काशीखण्डः - अध्याय ९८
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ व्यास उवाच॥
शृणु सूत महाभाग यथा स्कंदेन भाषितः॥
महामहोत्सवः शंभोः पृच्छते कुंभसंभवे ॥१॥
॥ स्कंद उवाच ॥
निशामय महाप्राज्ञ शंभु प्रावेशिकीं कथाम् ॥
त्रैलोक्यानंदजननीं महापातकतंकिनीम् ॥२॥
मंदरादागतः शंभुश्चैत्रे दमनपर्वणि ॥
प्राप्याप्यानंदगहनमितश्चेतश्चचार ह ॥३॥
मोक्षलक्ष्मीविलासेथ प्रासादे सिद्धिमागते ॥
देवो विरजसः पीठादंतर्गेहं विवेश ह ॥४॥
ऊर्जशुक्लप्रतिपदि बुधराधासमायुजि ॥
चंद्रे सप्तमराशिस्थे शेषेषूच्चग्रहेषु च ॥५॥
वाद्यमानेषु वाद्येषु प्रसन्नासु हरित्सु च ॥
ब्राह्मणानां श्रुतिरव न्यक्कृतान्यरवांतरे ॥६॥
प्रतिशब्दित भूर्लोक भुवर्लोकांतराध्वनि ॥
सर्वं प्रमुदितं चासीच्छंभोः प्रावेशिकोत्सवे ॥७॥
जगुर्गंधर्वनिकरा ननृतुश्चाप्सरोगणाः ॥२८॥
चारणास्तु स्तुतिं कुर्युर्जर्हृषुर्देवतागणाः ॥८॥
ववुर्गंधवहा वाता ववृषुः कुसुमैर्घनाः ॥
सर्वे मंगलनेपथ्याः सर्वे मंगलभाषिणः ॥९॥
स्थावरा जंगमाः सर्वे जाता आनंदमेदुराः॥
सुरासुरेषु सर्वेषु गंधर्वेषूरगेषु च ॥१०॥
विद्याधरेषु साध्येषु किन्नरेषु नरेषु च ॥
स्त्रीपुंजातेषु सर्वेषु रेजुश्चत्वार एव च ॥११॥
निष्प्रत्यूहं च नितरां पुरुषार्थाः पदेपदे ॥
धूपधूमभरैर्व्योम यद्रक्तं तु तदा मुने ॥१२॥
नाद्यापि नीलिमानंतं परित्यजति कर्हिचित् ॥
नीराजनाय ये दीपास्तदा सर्वे प्रबोधिताः ॥१३॥
तेषां ज्योतींषि खेद्यापि राजंते तारकाच्छलात् ॥
प्रतिसौधं पताकाश्च नानाकारा विचित्रिताः ॥१४॥
रम्यध्वजप्रभाधौता रेजुः प्रति शिवालयम् ॥
क्वचिद्गायंति गीतज्ञाः क्वचिन्नृत्यंति नर्तकाः ॥१५॥
चतुर्विधानि वाद्यानि वाद्यंते च क्वचित्क्वचित् ॥
प्रत्यध्वं चंदनरसच्छटा पिच्छिलभूमयः ॥१६॥
हरित श्वेत मांजिष्ठ नील पीत बहुप्रभाः ॥
प्रत्यंगणं शुभाकारा रंगमालाश्चकाशिरे ॥१७॥
रत्नकुट्टिमभूभागा गोपुराग्रेषु रेजिरे ॥
सुधोज्ज्वला हर्म्यमालाः सौधनामप्रपेदिरे ॥१८॥
अचेतनान्यपि तदा चेतनानीव संबभुः ॥
यानि कानीह कीर्त्यंते मंगलानि घटोद्भव ॥१९॥
तेषामेव हि सर्वेषां तत्तु जन्मदिवाभवत् ॥
आगत्य देवदेवोथ मुक्तिमंडपमाविशत् ॥२०॥
अथाभिषिक्तश्चतुराननेन महर्षिवृंदैः सह देवदेवः ॥
शुभासनस्थः सहितो भवान्या कुमारवृंदैः परितो वृतश्च ॥२१॥
रत्नैरसंख्यैर्बहुभिर्दुकूलैर्माल्यैर्विचित्रैर्लसदिष्टगंधैः ॥
अपूपुजन्देवगणा महेशं तदा मुदाते च महोरग्रेंद्राः ॥२२॥
रत्नाकरैश्चापि गिरींद्रव्यैर्यथा स्वमन्यैरपि पुण्यधीभिः ॥
संपूजितः कुंभज तत्र शंभुर्नीराजितो मातृगणैरथेशः ॥२३॥
संतोष्य सर्वान्प्रथमं मुनींद्रान्स्वैस्वैर्हृदिस्थैश्च चिराभिलाषैः ॥
ब्रह्माणमाभाष्य शिवोथ विष्णुं जगाद सर्वामरवृंदवंद्यः ॥२४॥
इतो निषीदेति समानपूर्वं त्वं मे समस्तप्रभुतैकहेतुः ॥
दूरेपि तिष्ठन्निकटस्त्वमेव त्वत्तो न कश्चिन्मम कार्यकर्ता ॥२५॥
त्वया दिवोदास नरेंद्रवर्यः सदूपदेशैश्च तथोपदिष्टः ॥
यथा स सिद्धिं परमामवाप समीहितं मे निखिलं च सिद्धम् ॥२६॥
विष्णो वरं ब्रूहि य ईप्सितस्ते नादेयमत्रास्ति किमप्यहो ते॥
इदं मयाऽऽनंदवनं यदाप्तं हेतुस्तु तत्रत्वमसौ गणेशः ॥२७॥
न मे प्रियं किंचन विष्टपत्रये तथा यथेयं परसौख्यभूमिः ॥
वाराणसी ब्रह्मरसायनस्य खनिर्जनिर्यत्र न दीर्घशायिनाम् ॥२८॥
श्रुत्वेति वाक्यं जगदीशितुश्च प्रोवाच विष्णुर्वरदं महेशम् ॥
यदि प्रसन्नोसि पिनाकपाणे तदा पदाद्दूरमहं न ते स्याम् ॥२९॥
श्रुत्वेति वाक्यं मधुसूदनस्य जगाद तुष्टो नितरां पुरारिः ॥
सदा मुरारे मम सन्निधौ त्वं तिष्ठस्व निर्वाणरमाश्रयेत्र ॥३०॥
आदावनाराध्य भवंतमत्र यो मां भजिष्यत्यपि भक्तियुक्तः ॥
समीहितं तस्य न सेत्स्यति ध्रुवं परात्परान्मेंबुज चक्रपाणे ॥३१॥
सर्वत्र सौख्यं मम मुक्तिमंडपे संतिष्ठमानस्य भवेदिहाच्युत ॥
न तत्तु कैलासगिरौ सुनिर्मले न भक्तचेतस्यपि निश्चलश्रियि ॥३२॥
निमेषमात्रं स्थिरचित्तवृत्तयस्तिष्ठंति ये दक्षिणमंडपेत्र मे ॥
अनन्यभावा अपि गाढमानसा न ते पुनर्गर्भदशामुपासते ॥३३॥
संस्नाय ये चक्रसरस्यगाधे समस्ततीर्थैक शिरोविभूषणे ॥
क्षणं विशंतीह निरीहमानसा निरेनसस्ते मम पार्षदा हि ॥३४॥
स्मरंति ये मामपवर्गमंडपे किंचिद्यथाशक्ति ददत्यपि स्वम् ॥
शृण्वंति पुण्याश्च कथाः क्षणं स्थिरास्ते कोटिगोदानफलं भजंति ॥३५॥
उपेंद्रतप्तानि तपांसि तैश्चिरं स्नाता हि ते चाखिलतीर्थसार्थकैः ॥
स्नात्वेह ये वै मणिकर्णिका ह्रदे समासते मुक्तिजनाश्रयेक्षणम् ॥३६॥
तीर्थानि संतीह पदेपदे हरे तुला क्व तेषां मणिकर्णिकायाः ॥
कतीहनो संति शुभाश्च मंडपाः परंपरोमुक्तिरमाश्रयोयम् ॥३७॥
कैवल्यमंडपस्यास्य भविष्ये द्वापरे हरे ॥
लोके ख्यातिर्भवित्रीयमेष कुक्कुटमंडपः ॥३८॥
॥ हरिरुवाच ॥
भालनेत्रसमाख्याहि कथं निर्वाणमंडपः ॥
तथा ख्यातिमसौ गंता यथा देवेन भाषितम् ॥३९॥
॥ देवदेव उवाच ॥
महानंदो द्विजो नाम भविष्योत्र चतुर्भुज ॥
अग्रवेदीसमाचारस्त्यक्ततीर्थप्रतिग्रहः ॥४०॥
अदांभिकोऽक्रूरमनाः सदैवातिथिवल्लभः ॥
अथ यौवनमासाद्य पितर्युपरते स हि ॥४१॥
विषमेषु शरैस्तीव्रैः कारितस्त्वपदे पदम् ॥
जहार कस्यचिद्भार्या मैत्रीं कृत्वा तु तेन वै ॥४२॥
तया च प्रेरितोऽपेयं पपौ चापि विमोहितः ॥
अभक्ष्यभक्षणरुचिरभून्मदनमोहितः ॥४३॥
वैष्णवान्धनिनो दृष्ट्वा क्षणं वैष्णववेषभृत् ॥
शैवान्निंदति मूढात्मा नरकत्राणकारणम् ॥४४॥
शिवभक्तान्समालोक्य किंचिच्च परिदित्सुकान् ॥
गर्हयेद्वैष्णवान्सर्वाञ्शैवलिंगोपजीवकः ॥४५॥
इति पाखंडधर्मज्ञः संध्यास्नानपराङ्मुखः ॥
विशालतिलकः स्रग्वी शुद्धधौतांबरोज्वलः ॥४६॥
शिखी चोपग्रहकरः सर्वेभ्योऽसत्प्रतिग्रही॥
तस्यापत्यद्वयं जातमुन्मत्तपथवर्तिनः ॥४७॥
एवं तस्य प्रवृत्तस्य कश्चित्पर्वतदेशतः ॥
समागमिष्यति धनी तीर्थयात्रार्थसिद्धये ॥४८॥
स्नात्वा स चक्रसरसि कथयिष्यति चेति वै ॥
अहमस्ति धनोदित्सुर्जात्या चांडालसत्तमः ॥४९॥
अस्ति कश्चित्प्रतिग्राही यस्मै दद्यामहं धनम् ॥
इति तस्य वचः श्रुत्वा कैश्चिच्चांगुलिसंज्ञया ॥५०॥
उद्दिष्ट उपविष्टोसौ यो जपेद्ध्यानमुद्रया ॥
एष प्रतिग्रहं त्वत्तो ग्रहीष्यति न चेतरः ॥५१॥
इति तेषां वचः श्रुत्वा स गत्वा तत्समीपतः ॥
दंडवत्प्रणिपत्याथ तं बभाषे तदांत्यजः ॥५२॥
मामुद्धर महाविप्र तीर्थं मे सफलीकुरु ॥
किंचिद्वस्त्वस्ति मे तत्त्वं गृहाणानुग्रहं कुरु ॥५३॥
अथाक्षमालिकां कर्णे कृत्वा ध्यानं विसृज्य च ॥
कियद्धनं तवास्तीह पप्रच्छ करसंज्ञया ॥५४॥
तस्य संज्ञां स वै बुद्ध्वा प्रोवाचाति प्रहृष्टवत् ॥
संतृप्तिर्यावता ते स्यात्तावद्दास्यामि नान्यथा ॥५५॥
इति तद्वचनं श्रुत्वा त्यक्त्वा मौनमुवाच ह ॥
सानंदः स महानंदो निःस्पृहोस्मि प्रतिग्रहे ॥५६॥
परं तेऽनुग्रहार्थं तु करिष्यामि प्रतिग्रहम् ॥
किंच मे वचनं त्वं चेत्करिष्यस्युत्तमोत्तम ॥५७॥
यावदस्त्यखिलं वित्तं तन्मध्ये न्यस्य कस्यचित् ॥
न स्तोकमपि दातव्यं तदाऽऽदास्यामि नान्यथा ॥५८॥
॥ चांडाल उवाच ॥
यावदस्ति मयानीतं विश्वेशप्रीतये वसु॥
तावत्तुभ्यं प्रदास्यामि विश्वेशस्त्वं यतो मम ॥५९॥
ये वसंतीह विश्वेश राजधान्यां द्विजोत्तम ॥
क्षुद्राक्षुद्रा जंतुमात्रा विश्वेशां शास्त एव हि ॥६०॥
परोद्धरणशीला ये ये परेच्छाप्रपूरकाः ॥
परोपकृतिशीला ये विश्वेशां शास्त एव हि ॥६१॥
इति तद्वचनं श्रुत्वा प्रहृष्टेंद्रियमानसः ॥
उवाच पार्वतीयं तं सोऽग्रजन्मांत्यजं तदा ॥६२॥
आयाहि दर्भानादेहि कुरूत्सर्गं त्वरान्वितः ॥
तथेति स चकाराशु पार्वतीयो महामनाः ॥३३॥
विश्वेशः प्रीयतां चेति प्रोच्य यातो यथागतः ॥
स च द्विजो द्विजैरन्यैर्धिक्कृतोपि वसन्निह ॥६४॥
बहिर्निर्गतमात्रस्तु बहुभिः परिभूयते ॥
चांडालब्राह्मणश्चैष चांडालात्त धनस्त्वसौ ॥६५॥
असावेव हि चांडालः सर्वलोकबहिष्कृतः ॥
इत्थं तमनुधावंति थूत्कुर्वंतः परितो हरे ॥६६॥
स च तद्भयतो गेहात्काकभीतदिवांधवत् ॥
न निःसरेत्क्वचिदपि लज्जाकृति नतास्यकः ॥६७॥
स एकदा संप्रधार्य गृहिण्या लोकदूषितः ॥
जगाम कीकटान्देशांस्त्यक्त्वा वाराणसीं पुरीम् ॥६८॥
मध्ये मार्गं स गच्छन्वै लक्षितस्तु सकांचनः ॥
अपि कार्पटिकांतस्थः स रुद्धो मार्गरोधिभिः ॥६९॥
नीत्वा ते तमरण्यानीं तस्कराः सपरिच्छदम्॥
उल्लुंठ्य धनमादाय समालोच्य परस्परम् ॥७०॥
प्रोचुर्भूरिधनं चैतज्जीर्यत्यस्मिन्न जीवति ॥
असौ धनी प्रयत्नेन वध्यः सपरिचारकः ॥७१॥
संप्रधार्येति तेप्राहुः स्मर्तव्यं स्मर पांथिक ॥
त्वां वयं घातयिष्यामो निश्चितं सपरिच्छदम् ॥७२॥
निशम्येति मनस्येव कथयामास स द्विजः ॥
अहो प्रतिगृहीतं मे यदर्थं वसु भूरिशः ॥७३॥
कुटुंबमपि तन्नष्टं नष्टश्चापि प्रतिग्रहः ॥
जीवितं चापि मे नष्टं नष्टा काशीपुरीस्थितिः ॥७४॥
युगपत्सर्वमेवाशु नष्टं दुर्बुद्धिचेष्टया ॥
न काश्यां मरणं प्राप्तं तस्माद्दुष्टप्रतिग्रहात् ॥७५॥
प्रांते कुटुंबस्मरणात्तथाकाशीस्मृतेरपि ॥
चोरैर्हतोपि स तदा कीकटे कुक्कुटोऽभवत् ॥७६॥
सा कुक्कुटी सुतौ तौ तु ताम्रचूडत्वमापतुः ॥
प्रांते काशीस्मरणतो जाता जातिस्मृतिः परा ॥७७॥
इत्थं बहुतिथेकाले गते कार्पटिकोत्तमाः ॥
तस्मिन्नेवाध्वनि प्राप्ताश्चत्वारो यत्र कुक्कुटाः ॥७८॥
वाराणस्याः कथां प्रोच्चैः कुर्वंतोऽन्योन्यमेव हि ॥
काशीकथां समाकर्ण्य तदा ते चरणायुधाः ॥७९॥
जातिस्मृतिप्रभावेण तत्संगेन तु निर्गताः ॥
तैश्च कार्पटिकश्रेष्ठेः पथि दृष्ट्वा कृपालुभिः ॥८०॥
तंदुलादिपरिक्षेपैः प्रापिताः क्षेत्रमुत्तमम् ॥
ते तु क्षेत्रं समासाद्य चत्वारश्चरणायुधाः ॥८१॥
चरिष्यंतोऽत्र परितो मुक्तिमंडपमुत्तमम् ॥
जिताहारान्सनियमान्कामक्रोधपराङ्मुखान् ॥८२॥
प्रहासान्मत्कथालापाँल्लाभमोहविवर्जितान् ॥
स्वर्धुनीस्नानसंक्लिन्न सुनिर्मलशिरोरुहान् ॥९३॥
मन्नामोच्चारणपरान्मत्कथार्पितसुश्रुतीन् ॥
मद्दत्तचित्तसद्वृत्तीन्दृष्ट्वा क्षेत्रनिवासिनः ॥८४॥
मानयामासुरथ तान्कुक्कुटान्साधुवर्त्मनः ॥
प्राक्तनां वासनायोगात्संप्रधार्य परस्परम् ॥
क्रमेणाहारमाकुंच्य प्राणांस्त्यक्ष्यंति चात्र वै ॥८५॥
पश्यतां सर्वलोकानां विष्णो ते मदनुग्रहात् ॥
विमानमधिरुह्याशु कैलासं प्राप्य मत्पदम् ॥८६॥
निर्विश्य सुचिरं कालं दिव्यान्भोगाननुत्तमान् ॥
ततोऽत्र ज्ञानिनो भूत्वा मुक्तिं प्राप्स्यंति शाश्वतीम् ॥८७॥
ततो लोकास्तददारभ्य कथयिष्यंति सर्वतः ॥
मुक्तिमंडपनामैतदेष कुक्कुटमंडपः ॥८८॥
चरित्रमपि वै तेषां ये स्मरिष्यंति मानवाः ॥
मुक्तिमंडपमासाद्य श्रेयः प्राप्स्यंति तेपि हि ॥८९॥
इति यावत्कथां शंभुर्भविष्यामग्रतो हरेः ॥
अकरोत्तुमुलो नादो घंटानां तावदुद्गतः ॥९०॥
अथनंदिनमाहूय देवदेव उमाधवः ॥
प्रोवाच नंदिन्विज्ञायागत्य ब्रूहि कुतो रवः ॥९१॥
अथ नंदी समागत्य प्रोवाच वृषभध्वजम्॥
नमस्कृत्य प्रहृष्टास्यः प्रबद्धकरसंपुटः ॥९२॥
॥ नंद्युवाच ॥
देवदेव त्रिनयन किमपूर्वं ब्रवीमि ते ॥
मोक्षलक्ष्मीविलासोऽत्र कैश्चित्कैश्चित्समर्च्यते ॥९३॥
अथ स्मित्वाब्रवीच्छंभुः सिद्धं नस्तु समीहितम् ॥
उत्थाय देवदेवेशः सह देव्या सुमंगलः ॥९४॥
ब्रह्मणा हरिणा सार्धं ततोऽगाद्रंगमंडपम् ॥
॥ स्कंद उवाच ॥
श्रुत्वाध्यायमिमं पुण्यं परमानंदकारणम् ॥
नरः परां मुदं प्राप्य कैलासं प्राप्स्यति ध्रुवम् ॥९५॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे मुक्तिमंडपगमनं नामाष्टनवतितमोऽध्यायः ॥९८॥
N/A
References : N/A
Last Updated : November 27, 2024
TOP