काशीखण्डः - अध्याय ४४
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ स्कंद उवाच ॥
अथ मंदरकंदरोदरोल्लसद समद्युति रत्नमंदिरे ॥
परितः समधिष्ठितामरे निजशिखरैर्वसनीकृतांबरे ॥१॥
निवसञ्जगदीश्वरो हरः कृशरजनीश कलामनोहरः ॥।
लभते स्म न शर्म शंकरः प्रसरत्काशिवियोगज ज्वरः ॥२॥
विरहानलशांतये तदा समलेपि त्रिपुरारिणापि यः ॥
मलयोद्भव पंक एष स प्रतिपेदेह्यधुना पिपांसुताम् । ३
परितापहराणि पद्मिनीनां मृदुलान्यपि कंकणीकृतानि ॥
गदितानि यदीश्वरेण सर्पास्तदभूत्सत्यमहोमहेश्वरेच्छा ॥४॥
यदु दुग्धनिधिं निमथ्यदेवैर्मृदुसारः समकर्षि पूर्णचंद्रः ॥
स बभूव कृशो वियोगतप्तेश्वरमूर्धोष्मपरिक्षरच्छरीरः ॥५॥
यददीधरदेष जाततापः पृथुले मौलिजटानि कुंजकोणे ॥
परितापहरां हरस्तदानीं द्युनदीं तामधुनापि नोज्जिहीते॥ ६॥
महतो विरहस्य शंकरः प्रसभंतस्यवशी वशंगतः ॥
विविदेन सुरैः सदोगतैरपि संवीतसुतापवेष्टितः ॥७॥
अतिचित्रमिदं यदात्मना शुचिरप्येष कृपीटयोनिना ॥
स्वपुरीविरहोद्भवेन वै परिताप्येत जगत्त्रयेश्वरः ॥८॥
निजभालतलं कलानिधेः कलया नित्यमलंकरोति यः ॥
स तदीश्वरमप्यतापयद्विधुरेको विपरीत एव तु ॥९॥
गरलं गलनालिकातले विलसेदस्य न तेन तापितः ॥
अमृतांशु तुषारदीधिति प्रचयैरेव तु तापितोऽद्भुतम् ॥१०॥
विलसद्धरिचंदनोदकच्छटया तद्विरहापनुत्तये ॥
हृदया हि तयाप्यदूयत प्रसरद्भोगिफटाभवैर्न तु ॥११॥
सकलभ्रममेष नाशयेत्स्रगहित्वाद्यपदेशजं हरः ॥
इदमद्भुतमस्य यद्भ्रमः स्फुटमाल्येपि महाहिसंभवः ॥१२॥
स्मृतिमात्रपथंगतोपि यस्त्रिविध तापमपाकरोत्यलम्॥
स हि काशिवियोगतापितः स्वगतं किंचिदजल्पदित्यजः ॥१३॥
अपि काशि समागतोऽनिलो यदि गात्राणि परिष्वजेन्मम ॥
दवथुः परिशांतिमेति तन्नहि मानी परिगाहनैरपि ॥१४॥
अगमिष्यदहोकथं सतापो ननु दक्षांगजयाय एधितः ॥
ममजीवातुलता झटित्यलं ह्यभविष्यन्न हिमाद्रिजा यदि ॥१५॥
न तथोज्झितदेहयातया मम दक्षोद्भवयामनोऽदुनोत् ॥
अविमुक्तवियोगजन्मनापरि दूयेत यथा महोष्मणा ॥१६॥
अयि काशि मुदा कदा पुनस्तव लप्स्ये सुखमंगसंगजम् ॥
अतिशीतलितानि येन मेऽद्भुतगात्राणि भवंति तत्क्षणात् ॥१७॥
अयि काशि विनाशिताघसंघे तवविश्लेषजआशुशुक्षणिः ॥
अमृतांशुकलामृदुद्रवैरतिचित्रंहविषेव वर्धते ॥१८॥
अगमन्मम दक्षजा वियोगजो दवथुः प्राग्घिमवत्सुतौषधेन ॥
अधुना खलु नैव शांतिमीयां यदि काशीं न विलोकयेहमाशु ॥१९॥
मनसेति गृणंस्तदा शिवः सुतरां संवृततापवैकृतः ॥
जगदंबिकया धियां जनन्या कथमप्येष वियुक्त इत्यमानि ॥२०॥
प्रियया वपुषोर्धयानयाप्यपरिज्ञात वियोगकारणः ॥
वचनैरुपचर्यते स्म सप्रणतप्राणिनिदाघदारणः ॥२१॥
॥ श्रीपार्वत्युवाच ॥
तव सर्वग सर्वमस्ति हस्ते विलसद्योग वियोग एव कस्ते ॥
तव भूतिरहो विभूतिदात्री सकलापत्कलिकापि भूतधात्री ॥२२॥
त्वदनीक्षणतः क्षणाद्विभो प्रलयं यांति जगंति शोच्यवत् ॥
च्यवते भवतः कृपालवादितरोपीशनयस्त्वयोंकृतः ॥२३॥
भवतः परितापहेतवो न भवंतींदु दिवाकराग्नयः ॥
नयनानियतस्त्रिनेत्र तेऽमी प्रणयिन्यस्तिलसज्जला च मौलौ ॥२४॥
भुजगाभुजगाः सदैव तेऽमी न विषं संक्रमते च नीलकंठ ॥
अहमस्मि च वामदेव वामा तव वामंवपुरत्र चित्तयुक्ता ॥२५॥
इति संसृतिसंबीजजनन्याभिहिते हिते ॥
गिरां निगुंफे गिरिशो वक्तुमप्याददे गिरम् ॥२६॥
॥ ईश्वर उवाच ॥
अयि काशीत्यष्टमूर्तिर्भवो भावाष्टकोभवत् ॥
सत्वरं शिवयाज्ञायि ध्रुवं काश्याहृतोहरः ॥२७॥
अथबालसखी भूत तत्तत्काननवीरुधम् ॥शिवाप्रस्तावयांचक्रे विमुक्तां मुक्तिदां पुरीम् ॥२८॥
॥ पार्वत्युवाच ॥
गगनतलमिलितसलिले प्रलयेपि भव त्रिशूलपरि विधृताम् ॥
कृतपुंडरीकशोभां स्मरहरकाशीं पुरीं यावः ॥२९॥
धराधरेंद्रस्य धरातिसुंदरा न मां तथास्यापि धिनोति धूर्जटे॥
धरागतापीह न या ध्रुवंधरा पुरीधुरीणा तव काशिका यथा॥३०॥
न यत्र काश्यां कलिकालजं भयं न यत्र काश्यां मरणात्पुनर्भवः॥
न यत्र काश्यां कलुषोद्भवं भयं कथं विभो सा नयनातिथिर्भवेत् ॥३१॥
किमत्र नो संति पुरः सहस्रशः पदेपदे सर्वसमृद्धिभूमयः ॥
परं न काशी सदृशीदृशोः पदं क्वचिद्गता मे भवता शपे शिव ॥३२॥
त्रिविष्टपे संति न किं पुरः शतं समस्तकौतूहलजन्मभूमयः ॥
तृणी भवंतीह च ताः पुरःपुरः पदं पुरारे भवतो भवद्विषः ॥३३॥
न केवलं काशिवियोगजो ज्वरः प्रबाधते त्वां तु तथा यथात्र माम् ॥
उपाय एषोत्र निदाघशांतये पुरी तु सा वा ममजन्मभूरथ ॥३४॥
मया न मेने ममजन्मभूमिका वियोगजन्मा परिदाघईशितः ॥
अवाप्यकाशीं परितः प्रशांतिदां समस्तसंतापविघातहेतुकाम् ॥३५॥
न मोक्षलक्ष्म्योत्र समक्षमीक्षितास्तनूभृता केनचिदेव कुत्रचित् ॥
अवैम्यहं शर्मद सर्वशर्मदा सरूपिणी मुक्तिरसौ हि काशिका ॥३६॥
न मुक्तिरस्तीह तथा समाधिना स्थिरेंद्रियत्वोज्झित तत्समाधिना ॥
क्रतुक्रियाभिर्न न वेदविद्यया यथा हि काश्यां परिहाय विग्रहम् ॥३७॥
न नाकलोके सुखमस्ति तादृशं कुतस्तु पातालतलेऽतिसुंदरे ॥
वार्तापि मर्त्ये सुखसंश्रया क्व वा काश्यां हि यादृक्तनुमात्रधारिणि ॥३८॥
क्षेत्रे त्रिशूलिन्भवतोऽविमुक्ते विमुक्तिलक्ष्म्या न कदापि मुक्ते ॥
मनोपि यः प्राणिवरः प्रयुंक्ते षडंगयोगं स सदैव युंक्ते ॥३९॥
षडंगयोगान्नहि तादृशी नृभिः शरीरसिद्धिः सहसात्र लभ्यते ॥
सुखेन काशीं समवाप्य यादृशीदृशौ स्थिरीकृत्य शिव त्वयि क्षणम् ॥४०॥
वरं हि तिर्यक्त्वमबुद्धिवैभवं न मानवत्वं बहुबुद्धिभाजनम् ॥
अकाशिसंदर्शननिष्फलोदयं समंततः पुष्करबुद्बुदोपमम् ॥४१॥
दृशौ कृतार्थे कृतकाशिदर्शने तनुःकृतार्था शिवकाशिवासिनी ॥
मनःकृतार्थं धृतकाशिसंश्रयं मुखं कृतार्थं कृतकाशिसंमुखम् ॥४२॥
वरं हि तत्काशिरजोति पावनं रजस्तमोध्वंसि शशिप्रभोज्ज्वलम् ॥
कृतप्रणामैर्मणिकर्णिका भुवे ललाटगंयद्बहुमन्यते सुरैः ॥४३॥
न देवलोको न च सत्यलोको न नागलोको मणिकर्णिकायाः ॥
तुलां व्रजेद्यत्र महाप्रयाणकृच्छ्रुतिर्भवेद्ब्रह्मरसायनास्पदम् ॥४४॥
महामहोभूर्मणिकर्णिकास्थली तमस्ततिर्यत्र समेति संक्षयम् ॥
परः शतैर्जन्मभिरेधितापि या दिवाकराग्नींदुकरैरनिग्रहा ॥४५॥
किमु निर्वाणपदस्य भद्रपीठं मृदुलं तल्पमथोनुमोक्षलक्ष्म्याः ॥
अथवा मणिकर्णिकास्थली परमानंदसुकंदजन्मभूमिः ॥४६॥
समतीतविमुक्तजंतुसंख्या क्रियते यत्र जनैः सुखोपविष्टैः ॥
विलसद्द्युति सूक्ष्मशर्कराभिः स्ववपुःपातमहोत्सवाभिलाषैः ॥४७॥
॥ स्कंद उवाच ॥
अपर्णापरिवर्ण्येति पुरीं वाराणसीं मुने ॥
पुनर्विज्ञापयामास काशीप्राप्त्यै पिनाकिनम्॥ ४८॥
श्रीपार्वत्युवाच ॥
प्रमथाधिप सर्वेश नित्यस्वाधीनवर्तन ॥
यथानंदवनं यायां तथा कुरु वरप्रद॥ ४९॥
स्कन्द उवाच॥
जितपीयूषमाधुर्यां काशीस्तवनसुंदरीम् ॥
अथाकर्ण्याहमुदितो गिरिशो गिरिजां गिरम् ॥५०॥
श्रीदेवदेव उवाच ॥
अयि प्रियतमे गौरि त्वद्वा गमृतसीकरैः ॥
आप्यायितोस्मि नितरां काशीप्राप्त्यै यतेधुना ॥५१॥
त्वं जानासि महादेवि मम यत्तन्महद्व्रतम्॥
अभुक्तपूर्वमन्येन वस्तूपाश्नामि नेतरत् ॥५२॥
पितामहस्य वचनाद्दिवोदासे महीपतौ॥
धर्मेण शासति पुरीं क उपायो विधीयताम् ॥५३॥
कथं स राजा धर्मिष्ठः प्रजापालनतत्परः ॥
वियोज्यते पुरः काश्या दिवोदासो महीपतिः ॥५४॥
अधर्मवर्तिनो यस्माद्विघ्नः स्यान्नेतरस्य तु ॥
तस्मात्कं प्रेषयामीशे यस्तं काश्या वियोजयेत् ॥५५॥
धर्मवर्त्मानुसरतां यो विघ्नं समुपाचरेत् ॥
तस्यैव जायते विघ्नः प्रत्युत प्रेमवर्धिनि ॥५६॥
विनाच्छिद्रेण तं भूपं नोत्सादयितुमुत्सहे ॥
मयैव हि यतो रक्ष्याः प्रिये धर्मधुरंधराः ॥५७॥
न जरा तमतिक्रामेन्न तं मृत्युर्जिर्घांसति ॥
व्याधयस्तं न बाधंते धर्मवर्त्मभृदत्रयः ॥५८॥
इति संचिंतयन्देवो योगिनीचक्रमग्रतः ॥
ददर्शातिमहाप्रौढं गाढकार्यस्य साधनम् ॥५९॥
अथ देव्या समालोच्य व्योमकेशो महामुने ॥
योगिनीवृंदमाहूय जगौ वाक्यमिदं हरः ॥६०॥
सत्वरं यात योगिन्यो मम वाराणसीं पुरीम्॥
यत्र राजा दिवोदासो राज्यं धर्मेण शास्त्यलम् ॥६१॥
स्वधर्मविच्युतः काशीं यथा तूर्णं त्यजेन्नृपः ॥
तथोपचरत प्राज्ञा योगमायाबलान्विताः ॥६२॥
यथा पुनर्नवीकृत्य पुरीं वाराणसीमहम् ॥
इतः प्रयामि योगिन्यस्तथा क्षिप्रं विधीयताम् ॥६३॥
इति प्रसादमासाद्य शासनं शिरसा वहन्॥
कृतप्रणामो निर्यातो योगिनीनां गणस्ततः ॥६४॥
ययुराकाशमाविश्य मनसोप्य तिरंहसा ॥
परस्परं भाषमाणा योगिन्यस्ता मुदान्विताः ॥६५॥
अद्य धन्यतराः स्मो वै देवदेवेन यत्स्वयम् ॥
कृतप्रसादाः प्रहिताः श्रीमदानंदकाननम् ॥६६॥
अद्य सद्यो महालाभावभूतां नोतिदुर्लभौ ॥
त्रिनेत्रराजसंमानस्तथा काशी विलोकनम् ॥६७॥
इति मुदितमनाः स योगिनीनां निकुरंवस्त्वथमंदराद्रिकुंजात् ॥
नभसि लघुकृतप्रयाणवेगो नयनातिथ्यमलंभयत्पुरीं ताम् ॥६८॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूवार्द्धे काशीवर्णनं नाम चतुश्चत्वारिंशोध्यायः ॥४४॥
N/A
References : N/A
Last Updated : November 26, 2024
TOP