संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|काशीखण्ड|
अध्याय ९२

काशीखण्डः - अध्याय ९२

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ स्कंद उवाच ॥
नर्मदेशस्य माहात्म्यं कथयामि मुने तव ॥
यस्य स्मरणमात्रेण महापातकसंक्षयः ॥१॥
अस्य वाराहकल्पस्य प्रवेशे मुनिपुंगवैः ॥
आपृच्छि का सरिच्छ्रेष्ठा वद तां त्वं मृकंडज ॥२॥
मार्कंडेय उवाच ॥
शृणुध्वं मुनयः सर्वे संति नद्यः परःशतम् ॥
सर्वा अप्यघहारिण्यः सर्वा अपि वृषप्रदाः ॥३॥
सर्वाभ्योपि नदीभ्यश्च श्रेष्ठाः सर्वाः समुद्रगाः॥
ततोपि हि महाश्रेष्ठाः सरित्सु सरिदुत्तमाः ॥४॥
गंगा च यमुनाचाथ नर्मदा च सरस्वती ॥
चतुष्टयमिदं पुण्यं धुनीषु मुनिपुंगवाः ॥५॥
ऋग्वेदमूर्तिर्गंगा स्याद्यमुना च यजुर्ध्रुवम् ॥
नर्मदा साममूर्तिस्तु स्यादथर्वा सरस्वती ॥६॥
गंगा सर्वसरिद्योनिः समुद्रस्यापि पूरणी ॥
गंगाया न लभेत्साम्यं काचिदत्र सरिद्वरा ॥७॥
किंतु पूर्वं तपस्तप्त्वा रेवया बह्वनेहसम् ॥
वरदानोन्मुखो धाता प्रार्थितश्चेति सत्तम ॥८॥
गंगा साम्यं विधे देहि प्रसन्नोसि यदि प्रभो ॥
ब्रह्मणाथ ततः प्रोक्ता नर्मदा स्मितपूर्वकम् ॥९॥
यदि त्र्यक्षसमत्वं तु लभ्यतेऽन्येन केनचित् ॥
तदा गंगासमत्वं च लभ्यते सरितान्यया ॥१०॥
पुरुषोत्तम तुल्यः स्यात्पुरुषोन्यो यदि क्वचित ॥
स्रोतस्विनी तदा साम्यं लभते गंगया परा ॥११॥
यदि गौरी समा नारी क्वचिदन्या भवेदिह ॥
अन्या धुनीह स्वर्धुन्यास्तदा साम्यमुपैष्यति ॥१२॥
यदि काशीपुरी तुल्या भवेदस्या क्वचित्पुरी ॥
तदा स्वर्गतरंगिण्याः साम्यमन्या नदी लभेत् ॥१३॥
निशम्येति विधेर्वाक्यं नर्मदा सरिदुत्तमा ॥
धातुर्वरं परित्यज्य प्राप्ता वाराणसीं पुरीम् ॥१४॥
सर्वेभ्योपि हि पुण्येभ्यः काश्यां लिंगप्रतिष्ठितेः ॥
अपरा न समुद्दिष्टा कैश्चिच्छ्रेयस्करी क्रिया ॥१५॥
अथ सा नर्मदा पुण्या विधिपूर्वां प्रतिष्ठितिम् ॥
व्यधात्पिलिपिलातीर्थे त्रिविषिष्टपसमीपतः ॥१६॥
ततः शंभुः प्रसन्नोभूऽत्तस्यै नद्यै शुभात्मने ॥
वरं वृणीष्व सुभगे यत्तुभ्यं रोचतेऽनघे ॥१७॥
सरिद्वरा निशम्येति रेवा प्राह महेश्वरम् ॥
किं वरेणेह देवेश भृशं तुच्छेन धूर्जटे ॥१८॥
निर्द्वंद्वा त्वत्पदद्वंद्वे भक्तिरस्तु महेश्वर ॥
श्रुत्वेति नितरां तुष्टो रेवागिरमनुत्तमाम् ॥१९॥
प्रोवाच च सरिच्छेष्ठे त्वयोक्तं यत्तथास्तु तत् ॥
गृहाण पुण्यनिलये वितरामि वरांतरम् ॥२०॥
यावंत्यो दृषदः संति तव रोधसि नर्मदे ॥
तावंत्यो लिंगरूपिण्यो भविष्यंति वरान्मम ॥२१॥
अन्यं च ते वरं दद्या तमप्याकर्णयोत्तमम् ॥
दुष्प्रापं यज्ञतपसां राशिभिः परमार्थतः ॥२२॥
सद्यः पापहरा गंगा सप्ताहेन कलिंदजा ॥
त्र्यहात्सरस्वती रेवे त्वं तु दर्शनमात्रतः ॥२३॥
अपरं च वरं दद्यां नर्मदे दर्शनाघहे ॥
भवत्या स्थापितं लिंगं नर्मदेश्वरसंजकम् ॥२४॥
यत्तल्लिंगं महापुण्यं मुक्तिं दास्यति शाश्वतीम ॥
अस्य लिंगस्य ये भक्तास्तान्दृष्ट्वा सूर्यनंदनः ॥२५॥
प्रणमिष्यंति यत्नेन महाश्रेयोभिवृद्धये ॥
संति लिंगान्यनेकानि काश्यां देवि पदेपदे ॥२६॥
परं हि नर्मदेशस्य महिमा कोपि चाद्भुतः ॥
इत्युक्त्वा देवदेवेशस्तस्मिँल्लिंगे लयं ययौ ॥२७॥
नर्मदापि प्रहृष्टासीत्पावित्र्यं प्राप्य चाद्भुतम् ॥
स्वदेशं च परिप्राप्ता दृष्टमात्राघहारिणी ॥२८॥
वाक्यं मृकंडजमुनेस्तेपि श्रुत्वा मुनीश्वराः ॥
प्रहृष्टचेतसो जाताश्चक्रुः स्वं स्वं ततो हितम् ॥२९॥
॥ स्कंद उवाच ॥
नर्मदेशस्य माहात्म्यं श्रुत्वा भक्तियुतो नरः ॥
पापकंचुकमुत्सृज्य प्राप्स्यति ज्ञानमुत्तमम् ॥३०॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे नर्मदेश्वराख्यानं नाम द्विनवतितमोऽध्यायः ॥९२॥

N/A

References : N/A
Last Updated : November 27, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP