संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|काशीखण्ड|
अध्याय ४६

काशीखण्डः - अध्याय ४६

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ स्कंद उवाच ॥
गतेथ योगिनीवृंदे देवदेवो घटोद्भव ॥
काशीप्रवृत्तिं जिज्ञासुः प्राहिणोदंशुमालिनम् ॥१॥
देवदेव उवाच ॥
सप्ताश्व त्वरितो याहि पुरीं वाराणसीं शुभाम् ॥
यत्रास्ति स दिवोदासो धर्ममूर्तिर्महीपतिः ॥२॥
तस्य धर्मविरोधेन यथातत्क्षेत्रमुद्वसेत् ॥
तथा कुरुष्व भो क्षिप्रं मावमंस्थाश्च तं नृपम् ॥३॥
धर्ममार्ग प्रवृत्तस्य क्रियते यावमानना ॥
सा भवेदात्मनो नूनं महदेनश्च जायते ॥४॥
तवबुद्धिविकासेन च्यवते चेत्स धर्मतः ॥
तदा सा नगरी भानो त्वयोद्वास्याऽसहैः करैः ॥५॥
कामक्रोधौ लोभमोहौ मत्सराहंकृती अपि ॥
ते तत्र न भवेतां यत्तत्कालोपि न तं जयेत् ॥६॥
यावद्धर्मे स्थिराबुद्धिर्यावद्धर्मेस्थिरं मनः ॥
तावद्विघ्नोदयः क्वास्ति विपद्यपि रवे नृषु ॥७॥
सर्वेषामिह जंतूनां त्वं वेत्सि ब्रध्नचेष्टितम् ॥
अतएव जगच्चक्षुर्व्रज त्वं कार्यसिद्धये ॥८॥
रविरादाय देवाज्ञां मूर्तिमन्यां प्रकल्प्य च ॥
नभोध्वगामहोरात्रं काशीमभिमुखोऽभवत् ॥९॥
मनसातीवलोलोऽभूत्काशीदर्शनलालसः ॥
सहस्रचरणोप्यैच्छत्तदा खे नैकपादताम् ॥१०॥
हंसत्वं तस्य सूर्यस्य तदा सफलतामगात् ॥
सदा नभोध्वनीनस्य काशीं प्रति यियासतः ॥११॥
अथ काशीं समासाद्य रविरंतर्बहिश्चरन् ॥
मनागपि न तद्भूपे धर्मध्वस्तिमवेक्षत ॥१२॥
विभावसुर्वसन्काश्यां नानारूपेण वत्सरम् ॥
क्वचिन्नावसरं प्राप तत्र राज्ञि सुधर्मिणि ॥१३॥
कदाचिदतिथिर्भूतो दुर्लभं प्रार्थयन्रविः ॥
न तस्य राज्ञो विषये दुर्लभं किंचिदैक्षत ॥१४॥
कदाचिद्याचको जातो बहुदोपि कदाप्यभूत् ॥
कदाचिद्दीनतां प्राप्तः कदाचिद्गणकोप्यभूत् ॥१५॥
वेदबाह्यां क्रियां चापि कदाचित्प्रत्यपादयत्॥
कदाचित्स्थापयामास दृष्टप्रत्ययमैहिकम् ॥१६॥
कदाचिज्जटिलो जातः कदाचिच्च दिगंबरः ॥
स कदाचिज्जांगुलिको विषविद्याविशारदः॥ १७॥
सर्वपाषंडधर्मज्ञः कदाचिद्ब्रह्मवाद्यभूत् ॥
ऐंद्रजालिक आसीच्च कदाचिद्भ्रामयञ्जनान् ॥१८॥
नानाव्रतोपदेशैश्च कदाचित्स पतिव्रताः ॥
क्षोभयामास बहुशः सदृष्टांत कथानकैः ॥१९॥
कापालिक व्रतधरः कदाचिच्चाभवद्द्विजः ॥
कदाचिदपि विज्ञानी धातुवादी कदाचन ॥२०॥
क्वचिद्विप्रः क्वचिद्राजपुत्रो वैश्योंत्यजः क्वचित ॥
ब्रह्मचारी क्वचिदभूद्गृही वनचरः क्वचित् ॥२१॥
यतिः कदाचिदिति सरूपैरभ्रामयज्जनान् ॥
सर्वविद्यासु कुशलः सर्वज्ञश्चाभवत्क्वचित् ॥२२॥
इति नानाविधै रूपैश्चरन्काश्यां ग्रहेश्वरः ॥
न कदापि जने क्वापि च्छिद्रं प्राप कदाचन ॥२३॥
ततो निनिंद चात्मानं चिंतार्तः कश्यपात्मजः ॥
धिक्परप्रेष्यतां यस्यां यशो लभ्येत न क्वचित् ॥२४॥
॥ मार्तंड उवाच ॥
मंदरं यदि याम्यद्य सद्यस्तत्क्रुद्ध्यतीश्वरः ॥
अनिष्पादितकार्यार्थे मयि सामान्यभृत्यवत् ॥२५॥
कोपमप्युररीकृत्य यदि यायां कथंचन ॥
कथं तिष्ठे पुरस्तस्य तर्हि वै मूढभृत्यवत् ॥२६॥
अथोंकृत्यावहेलं वा यामि चेच्च कथंचन ॥
क्रोधान्निरीक्षेत्त्र्यक्षो मां विषं पेयं तदा मया ॥२७॥
हरकोपानले नूनं यदि यातः पतंगताम् ॥
पितामहोपि मां त्रातुं तदा शक्ष्यति नस्फुटम् ॥२८॥
स्थास्याम्यत्रैव तन्नित्यं न त्यक्ष्यामि कदाचन ॥
क्षेत्रसंन्यासविधिना वाराणस्यां कृताश्रमः ॥२९॥
पुरः पुरारेः कायार्थमनिवेद्येह तिष्ठतः ॥
यत्पापं भावि मे तस्य काशीपापस्यनिष्कृतिः ॥३०॥
अन्यान्यपि च पापानि महांत्यल्पानि यानि च ॥
क्षयंति तानि सर्वाणि काशीं प्रविशतां सताम् ॥३१॥
बुद्धिपूर्वं मया चैतन्न पापं समुपार्जितम् ॥
पुरारिणैव हि पुराऽऽशासि धर्मो हि रक्ष्यताम् ॥३२॥
धर्मो हि रक्षितो येन देहे सत्वरगत्वरे ॥
त्रैलोक्यरक्षितं तेन किं कामार्थैः सुरक्षितैः ॥३३॥
रक्षणीयो यदि भवेत्कामः कामारिणा कथम् ॥
क्षणादनंगतां नीतो बहूनां सुखकार्यपि ॥३४॥
अर्थश्चेत्सर्वथारक्ष्य इति कैश्चिदुदाहृतम्॥
तत्कथं न हरिश्चंद्रोऽरक्षत्कुशिकनंदने ॥३५॥
धर्मस्तु रक्षितः सर्वैरपिदेहव्ययेन च ॥
शिबिप्रभृतिभूपालैर्दधीचिप्रमुखैर्द्विजैः ॥३६॥
अयमेव हि वै धर्मः काशीसेवनसंभवः ॥
रुषितादपि रुद्रान्मां रक्षिष्यति न संशयः ॥३७॥
अवाप्य काशीं दुष्प्रापां को जहाति सचेतनः ॥
रत्नं करस्थमुत्सृज्य कः काचं संजिघृक्षति ॥३८॥
वाराणसीं समुत्सृज्य यस्त्वन्यत्र यियासति ॥
हत्वा निधानं पादेन सोर्थमिच्छति भिक्षया ॥३९॥
पुत्रमित्रकलत्राणि क्षेत्राणि च धनानि च ॥
प्रतिजन्मेह लभ्यंते काश्येका नैव लभ्यते ॥४०॥
येन लब्धा पुरी काशी त्रैलोक्योद्धरणक्षमा ॥
त्रैलोक्यैश्वर्यदुष्प्रापं तेन लब्धं महासुखम् ॥४१॥
कुपितोपि हि मे रुद्रस्तेजोहानिं विधास्यति ॥
काश्यां च लप्स्ये तत्तेजो यद्वै स्वात्मावबोधजम् ॥४२॥
इतराणीह तेजांसि भासंते तावदेव हि ॥
खद्योताभानि यावन्नो जृंभते काशिजं महः ॥४३॥
इति काशीप्रभावज्ञो जगच्चक्षुस्तमोनुदः ॥
कृत्वा द्वादशधात्मानं काशीपुर्यां व्यवस्थितः ॥४४॥
लोलार्क उत्तरार्कश्च सांबादित्यस्तथैव च ॥
चतुर्थो द्रुपदादित्यो मयूखादित्य एव च ॥४५॥
खखोल्कश्चारुणादित्यो वृद्धकेशवसंज्ञकौ ॥
दशमो विमलादित्यो गंगादित्यस्तथैव च ॥४६॥
द्वादशश्च यमादित्यः काशिपुर्यां घटोद्भव ॥
तमोऽधिकेभ्यो दुष्टेभ्यः क्षेत्रं रक्षंत्यमी सदा ॥४७॥
तस्यार्कस्य मनोलोलं यदासीत्काशिदर्शने ॥
अतो लोलार्क इत्याख्या काश्यां जाता विवस्वतः ॥४८॥
लोलार्कस्त्वसिसंभेदे दक्षिणस्यां दिशिस्थितः ॥
योगक्षेमं सदा कुर्यात्काशीवासि जनस्य च ॥४९॥
मार्गशीर्षस्य सप्तम्यां षष्ठ्यां वा रविवासरे ॥
विधाय वार्षिकीं यात्रां नरः पापै प्रमुच्यते ॥५०॥
कृतानि यानि पापानि नरैः संवत्सरावधि ॥
नश्यंति क्षणतस्तानि षष्ठ्यर्के लोलदर्शनात् ॥५१॥
नरः स्नात्वासिसंभेदे संतर्प्य पितृदेवताः ॥
श्राद्धं विधाय विधिना पित्रानृण्यमवाप्नुयात् ॥५२॥
लोलार्कसंगमे स्नात्वा दानं होमं सुरार्चनम् ॥
यत्किंचित्क्रियते कर्म तदानंत्याय कल्पते ॥५३॥
सूर्योपरागे लोलार्के स्नानदानादिकाः क्रियाः ॥
कुरुक्षेत्राद्दशगुणा भवंतीह न संशयः ॥५४॥
लोलार्के रथसप्तम्यां स्नात्वा गंगासिसंगमे ॥
सप्तजन्मकृतैः पापैर्मुक्तो भवति तत्क्षणात् ॥५५॥
प्रत्यर्कवारं लोलार्कं यः पश्यति शुचिव्रतः ॥
न तस्य दुःखं लोकेस्मिन्कदाचित्संभविष्यति ॥५६॥
न तस्य दुःखं नो पामा न दद्रुर्न विचर्चिका ॥
लोलार्कमर्के यः पश्येत्तत्पादोदकसेवकः ॥५७॥
वाराणस्यामुषित्वापि यो लोलार्कं न सेवते ॥
सेवंते तं नरं नूनं क्लेशाः क्षुद्व्याधिसंभवाः ॥५८॥
सर्वेषां काशितीर्थानां लोलार्कः प्रथमं शिरः ॥
ततोंऽगान्यन्यतीर्थानि तज्जलप्लावितानिहि ॥५९॥
तीर्थांतराणि सर्वाणि भूमीवलयगान्यपि ॥
असिसंभेदतीर्थस्य कलां नार्हंति षोडशीम् ॥६०॥
सर्वेषामेव तीर्थानां स्नानाद्यल्लभ्यते फलम् ॥
तत्फलं सम्यगाप्येत नरैर्गंगासिसंगमे ॥६१॥
नार्थवादोयमुदितः स्तुतिवादो न वै मुने ॥
सत्यं यथार्थवादोयं श्रद्धेयः सद्भिरादरात् ॥६२॥
यत्र विश्वेश्वरः साक्षाद्यत्र स्वर्गतरंगिणी ॥
मिथ्या तत्रानुमन्यंते तार्किकाश्चानुसूयकाः ॥६३॥
उदाहरंति ये मूढाः कुतर्कबलदर्पिताः ॥
काश्यां सर्वेर्थवादोयं ते विट्कीटा युगेयुगे ॥६४॥
कस्यचित्काशितीर्थस्य महिम्नो महतस्तुलाम्॥
नाधिरोहेन्मुने नूनमपि त्रैलोक्यमंडपः ॥६५॥
नास्तिका वेदबाह्याश्च शिश्नोदरपरायणाः ॥
अंत्यजाताश्च ये तेषां पुरः काशी न वर्ण्यताम् ॥६६॥
लोलार्ककरनिष्टप्ता असिधार विखंडिताः ॥
काश्यां दक्षिणदिग्भागे न विशेयुर्महामलाः ॥६७॥
महिमानमिमं श्रुत्वा लोलार्कस्य नरोत्तमः ॥
न दुःखी जायते क्वापि संसारे दुःखसागरे ॥६८॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे लोलार्कवर्णनं नाम षट्चत्वारिंशोध्यायः ॥४६॥

N/A

References : N/A
Last Updated : November 26, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP