानामनुकंपया ॥
गंगातरंगरूपेण सोपानं निर्ममे दिवः ॥६८॥
सर्व एव शुभः कालः सर्वो देशस्तथा शुभः ॥
सर्वो जनो दानपात्रं श्रीमती जाह्नवी तटे ॥६९॥
यथाश्वमेधो यज्ञानां नगानां हिमवान्यथा ॥
व्रतानां च यथा सत्यं दानानामभयं यथा ॥७०॥
प्राणायामश्च तपसां मंत्राणां प्रणवो यथा ॥
धर्माणामप्यहिंसा च काम्यानां श्रीर्यथा वरा ॥७१॥
यथात्मविद्या विद्यानां स्त्रीणां गौरी यथोत्तमा ॥
सर्वर्दवेगणानां च यथा त्वं पुरुषोत्तम ॥। ७२॥
सर्वषामेव पात्राणां शिवभक्तो यथा वरः ॥
तथा सर्वेषु तीर्थेषु गंगातीर्थं विशिष्यते ॥७३॥
हरेयश्चावयोर्भेदं न करोति महामतिः ॥
शिवभक्तः स विज्ञेयो महापाशुपतश्च सः ॥७४॥
पापपांसुमहावात्या पापद्रुमकुठारिका ॥
पापेंधनदवाग्निश्च गंगेयं पुण्यवाहिनी ॥७५॥
नानारूपाश्च पितरो गाथा गायंति सर्वदा ॥
अपि कश्चित्कुलेस्माकं गंगास्नायी भविष्यति ॥७६॥
देवर्षीन्परिसंतर्प्य दीनानाथांश्च दुःखितान् ॥
श्रद्धया विधिना स्नात्वा दास्यते सलिलांजलिम् ॥७७॥
अपि नः स कुले भूयाच्छिवे विष्णौ च साम्यदृक् ॥
तदालयकरो भक्त्या तस्य संमार्जनादिकृत् ॥७८॥
अकामो वा सकामो वा तिर्यग्योनिगतोपि वा ॥
गंगायां यो मृतो मर्त्यो नरकं स न पश्यति ॥७९॥
तीर्थमन्यत्प्रशंसंति गंगातीरे स्थिताश्च ये ॥
गंगां न बहु मन्यंते ते स्युर्निरयगामिनः ॥८०॥
मां च त्वां चैव यो द्वेष्टि गंगां च पुरुषाधमः॥
स्वकीयैः पुरुषैः सार्धं स घोरं नरकं व्रजेत् ॥८१॥
षष्टिर्गणसहस्राणि गंगां रक्षंति सर्वदा ॥
अभक्तानां च पापानां वासे विघ्नं प्रकुर्वते ॥८२॥
कामक्रोधमहामोहलोभादि निशितैः शरैः ॥
घ्नंति तेषां मनस्तत्र स्थितिं चापनयंति च ॥८३॥
गंगां समाश्रयेद्यस्तु स मुनिः स च पंडितः ॥
कृतकृत्यः स विज्ञेयः पुरुषार्थचतुष्टये ॥८४॥
गंगायां च सकृत्स्नातो हयमेधफलं लभेत् ॥
तर्पयंश्च पितॄंस्तत्र तारयेन्नरकार्णवात् ॥८५॥
नैरंतर्येण गंगायां मासं यः स्नाति पुण्यवान् ॥
शक्रलोके स वसति यावच्छक्रः सपूर्वजः ॥८६॥
अब्दं यः स्नाति गंगायां नैरंतर्येण पुण्यभाक् ॥
विष्णोर्लोकं समासाद्य स सुखं संवसेन्नरः ॥८७॥
गंगायां स्नाति यो मर्त्यो यावज्जीवं दिनेदिने ॥
जीवन्मुक्तः स विज्ञेयो देहांते मुक्त एव सः ॥८८॥
तिथिनक्षत्रपर्वादि नापेक्ष्यं जाह्नवी जले ॥
स्नानमात्रेण गंगायां संचिताघं विनश्यति ॥८९॥
पंडितोपि स मूर्खः स्याच्छक्तियुक्तोप्यशक्तिकः ॥
यस्तु भागीरथीतीरं सुखसेव्यं न संश्रयेत् ॥९०॥
किंवायुपाप्यरोगेण विकासिन्याथ किं श्रिया ॥
किं वा बुद्ध्या विमलया यदि गंगां न सेवते ॥९१॥
यः कारयेदायतनं गंगाप्रतिकृतेर्नरः ॥
भुक्त्वा स भोगान्प्रेत्यापि याति गंगा सलोकताम् ॥९२॥
शृण्वंति महिमानं ये गंगाया नित्यमादरात् ॥
गंगास्नानफलं तेषां वाचकप्रीणनाद्धनैः ॥९३॥
पितॄनुद्दिश्य यो लिंगं स्नपयेद्गांग वारिणा ॥
तृप्ताः स्युस्तस्य पितरो महानिरयगा अपि ॥९४॥
अष्टकृत्वो मंत्रजप्तैर्वस्त्रपूतैः सुगंधिभिः ॥
प्रोचुर्गांगजलैः स्नानं घृतस्नानाधिकं बुधाः ॥९५॥
अष्टद्रव्यविमिश्रेण गंगातोयेन यः सकृत् ॥
मागधप्रस्थमात्रेण ताम्रपात्रस्थितेन च ॥९६॥
भानवेऽर्घं प्रदद्याच्च स्वकीय पितृभिः सह ॥
सोतितेजो विमानेन सूर्यलोके महीयते ॥९७॥
आपः क्षीरं कुशाग्राणि घृतं मधुगवांदधि ॥
रक्तानि करवीराणि रक्तचंदनमित्यपि ॥९८॥
अष्टांगार्घो यमुद्दिष्टस्त्वतीव रवितोषणः ॥
गांगैर्वार्भिः कोटिगुणो ज्ञेयो विष्णोऽन्यवारितः ॥९९॥
गंगातीरे स्वशक्त्या यः कुर्याद्देवालयं सुधीः ॥
अन्यतीर्थप्रतिष्ठातो भवेत्कोटिगुणं फलं ॥१००॥
अश्वत्थवटचूतादि वृक्षारोपेण यत्फलम् ॥
कूपवापीतडागादि प्रपा सत्रादिभिस्तथा ॥१॥
अन्यत्र यद्भवेत्पुण्यं तद्गंगादर्शनाद्भवेत् ॥
पुष्पवाट्यादिभिश्चापि गंगास्पर्शं ततोऽधिकम् ॥२॥
कन्यादानेन यत्पुण्यं यत्पुण्यं गोऽन्नदानतः ॥
तत्पुण्यं स्याच्छतगुणं गंगागंडूषपानतः ॥३॥
चांद्रायणसहस्रेण यत्पुण्यं स्याज्जनार्दन ॥
ततोऽधिकफलं गंगाऽमृतपानादवाप्नुयात् ॥४॥
भक्त्या गंगावगाहस्य किमन्यत्फलमुच्यते ॥
अक्षयः स्वर्गवासोपि निर्वाणमथवा हरे ॥५॥
गंगायाः पादुकायुग्मं नित्यमर्चति यो नरः ॥
आयुः पुण्यं धनं पुत्रान्स्वर्गमोक्षौ च विंदति ॥६॥
नास्ति गंगासमं तीर्थं कलिकल्मषनाशनम् ॥
नास्ति मुक्तिप्रदं क्षेत्रमविमुक्तसमं हरे ॥७॥
गंगास्नानरतं मर्त्यं दृष्ट्वैव यमकिकराः ॥
दिशो दश पलायंते सिंहं दृष्ट्वा यथा मृगाः ॥८॥
गंगाभजनशीलस्य गंगातटनिवासिनः ॥
अर्चां कृत्वा यथान्यायमश्वमेधफलं लभेत् ॥९॥
गोभूहिरण्यदानेन भक्त्या गंगातटे शुभे ॥
नरो न जायते भूयः संसारे दुःखकंटके ॥११०॥
दीर्घायुष्यं च वासोभिर्ज्ञानं पुस्तकदानतः ॥
अन्नदानेन संपत्तिं कीर्तिं कन्याप्रदानतः ॥११॥
अन्यत्र यत्कृतं कर्म व्रतं दानं जपस्तपः ॥
गंगातटे तु तत्सर्वं हरे कोटिगुणं भवेत् ॥१२॥
धेनुं सवत्सा यो दद्याद् गंगातीरे विधानतः ॥
गोरोमसंख्यया विष्णो युगान्सर्वसमृद्धिमान् ॥१३॥
गोलोके मम लोके वा कामधेनुप्रदानतः ॥
भुंजानः सर्वकामांस्तु दिव्यान्नानाविधान्बहून् ॥१४॥
देवानामप्यलभ्यांश्च भुक्त्वा तु सह बांधवैः ॥
पितृभिश्च सुहृद्भिश्च सर्वरत्नविभूषितः ॥१५॥
जायते सत्कुले पश्चाद्धनधान्यसमाकुले ॥
रत्नकांचनसंपन्ने शीलविद्यासमन्विते ॥१६॥
भुक्त्वा स विपुलान्भोगान्पुत्रपौत्रसमन्वितः ॥
पुनर्गंगां समासाद्य काश्यामुत्तरवाहिनीम् ॥१७॥
विश्वेश्वरं समाराध्य प्राग्जनुर्वासनावशात् ॥
कालाद्देहांतमासाद्य ब्रह्म संपद्यते ततः ॥१८॥
विवर्तनद्वयमपि भूमेर्भागीरथीतटे ॥
नरो ददाति यो भक्त्या तस्य पुण्यफलं शृणु ॥१९॥
तद्भूमित्रसरेणूनां संख्यया युगमानया ॥
महेंद्र चंद्रलोकेषु भुक्त्वा भोगान्मनःप्रियान् ॥१२०॥
सप्तद्वीपपतिर्भूत्वा महाधर्मपरायणः ॥
नरकस्थान्पितॄन्सर्वान्प्रापयेत्त्रिदिवं हरे ॥२१॥
स्वर्गस्थांश्च पितॄन्सर्वान्मोचयित्वा महाद्युतिः ॥
अंते ज्ञानासिना छित्त्वा ह्यविद्यां पांचभौतिकीम् ॥२२॥
परवैंराग्यमापन्नो युंजानो योगमुत्तमम् ॥
प्राप्याथवा विमुक्तं च परं ब्रह्माधिगच्छति ॥२३॥
सुवर्णमात्रमपि यः सुवर्णं संप्रयच्छति ॥
सुवर्णाय सुवर्णं च हरे भागीरथीतटे ॥२४॥
स हेमरत्नखचिते विमाने सर्वगे शुभे ॥
सर्वैश्वर्यसमायुक्तः सर्वलोकेषु पूजितः ॥२५॥
ब्रह्मांडांतरसंस्थेषु भुंजन्भोगान्मनोरमान् ॥
सर्वैः संपूजितो विष्णो यावदाभूतसंप्लवम् ॥२०५॥
एकराट्च ततो भूत्वा जंबूद्वीपे प्रतापवान् ॥
ततोऽविमुक्तमासाद्य पदं निर्वाणमृच्छति ॥२७॥
जन्मर्क्षे तु कृते स्नाने गंगायां भक्तिपूर्वकम् ॥
जन्मप्रभृतिपापौघात्संचितान्मुच्यते क्षणात् ॥२८॥
वैशाखे कार्तिके माघे गंगास्नानं सुदुर्लभम् ॥
दर्शे शतगुणं पुण्यं संक्रातौ च सहस्रकम् ॥२९॥
चंद्रसूर्यग्रहे लक्षं व्यतीपातेत्वनंतकम् ॥
अयुतं विषुवे चैव नियुतं त्वयनद्वये ॥१३०॥
सोमग्रहः सोमदिने रविवाररवग्रहः ॥
तच्चूडामणिपर्वाख्यं तत्रस्नानमसंख्यकम् ॥३१॥
स्नानं दानं जपो होमो यद्यच्चूडामणौ कृतम् ॥
तदक्षयं सर्वमिह विष्णो भागीरथीतटे ॥३२॥
श्रद्धया भक्तियुक्तस्तु गंगां स्नात्वा विधानतः ॥
ब्रह्महापि विशुद्ध्येत किंपुनस्त्वन्य पातकी ॥३३॥
कृमिकीटपतंगाद्या ये मृता जाह्नवीतटे ॥
कूलात्पतंति ये वृक्षास्तेपि यांति परां गतिम् ॥३४॥
ज्येष्ठे मासि सिते पक्षे दशम्यां हस्तसंयुते ॥
गंगातीरे तु पुरुषो नारी वा भक्तिभावतः ॥. ३५॥
निशायां जागरं कुयाद्गंगां दशविधैर्हरे ॥
पुष्पैः सुगंधैर्नैवेद्यैः फलैर्दशदशोन्मितैः ॥३६॥
प्रदीपैर्दशभिर्धूपैर्दशांगैर्गरुडध्वज ॥
पूजयेच्छ्रद्धया धीमान्दशकृत्वो विधानतः ॥३७॥
साज्यांस्तिलान्क्षिपेत्तोये गंगायाः प्रसृतीर्दश ॥
गुडसक्तुमयान्पिंडान्दद्याच्च दशमंत्रतः ॥३८॥
नमः शिवायै प्रथमं नारायण्यै पदं ततः ॥
दशहरायै पदमिति गंगायै मंत्र एष वै ॥३९॥
स्वाहांतः प्रणावादिश्च भवेद्विंशाक्षरो मनुः ॥
पूजादानं जपो होमो ऽनेनैव मनुना स्मृतः ॥१४०॥
हेम्ना रूप्येण वा शक्त्या गंगामूर्तिं विधाय च ॥
वस्त्राच्छादितवक्त्रस्य पूर्णकुंभस्य चोपरि ॥४१॥
प्रतिष्ठाप्यार्चयेद्देवीं पंचामृतविशोधिताम् ॥
चतुर्भुजां त्रिनेत्रां च नदीनदनिषेविताम् ॥४२॥
लावण्यामृतनिष्पंद संशीलद्गात्रयष्टिकाम् ॥
पूर्णकुंभसितांभोज वरदाभयसत्कराम् ॥४३॥
ततो ध्यायेत्सुसौम्या च चंद्रायुतसमप्रभाम् ॥
चामरैर्वीज्यमानां च श्वेतच्छत्रोपशोभिताम ॥४४॥
सुधाप्लावितभूपृष्ठां दिव्यगंधानुलेपनाम् ॥
त्रैलौक्यपूजितपदां देवर्षिभिरभिष्टुताम् ॥४५॥
ध्यात्वा समर्च्य मंत्रेण धूपदीपोपहारतः ॥
मां च त्वां च विधिं ब्रध्नं हिमवंतं भगीरथम् ॥४६॥
प्रतिमाग्रे समभ्यर्च्य चंदनाक्षतनिर्मितान् ॥
दशप्रस्थतिलान्दद्याद्दशविप्रेभ्य आदरात् ॥४७॥
पलं च कुडवः प्रस्थ आढको द्रोण एव च ॥
धान्यमानेन बोद्धव्याः क्रमशोमी चतुर्गुणाः ॥४८॥
मत्स्य कच्छप मंडूक मकरादि जलेचरान् ॥
हंसकारंडव बक चक्रटिट्टिभसारसान् ॥४९॥
यथाशक्ति स्वर्णरूप्य ताम्रपृष्ठविनिर्मितान् ॥
अभ्यर्च्य गंधकुसुमैर्गंगायां प्रक्षिपेद्व्रती ॥१५०॥
एवं कृत्वा विधानेन वित्तशाठ्यं विवर्जितः ॥
उपवासी वक्ष्यमाणैर्दशपापैः प्रमुच्यते ॥५१॥
अदत्तानामुपादानं हिंसाचैवाविधानतः ॥
परदारोपसेवा च कायिकं त्रिविधं स्मृतम् ॥५२॥
पारुष्यमनृतं चैव पैशुन्यं चैव सर्वशः ॥
असंबद्ध प्रलापश्च वाङ्मयंस्याच्चतुर्विधम् ॥५३॥
परद्रव्येष्वभिध्यानं मनसानिष्टचिंतनम् ॥
वितथाभिनिवेशश्च मानसं त्रिविधं स्मृतम् ॥५४॥
एतैर्दशविधैः पापैर्दशजन्मसमुद्भवैः ॥
मुच्यते नात्र संदेहः सत्यं सत्यं गदाधर ॥५५॥
उत्तरेन्नरकात्पूर्वान्दशघोराद्दशावरान् ॥
वक्ष्यमाणमिदं स्तोत्रं गंगाग्रे श्रद्धया जपेत् ॥५६॥
ॐ नमः शिवायै गंगायै शिवदायै नमोनमः ॥
नमस्ते विष्णुरूपिण्यै ब्रह्ममूर्त्त्यै नमोस्तु ते ॥५७॥
नमस्ते रुद्ररूपिण्यै शांकर्यै ते नमोनमः ॥
सर्वदेवस्वरूपिण्यै नमो भेषजमूर्त्तये ॥५८॥
सर्वस्यसर्वव्याधीनां भिषक्श्रेष्ठ्यै नमोस्तु ते ॥
स्थास्नुजंगमसंभूत विषहंत्र्यै नमोस्तु ते ॥५९॥
संसारविषनाशिन्यै जीवनायै नमोस्तु ते ॥
तापत्रितय संहंत्र्यै प्राणेश्यै ते नमोनमः ॥१६०॥
शांति संतानकारिण्यै नमस्ते शुद्धमूर्तये ॥
सर्वसंशुद्धिकारिण्यै नमः पापारिमूर्तये ॥६१॥
भुक्तिमुक्तिप्रदायिन्यै भद्रदायै नमोनमः ॥
भोगोपभोगदायिन्यै भोगवत्यै नमोस्तु ते ॥६२॥
मंदाकिन्यै नमस्तेस्तु स्वर्गदायै नमोनमः ॥
नमस्त्रैलोक्यभूषायै त्रिपथायै नमोनमः ॥६३॥
नमस्त्रिशुक्लसंस्थायै क्षमावत्यै नमोनमः ॥
त्रिहुताशनसंस्थायै तेजोवत्यै नमोनमः ॥६४॥
नंदायै लिंगधारिण्यै सुधाधारात्मने नमः ॥
नमस्ते विश्वमुख्यायै रेवत्यै ते नमोनमः ॥६५॥
बृहत्यै ते नमस्तेस्तु लोकधात्र्यै नमोस्तु ते ॥
नमस्ते विश्वमित्रायै नंदिन्यै ते नमोनमः ॥६६॥
पृथ्व्यै शिवामृतायै च सुवृषायै नमोनमः ॥
परापरशताढ्यायै तारायै ते नमोनमः ॥६७॥
पाशजालनिकृंतिन्यै अभिन्नायै नमोस्तु ते ॥
शांतायै च वरिष्ठायै वरदायै नमोनमः ॥६८॥
उग्रायै सुखजग्ध्यै च संजीविन्यै नमोस्तु ते ॥
ब्रह्मिष्ठायै ब्रह्मदायै दुरितघ्न्यै नमोनमः ॥६९॥
प्रणतार्ति प्रभंजिन्यै जगन्मात्रे नमोस्तुते ॥
सर्वापत्प्रतिपक्षायै मंगलायै नमोनमः ॥१७०॥
शरणागतदीनार्त परित्राणपरायणे ॥
सर्वस्यार्ति हरे देवि नारायणि नमोस्तु ते ॥७१॥
निर्लेपायै दुर्गहंत्र्यै दक्षायै ते नमोनमः ॥
परापरपरायै च गंगे निर्वाणदायिनि ॥७२॥
गंगे ममाग्रतो भूया गंगे मे तिष्ठ पृष्ठतः ॥
गंगे मे पार्श्वयोरेधि गंगे त्वय्यस्तु मे स्थितिः ॥७३ ॥
आदौ त्वमंते मध्ये च सर्वं त्वं गां गते शिवे ॥
त्वमेव मूलप्रकृतिस्त्वं पुमान्पर एव हि ॥
गंगे त्वं परमात्मा च शिवस्वतुभ्यं नमः शिवे ॥७४॥
य इदं पठते स्तोत्रं शृणुयाच्छ्रद्धयापि यः ॥
दशधा मुच्यते पापैः कायवाक्चित्तसंभवैः ॥७५॥
रोगस्थो रोगतो मुच्येद्विपद्भ्यश्च विपद्युतः ॥
मुच्यते बंधनाद्बद्धो भीतो भीतः प्रमुच्यते ॥७६॥
सर्वान्कामानवाप्नोति प्रेत्य च त्रिदिवं व्रजेत् ॥
दिव्यं विमानमारुह्य दिव्यस्त्रीपरिवीजितः ॥७७॥
गृहेपि लिखितं यस्य सदा तिष्ठति धारितम ॥
नाग्निचोरभयं तस्य न सर्पादि भयं क्वचित ॥७८॥
ज्येष्ठे मासे सिते पक्षे दशमी हस्तसंयुता ॥
संहरेत्त्रिविधं पापं बुधवारेण संयुता ॥७९॥
तस्यां दशम्यामेतच्च स्तोत्रं गंगाजले स्थितः ॥
यः पठेद्दशकृत्वस्तु दरिद्रो वापि चाक्षमः ॥१८० ॥
सोपि तत्फलमाप्नोति गंगां संपूज्य यत्नतः ॥
पूर्वोक्तेन विधानेन यत्फलं संप्रकीर्तितम ॥८१॥
यथा गौरी तथा गंगा तस्माद्गौर्यास्तु पूजने ॥
यो विधिर्विहितः सम्यक्सोपि गंगाप्रपूजने ॥८२॥
यथाऽहं त्वं तथा विष्णो यथा त्वं तु तथाह्युमा ॥
उमा यथा तथा गंगा चतूरूपं न भिद्यते ॥८३॥
विष्णुरुद्रां तरं चैव श्रीगौर्योरंतरं तथा ॥
गंगागौर्यंतरं चैव यो ब्रूते मूढधीस्तु सः ॥८४॥
इति श्रीस्कांदे महापुराणे एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे गंगामहिमवर्णनपूर्वक दशहरा स्तोत्रकथनंनाम सप्तविंशतितमोऽध्यायः ॥२७॥
N/A
References : N/A
Last Updated : November 25, 2024
TOP