काशीखण्डः - अध्याय ८७
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ अगस्त्य उवाच ॥
सर्वज्ञसूनो षड्वक्त्र सर्वार्थकुशल प्रभो ॥
प्रादुर्भावं निशम्यैषां लिंगानां मुक्तिदायिनाम् ॥१॥
नितरां परितृप्तोस्मि सुधां पीत्वेव निर्जरः ॥
ओंकारप्रमुखैर्लिंगैरिदमानंदकाननम् ॥२॥
आनंदमेवजनयेदपि पापजुषामिह ॥
परानंदमहं प्राप्तः श्रुत्वैतल्लिंगकीर्तनम् ॥३॥
जीवन्मुक्तइवासं हि क्षेत्रतत्त्वश्रुतेरहम् ॥
स्कंददक्षेश्वरादीनि लिंगानीह चतुर्दश ॥
यान्युक्तानि समाचक्ष्व तत्प्रभावमशेषतः ॥४॥
यो दक्षो गर्हयामास मध्ये देवसभं विभुम् ॥
स कथं लिंगमीशस्य प्रत्यस्थापयदद्भुतम् ॥५॥
इति श्रुत्वा शिखिरथः कुंभयोनेरुदीरितम् ॥
सूत संकथयामास दक्षेश्वर समुद्भवम् ॥६॥
॥ स्कंद उवाच ॥
आकर्णय मुने वच्मि कथां कल्मषहारिणीम् ॥
पुरश्चरणकामोसौ दक्षः काशीं समाययौ ॥७॥
छागवक्त्रो विरूपास्यो दधीचि परिधिक्कृतः ॥
प्रायश्चित्तविधानार्थं सूपदिष्टः स्वयंभुवा ॥८॥
एकदा देवदेवस्य सेवार्थं शशिमौलिनः ॥
कैलासमगमद्विष्णुः पद्मयोनिपुरस्कृतः ॥९॥
इंद्रादयो लोकपाला विश्वेदेवा मरुद्गणाः ॥
आदित्या वसवो रुद्राः साध्या विद्याधरोरगाः ॥१०॥
ऋषयोऽप्सरसोयक्षा गंधर्वाः सिद्धचारणाः ॥
तैर्नतो देवदेवेशः परिहृष्टतनूरुहैः ॥११॥
स्तुतश्च नाना स्तुतिभिः शंभुनापि कृतादराः ॥
विविशुश्चासनश्रेण्यां तन्मुखासक्तदृष्टयः ॥१२॥
अथ तेषूपविष्टेषु शंभुना विष्टरश्रवाः ॥
कृतहस्तपरिस्पर्शमानः पृष्टो महादरम् ॥१३॥
श्रीवत्सलांछन हरे दैत्यवंशदवानल ॥
कच्चित्पालयितुं शक्तिस्त्रिलोकीमस्त्यकुंठिता॥ १४॥
दितिजान्दनुजान्दुष्टान्कच्चिच्छासि रणांगणे ॥
अपि कुद्धान्महीदेवान्मामिव प्रतिमन्यसे ॥१५॥
बाधया रहिता गावः कच्चित्संति महीतले ॥
स्त्रियः संति हि सुश्रीकाः पतिव्रतपरायणाः ॥१६॥
विधियज्ञाः प्रवर्तंते पृथिव्यां बहुदक्षिणाः ॥
निराबाधं तपः कच्चिदस्ति शश्वत्तपस्विनाम् ॥१७॥
निष्प्रत्यूहं पठंत्येव सांगान्वेदान्द्विजोत्तमाः ॥
महीपालाः प्रजाः कच्चित्पांति त्वमिवकेशव ॥१८॥
स्वेषु स्वेषु च धर्मेषु कच्चिद्वर्णाश्रमास्तथा ॥
निष्ठावंतो हि तिष्ठंति प्रहृष्टेंद्रियमानसाः ॥१९॥
धूर्जटिः परिपृछ्येति हृष्टं वैकुंठनायकम्।
ब्रह्माणं चापि पप्रच्छ ब्राह्मं तेजः समेधते ॥२०॥
सत्यमस्खलितं कच्चिदस्ति त्रैलोक्यमंडपे ॥
तीर्थावरोधो न क्वापि केनचित्क्रियते विधे ॥२१॥
इंद्रादयः सुराः कच्चित्स्वेषु स्वेषु पुरेष्वहो ॥
राज्यं प्रशासति स्वस्थाः कृष्णदोर्दंडपालिताः ॥२२॥
प्रत्येकं परिपृच्छयेशः सर्वानित्थं कृतादरान् ॥
पृष्ट्वा गमनकार्यं च तेषां कृत्वा मनोरथान् ॥२३॥
विससर्जाथ तान्सर्वान्देवः सौधं समाविशत् ॥
गतेष्वथ च देवेषु स्वस्व धिष्ण्येषु हृष्टवत् ॥२४॥
मध्ये मार्गं स चिंतोभूद्दक्षः सत्याः पिता तदा ॥
अन्यदेवसमानं स मानं प्राप न चाधिकम् ॥२५॥
अतीव क्षुब्धचित्तोभून्मंदराघाततोऽब्धिवत् ॥
उवाच च मनस्येतन्महाक्रोधरयांधदृक् ॥२६॥
अतीवगर्वितो जातः सती मे प्राप्य कन्यकाम् ॥
कस्यचिन्नाप्यसौ प्रायो न कोस्यापि क्वचित्पुनः ॥२७॥
किं वंश्यस्त्वेष किं गोत्रः किं देशीयः किमात्मकः ॥
किं वृत्तिः किं समाचारो विपा(षा?)दी वृषवाहनः ॥२८॥
न प्रायशस्तपस्व्येष क्व तपः क्वास्त्रधारणम् ॥
न गृहस्थेषु गण्योसौ श्मशाननिलयो यतः ॥२९॥
असौ न ब्रह्मचारी स्यात्कृतपाणिग्रह स्थितिः॥
वानप्रस्थ्यं कुतश्चास्मिन्नैश्वर्यमदमोहिते ॥३०॥
न ब्राह्मणोभवत्येष यतो वेदो न वेत्त्यमुम् ॥
शस्त्रास्त्रधारणात्प्रायः क्षत्रियः स्यान्न सोप्ययम् ॥३१॥
क्षतात्संत्राणनात्क्षत्रं तत्क्वास्मिन्प्रलयप्रिये ॥
वैश्योपि न भवेदेष सदा निर्धनचेष्टनः ॥३२॥
शूद्रोपि न भवेत्प्रायो नागयज्ञोपवीतवान् ॥
एवं वर्णाश्रमातीतः कोसौ सम्यङ्नकीर्त्यते ॥३३॥
सर्वः प्रकृत्या ज्ञायेत स्थाणुः प्रकृतिवर्जितः ॥
प्रायशः पुरुषोनासावर्धनारीवपुर्यतः ॥३४॥
योषापि न भवेदेष यतोसौ श्मश्रुलाननः ॥
नपुंसकोपि न भवेल्लिंगमस्ययतोर्च्यते ॥३५॥
बालोपि न भवत्येष यतोऽयं बहुवार्षिकः॥
अनादिवृद्धो लोकेषु गीयते चोग्र एष यत् ॥३६॥
अतो युवत्वं संभाव्यं नात्र नूनं चिरंतने ॥
वृद्धोऽपि न भवत्येष जरामरणवर्जितः ॥३७॥
ब्रह्मादीन्संहरेत्प्रांते तथापि च न पातकी ॥
पुण्यलेशोपि नास्त्यस्मिन्ब्रह्ममौलिच्छिदिक्रुधा ॥३८॥
अस्थिनेपथ्यवति च क्व शुचित्वं विवाससि ॥
किं बहूक्तेन नो किंचिज्ज्ञायतेऽस्य विचेष्टितम् ॥२९॥
अहो धार्ष्ट्यं महद्दृष्टं जटिलस्याद्य चाद्भुतम् ॥
यदासनान्नोत्थितोसौ दृष्ट्वा मां श्वशुरं गुरुम् ॥४०॥
एवंभूता भवंत्येव मातापितृविवर्जिताः ॥
निर्गुणा अकुलीनाश्च कर्मभ्रष्टा निरंकुशाः ॥४१॥
स्वच्छंदचारिणोऽनाथाः सर्वत्र स्वाभिमानिनः ॥
अकिंचना अपिप्रायस्तथापीश्वरमानिनः ॥४२॥
जामातॄणां स्वभावोयं प्रायशो गर्वभाजनम् ॥
किंचिदैश्वयर्मासाद्य भवत्येव न संशयः ॥४३॥
द्विजराजः स गर्विष्ठो रोहिणीप्रेमनिर्भरः ॥
कृत्तिकादिषु चास्नेही मया शप्तः क्षयीकृतः ॥४४॥
अस्याहं गर्वसर्वस्वं हरिष्याम्येव शूलिनः ॥
यथावमानितश्चाहमनेनास्य गृहं गतः ॥४५॥
तथास्याहं करिष्यामि मानहानिं च सर्वतः ॥
संप्रधार्येति बहुशः स तु दक्षः प्रजापतिः ॥४६॥
प्राप्य स्वभवनं देवानाजुहाव सवासवान् ॥
अहं यियक्षुर्यूयं मे यज्ञसाहाय्यकारिणः ॥४७॥
भवंतु यज्ञसंभारानानयंतु त्वरान्विताः ॥
श्वेतद्वीपमथो गत्वा चक्रे चक्रिणमच्युतम् ॥४८॥
महाक्रतूपद्रष्टारं यज्ञपूरुषमेव च ॥
तस्यर्त्विजोभवन्सर्व ऋषयो ब्रह्मवादिनः ॥४९॥
प्रावर्तत ततस्तस्य दक्षस्य च महाध्वरः ॥
दृष्ट्वा देवनिकायांश्च तस्मिन्दक्ष महाध्वरे ॥५०॥
अनीश्वरांस्ततो वेधा व्याजं कृत्वा गृहं ययौ ॥
दधीचिरथ संवीक्ष्य सर्वांस्त्रैलोक्यवासिनः ॥५१॥
दक्षयज्ञे समायातान्सतीश्वरविवर्जितान् ॥
प्राप्तसंमानसंभारान्वासोलंकृतिपूर्वकम् ॥५२॥
दक्षस्य हि शुभोदर्कमिच्छन्प्रोवाच चेति वै ॥
दधीचिरुवाच ॥
दक्षप्रजापते दक्ष साक्षाद्धातृस्वरूपधृक् ॥५३॥
न चास्ति तव सामर्थ्यं क्वापि कस्यापि निश्चितम् ॥
यादृशः क्रतुसंभारस्तव चेह समीक्ष्यते ॥५४॥
न तादृङ्नेदसि प्रायः क्वापि ज्ञातो महामते ॥
क्रतुस्तु नैव कर्तव्यो नास्ति क्रतुसमो रिपुः ॥५५॥
कर्तव्यश्चेत्तदाकार्यः स्याच्चेत्संपत्ति रीदृशी ॥
साक्षादग्निः स्वयं कुंडे साक्षादिंद्रादिदेवताः ॥५६॥
साक्षाच्च सर्वे मंत्रा वै साक्षाद्यज्ञपुमानसौ ॥
आचार्यपदवीमेष देवाचार्यः स्वयं चरेत् ॥
साक्षाद्ब्रह्मा स्वयं चैष भृगुर्वै कर्मकांडवित् ॥५७॥
अयं पूषा भगस्त्वेष इयं देवी सरस्वती ॥
एते च सर्वदिक्पाला यज्ञरक्षाकृतः स्वयम् ॥५८॥
त्वं च दीक्षां शुभां प्राप्तो देव्या च शतरूपया ॥
जामाता त्वेष ते धर्मः पत्नीभिर्दशभिः सह ॥५९॥
स्वयमेव हि कुर्वीत धर्मकार्यं प्रयत्नतः ॥
ओषधीनामयं नाथस्तव जामातृषूत्तमः ॥६०॥
सप्तविंशतिभिः सार्धं पत्नीभिस्तव कार्यकृत् ॥
ओषधीः पूरयेत्सर्वा द्विजराजो महासुधीः ॥६१॥
दीक्षितो राजसूयस्य दत्तत्रैलोक्यदक्षिणः ॥
मारीचः कश्यपश्चासौ प्रजापतिषु सत्तमः ॥
त्रयोदशमिताभिश्च भार्याभिस्तव कार्यकृत् ॥६२॥
हविः कामदुघा सूते कल्पवृक्षः समित्कुशान् ॥
दारुपात्राणि सर्वाणि शकटं मंडपादिकम् ॥६३॥
विश्वकर्माप्यलंकारान्कुरुतेभ्यागतर्त्विजाम् ॥
वसूनि चाऽपि वासांसि वसवोष्टौ ददत्यपि ॥६४॥
स्वयंलक्ष्मीरलंकुर्याद्यावै चात्र सुवासिनीः ॥६५॥
सर्वे सुखाय मे दक्ष वीक्षमाणस्य सर्वतः ॥
एकं दुःखाकरोत्येव यत्त्वं विस्मृतवानसि ॥६६॥
जीवहीनो यथा देहो भूषितोपि न शोभते ॥
तथेश्वरं विना यज्ञः श्मशानमिव लक्ष्यते ॥६७॥
इत्थं दधीचिवचनं श्रुत्वा दक्षः प्रजापतिः ॥
भृशं जज्वाल कोपेन हविषा कृष्णवर्त्मवत् ॥६८॥
पूर्वस्तुत्याति संहृष्टो दृष्टो योसौ दधीचिना ॥
स एव चापि कोपाग्निमुद्वमन्वीक्षितो मुखात् ॥६९॥
प्रत्युवाचाथ तं विप्रं वेपमानांगयष्टिकः ॥
दक्षः प्रजापती रोषाज्जिघांसुरिव तं द्विजम् ॥७०॥
॥ दक्ष उवाच ॥
ब्राह्मणोसि दधीचे त्वं किं करोमि तवात्र वै ॥
दीक्षामहमहो प्राप्तः कर्तुं नायाति किंचन ॥७१॥
भवान्केन समाहूतो यदत्रागान्महाजडः ॥
आगतोपि हि केन त्वं पृष्ट इत्थं प्रब्रवीषि यत् ॥७२॥
सर्वमंगलमांगल्यो यत्र श्रीमानयं हरिः ॥
स्वयं वै यज्ञपुरुषः स मखः किं श्मशानवत् ॥७३॥
यत्र वज्रधरः शक्रः शतयज्ञैकदीक्षितः ॥
त्रयस्त्रिंशतिकोटीनाममराणां पतिः स्वयम् ॥७४॥
तं त्वंचोपमिमीषेमुं श्मशानेन महामखम् ॥
धर्मराट्च स्वयं यत्र धर्माधर्मैककोविदः ॥७५॥
श्रीदोस्ति यत्र श्रीदाता साक्षाद्यत्राशुशुक्षणिः ॥
तं यज्ञमुपमासि त्वममंगलभुवातया ॥७६॥
देवाचार्यः स्वयं यत्र क्रतोराचार्यतागतः ॥
अभिमानवशात्तं त्वमाख्यासि पितृकाननम् ॥७७॥
यत्रार्त्विज्यं भजंतेऽमी वसिष्ठप्रमुखर्षयः ॥
तमध्वरं समाचक्षे मंगलेतरभूमिवत् ॥७८॥
निशम्येति मुनिः प्राह दधीचिर्ज्ञानिनां वरः ॥
सर्वमंगलमांगल्यो भवेद्यज्ञपुमान्हरिः ॥७९॥
तथापि शांभवी शक्तिर्वेदे विष्णुः प्रपठ्यते ॥
वामांगं स्रष्टुराद्यस्य हरिस्तदितरद्विधिः ॥८०॥
दीक्षितो योश्वमेधानां शतस्य कुलिशायुधः ॥
दुर्वाससा क्षणेनापि नीतो निःश्रीकतां हि सः ॥८१॥
पुनराराध्य भूतेशं प्रापैकाममरावतीम् ॥
यस्त्वया धर्मराजोत्र कथितः क्रतुरक्षकः ॥८२॥
बलं तस्याखिलैर्ज्ञातं श्वेतं पाशयतः पुरा ॥
धनदस्त्र्यंबकसखस्तच्चक्षुश्चाशुशुक्षणिः ॥८३॥
पार्ष्णिग्राह्यभवद्रुद्रो देवाचार्यस्य वै तदा ॥
यदा तारामधार्षीत्स द्विजराजोऽतिसुंदरीम् ॥८४॥
तं विदंति वसिष्ठाद्यास्तवार्त्विज्यं भजंति ये ॥
एको रुद्रो न द्वितीयः संविदाना अपीति हि ॥८५॥
प्रावर्तंतर्षयोन्येपि गौरवात्तव ते क्रतौ ॥
यदि मे ब्राह्मणस्यैकं शृणोषि वचनं हितम् ॥८६॥
तदा क्रतुफलाधीशं विश्वेशं त्वं समाह्वय ॥
विना तेन क्रतुरसौ कृतोप्यकृत एव हि ॥८७॥
सति तस्म्निमहादेवे विश्वकर्मैकसाक्षिणि ॥
तवापि चैषा सर्वेषां फलिष्यंति मनोरथाः ॥८८॥
यथा जडानि बीजानि न फलंति स्वयं तथा ॥
जडानि सर्वकर्माणि न फलंतीश्वरं विना ॥८९॥
अर्थहीना यथा वाणी धर्महीना यथा तनुः ॥
पतिहीना यथा नारी शिवहीना तथा क्रिया ॥९०॥
गंगाहीना यथा देशाः पुत्रहीना यथा गृहाः ॥
दानहीना यथा संपच्छिवहीना तथा क्रिया ॥९१॥
मंत्रिहीनं यथा राज्यं श्रुतिहीना यथा द्विजाः ॥
योषा हीनं यथा सौख्यं शिवहीना तथा क्रिया ॥९२॥
दर्भहीना यथा संध्या तिलहीनं च तर्पणम् ॥
हविर्हीनो यथा होमः शिवहीना तथा क्रिया ॥९३॥
इत्थं दधीचिनाख्यातं जग्राह वचनं न तत् ॥
दक्षो दक्षोपि तत्रैव शंभोर्माया विमोहितः ॥९४॥
प्रोवाच च भृशं क्रुद्धः का चिंता तव मे क्रतोः ॥
क्रतुमुख्यानि सर्वाणि यानि कर्माणि सर्वतः ॥९५॥
तानि सिद्ध्यंति नियतं यथार्थकरणादिह ॥
अयथार्थविधानेन सिद्ध्येत्कर्मापि नेशितुः ॥९६॥
स्वकर्मसिद्धये चाथ सर्व एव हि चेश्वरः ॥
ईश्वरः कर्मणां साक्षी यत्त्वयापीति भाषितम् ॥९७॥
तत्तथास्तु परं साक्षी नार्थं दद्याच्च कुत्रचित् ॥९८॥
जडानि सर्वकर्माणि न फलंतीश्वरं विना ॥
यदुक्तं भवता तत्राप्यहो दृष्टांतयाम्यहम् ॥९९॥
जडान्यपि च बीजानि कालं संप्राप्यवात्मनः ॥
अंकूरयंति कालाच्च पुष्प्यंति च फलंति च ॥१००॥
विनापीशं तथा कर्म स्वयं कालात्फलत्यहो ॥
किमीश्वरेण तेनात्र महामंगलमूर्तिना ॥१॥
॥ दधीचिरुवाच ॥
यथार्थकरणात्सिद्धमपि कार्यं कदाचन ॥
ईश्वरप्रातिकूल्याच्च सिद्धमेवाशु नश्यति ॥२॥
ईश्वरेच्छा बलात्कर्म कृतमप्यविधानतः ॥
संसिद्ध्येत्तदधीनाश्च कथं सर्व इहेश्वराः ॥३॥
सामान्यसाक्षिवन्नेशः सर्वेषां सर्वकर्मणाम् ॥
साक्षीभवेदसंदिग्धः फलस्य प्रतिभूरपि ॥४॥
भूजलादिस्वरूपेण बीजमाविश्यसर्वकृत् ॥
स्वयं कालस्वरूपेण विदध्यादंकुरोदयम् ॥५॥
यत्त्वयोक्तं विनापीशं काले कर्मफलेत्स्वयम् ॥
स एव कालो भगवान्सर्वकर्ता महेशिता ॥६॥
अन्यच्च भवता प्रोक्तं तदेकं तथ्यमेव तत् ॥
किमीश्वरेण तेनात्र महामंगलमूर्तिना ॥७॥
ये महांतो भवंत्येव ये च मंगलमूर्तयः ॥
ईश्वराख्या च येष्वस्ति किं तैरत्र तवांतिके ॥८॥
उत्तरादुत्तरं चेति प्रत्युत्तरयति द्विजे ॥
दधीचौ चुक्रुधेऽत्यंतं दक्षोगर्वातिसुश्रिया ॥९॥
आदिदेश समीपस्थानालोक्य परितस्त्विति ॥
ब्राह्मणापसदं चामुं परिदूरयताशु वै ॥११०॥
अमुष्मादध्वरश्रेष्ठादवरिष्ठमनोगतम् ॥
इत्थं दधीचिराकर्ण्य प्रोवाच प्रहसन्निव ॥११॥
किं मां दूरयसे मूढ दूरीभूतो भवानपि ॥
सर्वेभ्यो मंगलेभ्यश्च सर्वैरेभिः समं ध्रुवम् ॥१२॥
अकांडे क्रोधजो दंडस्तव मूर्ध्नि पतिष्यति ॥
महेशितुस्त्रिजगती परिशास्तुः प्रजापते ॥१३॥
इत्युक्त्वा निर्जगामाशु यज्ञवाटात्ततो द्विजः ॥
तस्मिन्निर्याति निर्यातो दुर्वासाश्च्यवनो भवान् ॥१४॥
उत्तंक उपमन्युश्च ऋचीकोद्दालकावपि ॥
मांडव्यो वामदेवश्च गालवो गर्गगौतमौ ॥१५॥
शिवतत्त्वविदोन्येपि दक्षयज्ञाद्विनिर्ययुः ॥
गते दधीचौ सानंदं प्रावर्तत महामखः ॥१६॥
ये स्थिता ब्राह्मणास्तत्र तेभ्यो द्विगुण दक्षिणाम् ॥
प्रादात्प्रजापतिर्दक्षस्त्वन्येभ्योप्यधिकं वसु ॥१७॥
सर्वे जामातरस्तेन तोषिता भूरिशोधनैः ॥
कन्याश्चालंकृताः सर्वा महाविभवविस्तरैः ॥१८॥
ऋषिपत्न्योपि बहुशो देवपत्न्योप्यनेकशः ॥
तथा पुरांगनाः सर्वास्तेन मानभुवः कृताः ॥१९॥
ब्रह्मघोषेण तारेण व्योमशब्दगुणं स्फुटम् ॥
कारितं तेन दक्षेण विप्राणां हृष्टचेतसाम् ॥१२०॥
अग्निर्मंदाग्निरभवत्तस्मिञ्जुह्वति दीक्षिते ॥
हविः परिमलेनैव परितृप्ता दिगंगनाः ॥२१॥
स्वाहाकारैर्वषट्कारैः सुरा जाताः पिचंडिलाः ॥
रचिता गिरयस्तेन सदन्नानां पदेपदे ॥२२॥
घृतकुल्याः कृतास्तेन मधुकुल्याः सहस्रशः ॥
महासरांसि पयसां द्रप्सस्यापि महाह्रदाः ॥२३॥
राशयश्च दुकूलानां रत्नानां शिखराणि च ॥
यज्ञवाटस्य वसुधा स्वर्णरूप्यमयीकृता ॥२४॥
न लभ्यंते क्रतौ तस्य मार्गिता अपि मार्गणाः ॥
हृष्टाः पुष्टाः समभवन्नपि तत्परिचारकाः ॥२५॥
ध्वनिर्मंगलगीतानां व्यानशे गगनांगणम् ॥
जहृषे चाप्सरोवृंदैर्गंधर्वैर्मुमुदेतराम् ॥२६॥
विद्याधरैर्ननंदे च वसुधा ववृधे भृशम् ॥
महाविभवसंभारे तस्मिन्दाक्षे महाक्रतौ ॥
इत्थं प्रवृत्तेऽथ मुनिः कैलासं नारदो ययौ ॥१२७॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे दक्षयज्ञप्रादुर्भावोनाम सप्ताशीतितमोऽध्यायः ॥८७॥
N/A
References : N/A
Last Updated : November 27, 2024
TOP