संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|काशीखण्ड| अध्याय ३३ काशीखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० विषयानुक्रमणिका काशीखण्डः - अध्याय ३३ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ३३ Translation - भाषांतर ॥ अगस्त्य उवाच ॥स्कंदज्ञानोदतीर्थस्य माहात्म्यं वद सांप्रतम् ॥ज्ञानवापीं प्रशंसंति यतः स्वर्गौकसोप्यलम् ॥१॥॥ स्कंद उवाच ॥घटोद्भव महाप्राज्ञ शृणु पापप्रणोदिनीम् ॥ज्ञानवाप्याः समुत्पत्तिं कथ्यमानां मयाधुना ॥२॥अनादिसिद्धे संसारे पुरा देवयुगे मुने ॥प्राप्तः कुतश्चिदीशानश्चरन्स्वैरमितस्ततः ॥३॥न वर्षंति यदाभ्राणि न प्रावर्तंत निम्रगाः ॥जलाभिलाषो न यदा स्नानपानादि कर्मणि ॥४॥क्षारस्वादूदयोरेव यदासीज्जलदर्शनम् ॥प्रथिव्यां नरसंचारे वतर्माने क्वचित्क्वचित् ॥५॥निर्वाणकमलाक्षेत्रं श्रीमदानंदकाननम् ॥महाश्मशानं सर्वेषां बीजानां परमूषरम् ॥६॥महाशयनसुप्तानां जंतूनां प्रतिबोधकम् ॥संसारसागरावर्त पतज्जंतुतरंडकम् ॥७॥यातायातातिसंखिन्न जंतुविश्राममंडपम ॥अनेकजन्मगुणित कर्मसूत्रच्छिदाक्षुरम् ॥८॥सच्चिदानंदनिलयं परब्रह्मरसायनम् ॥सुखसंतानजनकं मोक्षसाधनसिद्धिदम् ॥९॥प्रविश्य क्षेत्रमेतत्स ईशानो जटिलस्तदा ॥लसत्त्रिशूलविमलरश्मिजालसमाकुलः ॥१०॥आलुलोके महालिंगं वैकुंठपरमेष्ठिनोः ॥महाहमहमिकायां प्रादुरास यदादितः ॥११॥ज्योतिर्मयीभिर्मालाभिः परितः परिवेष्टितम् ॥वृंदैर्वृंदारकर्षीणां गणानां च निरंतरम् ॥१२॥सिद्धानां योगिनां स्तोमैरर्च्यमानं निरंतरम् ॥गीयमानं च गंधर्वैः स्तूयमानं च चारणैः ॥१३॥अंगहारैरप्सरोभिः सेव्यमानमनेकधा ॥नीराज्यमानं सततं नागीभिर्मणिदीपकैः ॥१४॥विद्याधरीकिन्नरीभिस्त्रिकालं कृतमंडनम् ॥अमरीचमरीराजि वीज्यमानमितस्ततः ॥१५॥अस्येशानस्य तल्लिंगं दृष्ट्वेच्छेत्यभवत्तदा ॥स्नपयामि महल्लिंगं कलशैः शीतलैर्जलैः ॥१६॥चखान च त्रिशूलेन दक्षिणाशोपकंठतः ॥कुंडं प्रचंडवेगेन रुद्रोरुद्रवपुर्धरः ॥१७॥पृथिव्यावरणांभांसि निष्क्रांतानि तदा मुने ॥भूप्रमाणाद्दशगुणैर्यैरियं वसुधावृता ॥१८॥तैर्जलैः स्नापयांचक्रे त्वत्स्पृष्टैरन्यदेहिभिःतुषारैर्जाड्यविधुरैर्जंजपूकौघहारिभिः ॥१९॥सन्मनोभिरिवात्यच्छैरनच्छैर्व्योमवर्त्मवत् ॥ज्योत्स्नावदुज्ज्वलच्छायैः पावनैः शंभुनामवत् ॥२०॥पीयूषवत्स्वादुतरैः सुखस्पर्शैर्गवांगवत् ॥निष्पापधीवद्गंभीरैस्तरलैः पापिशर्मवत् ॥२१॥विजिताब्जमहागंधैः पाटलामोदमोदिभिः ॥अदृष्टपूर्वलोकानां मनोनयनहारिभिः ॥२२॥अज्ञानतापसंतप्त प्राणिप्राणैकरक्षिभिः ॥पंचामृतानां कलशैः स्नपनातिफलप्रदैः ॥२३॥श्रद्धोपस्पर्शि दृदयलिंग त्रितयहेतुभिः ॥अज्ञानतिमिरार्काभैर्ज्ञानदान निदायकैः ॥२४॥विश्वभर्तुरुमास्पर्शसुखातिसुखकारिभिः ॥महावभृथसुस्नान महाशुद्धिविधायिभिः ॥२५॥सहस्रधारैः कलशैः स ईशानो घटोद्भव ॥सहस्रकृत्वः स्नपयामास संहृष्टमानसः ॥२६॥ततः प्रसन्नो भगवान्विश्वात्मा विश्वलोचनः ॥तमुवाच तदेशानं रुद्रं रुद्रवपुर्धरम् ॥२७॥तव प्रसन्नोस्मीशान कर्मणानेन सुव्रत ॥गुरुणानन्यपूर्वेण ममातिप्रीतिकारिणा ॥२८॥ततस्त्वं जटिलेशान वरं ब्रूहि तपोधन ॥अदेयं न तवास्त्यद्य महोद्यमपरायण ॥२९॥॥ ईशान उवाच ॥यदि प्रसन्नो देवेश वरयोग्योस्म्यहं यदि ॥तदेतदतुलं तीर्थं तव नाम्नास्तु शंकर ॥३०॥॥विश्वेश्वर उवाच ॥त्रिलोक्यां यानि तीर्थानि भूर्भुवःस्वः स्थितान्यपि ॥तेभ्योखिलेभ्यस्तीर्थेभ्यः शिवतीर्थमिदं परम् ॥३१॥शिवज्ञानमिति ब्रूयुः शिवशब्दार्थचिंतकाः ॥तच्च ज्ञानं द्रवीभूतमिह मे महिमोदयात् ॥३२॥अतो ज्ञानोद नामैतत्तीर्थं त्रैलोक्यविश्रुतम् ॥अस्य दर्शनमात्रेण सर्वपापैः प्रमुच्यते। ॥३३॥ज्ञानोदतीर्थसंस्पर्शादश्वमेधफलं लभेत् ॥स्पर्शनाचमनाभ्यां च राजसूयाश्वमेधयोः ॥३४॥फल्गुतीर्थे नरः स्नात्वा संतर्प्य च पितामहान् ॥यत्फलं समवाप्नोति तदत्र श्राद्धकर्मणा ॥३५॥गुरुपुष्यासिताष्टम्यां व्यतीपातो यदा भवेत् ॥तदात्र श्राद्धकरणाद्गयाकोटिगुणं भवेत् ॥३६॥यत्फलं समवाप्नोति पितॄन्संतर्प्य पुष्करे ॥तत्फलं कोटिगुणितं ज्ञानतीर्थे तिलोदकैः ॥३७॥सन्निहत्यां कुरुक्षेत्रे तमोग्रस्ते विवस्वति ॥यत्फलं पिंडदानेन तज्ज्ञानोदे दिने दिने॥३८॥पिंडनिर्वपणं येषां ज्ञानतीर्थे सुतैः कृतम्॥मोदंते शिवलोके ते यावदाभूतसंप्लवम् ॥३९॥अष्टम्यां च चतुर्दश्यामुपवासी नरोत्तमः ॥प्रातः स्नात्वाथ पीतांभस्त्वंतर्लिंगमयो भवेत् ॥४०॥एकादश्यामुपोष्यात्र प्राश्नाति चुलुकत्रयम् ॥हृदये तस्य जायंते त्रीणि लिंगान्यसंशयम् ॥४१॥ईशानतीर्थे यः स्नात्वा विशेषात्सोमवासरे ॥।संतर्प्य देवर्षि पितॄन्दत्त्वा दानम स्वशक्तितः ॥४२॥ततः समर्च्य श्रीलिंगं महासंभारविस्तरैः ॥अत्रापि दत्त्वा नानार्थान्कृतकृत्योभवेन्नरः ॥४३॥उपास्य संध्यां ज्ञानोदे यत्पापं काललोपजम् ।क्षणेन तदपाकृत्य ज्ञानवाञ्जायते द्विजः ॥४४॥शिवतीर्थमिदं प्रोक्तं ज्ञानतीर्थमिदं शुभम् ॥तारकाख्यमिदं तीर्थं मोक्षतीर्थमिदं धुवम् ॥४५॥स्मरणादपि पापौघो ज्ञानोदस्य क्षयेद्ध्रुवम् ॥दर्शनात्स्पर्शनात्स्नानात्पानाद्धर्मादिसंभवः ॥४६॥डाकिनीशाकिनी भूतप्रेतवेतालराक्षसाः ॥ग्रहाः कूष्मांडझोटिंगाः कालकर्णी शिशुग्रहाः ॥४७॥ज्वरापस्मारविस्फोटद्वितीयकचतुर्थकाः ॥सर्वे प्रशममायांति शिवर्तार्थजलेक्षणात्॥ ४८॥ज्ञानोदतीर्थपानीयैर्लिंगं यः स्नापयेत्सुधीः ॥सर्वतीर्थोदकैस्तेन ध्रुवं संस्नापितं भवेत् ॥४९॥ज्ञानरूपोह मेवात्र द्रवमूर्तिं विधाय च ॥जाड्यविध्वंसनं कुर्यां कुर्यां ज्ञानोपदेशनम् ॥५०॥इति दत्त्वा वराञ्छंभुस्तत्रैवांतरधीयत ॥कृतकृत्यमिवात्मानं सोप्यमंस्तत्रिशूलभृत् ॥५१॥ईशानो जटिलो रुद्रस्तत्प्राश्य परमोदकम्॥अवाप्तवान्परं ज्ञानं येन निर्वृतिमाप्तवान्॥ ५२॥॥ स्कंद उवाच ॥कलशोद्भव चित्रार्थमितिहासं पुरातनम् ॥ज्ञानवाप्यां हि यद्वृत्तं तदाख्यामि निशामय ॥५३॥हरिस्वामीति विख्यातः काश्यामासीद्विजः पुरा ॥तस्यैका तनया जाता रूपेणाऽप्रतिमा भुवि ॥५४॥न समा शीलसंपत्त्या तस्या काचन भूतले ॥कलाकलापकुशला स्वरेणजितकोकिला ॥५५॥न नारी तादृगस्तीह ना भरी किन्नरी न च [॥विद्याधरी न नो नागी गंधर्वी नासुरी न च ॥५६॥सर्वसौंदर्यनिलया सर्वलक्षणसत्खनिः ॥अधिशेते ध्रुवं ध्वांतं तन्मौलिं ब्रध्न साध्वसात् ॥९७॥तदास्य शरणं यातो मन्ये दर्शभयाच्छशी ॥दिवापि न त्यजेत्तां तु त्रस्तश्चंडमरीचितः ॥५८॥तद्भ्रूर्भ्रमरराजीव गंडपत्रलतांतरे ॥उदंचन्न्यंचदुड्डीन गतेरभ्यासभाजिनी ॥५९॥तच्चारुलोचनक्षेत्रे विचरंतौ च खंजनौ ॥सदैव शारदीं प्रीतिं निर्विशेते निजेच्छया ॥६०॥सुदत्या रदनश्रेणी छेदेषु विषमेषुणा ॥विहिता कांचनी रेखा क्वेंदावेतावती कला ॥६१॥प्रायो मदन भूपाल हर्म्य रत्नांतरे शुभे ॥जितप्रवालसुच्छाये तस्या रदनवाससी ॥६२॥स्वर्गे मर्त्ये च पाताले नैषा रेखा क्वचित्स्त्रियाम्॥तत्कंठरेखात्रितय व्याजेन शपते स्मरः ॥६३॥शंके चित्त भुवो राज्ञो लसत्पटकुटीद्वयम् ॥अनर्घ्यरत्नकोशाढ्यं तम्या वक्षोरुहद्वयम् ॥६४॥अनंगभू नियमतोऽदृश्ये मध्ये नतभ्रुवः ॥रोमालीलक्षिकामूर्ध्वामिव यष्टिं विधिर्व्यधात् ॥६५॥तस्या नाभीदरीं प्राप्य कंदर्पोऽनंगता गतः ॥पुनः प्राप्तुमिवांगानि तप्यते परमं तपः ॥६६॥गुरुणैतन्नितंबेन महामन्मथ दीक्षया ॥भुवि के के युवानो न स्वाधीना प्रापितादृशाम् ॥६७॥ऊरुस्तंभेन चैतस्याः स्तंभवत्कस्यनो मनः ॥तस्तंभेन मुने वापि सुवृत्तेन सुवर्तनम् ॥६८॥पादांगुष्ठनखज्योतिः प्रभया कस्य न प्रभा ॥विवेकजनिताऽध्वंसि मुने तस्या मृगीदृशः ॥६९॥सा प्रत्यहं ज्ञानवाप्यां स्नायं स्नायं शिवालये ॥संमार्जनादि कर्माणि कुरुतेऽनन्यमानसा ॥७०॥तत्पादप्रतिबिंबेषु रेखा शष्पांकुरं चरन् ॥नान्यद्वनांतरं याति काश्यां यूनां मनोमृगः ॥७१॥तदास्य पंकजं हित्वा यूनां नेत्रालिमालया ॥न लतांतरमासेवि अप्यामोदप्रसूनयुक् ॥७२॥सुलोचनापि सा कन्या प्रेक्षेतास्यं न कस्यचित् ॥सुश्रवा अपि सा बाला नादत्ते कस्यचिद्वचः ॥७३॥सुशीला शीलसंपन्ना रहस्तद्विरहातुरैः ॥प्रार्थितापि सुरूपाढ्यैर्नाभिलाषं बबंध सा ॥७४॥धनैस्तस्याजनेतापि युवभिः प्रार्थितो बहु ॥नाशकत्तां सुलीलां सदातुं शीलोर्जितश्रियम् ॥७५॥ज्ञानोदतीर्थभजनात्सा सुशीला कुमाग्किा ॥बहिरंतस्तदाऽद्राक्षीत्सर्वलिंगमयं जगत ॥७६॥कदाचिदेकदा तां तु प्रसुप्तां सदनांगणे ॥मोहितो रूपसंपत्त्या कश्चिद्विद्याधरोऽहरत् ॥७७॥व्योमवर्त्मनितां रात्रौ यावन्मलयपर्वतम् ॥स निनीषति तावच्च विद्युन्माली समागतः ॥७८॥राक्षसो भीषणवपुः कपालकृतकुंडलः ॥वसारुधिरलिप्तांगः श्मश्रुलः पिंगलोचनः ॥७९॥राक्षस उवाच ॥ममदृग्गोचरं यातो विद्याधरकुमारक ॥अद्य त्वामेतया सार्धं प्रेषयामि यमालयम् ॥८०॥इति श्रुत्वाथ सा वाक्यं व्याघ्राघ्राता मृगी यथा ॥चकंपेऽतीव संभीता कदलीदलवन्मुहुः ॥८१॥निजघान त्रिशूलेन रक्षो विद्याधरं च तम् ॥विद्याधरकुमारोपि नितरां मधुराकृतिः ॥८२॥तद्भीषणत्रिशूलेन भिन्नोस्को महाबलः ॥जघान मुष्टिघातेन वज्रपातोपमेन तम् ॥८३॥नरमांसवसामत्तं विद्युन्मालिनमाहवे ॥चूर्णितो मुष्टिपातेन सोऽपतद्वसुधातले ॥८४॥राक्षसो मृत्युवशगो वज्रेणेव महीधरः ॥विद्याधरोपि तच्छूलघातेन विकलीकृतः ॥८५॥उवाच गद्गदं वाक्यं विघूर्णित विलोचनः ॥प्रिये मुधा समानीता सुशित्यर्धोक्तिमुच्चरन् ॥८६॥जहौ प्राणान्रणे वीरस्तां प्रियां परितः स्मरन् ॥८७॥अनन्यपूर्वसंस्पर्श सुखं समनुभूय सा ॥तमेव च पतिं मत्वा चक्रे शोकाग्निसात्तनुम् ॥८८॥लिंगत्रयशरीरिण्यास्तस्याः सान्निध्यतः स हि ॥दिव्यं वपुः समासाद्य राक्षसस्त्रिदिवं ययौ ॥८९॥रणे पणीकृतप्राणो विद्याधरसुतोपि सः ॥अंते प्रियां स्मरन्प्राप जनुर्मलयकेतुतः ॥९०॥ध्यायंती सापि तं बाला विद्याधरकुमारकम्॥विरहाग्नौ विसृष्टासुः कर्णाटे जन्मभागभूत् ॥९१॥सुतो मलयकेतोस्तां कालेन परिणीतवान् ॥माल्यकेतुरनंगश्रीः पित्रा दत्तां कलावतीम् ॥९२॥सापि प्राग्वासनायोगाल्लिंगार्चनरता सती ॥हित्वा मलयजक्षोदं विभूतिं बह्वमंस्त वै ॥९३॥मुक्ता वैदूर्य माणिक्य पुष्परागेभ्य एव सा ॥मेने रुद्राक्षनेपध्यमनर्घ्यं गर्भसुंदरी ॥९४॥कलावती माल्यकेतुं पतिं प्राप्य पतिव्रता ॥अपत्यत्रितयं लेभे दिव्यभोगसमृद्धिभाक् ॥९५॥एकदा कश्चिदौदीच्यो माल्यकेतुं नरेश्वरम् ॥चित्रकृच्चित्रपटिकां चित्रां दर्शितवानथ ॥९६॥तां तु चित्रपटीं राजा कलावत्यै समर्पयत् ॥साथ चित्रपटीं रम्यां संप्रहृष्टतनूरुहा ॥९७॥मुहुर्मुहुः प्रपश्यंती रहसि प्राणदेवताम् ॥विसस्मार स्वमपि च समाधिस्थेव योगिनी ॥९८॥क्षणमुन्मील्य नयने कृत्वा नेत्रातिथिं पटीम् ॥तर्जन्यग्रमथोत्क्षिप्य स्वात्मानं समबोधयत् ॥९९॥संभेदोयमसे रम्य उपलोलार्कमग्रतः ॥उपश्रीकेशवपदं वरणैषा सरिद्वरा ॥१००॥स्वगें प्रार्थितसंस्पर्शा सैषा स्वर्गतरंगिणी ॥उदग्वहाभिलष्यंति यां दिवोद्युसदः सदा ॥१॥अलक्ष्यामोक्षलक्ष्मी र्या वेदांते परिपठ्यते ॥विमुक्तये सतां सैषा श्रीमती मणिकर्णिका ॥२॥मरणं मंगलं यत्र सफलं यत्र जीवितम् ॥स्वर्गस्तृणायते यत्र सैषा श्रीमणिकर्णिका ॥३॥यत्र संपत्तिसंभारान्विश्राण्य निधनेच्छया ॥यतिव्रतं समालंब्य तिष्ठते मूलकंदभुक् ॥४॥यत्र त्रिमार्गं गांगं गां मार्गमाणोमृतान्हरः ॥स्वमौलिबालचंद्रेण मुक्तिमार्गं प्रदर्शयन् ॥५॥संसारं यत्र दुर्वारं प्रतारयति शंकरः ॥मृता अप्यमृतायंते कर्णधाराद्यतो नराः ॥६॥संसारासारपदवी यत्र स्याददवीयसी ॥कर्णे जपान्महेशानात्करुणा वरुणालयात् ॥७॥अनेक भवसंभूत प्रभूत सुकृतैर्नराः ॥कर्णे जपं भवं यत्र लभंते ते भवापहम् ॥८॥स्वीकृत्य क्षेत्रसंन्यासं यद्बलेन महाधियः ॥तृणं कृतातं मन्यंते सेयं श्रीमणिकर्णिका ॥९॥तृणीकृत्य निजं देहं यत्र राजर्षिसत्तमः ॥हरिश्चंद्रः सपत्नीको व्यक्रीणाद्भूरयं हि सा ॥११०॥अभिलष्यंति यत्रत्यमपि वैकुण्ठवासिनः ॥सैकतं मृदुलं तल्पं सैषा श्रीमणिकर्णिका ॥११॥अनेक जन्म जनित कर्मसूत्रनियंत्रणम् ॥उन्मुच्य यत्र मुक्ताः स्युः सैषा श्रीमणिकर्णिका ॥१२॥सत्यलोकेऽपि ये लोकास्तेऽर्थयंति निरंतरम् ॥यामहो दीर्घनिद्रायै सेयं श्रीमणिकर्णिका ॥१३॥अयं हि स कुलस्तंभो यत्र श्रीकालभैरवः ॥क्षेत्रपापकृतः शास्ति दर्शयंस्तीव्रयातनाम् ॥१४॥अन्यत्र विहितं पापं नश्येत्काशीनिरीक्षणात् ॥काश्यां कृतानां पापानां दारुणेयं तु यातना ॥१५॥कपालमोचनं तीर्थमेतत्तदपि पावनम् ॥कपालं पतितं यत्र विधेर्भैरवपाणितः ॥१६॥ऋणत्रयाद्विमुच्यंते यत्र स्नाता नरोतमाः ॥तीर्थं विशुद्धिजनकं तदेतदृणमोचनम् ॥१७॥प्रणवाख्यं परंब्रह्म यत्र नित्यं प्रकाशते ॥सपंचायतनोपेत ॐकारेशोयमद्भुतः ॥१८॥अश्च उश्च मकारश्च नादोबिंदुश्च पंचमः ॥पंचात्मकं परंब्रह्म यत्र नित्यं प्रकाशते ॥१९॥एषा मत्स्योदरी रम्या यत्स्नातो मानवोत्तमः ॥मातुर्जातूदरदरीं न विशेदेष निश्चयः ॥१२०॥त्रिलोचनोयं भगवान्कुर्यादेव त्रिलोचनम्॥निजभक्तं कृपायुक्तस्त्वपि देशातंर स्थितम् ॥२१॥असौ कामेश्वरो देवो यः कामान्पूरयेत्सताम् ॥दुर्वासा अपि यत्राप निजकाममहोदयम् ॥२२॥स्वयं लीनो महेशोत्र भक्तकामसमृद्धये ॥तस्मात्स्वर्लीनसंज्ञास्य देवदेवस्य शूलिनः ॥२३॥वाराणस्यां महादेवो यः पुराणेषु पठ्यते ॥क्षेत्राभिमानी भगवांस्तत्प्रासादोयमद्भुतः ॥२४॥असौ स्कंदेश्वरो देवः श्रद्धया यद्विलोकनात् ॥आजन्मब्रह्मचर्यस्य फलमाप्नोति मानवः ॥२५॥विनायकेश्वरश्चायं सर्वसिद्धि प्रदायकः ॥यत्सेवया प्रणश्यंति नृणां सर्वे विनायकाः ॥२६॥इयं वाराणसी देवी साक्षान्मूर्त्तिमयी शुभा ॥यस्या विलोकनात्पुंसां भूयो नो गर्भसंभवः ॥२७॥पार्वतीश्वरलिंगस्य महदायतनं त्विदम् ॥यत्र नित्यं महेशानो गौर्या सह विमुक्तिदः ॥२८॥एष भृंगीश्वरः श्रीमान्महापातकनाशनः ॥जीवन्मुक्तोऽभवद्भृंगी यस्य लिंगस्य सेवया ॥२९॥चतुर्वेदेश्वरश्चैष चतुर्वेदधरो विधिः ॥लभेद्यद्वीक्षणाद्विप्रो वेदाध्ययनजं फलम् ॥१३०॥यज्ञैः संस्थापितं चैतल्लिंगं यज्ञेश्वराभिधम् ॥यदर्चनाल्लभेन्मर्त्यः सर्वयागफलं महत् ॥३१॥पुराणेश्वर नामैतल्लिंगमष्टादशांगुलम् ॥अष्टादशानां विद्यानां स्यादाधारो यदीक्षणात् ॥३२॥धर्मशास्त्रेश्वरश्चायं स्मृतिभिश्च प्रतिष्ठितः ॥स्मृत्यध्ययनजं पुण्यं यद्विलोकनतो भवेत् ॥३३॥सारस्वतमिदं लिंगं सर्वजाड्यविनाशकृत् ॥सर्वतीर्थेश्वरं लिंगमेतत्सद्यो विशुद्धिदम् ॥३४॥शैलेश्वरस्य लिंगस्य मंडपोयं महाद्भुतः ॥सर्वेषां रत्नजातानां यो बिभर्ति परां श्रियम् ॥३५॥सप्तसागरसंज्ञं वै लिंगमेतन्मनोहरम् ॥यद्वीक्षणाल्लभेन्मर्त्यः सप्ताब्धिस्नानजं फलम् ॥३६॥असौ मंत्रेश्वरः श्रीमान्मंत्रजाप्यफलप्रदः ॥सप्तकोटिमहामंत्रैः स्थापितो यः पुरा युगे ॥३७॥त्रिपुरेशस्य लिंगस्य पुरः कुंडमिदं महत् ॥त्रिपुरैः खानितं पूर्वं त्रिपुरारिप्रियं परम् ॥३८॥ इदं वाणेश्वरं लिंगं सहस्रभुजपूजितम् ॥द्विभुजस्यापि बाणस्य सहस्रभुजहेतुकम् ॥३९॥वैरोचनेश्वरश्चैष पुरः प्रह्लादकेशवात् ॥बलिकेशवनामासावेष नारदकेशवः ॥१४०॥आदिकेशव पूर्वेण त्वयमादित्यकेशवः ॥भीष्मकेशवनामासौ दत्तात्रेयेश्वरस्त्वयम् ॥४१॥दत्तात्रेयेश्वरात्पूर्वमेष आदि गदाधरः ॥भृगुकेशवनामासावेष वामनकेशवः ॥४२॥नरनारायणावेतौ यज्ञवाराहकेशवः ॥विदारनारसिंहोयं गोपीगोविंद एष ह ॥४३॥एष लक्ष्मीनृसिंहस्य प्रासादो रत्नकेतनः ॥यस्य प्रसादात्प्रह्लादः पदमैंद्रमवाप्तवान् ॥४४॥अखर्वसिद्धिदः पुंसामेष खर्वविनायकः ॥शेषमाधवनामासौ शेषेण स्थापितः पुरा ॥४५॥यस्य भक्ता न दह्यंते त्वपि संवर्तवह्निना ॥शंखमाधवनामासौ शंखं हत्वात्र संस्थितः ॥४६॥इदं सारस्वतं स्रोतः परं ब्रह्मरसायनम् ॥सरस्वत्या महानद्याः संगमो यत्र गंगया ॥४७॥यत्राप्लुता नरा भूयः संभवंति न भूतले ॥श्रीबिंदुमाधवस्त्वेष साक्षाल्लक्ष्मीपतिः परः ॥४८॥श्रद्धया यं नमन्मर्त्यो न वसेद्गर्भवेश्मनि ॥न दारिद्र्यमवाप्नोति व्याधिभिर्नाभिभूयते ॥४९॥बिंदुमाधवभक्तो यस्तं यमोपि नमस्यति ॥प्रणवात्मा य एकोऽस्ति नादबिंदु स्वरूपधृक् ॥१५०॥अमूर्तं यत्परं ब्रह्म बिंदुमाधव एव सः ॥एतत्पंचनदं तीर्थं पंचब्रह्मात्मसंज्ञकम् ॥५१॥यत्र स्नातो न गृह्णीयाच्छरीरं पांचभौतिकम् ॥एषा सा मंगलागौरी काश्यां परममंगलम् ॥५२॥यत्प्रसादादवाप्नोति नरोऽत्र च परत्र च ॥मयूखादित्यसंज्ञोयं रश्मिमाली तमोपहः ॥५३॥गभस्तीशो महालिंगमेतद्दिव्यमहःप्रदम् ॥मृकंडुसूनुनाप्यत्र तपस्तप्तं पुरा महत् ॥५४॥लिंगं संस्थाप्य परमं स्वनाम्नायुःप्रदं परम् ॥किरणेश्वरनामैतल्लिंगं त्रैलोक्यविश्रुतम् ॥५५॥सकृन्न तमिदं लोकं नयेत्किरणमालिनः ॥धौतपापेश्वरं लिंगमेतत्पातकधावनम् ॥५६॥निर्वाणनरसिंहोयं भक्तनिर्वाणकारणम् ॥मणिप्रदीपनागोयं महामणिविभूषणः ॥५७॥यदर्चनान्नरो जातु न नागैः परिभूयते ॥कपिलेशमिदं लिंगं कपिलेन प्रतिष्ठितम्॥ ५८॥मुच्यंते कपयोप्यस्य दर्शनात्किमु मानवाः ॥प्रियव्रतेश्वरं लिंगं महदेतत्प्रकाशते ॥५९॥यस्यार्चनाल्लभेज्जंतुः प्रियत्वं सर्वजन्तुषु ॥इदमायतनं श्रेष्ठं मणिमाणिक्यनिर्मितम् ॥१६०॥श्रीमतः कालराजस्य कलिकालार्तिहारिणः ॥निजभक्तं जनं पाति यः पापात्पापभक्षणः ॥६१॥क्षेत्रविघ्नकरान्पापान्यातयन्यातना शतैः ॥इयं मंदाकिनी रम्या तपस्तप्तुमिहागता ॥६२॥काशीवाससुखं प्राप्य नाद्यापि दिवमीहते ॥स्नात्वात्र संतर्प्य पितॄञ्छ्राद्धं कृत्वा विधानतः ॥६३॥नरो न नरकं पश्येदपि दुष्कृतकर्मकृत् ॥यानि कानि च लिंगानि काश्यां संति सहस्रशः ॥६४॥रत्नभूतमिदं तेषु लिंगं रत्नेश्वराभिधम् ॥रत्नेश्वरप्रसादेन भुक्त्वा रत्नान्यनेकशः ॥६५॥पुरुषार्थमहारत्नं निर्वाणं को न लब्धवान् ॥कृत्तिवासेश्वरस्यैषा महाप्रासादनिर्मितिः ॥६६॥यां दृष्ट्वापि नरो दूरात्कृत्तिवासः पदं लभेत् ॥सर्वेषामपि लिंगानां मौलित्वं कृत्तिवाससः ॥६७॥ॐकारेशः शिखा ज्ञेया लोचनानि त्रिलोचनः ॥गोकर्णभारभूतेशौ तत्कर्णौ परिकीर्तितौ ॥६८॥विश्वेश्वराविमुक्तौ च द्वावेतौ दक्षिणौ करौ ॥धर्मेशमणिकर्णेशौ द्वौ करौ दक्षिणेतरौ ॥६९॥कालेश्वरकपर्दीशौ चरणावतिनिर्मलौ ॥ज्येष्ठेश्वरो नितंबश्च नाभिर्वै मध्यमेश्वरः ॥१७०॥कपर्दोस्य महादेवः शिरोभूषा श्रुतीश्वरः ॥चंद्रेशो हृदयं तस्य आत्मा वीरेश्वरः परः ॥७१॥लिंगं तस्य तु केदारः शुक्रं शुक्रेश्वरं विदुः ॥अन्यानि यानि लिंगानि परः कोटि शतानि च ॥७२॥ज्ञेयानि नखलोमानि वपुषो भूषणान्यपि ॥यावेतौ दक्षिणौ हस्तौ नित्यनिर्वाणदौ हि तौ ॥७३॥जंतूनामभयं दत्त्वा पततां मोहसागरे ॥इयं दुर्गा भगवती पितृलिंगमिदं परम् ॥७४॥इयं हि चित्रघंटेशी घंटाकर्ण ह्रदस्त्वयम् ॥इयं सा ललिता गौरी विशालाक्षीयमद्भुता ॥७५॥आशाविनायकस्त्वेष धर्मकूपोयमद्भुतः ॥यत्र पिंडान्नरो दत्त्वा पितॄन्ब्रह्मपदं नयेत् ॥७६॥एषा विश्वभुजा देवी विश्वैकजननी परा ॥असौ बंदी महादेवी नित्यं त्रैलोक्यवंदिता ॥७७॥निगडस्थानपि जनान्पाशान्मोचयति स्मृता॥दशाश्वमेधिकं तीर्थमेतत्त्रैलोक्यवंदितम् ॥७८॥यत्राहुतित्रयेणापि अग्निहोत्रफलं लभेत् ॥प्रयागाख्यमिदं स्रोतः सर्वतीर्थोत्तमोत्तमम् ॥७९॥अशोकाख्यमिदं तीर्थं गंगाकेशव एष वै॥मोक्षद्वारमिदं श्रेष्ठं स्वर्ग द्वारमिदं विदुः ॥१८०॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे ज्ञानवापीवर्णनं नाम त्रयस्त्रिंशत्तमोऽध्यायः ॥३३॥ N/A References : N/A Last Updated : November 25, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP