संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|काशीखण्ड| अध्याय ३४ काशीखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० विषयानुक्रमणिका काशीखण्डः - अध्याय ३४ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ३४ Translation - भाषांतर ॥ स्कंद उवाच ॥पुनर्ददर्श तन्वंगी चित्रपट्यां घटोद्भव ॥स्वर्गद्वारात्पुरोभागे श्रीमतीं मणिकर्णिकाम् ॥१॥संसारसर्पदष्टानां जंतूनां यत्र शंकरः ॥अपसव्येन हस्तेन ब्रूते ब्रह्मस्पृशञ्छ्रुतिम् ॥२॥न कापिलेन योगेन न सांख्येन न च व्रतैः ॥या गतिः प्राप्यते पुंभिस्तां दद्यान्मोक्षभूरियम् ॥३॥वैकुंठे विष्णुभवने विष्णुभक्तिपरायणाः ॥जपेयुः सततं मुक्त्यै श्रीमतीं मणिकर्णिकाम् ॥४॥हुत्वाग्निहोत्रमपि च यावज्जीवं द्विजोत्तमाः ॥अंते श्रयंते मुक्त्यै यां सेयं श्रीमणिकर्णिका ॥५॥वेदान्पठित्वा विधिवद्ब्रह्मयज्ञरता भुवि ॥यां श्रयंति द्विजा मुक्त्यै सेयं श्रीमणिकर्णिका ॥६॥इष्ट्वा क्रतूनपि नृपा बहून्पर्याप्तदक्षिणान् ॥श्रयंते श्रेयसे धन्याः प्रांतेऽधिमणिकर्णिकम् ॥७॥सीमंतिन्योपि सततं पतिव्रतपरायणाः ॥मुक्त्यै पतिमनुव्रज्य श्रयंति मणिकर्णिकाम् ॥८॥वैश्या अपि च सेवंते न्यायोपार्जितसंपदः ॥धनानि साधुसात्कृत्वा प्रांते श्रीमणिकर्णिकाम् ॥९॥त्यक्त्वा पुत्रकलत्रादि सच्छूद्रा न्यायमार्गगाः ॥निर्वाणप्राप्तये चैनां भजेयुर्मणिकर्णिकाम् ॥१०॥यावज्जीवं चरंतोपि ब्रह्मचर्य जितेंद्रियाः ॥निःश्रेयसे श्रयंत्येनां श्रीमतीं मणिकार्णकाम् ॥११॥अतिथीनपि संतर्प्य पंचयज्ञरता अपि ॥गृहस्थाश्रमिणो नेमां त्यजेयुर्मणिकर्णिकाम् ॥१२॥वानप्रस्थाश्रमयुजो ज्ञात्वा निर्वाणसाधनम् ॥सन्नियम्येंद्रियग्रामं मणिकर्णीमुपासते ॥१३॥अनन्यसाधनां मुक्तिं ज्ञात्वा शास्त्रैरनेकधा ॥मुमुक्षुभिस्त्वेकदंडैः सेव्यते मणिकर्णिका ॥१४॥दंडयित्वा मनोवाचं कायं नित्यं त्रिदंडिनः ॥नैःश्रेयसीं श्रियं प्राप्तुं श्रयंते मणिकर्णिकाम् ॥१५॥संन्यस्ताखिलकर्माणो दंडयित्वा चलं मनः ॥एकदंडव्रता मुक्त्यै भजेयुर्मणिकर्णिकाम् ॥१५॥शिखी मुंडी जटी वापि कौपीनी वा दिगंबरः ॥मुमुक्षुः को न सेवेत मुक्तिदां मणिकर्णिकाम् ॥१७॥ ।तपःकर्तुं न शक्ता ये दानं वा दातुमक्षमाः ॥योगाभ्यास विहीना ये तेषामेषा विमुक्तिदा ॥१- ॥संत्युपायाः सहस्रं तु मुक्तये न तथा मुने ॥हेलयैषा यथा दद्यान्निर्वाणं मणिकर्णिका ॥१९॥अनशनव्रतभृते त्रिकालाभ्यवहारिणे ॥प्रांते दद्यात्समां मुक्तिमुभाभ्यां मणिकर्णिका ॥२०॥यथोक्तमाचरेदेको निष्ठा पाशुपतंव्रतम् ॥निरंतरं स्मरेदेको हृद्येनां मणिकर्णिकाम् ॥२१॥दृष्टात्र वपुषः पाते द्वयोश्च सदृशी गतिः ॥तस्मात्सर्वविहायाशु सेव्यैषा मणिकर्णिका ॥२२॥स्वर्गद्वारे विशेयुर्ये विगाह्य मणिकर्णिकाम् ॥तेषां विधूतपापानां कापि स्वर्गो न दूरतः ॥२३॥स्वर्गद्वाः स्वर्गभूरेषा मोक्षभूर्मणिकर्णिका ॥स्वर्गापवर्गावत्रैव नोपरिष्टान्न चाप्यधः ॥२४॥दत्त्वा दानान्यनेकानि विगाह्य मणिकर्णिकाम् ॥स्वर्गद्वारं प्रविष्टा ये न ते निरयगामिनः ॥२५॥स्वर्गापवर्गयोरर्थः कोविदैश्च निरूपितः ॥स्वर्गः सुखं समुद्दिष्टमपवर्गो महासुखम् ॥२६॥मणिकर्ण्युपविष्टस्य यत्सुखं जायते सतः ॥सिंहासनोपविष्टस्य तत्सुखं क्व शतक्रतोः ॥२७॥महासुखं यदुद्दिष्टं समाधौ विस्मृतात्मनाम् ॥श्रीमत्यां मणिकर्ण्यां तत्सहजेनैव जायते ॥२८॥स्वर्गद्वारात्पुरोभागे देवनद्याश्च पश्चिमे ॥सौभाग्यभाग्यैकनिधिः काचिदेका महास्थली ॥२९॥यावंतो भास्वतः स्पर्शाद्भासंते सैकताः कणाः ॥तावंतो द्रुहिणा जग्मुर्नैत्येषा मणिकर्णिका ॥३०॥संति तीर्थानि तावंति परितो मणिकर्णिकाम् ॥यावद्भिस्तिलमात्रापि न भूमिर्विरलीकृता ॥३१॥यदन्वये कोपि मुक्तः संप्राप्य मणिकर्णिकाम् ॥तद्वंश्यास्तत्प्रभावेण मान्याः स्वर्गौकसामपि ॥३२॥तर्पिताः पितरो येन संप्राप्य मणिकर्णिकाम्॥सप्तसप्त तथा सप्त पूर्वजास्तेन तारिताः ॥३३॥आमध्याद्देवसरित आ हरिश्चंद्रमडपात् ॥आ गंगा केशवादा च स्वर्द्वारान्मणिकर्णिका ॥३४॥एतद्रजःकणतुलां त्रिलोक्यपि न गच्छति ॥एतत्प्राप्त्यै प्रयतते त्रिलोकस्थोऽखिलो भवी ॥३५॥कलावती चित्रपटीं पश्यंतीत्थं मुहुर्मुहुः ॥ज्ञानवापीं ददर्शाथ श्रीविश्वेश्वरदक्षिणे ॥३६॥यदंबुसततं रक्षेद्दुर्वृत्ताद्दंडनायकः ॥संभ्रमो विभ्रमश्चासौ दत्त्वा भ्रातिं गरीयसीम् ॥३७॥योष्टमूर्तिर्महादेवः पुराणे परिपठ्यते ॥तस्यैषांबुमयी मूर्तिर्ज्ञानदा ज्ञानवापिका ॥३८॥नेत्रयोरतिथीकृत्य ज्ञानवापी कलावती ॥कदंबकुसुमाकारां बभार क्षणतस्तनुम् ॥३९॥अंगानि वेपथुं प्रापुः स्विन्ना भालस्थली भृशम् ॥हर्षवाष्पांबुकलिले जाते तस्या विलोचने ॥४०॥तस्तंभ गात्रलतिका मुखवैवर्ण्यमाप च ॥स्वरोथ गद्गदो जातो व्यभ्रंशत्तत्करात्पटी ॥४१॥साक्षणं स्वं विसस्मार काहं क्वाहं न वेत्ति च ॥सौषुप्तायां दशायां च परमात्मेव निश्चला ॥४२॥अथ तत्परिचारिण्यस्त्वरमाणा इतस्ततः ॥किं किं किमेतदेतत्किं पृच्छंति स्म परस्परम् ॥४३॥तदवस्थां समालोक्य तां ताश्चतुरचेतसः ॥विज्ञाय सात्त्विकैर्भावैरिदमूचूः परस्परम् ॥४४॥भवांतरे प्रेमपात्रमेतयैक्षितु किंचन ॥चिरात्तेन च संगत्य सुखमूर्च्छामवाप ह ॥४५॥अथनेत्थं कथमियमकांडात्पर्यमूमुहत् ॥प्रेक्षमाणा रहश्चित्रपटीमति पटीयसीम् ॥४६॥तन्मोहस्य निदानं ताःसम्यगेव विचार्य च ॥उपचेरुर्महाशांतैरुपचारैरनाकुलम् ॥४७॥काचित्तां वीजयांचक्रे कदलीतालवृंतकैः ॥बिसिनीवलयैरन्या धन्यां तां पर्यभूषयत् ॥४८॥अमंदैश्चंदनरसैरभ्यषिंचदमुं परा ॥अशोकपल्लवैरस्याः काचिच्छोकमनीनशत् ॥४९॥धारामंडपधारांबुसीकरैस्तत्तनूलताम् ॥इष्टार्थविरहग्लानां सिंचयामास काचन ॥५०॥जलार्द्रवाससा काचिदेतस्यास्तनुमावृणोत् ॥कर्पूरक्षोदजालेपैरन्यास्तामन्वलेपयन् ॥५१॥पद्मिनीदलशय्या च काचित्यरचयन्मृदुम् ॥काचित्कुलिशनेपथ्यं दूरीकृत्य तदंगतः ॥५२॥मुक्ताकलापं रचयांचक्रे वक्षोजमंडले ॥काचिच्छशिमुखी तां तु चंद्रकांतशिलातले ॥५३॥स्वापयामास तन्वंगीं स्रवच्छीतांबुशीतले ॥दृष्ट्वोपचार्यमाणां तामित्थं बुद्धिशरीरिणी ॥५४॥अतितापपरीतांगी ताः सखीः प्रत्यभाषत ॥एतस्यास्तापशांत्यर्थं जानेहं परमौषधम् ॥५५॥उपचारानिमान्सवार्न्दूरी कुरुत मा चिरम् ॥अपतापां करोम्येनां सद्यः पश्यत कौतुकम् ॥५६॥दृष्ट्वा चित्रपटीमेषा सद्यो विह्वलतामगात् ॥अत्रैव काचिदेतस्याः प्रेमभूरस्ति निश्चितम् ॥५७॥अतश्चित्रपटीस्पर्शात्परितापं विहास्यति ॥वाक्याद्बुद्धिशरीरिण्यास्ततस्तत्परिचारिकाः ॥५८॥निधाय तत्पुरः प्रोचुः पटीं पश्य कलावति ॥तवानंदकरी यत्र काचिदस्तीष्टदेवता ॥५९॥सापीष्टदेवतानाम्ना तत्पटीदर्शनेन च ॥सुधासेकमिव प्राप्य मूर्छां हित्वोत्थिता द्रुतम् ॥६०॥अवग्रहपरिम्लाना वर्षासारैरिवौषधीः ॥पुनरालोकयांचक्रे ज्ञानदां ज्ञानवापिकाम् ॥६१॥स्पृष्ट्वा कलावती तां तु वापीं चित्रगतामपि ॥लेभे भवांतरज्ञानं यथासीत्पूर्वर्जन्मनि ॥६२॥पुनर्विचारयांचक्रे वापी माहात्म्यमुत्तमम्॥अहो चित्रगतापीयं संस्पृष्टा ज्ञानवापिका ॥६३॥ज्ञानं मे जनयामास भवांतर समुद्भवम् ॥अथ तासां पुरो हृष्टा कथयामास सुंदरी ॥६४॥निजं प्राग्भव वृत्तांतं ज्ञानवापीप्रभावजम् ॥॥ कलावत्युवाच ॥एतस्माज्जन्मनः पूर्वमहं ब्राह्मणकन्यका ॥६५॥उपविश्वेश्वरं काश्यां ज्ञानवाप्यां रमे मुदा ॥जनको मे हरिस्वामी जनयित्री प्रियंवदा ॥६६॥आख्या मम सुशीलेति मां च विद्याधरोऽहरत् ॥मध्येमार्गं निशीथेथ तदोप मलयाचलम् ॥६७॥रक्षसा सहतो वीरो राक्षसं स जघानह ॥रक्षोपि मुक्तं शापात्तु दिव्यवपुरवाप ह ॥६८॥अवाप जन्मगंधर्वस्त्वसौ मलयकेतुतः ॥कर्णाटनृपतेः कन्या बभूवाहं कलावती ॥६९॥इति ज्ञानं ममोद्भूतं ज्ञानवापीक्षणात्क्षणात् ॥इति तस्या वचः श्रुत्वा सापि बुद्धिशरीरिणी ॥७०॥ताश्च तत्परिचारिण्यः प्रहृष्टास्यास्तदाऽभवन् ॥प्रोचुस्तां प्रणिपत्याथ पुण्यशीलां कलावतीम् ॥७१॥अहो कथं हि सा लभ्या यत्प्रभावोयमीदृशः ॥धिग्जन्म तेषां मर्त्येऽस्मिन्यैर्नैक्षि ज्ञानवापिका ॥७२॥कलावति नमस्तुभ्यं कुरुनोपि समीहितम् ॥जनिं सफलयास्माकं नय नः प्रार्थ्य भूपतिम् ॥७३॥अयं च नियमोस्माकमद्यारभ्य कलावति ॥निर्वेक्ष्यामो महाभोगान्दृष्ट्वा तां ज्ञानवापिकाम् ॥७४॥अवश्यं ज्ञानवापी सा नाम्ना भवितुमर्हति ॥चित्रं चित्रगतापीह या तव ज्ञानदायिनी ॥७५॥ॐकृत्य तासां वाक्यं सा स्वाकारं परिगोप्य च ॥प्रियाणि कृत्वा भूभर्तुः प्रस्तावज्ञा व्यजिज्ञपत् ॥७६॥कलावत्युवाच ॥जीवितेश न मे त्वत्तः किंचित्प्रियतरं क्वचित् ॥त्वामासाद्य पतिं राजन्प्राप्ताः सर्वे मनोरथाः ॥७७॥एको मनोरथः प्रार्थ्यो ममास्त्यत्रार्यपुत्रक ॥विचारपथमापन्नस्तवापि स महाहितः ॥७८॥मम तु त्वदधीनायाः सुदुष्प्रापतरो महान् ॥तव स्वाधीनवृत्तेस्तु सिद्धप्रायो मनोरथः ॥७९॥प्राणेश किं बहूक्तेन यदि प्राणैः प्रयोजनम् ॥तदाभिलषितं देहि प्राणा यास्यंत्यथान्यथा ॥८०॥प्राणेभ्योपि गरीयस्यास्तस्या वाक्यं निशम्य सः ॥उवाच वचनं राजा तस्याः स्वस्यापि च प्रियम् ॥८१॥राजोवाच ॥नाहं प्रिये तवादेयमिह पश्यामि भामिनि ॥प्राणा अपि मम क्रीतास्त्वया शीलकलागुणैः ॥८२॥अविलंबितमाचक्ष्व कृतं विद्धि कलावति ॥भवद्विधानां साध्वीनामन्येऽप्राप्यं न किंचन॥ ८३॥कः प्रार्थ्यः प्रार्थनीयं किं को वा प्रार्थयिता प्रिये॥न पृथग्जनवत्किंचिद्वर्तनं नौ कलावति ॥८४॥देशः कोशो बलं दुर्गं यदन्यदपि भामिनि ॥तत्त्वदीयं न मे किंचित्स्वाम्यमात्रमिहास्ति मे ॥८५॥तच्च स्वाम्यं ममान्यत्र त्वदृते जीवितेश्वरि ॥राज्यं त्यजेयं त्वद्वाक्यात्तृणीकृत्यापि मानिनि ॥८६॥माल्पकेतोर्महीजानेरिति वाक्यं निशम्य सा ॥प्राह गंभीरया वाचा वचश्चारु कलावती ॥८७॥कलावत्युवाच ॥नाथ प्रजासृजापूर्वं सृष्टा नानाविधाः प्रजाः ॥प्रजाहिताय संसृष्टं पुरुषार्थचतुष्टयम् ॥८८॥तद्विहीनाजनिरपि जल बुद्बुदवन्मुधा ॥तस्मादेकोपि संसाध्यः परत्रेह च शर्मणे ॥८९॥यत्रानुकूल्यं दंपत्योस्त्रिवर्गस्तत्र वर्धते ॥यदुच्यते पुराविद्भिरिति तत्तथ्यमीक्षितम् ॥९०॥मद्विधाना तु दासीनां शतं तेऽस्तीह मंदिरे ॥तथापि नितरां प्रेम स्वामिनो मयि दृश्यते ॥९१॥तव दास्यपि भोगाढ्या किमुतांकस्थलीचरी ॥तत्राप्यनन्यसंपत्तिस्तत्र स्वाधीनभर्तृता ॥९२॥विपश्चित्संचयेदर्थानिष्टापूर्ताय कर्मणे ॥तपोर्थमायुर्निर्विघ्नं दारांश्चापत्यलब्धये ॥९३॥तवैतत्सर्वमस्तीह विश्वेशानुग्रहात्प्रिय ॥पूरणीयोऽभिलाषो मे यदि तद्वचम्यहं शृणु ॥९४॥तूर्णं प्रहिणु मां नाथ विश्वनाथपुरीं प्रति ॥प्राणाः प्रयाता प्रागेव वपुः शेषास्मि केवलम् ॥९५॥माल्यकेतुः कलावत्या इत्याकर्ण्य वचः स्फुटम् ॥क्षणं विचार्य स्वहृदि राजा प्रोवाच तां प्रियाम् ॥९६॥प्रिये कलावति यदि तव गंतव्यमेव हि ॥राज्यलक्ष्म्यानया किं मे चलया त्वद्विहीनया ॥९७॥न राज्यं राज्यमित्याहू राज्यश्रीः प्रेयसी ध्रुवम् ॥सप्तांगमपि तद्राज्यं तया हीनं तृणायते ॥९८॥निःसपत्नं कृतं राज्यं भुक्त्वा भोगान्निरंतरम् ॥हृषीकार्थाः कृतार्थाश्च विधृता आधृतिः प्रिये ॥९९॥अपत्यान्यपि जातानि किं कर्तव्यमिहास्ति मे ॥अवश्यमेव गंतव्याऽऽवाभ्यां वाराणसी पुरी ॥१००॥माल्यकेतुः प्रियामित्थमाश्वास्य कृतनिश्चयः ॥समाहूय च देवज्ञान्प्रकृतीः परिपूज्य च ॥१॥पुत्रे राज्यं निधायाथ राजा काशीं प्रतस्थिवान् ॥रत्नजातं कियदपि पुत्रादर्थं प्रगृह्य च ॥२॥दृष्ट्वा विश्वेश्वरपुरीं हृष्टरोमा नरेश्वरः ॥मेने कृतार्थमात्मानं संसारांबुधिपारगम् ॥३ ।प्राग्जन्मवासनायोगात्सापि राज्ञी कलावती ॥ग्रामांतरादागतेव पुरीमार्गानवैत्स्वयम ॥४॥मणिकर्ण्यामथस्नात्वा भूरि दत्त्वा ततो वसु ॥विश्वेशमर्चयित्वाथ रत्नजातैरनेकशः ॥५॥दत्त्वा तत्रापि रत्नानि गजानश्वान्गवां व्रजम् ॥दुकूलानि विचित्राणि पूजोपकरणानि च ॥५॥सुवर्णरूप्यकलशान्दीपी दर्पण चामरान् ॥ध्वजस्तंभ पताकाश्च विचित्रोल्लोचकानि च ॥७॥अथ प्रदक्षिणीकृत्य मुक्तिमंडपमाविशत् ॥तत्र धर्मकथां श्रुत्वा दत्त्वा तत्रापि सद्धनम् ॥८॥सायंतनीं महापूजां पुनः कृत्वा क्षितीश्वरः ॥तत्र जागरणं कृत्वा तौर्यत्रिक महोत्सवैः ॥९॥अथ प्रातः समुत्थाय कृत्वा शौचाचमक्रियाम् ॥राज्ञ्या विनिर्दिष्टपथा ज्ञानवापीं नृपो ययौ ॥११०॥नृपः सार्धं कलावत्या तत्र सस्नौ प्रहृष्टवत् ॥अथ पिंडान्सनिर्वाप्य संतर्प्य श्रद्धया पितॄन् ॥११॥तत्र रूप्य सुवर्णादि पात्रेभ्यः प्रतिपाद्य च ॥दीनांध कृपणानाथान्महार्है रत्नजातकैः ॥१२॥प्रीणयित्वा नरपतिः पारणां कृतवांस्ततः ॥संस्कार्य रत्नसोपानैर्ज्ञानवापी कलावती ॥१३॥आबबंध रतिं तत्र सह भर्त्रा तपस्विनी ॥एकांतरोपवासैश्च कदाचिच्च त्र्यहोव्रतैः ॥१४॥षडहोभोजनैश्चापि पक्षार्धनियमैरथ ॥पक्षांतरोपवासैश्च मासोपवसनादिभिः ॥१५॥चांद्रायणव्रतैः कृच्छ्रैर्भर्तुः शुश्रूषणैरपि ॥निनाय क्षणवत्कालमायुःशेषस्य सानघा ॥१६॥एकदा ज्ञानवाप्यां तु प्रातः स्नात्वोपविष्टयोः ॥आगत्य जटिलः कश्चिद्विभूतिं दत्तवान्करे ॥१७॥उवाच च प्रसन्नास्य आशीर्भिरभिनद्य च ॥उत्तिष्ठतं प्रकुरुतं महानेपथ्यमद्य वै ॥१८॥तारकोदय संप्राप्तिर्भवित्री वां क्षणादिह ॥यावदित्थं समाचष्ट जटिलोऽग्रे तयोर्वचः ॥१९॥तावद्विमानमापन्नं सक्वणत्किंकिणीगणम् ॥पश्यतां सर्वलोकानां चन्द्रमौलिरथोरथात् ॥१२०॥उत्तीर्य तच्छ्रुतिपुटे किमपि स्वयमादिशत् ॥अनाख्यं यत्परंज्योतिरुच्चक्राम च तत्क्षणात् ॥२१॥उद्योतयन्नभोवर्त्म देवोपि स्वालयं ययौ ॥॥ स्कन्द उवाच ॥तदा प्रभृति लोकेऽत्र ज्ञानवापी विशिष्यते ॥२२॥सर्वेभ्यस्तीर्थर्मुख्येभ्यः प्रत्यक्ष ज्ञानदा मुने ॥सर्वज्ञानमयी चैषा सर्वलिंगमयी शुभा ॥२३॥साक्षाच्छिवमयी मूर्तिर्ज्ञानकृज्ज्ञानवापिका ॥सन्ति तीर्थान्यनेकानि सद्यः शुचिकराण्यपि ॥२४॥परंतु ज्ञानवाप्या हि कलां नार्हंति षोडशीम् ॥ज्ञानवाप्याः समुत्पत्तिं यः श्रोष्यति समाहितः ॥न तस्य ज्ञानविभ्रंशो मरणे जायते क्वचित् ॥२५॥महाख्यानमिदं पुण्यं महापातकनाशनम्॥महादेवस्य गौर्याश्च महाप्रीतिविवर्धनम् ॥२६॥पठित्वा पाठयित्वा वा श्रुत्वा वा श्रद्धयान्वितः ॥ज्ञानवाप्याः शुभाख्यानं शिवलोके महीयते ॥१२७॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे ज्ञानवापीप्रशंसनं नाम चतुस्त्रिंशत्तमोऽध्यायः ॥३४॥ N/A References : N/A Last Updated : November 25, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP