संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|काशीखण्ड|
अध्याय ६०

काशीखण्डः - अध्याय ६०

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


स्कंद उवाच ॥
उक्ता पंचनदोत्पत्तिर्मित्रावरुणनंदन ॥
इदानीं कथयिष्यामि माधवाविष्कृतिं पराम् ॥१॥
यां श्रुत्वा श्रद्धया धीमान्पापेभ्यो मुच्यते क्षणात् ॥
न च श्रिया वियुज्येत संयुज्येत वृषेण च ॥२॥
आगत्य मंदरादद्रेरुपेंद्रश्चंद्रशेखरम् ॥
आपृच्छ्य तार्क्ष्यरथगः क्षणाद्वाराणसीं पुरीम् ॥३॥
दिवो दासं महीपालं समुच्चाट्य स्वमायया ॥
स्थित्वा पादोदके तीर्थे केशवाख्य स्वरूपतः ॥४॥
महिमानं परं काश्यां विचार्य सुविचार्य च ॥
दृष्ट्वा पंचनदं तीर्थं परां मुदमवाप ह ॥५॥
उवाच च प्रसन्नात्मा पुंडरीकविलोचनः ॥
अगण्या अपि वैकुंठ गुणा विगणिता मया ॥६॥
क्व क्षीरनीरधौ संति तावंतो निर्मला गुणाः ॥
यावंतो विजयं तेत्र काश्यां पंचनदे ह्रदे ॥७॥
श्वेतद्वीपेपि सामग्री क्व गुणानां गरीयसी ॥
ईदृशी यादृशी काश्यां धूतपापेस्ति पावनी ॥८॥
मुदे कौमोदकी स्पर्शस्तथा न मम जायते ॥धूतपापांबु संपर्को यथा भवति सर्वथा ॥९॥
न क्षीरनीरधिजया सुखं मे श्लिष्टगात्रया ॥
तथा भवेद्यथात्र स्यात्स्पृष्टया धूतपापया ॥१०॥
इत्थं पंचनदे तीर्थे क्षीरनीरधिजाधवः ॥
संप्रेष्य तार्क्ष्यं त्र्यक्षाग्रे वृत्तांतविनिवेदितुम् ॥११॥
आनंदकाननभवं दिवोदास क्षमापतेः ॥
संवर्णयन्गुणग्रामं पुण्यं पांचनदोद्भवम् ॥१२॥
सुखोपविष्टः संहृष्टः सुदृष्टिर्विष्टरश्रवाः ॥
दृष्टवांस्तपसा जुष्टमपुष्टांगं तपोधनम् ॥१३॥
स ऋषिस्तं समभ्येत्य पुंडरीकाक्षमच्युतम् ॥
उपोपविष्टकमलं वनमालाविराजितम् ॥१४॥
शंखपद्मगदाचक्र चंचत्करचतुष्टयम् ॥
कौस्तुभोद्भासितोरस्कं पीतकौशेयवाससम् ॥१५॥
सुनीलेंदीवररुचिं सुस्निग्ध मधुराकृतिम् ॥
नाभीह्रदलसत्पद्म सुपाटलरदच्छदम् ॥१६॥
दाडिमीबीजदशनं किरीटद्योतितांबरम् ॥
देवेंद्रवंदितपदं सनकादिपरिष्टुतम् ॥१७॥
दिव्यर्षिभिर्नारदाद्यैः परिगीतमहोदयम् ॥
प्रह्लादाद्यैर्भागवतैः परिनंदितमानसम् ॥१८॥
धृतशार्ङ्गधनुर्दंडं दंडिताखिलदानवम्॥
मधुकैटभहंतारं कंसविध्वंससूचकम्॥ १९॥
कैवल्यं यत्परं ब्रह्म निराकारमगोचरम् ॥
तं पुं मूर्त्या परिणतं भक्तानां भक्तिहेतुतः ॥२०॥
वेदाविदुर्यदाकारं नैवोपनिषदोदितम्॥
ब्रह्माद्या न च गीर्वाणाश्चक्रे नेत्रातिथिं सतम् ॥२१॥
प्रणनाम मुदायुक्तः क्षितिविन्यस्तमस्तकः ॥
स ऋषिस्तं हृषीकेशमग्निबिंदुर्महातपाः ॥२२॥
तुष्टाव परया भक्त्या मौलिबद्धकरांजलिः ॥
अध्यस्तविस्तीर्णशिलं बलिध्वंसिनमच्युतम् ॥२३॥
तत्र पंचनदाभ्याशे मार्कंडेयादि सेविते ॥
गोविंदमग्निबिंदुः स स्तुतवांस्तुष्टमानसः ॥२४॥
॥ अग्निबिंदुरुवाच ॥
ओं नमः पुंडरीकाक्ष बाह्यांतः शौचदायिने ॥
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥२५॥
नमामि ते पदद्वंद्वं सर्वद्वंद्वनिवारकम् ॥
निर्द्वंद्वया धिया विष्णो जिष्ण्वादि सुरवंदित ॥२६॥
यं स्तोतुं नाधिगच्छंति वाचो वाचस्पतेरपि ॥
तमीष्टे क इह स्तोतुं भक्तिरत्र बलीयसी ॥२७॥
अपि यो भगवानीशो मनःप्राचामगोचरः ॥
समादृशैरल्पधीभिः कथं स्तुत्यो वचः परः ॥२८॥
यं वाचो न विशंतीशं मनतीह मनो न यम् ॥
मनो गिरामतीतं तं कः स्तोतुं शक्तिमान्भवेत् ॥२९॥
यस्य निःश्वसितं वेदाः स षडंगपदक्रमाः ॥
तस्य देवस्य महिमा महान्कैरवगम्यते ॥३०॥
अतंद्रितमनोबुद्धींद्रिया यं सनकादयः ॥
ध्यायंतोपि हृदाकाशे न विंदंति यथार्थतः ॥३१॥
नारदाद्यैर्मुनिवरैराबाल ब्रह्मचारिभिः ॥
गीयमानचरित्रोपि न सम्यग्योधिगम्यते ॥३२॥
तंसूक्ष्मरूपमजमव्ययमेकमाद्यं बह्माद्यगोचरमजेयमनंतशक्तिम् ॥
नित्यं निरामयममूर्तमचिंत्यमूर्तिं कस्त्वां चराचर चराचरभिन्न वेत्ति ॥३३॥
एकैकमेव तव नामहरेन्मुरारे जन्मार्जिताघमघिनां च महापदाढ्यम् ॥
दद्यात्फलं च महितं महतो मखस्य जप्तं मुकुंदमधुसूदनमाधवेति ॥३४॥
नारायणेति नरकार्णव तारणेति दामोदरेति मधुहेति चतुर्भुजेति ॥
विश्वंभरेति विरजेति जनार्दनेति क्वास्तीह जन्म जपतां क्व कृतांतभीतिः ॥३५॥
ये त्वां त्रिविक्रम सदा हृदि शीलयंति कादंबिनी रुचिर रोचिषमंबुजाक्षम् ॥
सौदामनीविलसितांशुकवीतमूर्ते तेपि स्पृशंति तव कांतिमचिंत्यरूपाम् ॥३६॥
श्रीवत्सलांछनहरेच्युतकैटभारे गोविंदतार्क्ष्य रथकेशवचक्रपाणे ॥
लक्ष्मीपते दनुजसूदन शार्ङ्गपाणे त्वद्भक्तिभाजि न भयंक्वचिदस्ति पुंसि ॥३७॥
यैरर्चितोसि भगवंस्तुलसीप्रसूनैर्दूरीकृतैणमदसौरभदिव्यगंधैः ॥
तानर्चयंति दिवि देवगणाःसमस्ता मंदारदामभिरलं विमलस्वभावान् ॥३८॥
यद्वाचि नाम तव कामदमब्जनेत्र यच्छ्रोत्रयोस्तव कथा मधुराक्षराणि ॥
यच्चित्तभित्तिलिखितं भवतोस्ति रूपं नीरूपभूपपदवी नहि तैर्दुरापा ॥३९॥
ये त्वां भजंति सततं भुविशेषशायिंस्ताञ्छ्रीपते पितृपतींद्र कुबेरमुख्याः ॥
वृंदारका दिवि सदैव सभाजयंति स्वर्गापवर्गसुखसंततिदानदक्ष ॥४०॥
ये त्वां स्तुवंति सततं दिवितान्स्तुवंति सिद्धाप्सरोमरगणा लसदब्जपाणे ॥
विश्राणयत्यखिलसिद्धिदकोविना त्वां निर्वाणचारुकमलां कमलायताक्ष ॥४१॥
त्वं हंसि पासि सृजसि क्षणतः स्वलीला लीलावपुर्धर विरिंचिनतांघ्रियुग्म॥
विश्वं त्वमेव परविश्वपतिस्त्वमेव विश्वस्यबीजमसि तत्प्रणतोस्मि नित्यम् ॥४२॥
स्तोता त्वमेव दनुजेंद्ररिपो स्तुतिस्त्वं स्तुत्यस्त्वमेव सकलं हि भवानिहैकः ॥
त्वत्तो न किंचिदपि भिन्नमवैमि विष्णो तृष्णां सदा कृणुहि मे भवजांभवारे ॥४३॥
इति स्तुत्वा हृषीकेशमग्निबिंदुर्महातपाः ॥
तस्थौ तूष्णीं ततो विष्णुरुवाच वरदो मुनिम् ॥४४
॥ श्रीविष्णुरुवाच ॥
अग्निबिंदो महाप्राज्ञ महता तपसांनिधे ॥
वरं वरय सुप्रीतस्तवादेयं न किंचन ॥४५॥
अग्निबिंदुरुवाच ॥
यदि प्रीतोसि भगवन्वैकुंठेश जगत्पते ॥
कमलाकांत तद्देहि यदिह प्रार्थयाम्यहम्॥ ४६॥
कृतानुज्ञोथ हरिणा भ्रूभंगेन स तापसः ॥
कृतप्रणामो हृष्टात्मा वरयामास केशवम् ॥४७॥
भगवन्सर्वगोपीह तिष्ठ पंचनदे ह्रदे ॥
हिताय सर्व जंतूनां मुमुक्षूणां विशेषतः ॥४८॥
लक्ष्मीशे न वरो मह्यमेष देयोऽविचारतः ॥
नान्यं वरं समीहेहं भक्तिं च त्वपदांबुजे ॥४९॥
इति श्रुत्वा वरं तस्याग्निबिंदोर्मधुसूदनः ॥
प्रीतः परोपकारार्थं तथेत्याहाब्धिजापतिः ॥५०॥
॥ श्रीविष्णुरुवाच ॥
अग्निबिंदो मुनिश्रेष्ठ स्थास्याम्यहमिह ध्रुवम् ॥
काशीभक्तिमतां पुंसां मुक्तिमार्गं समादिशन् ॥५१॥
मुने पुनः प्रसन्नोस्मि वरं ब्रूहि ददामि ते ॥
अतीव मम भक्तोसि भक्तिस्तेस्तु दृढा मयि ॥५२॥
आदावेव हि तिष्ठासुरहमत्र तपोनिधे ॥
ततस्त्वया समभ्यर्थि स्थास्याम्यत्र सदैव हि ॥५३॥
प्राप्य काशीं सुदुर्मेधाः कस्त्यजेज्ज्ञानवान्यदि ॥
अनर्घ्यं प्राप्य माणिक्यं हित्वा काचं क ईहते ॥५४॥
अल्पीयसा श्रमेणेह वपुषो व्ययमात्रतः ॥
अवश्यं गत्वरस्याशु यथामुक्तिस्तथा क्व हि ॥५५॥
विनिमय्य जराजीर्णं देहं पार्थिवमत्र वै ॥
प्राज्ञाः किमु न गृह्णीयुरमृतं नैर्जरं वपुः ॥५६॥
न तपोभिर्न वा दानैर्न यज्ञैर्बहुदक्षिणैः ॥
अन्यत्र लभ्यते मोक्षो यथा काश्यां तनु व्ययात् ॥५७॥
अपि योगं हि युंजाना योगिनो यतमानसाः ॥
नैकेनजन्मना मुक्ताः काश्यां मुक्ता वपुर्व्ययात् ॥५८॥
इदमेव महादानमिदमेव महत्तपः ॥
इदमेव व्रतं श्रेष्ठं यत्काश्यां म्रियते तनुः ॥५९॥
स एव विद्वाञ्जगति स एव विजितेंद्रियः ॥
स एव पुण्यवान्धन्यो लब्ध्वा काशीं न यस्त्यजेत् ॥६०॥
तावत्स्थास्याम्यहं चात्र यावत्काशी मुने त्विह ॥
प्रलयेपि न नाशोस्याः शिवशूलाग्र सुस्थितेः ॥६१॥
इत्याकर्ण्य गिरं विष्णोरग्निबिंदुर्महामुनिः ॥
प्रहृष्टरोमा प्रोवाच पुनरन्यं वरं वृणे ॥६२॥
मापते मम नाम्नात्र तीर्थे पंचनदे शुभे ॥
अभक्तेभ्योपि भक्तेभ्यः स्थितो मुक्तिं सदादिश ॥६३॥
येत्र पंचनदे स्नात्वा गत्वा देशांतरेष्वपि ॥
नरा पंचत्वमापन्ना मुक्तिं तेभ्योपि वै दिश ॥६४॥
येतु पंचनदे स्नात्वा त्वां भजिष्यंति मानवाः ॥
चलाचलापि द्वैरूपा मा त्याक्षीच्छ्रीश्च तान्नरान् ॥६५॥
॥ श्रीविष्णुरुवाच ॥
एवमस्त्वग्निबिंदोत्र भवता यद्वृतंमुने॥
त्वन्नाम्नोऽर्धेन मे नाम मया सह भविष्यति ॥६६॥
बिंदुमाधव इत्याख्या मम त्रैलोक्यविश्रुता ॥
काश्यां भविष्यति मुने महापापौघ घातिनी ॥६७॥
ये मामत्र नराः पुण्याः पुण्ये पंचनदे ह्रदे ॥
सदा सपर्ययिष्यंति तेषां संसारभीः कुतः ॥६८॥
वसुस्वरूपिणी लक्ष्मीर्लक्ष्मीर्निर्वाणसंज्ञिका ॥
तत्पार्श्वगा सदा येषां हृदि पंचनदे ह्यहम् ॥६९॥
यैर्न पंचनदं प्राप्य वसुभिः प्रीणिता द्विजाः ॥
आशुलभ्यविपत्तीनां तेषां तद्वसुरोदिति ॥७०॥
त एव धन्या लोकेस्मिन्कृतकृत्यास्त एव हि ॥
प्राप्य यैर्मम सांनिध्यं वसवो मम सात्कृताः ॥७१॥
बिंदुतीर्थमिदं नाम तव नाम्ना भविष्यति ॥
अग्निबिंदो मुनिश्रेष्ठ सर्वपातकनाशनम् ॥७२॥
कार्तिके बिंदुतीर्थे यो ब्रह्मचर्यपरायणः ॥
स्नास्यत्यनुदिते भानौ भानुजात्तस्य भीः कुतः ॥७३॥
अपि पापसहस्राणि कृत्वा मोहेन मानवः ॥
ऊर्जे धर्मनदे स्नातो निष्पापो जायते क्षणात् ॥'७४॥
यावत्स्वस्थोस्ति देहोयं यावन्नेंद्रियविक्लवः ॥
तावद्व्रतानि कुर्वीत यतो देहफलं व्रतम् ॥७५॥
एकभक्तेन नक्तेन तथैवायाचितेन च ॥
उपवासेन देहोयं संशोध्यो शुचिभाजनम् ॥७६॥
कृच्छ्रचांद्रायणादीनि कर्तव्यानि प्रयत्नतः ॥
अशुचिः शुचितामेति कायो यद्व्रतधारणात् ॥७७॥
व्रतैः संशोधिते देहे धर्मो वसति निश्चलः ॥
अर्थकामौ सनिर्वाणौ तत्र यत्र वृष स्थितिः ॥७८॥
तस्माद्व्रतानि सततं चरितव्यानि मानवैः ॥
धर्मसान्निध्य कर्तृणि चतुर्वर्गफलेप्सुभिः ॥७९॥
सदा कर्तुं न शक्नोति व्रतानि यदि मानवः ॥
चातुर्मास्यमनुप्राप्य तदा कुर्यात्प्रयत्नतः ॥८०॥
भूशय्या ब्रह्मचर्यं च किंचिद्भक्ष्यनिषेधनम् ॥
एकभक्तादि नियमो नित्यदानं स्वशक्तितः ॥८१॥
पुराणश्रवणं चैव तदर्थाचरणं पुनः ॥
अखंडदीपोद्बोधश्च महापूजेष्टदैवते ॥८२॥
प्रभूतांकुरबीजाढ्ये देशे चापि गतागतम् ॥
यत्नेन वर्जयेद्धीमान्महाधर्मविवृद्धये ॥८३॥
असंभाष्या न संभाष्याश्चातुर्मास्य व्रतस्थितैः ॥
मौनं चापि सदा कार्यं तथ्यं वक्तव्यमेव वा ॥८४॥
निष्पावांश्च मसूरांश्च कोद्रवान्वर्जयेद्व्रती ॥
सदा शुचिभिरास्थेयं स्प्रष्टव्यो नाव्रती जनः ॥८५॥
दंतकेशांबरादीनि नित्यं शोध्यानि यत्नतः ॥
अनिष्टचिंता नो कार्या व्रतिना हृद्यपि क्वचित् ॥८६॥
द्वादशस्वपि मासेषु व्रतिनो यत्फलं भवेत् ॥
चातुर्मास्यव्रतभृतां तत्फलं स्यादखंडितम् ॥८७॥
चतुर्ष्वपि च मासेषु न सामर्थ्यं व्रते यदि ॥
तदोर्जे व्रतिना भाव्यमप्यब्दफलमिच्छता ॥८८॥
अव्रतः कार्तिको येषां गतो मूढधियामिह ॥
तेषां पुण्यस्य लेशोपि न भवेत्सूकरात्मनाम् ॥८९॥
कृच्छ्रं वा चातिकृच्छ्रं वा प्राजापत्यमथापि वा ॥
संप्राप्ते कार्तिके मासि कुर्याच्छक्त्याति पुण्यवान् ॥९०॥
एकांतरं व्रतं कुर्यात्त्रिरात्र व्रतमेव वा ॥
पंचरात्रं सप्तरात्रं संप्राप्ते कार्तिके व्रती ॥९१॥
पक्षव्रतं वा कुर्वीत मासोपोषणमेव वा ॥
नोर्जो वंध्यो विधातव्यो व्रतिना केनचित्क्वचित् ॥९२॥
शाकाहारं पयोहारं फलाहारमथापि वा ॥
चरेद्यवान्नाहारं वा संप्राप्ते कार्तिके व्रती ॥९३॥
नित्यनैमित्तिकं स्नानं कुर्यादूर्जे व्रती नरः ॥
ब्रह्मचर्यं चरेदूर्जे महाव्रतफलार्थवान् ॥९४॥
बाहुलं ब्रह्मचर्येण यः क्षिपेच्छुचिमानसः ॥
समस्तं हायनं तेन ब्रह्मचर्यकृतं भवेत् ॥९५॥
यस्तु कार्तिकिकं मासमुपवासैः समापयेत् ॥
अप्यब्दमपि तेनेह भवेत्सम्यगुपोषितम् ॥९६ ।
शाकाहारपयोहारैरूर्जों यैरतिवाहितः ॥
अखंडिता शरत्तेन तदाहारेण यापिता ॥९७॥
पत्रभोजी भवेदूर्जे कांस्यं त्याज्यं प्रयत्नतः ॥
यो व्रती कांस्यभोजी स्यान्न तद्व्रतफलं लभेत् ॥९८॥
कांस्यस्य नियमे दद्यात्कांस्यं सर्पिः प्रपूरितम् ॥
ऊर्जे न भक्षयेत्क्षौद्रमतिक्षुद्रगतिप्रदम् ॥९९॥
मधुत्यागे घृतं दद्यात्पायसं च सशर्करम् ॥
अभ्यंगेऽभ्यवहारे च तैलमूर्जे विवर्जयेत् ॥१००॥
भूयात्स नारकी देही तत्राभ्यंगाद्यतोनघ ॥
तैलत्यागे तिलान्दद्याद्द्रोणमात्रान्स कांचनान् ॥१॥
कार्तिके मत्स्यभोजी यः स तैमीं योनिमृच्छति ॥
बाहुले मांसभोजी यः स कृमिःपूयशोणिते ॥२॥
मांसाशिनोपि ये भूपास्त्यजेयुस्तेपि कार्तिके ॥
मत्स्यमांसानि संत्यज्य कार्त्तिके व्रततत्परः ॥३॥
मत्स्यमांसादनाद्दोषाद्बहिर्भवति निश्चितम् ॥
नियमे मत्स्यमांसानां दद्यात्कार्तिकिके व्रती ॥
कूश्मांडानि समाषाणि दशस्वर्णयुतान्यपि ॥४॥
कार्तिके मीनभोजी यः सोश्नात्यमृतमेवहि ॥
सुघंटां सतिलां मौनी सहिरण्यां प्रदापयेत् ॥५॥
कार्तिके लवणं त्यक्तं येन व्रतभृता सता ॥
त्यक्ताः सर्वे रसास्तेन तत्त्यागी गां प्रदापयेत् ॥६॥
भूशय्यां कार्तिके कुर्वन्न भुवं संस्पृशेद्व्रती ॥
पर्यंकं भूशयो दद्यात्सतूलं सोपधानकम् ॥७॥
दीपं यः कार्तिके दद्यादखंडं घृतवर्तिकम् ॥
मोहांध तमसं प्राप्य स न गच्छति दुर्गतिम् ॥८॥
यः कुर्यात्कार्तिके मासे रजन्यां दीपकौमुदीम् ॥
तामिस्रं चांधतामिस्रं न स पश्येत्कदाचन ॥९॥
पापांधकारसंक्रुद्धः कार्तिके दीपदानतः ॥
क्रोधांधकारितमुखं भास्करिं स न वीक्षते ॥११०॥
स उद्द्योतमयं पश्येत्त्रैलोक्यं सचराचरम् ॥
प्रबोधयेन्ममाग्रे यो दीपं सोज्वलवर्तिकम् ॥११॥
पंचामृतानां कलशैरूर्जे मां स्नापयेन्नरः ॥
क्षीराब्धितटमासाद्य वसेत्कल्पं स पुण्यवान् ॥१२॥
प्रतिक्षपं कार्तिकिके कुर्वञ्ज्योत्स्नां प्रदीपजाम् ॥
ममाग्रे भक्तिसंयुक्तो गर्भध्वांतं न संविशेत् ॥१३॥
आज्यवर्तिकमूर्जे यो दीपं मेग्रे प्रबोधयेत् ॥
बुद्धिभ्रंशं न चाप्नोति महामृत्युभये सति ॥१४॥
कार्तिके मासि मे यात्रा यैः कृता भक्तितत्परैः ॥
बिंदुतीर्थे कृतस्नानैस्तेषां मुक्तिर्न दूरतः ॥१५॥
व्रतिनः कार्तिके मासि स्नातस्य विधिवन्मम ॥
दामोदरगृहाणार्घ्यं दनुजेंद्रनिषूदन ॥१६॥
स्नाने नैमित्तिके कृष्ण कार्तिके पापशोषणे ॥
गृह्णात्वर्घ्यं मया दत्तं राधया सहितो भवान् ॥१७॥
इमौ मंत्रौ समुच्चार्य योर्घ्यं मह्यं प्रयच्छति ॥
सुवर्णरत्न पुष्पांबु युजा शंखेन पुण्यवान् ॥१८॥
सुवर्णपूर्णपृथिवी संकल्पोदकपूर्वकम् ॥
तेन दत्ता भवेत्सम्यक्सुपात्राय सुपर्वणि ॥१९॥
एकादशीं समासाद्य प्रबोधकरणीं मम ॥
बिंदुतीर्थकृतस्नानो रात्रौ जागरणान्वितः ॥१२०॥
दीपान्प्रोबोध्य बहुशो ममालंकृत्य शक्तितः ॥
तौर्यत्रिकविनोदेन पुराणश्रवणादिभिः ॥२१॥
महामहोत्सवं कृत्वा यावत्पूर्णा तिथिर्भवेत् ॥
तत्रान्नदानं बहुशः कृत्वामत्प्रीतये नरः ॥२२॥
महापातकयुक्तोपि न विशेत्प्रमदोदरम् ॥
बिंदुमाधवनामानं यो मामत्र समर्चयेत् ॥२३॥
बिंदुतीर्थकृतस्नानो निर्वाणं स हि विंदति ॥
आदिमाधवनामाहं पूज्यः सत्ययुगे मुने ॥२४॥
अनंतमाधवो ज्ञेयस्त्रेतायां सर्वसिद्धिदः ॥
श्रीदमाधवसंज्ञोहं द्वापरे परमार्थकृत् ॥२५॥
कलौ कलिमलध्वंसी ज्ञेयोहं बिंदुमाधवः ॥
कलौ कल्मषसंपन्ना न मां विंदंति मानवाः ॥२६॥
ममैव मायया मूढा भेदवादपरायणाः॥
मम भक्तिं प्रकुर्वाणा ये विश्वेशं द्विषंति वै ॥२७॥
विद्विषो मम ते ज्ञेयाः पिशाचपदगामिनः ॥
पैशाचीं योनिमाप्यापि कालभैरवशासनात् ॥२८॥
त्रिंशद्वर्ष सहस्राणि उषित्वा दुःखसागरे ॥
विश्वेशानुग्रहादेव ततो मोक्षमवाप्नुयुः ॥२९॥
तस्माद्द्वेषो न कर्तव्यो विश्वेशे परमात्मनि ॥
विश्वेश द्वेषिणां पुंसां प्रायश्चित्तं यतो नहि ॥१३०॥
मनसापि हि विश्वेशं विद्विषंतीह येऽधमाः ॥
अध्यासतेंधतामिस्रं मृतास्तेन्यत्र संततम् ॥३१॥
शिवनिंदापरा ये च ये पाशुपतनिंदकाः॥
विद्विषो मम ते ज्ञेया पततो नरकेऽशुचौ ॥३२॥
अष्टाविंशति कोटीषु नरकेषु क्रमेण हि ॥
कल्पं कल्पं वसेयुस्ते ये विश्वेश्वरनिंदकाः ॥३३॥
विश्वेशानुग्रहं प्राप्य मुनेहमपि मुक्तिदः ॥
मद्भक्तैस्तद्विशेषेण सेव्यो विश्वेश्वरोऽनिशम् ॥३४॥
इयं वाराणसी ज्ञेया मुने पाशुपतस्थली ॥
तस्मात्पशुपतिः सेव्यः काश्यां निश्रेयसार्थिभिः ॥३५॥
अत्र पंचनदे तीर्थे स्नाति विश्वेश्वरः स्वयम् ॥
ऊर्जे सदैव सगणः सस्कंदः सपरिच्छदः ॥३६॥
ब्रह्मा सवेदः समखो ब्रह्माण्याद्याश्च मातरः ॥
सप्ताब्धयः ससरितः स्नांत्यूर्जे धूतपापके ॥३७॥
सचेतना हि यावंतस्त्रैलोक्ये देहधारिणः ॥
तावंतः स्नातुमायांति कार्तिके धूतपापके ॥३८॥
यैर्न पंचनदे स्नातं प्राप्य कार्तिकिकं शुभम्॥
जलबुदुदवत्तेषां वृथाजन्म शरीरिणाम्॥३९॥
आनंदकाननं पुण्यं पुण्यं पांचनदं ततः ॥
ततोपि मम सान्निध्यमग्निबिंदो महामुने ॥१४०॥
अनेनैवानुमानेन विद्धि पंचनदस्य वै ॥
महिमानं महाप्राज्ञ सर्वतीर्थोत्तमोत्तमम् ॥४१॥
श्रुत्वापि यं महाप्राज्ञो महापापैः प्रमुच्यते ॥
विष्णोर्मुखादिति श्रुत्वा सोग्निबिंदुर्महामुनिः ॥४२॥
पुनः प्रणम्य पप्रच्छ बिंदुमाधवमच्युतम् ॥४३॥
अग्निबिंदुरुवाच ॥
भगवञ्छ्रोतुमिच्छामि बिंदुमाधव तद्वद ॥
कतिधा तव रूपाणि काश्यां संति जनार्दन ॥४४॥
भविष्याण्यपि कानीह तानि मे कथयाच्युत ॥
यानि संपूज्यते भक्ताः प्राप्स्यंति कृतकृत्यताम् ॥१४५॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे बिंदुमाधवाविर्भावोनाम षष्टितमोऽध्यायः ॥६०॥

N/A

References : N/A
Last Updated : November 27, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP