संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|काशीखण्ड|
अध्याय ५५

काशीखण्डः - अध्याय ५५

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ स्कंद उवाच ॥
अन्येपि ये गणास्तत्र काश्यां लिंगानि चक्रिरे ॥
तांश्च ते कथयिष्यामि कुंभयोने निशामय ॥१॥
गणेन पिंगलाख्येन पिंगलाख्येशसंज्ञितम् ॥
लिंगं प्रतिष्ठितं शंभोः कपर्दीशादुदग्दिशि ॥२॥
तस्य दर्शनमात्रेण पापानां जायते क्षयः ॥
वीरभद्रो महाप्रीतो देवदेवस्य शूलिनः ॥३॥
वीरभद्रेश्वरं लिंगं ध्यायेदद्यापि निश्चलः ॥
तस्य दर्शनमात्रेण वीरसिद्धिः प्रजायते ॥४॥
अविमुक्तेश्वरात्पश्चाद्वीरभद्रेश्वरं नरः ॥
समर्च्य न रणे भंगं कदाचिदपि चाप्नुयात् ॥५॥
वीरभद्रः स्वयं साक्षाद्वीरमूर्तिधरो मुने ॥
संहरेद्विप्रसंघातमविमुक्तनिवासिनाम ॥६॥
भद्रया भद्रकाल्या च भार्यया शुभया युतम् ॥
वीरभद्रं नरोभ्यर्च्य काशीवासफलं लभेत् ॥७॥
किरातेन किरातेशं लिंगं काश्यां प्रतिष्ठितम् ॥
केदाराद्दक्षिणे भागे भक्तानामभयप्रदम् ॥८॥
चतुर्मुखो गणः श्रीमान्वृद्धकालेश सन्निधौ ॥
चतुर्मुखेश्वरं लिंगं ध्यायेदद्यापि निश्चलः ॥९॥
भक्ताश्चतुर्मुखेशस्य चतुराननवद्दिवि ॥
पूज्यंते सुरसंघातैः सर्वभोगसमन्विताः॥१ ०॥
निकुंभेश्वरमालोक्य निकुंभगणपूजितम् ॥
पूजयित्वा व्रजन्ग्रामं कार्यसिद्धिमवाप्नुयात् ॥
कुबेरेश समीपेतु शिवलोके महीयते ॥११॥
पंचाक्षेशं महालिंगं महादेवस्य दक्षिणे ॥
समभ्यर्च्य नरः काश्यां जातिस्मृतिमवाप्नुयात् ॥१२॥
भारभूतेश्वरं लिंगं भारभूतगणार्चितम्॥
अंतर्गृहोत्तरद्वारि ध्यात्वा शिवपुरे वसेत् ॥१३॥
भारभूतेश्वरं लिंगं यैः काश्यां न विलोकितम् ॥
भारभूताः पृथिव्यास्तेऽवकेशिन इव द्रुमाः ॥१४॥
गणेन त्र्यक्षसंज्ञेन लिंगं त्र्यक्षेश्वरं परम् ॥
त्रिलोचनपुरोभागे शील्येताद्यापि कुंभज ॥१५॥
तस्य लिंगस्य ये भक्तास्ते तु देहावसानतः ॥
त्र्यक्षा एव प्रजायंते नात्र कार्या विचारणा ॥१६॥
क्षेमको नाम गणपः काश्यां मूर्तिधरः स्वयम् ॥
विश्वेश्वरं सर्वगतं ध्यायेदद्यापि निश्चलः ॥१७॥
क्षेमकं पूजयेद्यस्तु वाराणस्यां महागणम् ॥
विघ्नास्तस्य प्रलीयंते क्षेमं स्याच्च पदेपदे ॥१८॥
देशांतरं गतो यस्तु तस्यागमनकाम्यया ॥
क्षेमकं पूजनीयोत्र क्षेमेणाशु स आव्रजेत् ॥१९॥
लांगलीश्वरमालोक्य लिंगं लांगलिनार्चितम् ॥
विश्वेशादुत्तरेभागे न नरो रोगभाग्भवेत् ॥२०॥
लांगलीशं सकृत्पूज्य पंचलांगलदानजम् ॥
फलं प्राप्नोत्यविकलं सर्वसंपत्करं परम् ॥२१॥
विराधेश्वरमाराध्य विराधगणपूजितम्॥
सर्वापराधयुक्तोपि नापराध्यति कुत्रचित् ॥२२॥
दिनेदिनेपराधो यः क्रियते काशिवासिभिः ॥
स याति संक्षयं क्षिप्रं विराधेश समर्चनात् ॥२३॥
नैर्ऋते दंढपाणस्तु विराधेशं प्रयत्नतः॥
नत्वा सर्वापराधेभ्यो मुच्यते नात्र संशयः ॥२४॥
सुमुखेशं महालिंगं सुमुखाख्यगणार्चितम् ॥
पश्चिमाभिमुखं लिंगं दृष्ट्वा पापैः प्रमुच्यते ॥२५॥
स्नात्वा पिलिपिला तीर्थे सुमुखेशं विलोक्य च ॥
सदैव सुमुखं पश्येद्धर्मराजं न दुर्मुखम् ॥२६॥
आषाढिनार्चितं लिंगमाषाढीश्वरसंज्ञकम् ॥
दृष्ट्वाषाढयां नरो भक्त्या सर्वैः पापैः प्रमुच्यते ॥२७॥
उदीच्यां भारभूतेशादाषाढीशं समर्चयन् ॥
आषाढ्यां पंचदश्यां वै न पापैः परितप्यते ॥२८॥
शुचिशुक्लचतुर्दश्यां पंचदश्यामथापि वा ॥
कृत्वा सांवत्सरीं यात्रामनेना जायते नरः ॥२९॥
॥ स्कंद उवाच ॥
मुने गणेषु चैतेषु वाराणस्यां स्थितेष्विति ॥
स्वनाम्ना स्थाप्य लिंगानि विश्वेशपरितुष्टये ॥३०॥
विश्वेशश्चिंतयां चक्रे पुनः काशीप्रवृत्तये ॥
कं वा हितं प्रहित्याद्य निर्वृतिं परमां भजे ॥३१॥
योगिन्यस्तिग्मगुर्वेधाः शंकुकर्णमुखागणाः ॥
व्यावृत्त्यनागताः काश्याः सिंधुगा इव सिंधवः ॥३२॥
धुवं काश्यां प्रविष्टा ये ते प्रविष्टा ममोदरे ॥
तेषां विनिर्गमो नास्ति दीप्तेग्नौ हविषामिव ॥३३॥
येषां हि संस्थितिः काश्यां लिंगार्चनरतात्मनाम् ॥
त एव मम लिंगानि जंगमानि न संशयः ॥३४॥
स्थावरा जंगमाः काश्यामचेतनसचेतनाः ॥
सर्वे ममैव लिंगानि तेभ्यो द्रुह्यंति दुर्धियः ॥३५॥
वाचि वाराणसी येषां श्रुतौ वैश्वेश्वरी कथा ॥
त एव काशी लिंगानि वराण्यर्च्यान्यहं यथा ॥३६॥
वाराणसीति काशीति रुद्रावास इति स्फुटम् ॥
मुखाद्विनिर्गतं येषां तेषां न प्रभवेद्यमः ॥३७॥
आनंदकाननं प्राप्य ये निरानंदभूमिकाम् ॥
अन्यां हृदापि वांछंति निरानंदाः सदात्र ते ॥३८॥
अद्यैव वास्तुमरणं बहुकालांतरेपि वा॥
कलिकाल भिया पुंसां काशी त्याज्या न कर्हिचित् ॥३९॥
अवश्यंभाविनो भावा भविष्यंति पदेपदे ॥
सलक्ष्मीनिलयां काशीं ते त्यजंति कुतो धियः ॥४०॥
वरं विघ्नसहस्राणि सोढव्यानि पदेपदे ॥
काश्यां नान्यत्र निर्विघ्नं वांछेद्राज्यमपि क्वचित् ॥४१॥
कियन्निमेषसंभोग्याः संति लक्ष्म्याः पदेपदे ॥
परं निरंतरसुखाऽमुत्राप्यत्रापि का शिका ॥४२॥
विश्वनाथो ह्यहं नाथः काशिकामुक्तिकाशिका ॥
सुधातरंगा स्वर्गंगा त्रय्येषा किन्न यच्छति ॥४३॥
पंचक्रोश्यापरिमिता तनुरेषा पुरी मम ॥
अविच्छिन्नप्रमाणर्धिर्भक्तनिर्वाणकारणम् ॥४४॥
संसारभारखिन्नानां यातायातकृतां सदा ॥
एकैव मे पुरी काशी ध्रुवं विश्रामभृमिका ॥४५॥
मंडपः कल्पवल्लीनां मनोरथफलैरलम् ॥
फलितः काशिकाख्योयं संसाराध्वजुषां सदा ॥४६॥
चक्रवर्तेरियं छत्रं विचित्रं सर्वतापहृत् ॥
काशीनिर्वाणराजस्य ममशूलोच्च दंडवत् ॥४७॥
निर्वाणलक्ष्मीं ये पुण्याः परिवांछंति लीलया ॥
निरंतरसुखप्राप्त्यै काशी त्याज्या न तै नृभिः ॥४८॥
ममानंदवने ये वै निरं तर वनौकसः ॥
मोक्षलक्ष्मीफलान्यत्र सुस्वादूनि लभंति ते ॥४९॥
निर्ममं चापि निर्मोहं या मामपि विमोहयेत् ॥
कैर्न संस्मरणीया सा काशी विश्वविमोहिनी ॥५०॥
नामापि मधुरं यस्याः परानंदप्रकाशकम् ॥
काश्याः काशीति काशीति सा कैः पुण्यैर्न जप्यते ॥५१॥
काशीनामसुधापानं ये कुर्वंति निरंतरम् ॥
तेषां वर्त्म भवत्येव सुधाम वसुधामयम् ॥५२॥
ममतारहितस्यापि मम सर्वात्मनो ध्रुवम् ॥
त एव मामका लोके ये काशीनाम जापकाः ॥५३॥
रहस्यमिति विज्ञाय वाराणस्या गणेश्वरैः ॥
सब्रह्मयोगिनी ब्रध्रैः स्थितं तत्रैव नान्यथा ॥५४॥
अन्यथा ताश्च योगिन्यः सरविः सपितामहः ॥
ते गणा मां परित्यज्य कथं तिष्ठेयुरन्यतः ॥५५॥
अतीव भद्रं संजातं काश्यां तिष्ठत्सु तेषु हि ॥
एकोपि भेद प्रभवेद्राज्ये राज्यांतरं विना ॥५६॥
लब्धप्रवेशास्तावंतस्ते सर्वे मत्स्वरूपिणः ॥
यतिष्यंति यतोवश्यं मदागमनहेतवे ॥५७॥
अन्यानपि प्रेषयामि मत्पार्श्वपरिवर्तिनः ॥
ये ते तत्र स्थिताः श्रेष्ठा अपिगंतास्म्यहं ततः ॥५८॥
विचार्येति महादेवः समाहूय गजाननम् ॥
प्राहिणोत्कथयित्वेति गच्छ काशीमितः सुत ॥५९॥
तत्रस्थितोपि संसिद्धयै यतस्व सहितो गणैः ॥
निर्विघ्नं कुरु चास्माकं नृपे विघ्नं समाचर ॥६०॥
आधाय शासनं मूर्ध्नि गणाधीशोथ धूर्जटेः ॥
प्रतस्थे त्वरितः काशीं स्थितिज्ञः स्थितिहेतवे ॥६१॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंडे उत्तरार्द्धे काशीवर्णन गणेशप्रेषणं नाम पंचपंचाशत्तमोऽध्यायः ॥५५॥

N/A

References : N/A
Last Updated : November 27, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP