संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|काशीखण्ड|
अध्याय ४१

काशीखण्डः - अध्याय ४१

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ स्कंद उवाच ॥
उषित्वैवं गृहे विप्रो द्वितीयादाश्रमात्परम् ॥
वलीपलितसंयुक्तस्तृतीयाश्रममाविशेत् ॥१॥
अपत्यापत्यमालोक्य ग्राम्याहारान्विसृज्य च ॥
पत्नीं पुत्रेषु संत्यज्य पत्न्या वा वनमाविशेत् ॥२॥
वसानश्चर्मचीराणि साग्निर्मुन्यन्नवर्तनः ॥
जटी सायंप्रगे स्नायी श्मश्रुलोनखलोमभृत् ॥३॥
शाकमूलफलैर्वापि पंचयज्ञन्न हापयेत् ॥
अम्मूलफलभिक्षाभिरर्चयेद्भिक्षुकातिथीन् ॥४॥
अनादाता च दाता च दांतः स्वाध्यायतत्परः ॥
वैतानिकं च जुहुयादग्निहोत्रं यथाविधि ॥५॥
मुन्यन्नैः स्वयमानीतैः पुरोडाशांश्च निर्वपेत् ॥
स्वयंकृतं च लवणं खादेत्स्नेहं फलोद्रवम् ॥६॥
वर्जयेच्छेलुशिग्रू च कवकं पललं मधु ॥
मुन्यन्नमाश्विनेमासि त्यजेद्यत्पूर्वसंचितम् ॥७॥
ग्राम्याणि फलमूलानि फालजान्नं च संत्यजेत् ॥
दंतोलूखलको वा स्यादश्मकुट्टोथ वा भवेत् ॥८॥
सद्यः प्रक्षालको वा स्यादथवा माससंचयी ॥
त्रिषड्द्वादशमासान्नफलमूलादिसंग्रही ॥९॥
नक्ताश्ये कांतराशी वा षष्ठकालाशनोपि वा ॥
चांद्रायणव्रती वा स्यात्पक्षभुग्वाथ मासभुक्॥१०॥
वैखानस मतस्थस्तु फलमूलाशनोपि वा ॥
तपसा शोषयेद्देहं पितॄन्देवांश्च तर्पयेत् ॥११॥
अग्निमात्मनि चाधाय विचरेदनिकेतनः ॥
भिक्षयेत्प्राणयात्रार्थं तापसान्वनवासिनः ॥१२॥
ग्रामादानीय वाश्नीयादष्टौ ग्रासान्वसन्वने ॥
इत्थं वनाश्रमी विप्रो ब्रह्मलोके महीयते ॥१३॥
अतिवाह्यायुषोभागं तृतीयमिति कानने ॥
आयुषस्तु तुरीयांशे त्यक्त्वा संगान्परिव्रजेत् ॥१४॥
ऋणत्रयमसंशोध्य त्वनुत्पाद्य सुतानपि ॥
तथा यज्ञाननिष्ट्वा च मोक्षमिच्छन्व्रजत्यधः ॥१५॥
मनागपि न भूतानां यस्मादुत्पद्यते भयम् ॥
सर्वभूतानि तस्येह प्रयच्छंत्यभयं सदा ॥१५॥
एक एव चरेन्नित्यमनग्निरनिकेतनः ॥
सिद्ध्यर्थमसहायः स्याद्ग्राममन्नार्थमाश्रयेत् ॥१७॥
जीवितं मरणं वाथ नाभिकांक्षेत्क्वचिद्यतिः ॥
कालमेव प्रतीक्षेत निर्देशं भृतको यथा॥१८॥
सर्वत्र ममता शून्यः सर्वत्र समतायुतः ॥
वृक्षमूलनिकेतश्च मुमुक्षुरिह शस्यते ॥१९॥
ध्यानं शौचं तथा भिक्षा नित्यमेकांतशीलता ॥
यतेश्चत्वारिकर्माणि पंचमं नोपपद्यते ॥२०॥
वार्षिकांश्चतुरोमासान्विहरेन्न यतिः क्वचित् ॥
बीजांकुराणां जंतूनां हिंसा तत्र यतो भवेत् ॥२१॥
गच्छेत्परिहरन्जन्तून्पिबेत्कं वस्त्रशोधितम्॥
वाचं वदेदनुद्वेगां न क्रुध्येत्केनचित्क्वचित् ॥२२॥
चरेदात्मसहायश्च निरपेक्षो निराश्रयः ॥
नित्यमध्यात्मनिरतो नीचकेश नखो वशी ॥२३॥
कुसुंभवासा दंडाढ्यो भिक्षाशी ख्यातिवर्जितः ॥
अलाबुदारुमृद्वेणु पात्रं शस्तं न पंचमम् ॥२४॥
न ग्राह्यं तैजसं पात्रं भिक्षुकेण कदाचन ॥
वराटके संगृहीते तत्रतत्र दिनेदिने ॥२५॥
गोसहस्रवधं पापं श्रुतिरेषा सनातनी ॥
हृदि सस्नेह भावेन चेद्द्रक्षेत्स्त्रियमेकदा ॥२६॥
कोटिद्वयं ब्रह्मकल्पं कुंभीपाकी न संशयः ॥
एककालं चरेद्भैक्षं न कुर्यात्तत्र विस्तरम् ॥२७॥
विधूमेसन्न मुसले व्यंगारे भुक्तवज्जने ॥
वृत्ते शरावसंपाते भिक्षां नित्यं चरेद्यतिः ॥२८॥
अल्पाहारो रहःस्थायी त्त्विंद्रियार्थेष्वलोलुपः ॥
रागद्वेषविर्निर्मुक्तो भिक्षुर्मोक्षाय कल्पते ॥२९॥
आश्रमे तु यतिर्यस्य मुहूर्तमपि विश्रमेत् ॥
किं तस्यानेकतंत्रेण कृतकृत्यः स जायते ॥३०॥
संचितं यद्ग्रहस्थेन पापमामरणांतिकम् ॥
निर्धक्ष्यति हि तत्सर्वमेकरात्रोषितो यतिः ॥३१॥
दृष्ट्वा जराभिभवनमसह्यं रोगपीडितम् ॥
देहत्यागं पुनर्गर्भं गर्भक्लेशं च दारुणम् ॥३२॥
नानायोनि निवासं च वियोगं च प्रियैः सह ॥
अप्रियैः सह संयोगमधर्माद्दुःखसंभवम् ॥३३॥
पुनर्निरयसंवासंनानानरकयातनाः ॥
कर्मदोषसमुद्भूता नृणांगतिरनेकधा ॥३४॥
देहेष्वनित्यतां दृष्ट्वा नित्यता परमात्मनः ॥
कुर्वीत मुक्तये यत्नं यत्रयत्राश्रमे रतः ॥३५॥
करपात्रीति विख्याता भिक्षापात्रविवर्जिता ॥
तेषां शतगुणं पुण्यं भवत्येव दिनेदिने ॥३६॥
आश्रमांश्चतुरस्त्वेवं क्रमादासेव्य पंडितः ॥
निर्द्वंद्वस्त्यक्तसंगश्च ब्रह्मभूयाय कल्पते ॥३७॥
असंयतः कुबुद्धीनामात्मा बंधाय कल्पते ॥
धीमद्भिः संयतः सोपि पदं दद्यादनामयम् ॥३८॥
श्रुति स्मृति पुराणं च विद्योपनिषदस्तथा ॥
श्लोकाः मंत्राणि भाष्याणि यच्चान्यद्वाङ्मयं क्वचित् ॥३९॥
वेदानुवचनं ज्ञात्वा ब्रह्मचर्य तपो दमः ॥
श्रद्धोपवासः स्वातंत्र्यमात्मनोज्ञानहेतवः ॥४०॥
स हि सर्वैर्विजिज्ञास्य आत्मैवाश्रमवर्तिभिः ॥
श्रोतव्यस्त्वथ मंतव्यो द्रष्टव्यश्च प्रयत्नतः ॥४१॥
आत्मज्ञानेन मुक्तिः स्यात्तच्च योगादृते नहि॥
स च योगश्चिरं कालमभ्यासादेव सिध्यति ॥४२॥
नारण्यसंश्रयाद्योगो न नानाग्रंथ चिंतनात्॥
न दानैर्न व्रतैर्वापि न तपोभिर्न वा मखैः ॥४३॥
न च पद्मासनाद्योगो न वा घ्राणाग्रवीक्षणात् ॥
न शौचे न न मौनेन न मंत्राराधनैरपि ॥४४॥
अभियोगात्सदाभ्यासात्तत्रैव च विनिश्चयात् ॥
पुनःपुनरनिर्वेदात्सिध्येद्योगो न चान्यथा ॥४५॥
आत्मक्रीडस्य सततं सदात्ममिथुनस्य च ॥
आत्मन्येव सु तृप्तस्य योगसिद्धिर्न दूरतः ॥४६॥
अत्रात्मव्यतिरेकेण द्वितीयं यो न पश्यति ॥
आत्मारामः स योगींद्रो ब्रह्मीभूतो भवेदिह ॥४७॥
संयोगस्त्वात्ममनसोर्योग इत्युच्यते बुधैः ॥
प्राणापानसमायोगो योग इत्यपि कैश्चन ॥४८॥
विषयेंद्रिय संयोगो योग इत्यप्यपंडितैः ॥
विषयासक्तचित्तानां ज्ञानं मोक्षश्च दूरतः ॥४९॥
दुर्निवारा मनोवृत्तिर्यावत्सा न निवर्तते ॥
किं वदंत्यपियोगस्य तावन्नेदीयसी कुतः ॥५०॥
वृत्तिहीनं मनः कृत्वा क्षेत्रज्ञे परमात्मनि ॥
एकीकृत्य विमुच्येत योगयुक्तः स उच्यते ॥५१॥
बहिर्मुखानि सर्वाणि कृत्वा खान्यंतराणि वै ॥
मनस्येवेंद्रियग्रामं मनश्चात्मनि योजयेत् ॥५२॥
सर्वभावविनिर्मुक्तं क्षेत्रज्ञं ब्रह्मणि न्यसेत् ॥
एतद्ध्यानं च योगश्च शेषोन्यो ग्रंथविस्तरः ॥५३॥
यन्नास्ति सर्वलोकेषु तदस्तीति विरुध्यते ॥
कथ्यमानं तदन्यस्य हृदयेनावतिष्ठते ॥५४॥
स्वसंवेद्यं हि तद्ब्रह्म कुमारी स्त्री सुखं यथा ॥
अयोगी नैव तद्वेत्ति जात्यंध इव वर्तिकाम् ॥५५॥
नित्याभ्यसनशीलस्य स्वसंवेद्यं हि तद्भवेत् ॥
तत्सूक्ष्मत्वादनिर्देश्यं परं ब्रह्म सनातनम् ॥५६॥
क्षणमप्येकमुदकं यथा न स्थिरतामियात् ॥
वाताहतं यथा चित्तं तस्मात्तस्य न विश्वसेत् ॥५७॥
अतोऽनिलं निरुंधीत चित्तस्य स्थैर्य हेतवे ॥
मरुन्निरोधनार्थाय षडंगं योगमभ्यसेत् ॥५८॥
आसनं प्राणसंरोधः प्रत्याहारश्च धारणा ॥
ध्यानं समाधिरेतानि योगांगानि भवंति षट् ॥५९॥
आसनानीह तावंति यावंत्यो जीवयो नयः ॥
सिद्धासनमिदं प्रोक्तं योगिनो योगसिद्धिदम् ॥६०॥
एतदभ्यसनान्नित्यं वर्ष्मदार्ढ्यमवाप्नुयात्॥ ६१॥
दक्षिणं चरणं न्यस्य वामोरूपरि योगवित् ॥
याम्योरूपरि वामं च पद्मासनमिदं विदुः ॥६२॥
कराभ्यां धारयेत्पश्चादंगुष्ठौ दृढबंधवित्॥
भवेत्पद्मासनादस्मादभ्यासाद्दृढविग्रहः ॥६३॥
अथवा ह्यासने यस्मिन्सुखमस्योपजायते ॥
स्वस्तिकादौ तदध्यास्य योगं युंजीत योगवित् ॥६४॥
न तोयवह्निसामीप्ये न जीर्णारण्यगोष्ठयोः ॥
न दंशमशकाकीर्णे न चैत्ये न च चत्वरे ॥६९॥
केशभस्मतुषांगार कीकसादि प्रदूषिते ॥
नाभ्यसेत्पूतिगंधादौ न स्थाने जनसंकुले ॥६६॥
सर्वबाधाविरहिते सर्वेंद्रियसुखावहे ॥
मनःप्रसादजनने स्रग्धूपामोदमोदिते ॥६७॥
नातितृप्तः क्षुधार्तो न न विण्मूत्रप्रबाधितः ॥
नाध्वखिन्नो न चिंतार्तो योगं युंजीत योगवित् ॥६८॥
ऊरुस्थोत्तानचरणः सव्येन्यस्योत्तरं करम् ॥
उत्तानं किंचिदुन्नम्य वक्त्रं विष्टभ्य चोरसा ॥६९॥
निमीलिताक्षः सत्त्वस्थो दंतैर्दंतान्न संस्पृशेत् ॥
तालुस्थाचलजिह्वश्च संवृतास्यः सुनिश्चलः ॥७०॥
सन्नियम्येंद्रियग्रामं नातिनीचोच्छ्रितासनः ॥
मध्यमं चोत्तमं चाथ प्राणायाममुपक्रमेत् ॥७१॥
चलेऽनिले चलं सर्वं निश्चले तत्र निश्चलम् ॥
स्थाणुत्वमाप्नुयाद्योगी ततोऽनिलनिरुंधनात् ॥७२॥
यावद्देहे स्थितः प्राणो जीवितं तावदुच्यते ॥
निर्गते तत्र मरणं ततः प्राणं निरुंधयेत् ॥७३॥
यावद्बद्धो मरुद्देहे यावच्चेतो निराश्रयम् ॥
यावद्दृष्टिर्भुवोर्मध्ये तावत्कालभयं कुतः ॥७४॥
कालसाध्वसतोब्रह्मा प्राणायामं सदाचरेत् ॥
योगिनः सिद्धिमापन्नाः सम्यक्प्राणनियंत्रणात् ॥७५॥
मंदो द्वादशमात्रस्तु मात्रा लघ्वक्षरा मता ॥
मध्यमो द्विगुणः पूर्वादुत्तमस्त्रिगुणस्ततः ॥७६॥
स्वेदं कंपं विषादं च जनयेत्क्रमशस्त्वसौ ॥
प्रथमेन जयेत्स्वेदं द्वितीयेन तु वेपथुम् ॥७७॥
विषादं हि तृतीयेन सिद्धः प्राणोथ योगिनः ॥
भवेत्क्रमात्सन्निरुद्धः सिद्धः प्राणोथ योगिना ॥
क्रमेण सेव्यमानोसौ नयते यत्र चेच्छति ॥७८॥
हठान्निरुद्धप्राणोयं रोमकूपेषु निःसरेत् ॥
देहंविदारयत्येष कुष्ठादिजनयत्यपि ॥७९॥
तत्प्रत्याययितव्योसौ क्रमेणारण्यहस्तिवत् ॥
वन्यो गजो गजारिर्वा क्रमेण मृदुतामियात् ॥८०॥
करोति शास्तृनिर्देशं न च तं परिलंघयेत् ॥
तथा प्राणो हदिस्थोयं योगिनाक्रमयोगतः ॥
गृहीतः सेव्यमानस्तु विश्रंभमुपगच्छति ॥८१॥
षट्त्रिंशदंगुलो हंसः प्रयाणं कुरुते बहिः ॥
सव्यापसव्यमार्गेण प्रयाणात्प्राण उच्यते ॥८२॥
शुद्धिमेति यदा सर्वं नाडीचक्र मनाकुलम् ॥
तदैव जायते योगी क्षमः प्राणनिरोधने ॥८३॥
दृढासनो यथाशक्ति प्राणं चंद्रेण पूरयेत् ॥
रेचयेदथ सूर्येण प्राणायामोयमुच्यते ॥८४॥
स्रवत्पीयूषधारौघं ध्यायंश्चंद्रसमन्वितम् ॥
प्राणायामेन योगींद्रः सुखमाप्नोति तत्क्षणात् ॥८५॥
रविणा प्राणमाकृष्य पूरयेदौदरीं दरीम् ॥
कुंभयित्वा शनैः पश्चाद्योगी चंद्रेण रेचयेत् ॥८६॥
ज्वलज्वलनपुंजाभं शीलयन्नुष्मगुं हृदि ॥
अनेन याम्यायामेन योगींद्रः शर्मभाग्भवेत् ॥८७॥
इत्थं मासत्रयाभ्यासादुभयायामसेवनात् ॥
शुद्धनाडीगणो योगी सिद्धप्राणोभिधीयते ॥८८॥
यथेष्टं धारणं वायोरनलस्य प्रदीपनम् ॥
नादाभिव्यक्तिरारोग्यं भवेन्नाडीविशोधनात् ॥८९॥
प्राणोदेहगतोवायुरायामस्तन्निबंधनम् ॥
एकश्वासमयी मात्रा प्राणायामो निरुच्यते ॥९०॥
प्राणायामेऽधमे घर्मः कंपो भवति मध्यमे ॥
उत्तिष्ठेदुत्तमे देहो बद्धपद्मासनो मुहुः ॥९१॥
प्राणायामैर्दहेद्दोषान्प्रत्याहारेण पातकम् ॥
मनोधैर्यं धारणया ध्यानेनेश्वरदर्शनम् ॥९२॥
समाधिना लभेन्मोक्षं त्यक्त्वा धर्मं शुभाशुभम् ॥
आसनेन वपुर्दार्ढ्यं षडंगमिति कीर्तितम् ॥९३॥
प्राणायामद्विषट्केन प्रत्याहार उदाहृतः ॥
प्रत्याहारैर्द्वादशभिर्धारणा परिकीर्तिता ॥९४॥
भवेदीश्वरसंगत्यै ध्यानं द्वादशधारणम् ॥
ध्यानद्वादशकेनैव समाधिरभिधीयते ॥९५॥
समाधेः परतो ज्योतिरनंतं स्वप्रकाशकम् ॥
तस्मिन्दृष्टे क्रियाकांडं यातायातं निवर्तते ॥९६॥
पवने व्योमसंप्राप्ते ध्वनिरुत्पद्यते महान् ॥
घंटादीनां प्रवाद्यानां ततः सिद्धिरदूरतः ॥९७॥
प्राणायामेन युक्तेन सर्वव्याधिक्षयोभवेत् ॥
अयुक्ताभ्यासयोगेन सर्वव्याधिसमुद्भवः ॥९८॥
हिक्का श्वासश्च कासश्च शिरः कर्णाक्षिवेदनाः ॥.
भवंति विविधा दोषाः पवनस्य व्यतिक्रमात् ॥९९॥
युक्तं युक्तं त्यजेद्वायुं युक्तंयुक्तं च पूरयेत् ॥
युक्तंयुक्तं च बध्नीयादित्थं सिध्यति योगवित् ॥१००॥
इंद्रियाणां हि चरतां विषयेषु यदृच्छया ॥
यत्प्रत्याहरणं युक्त्या प्रत्याहारः स उच्यते ॥१॥
प्रत्याहरति यः खानि कूर्मोंगानीव सर्वतः ॥
प्रत्याहृति विधानेन स स्याद्विगतकल्मषः ॥२॥
नाभिदेशे वसेद्भानुस्तालुदेशे च चंद्रमाः ॥
वर्षत्यधोमुखश्चंद्रो ग्रसेदूर्ध्वमुखो रविः ॥३॥
करणं तच्च कर्तव्यं येन सा प्राप्यते सुधा ॥
ऊर्ध्वनाभिरधस्तालुरूर्ध्वं भानुरधःशशी ॥
करणं विपरीताख्यमभ्यासादेव जायते ॥४॥
काकचंचुवदास्येन शीतलं शीतलं पिबेत् ॥
प्राणं प्राणविधानज्ञो योगी भवति निर्जरः ॥५॥
रसनां तालुविवरे निधायोर्ध्वमुखोऽमृतम् ॥
धयन्निजर्रतां गच्छेदाषण्मासान्न संशयः ॥६॥
ऊर्ध्वजिह्वः स्थिरो भूत्वा सोमपानं करोति यः ॥
मासार्धेन न संदेहो मृत्युं जयति योगवित् ॥७॥
संपीड्य रसनाग्रेण राजदंतबिलं महत् ॥
ध्यात्वा सुधामयीं देवीं षण्मासेन कविर्भवेत् ॥८॥
अमृतापूर्णदेहस्य योगिनो द्वित्रिवत्सरात् ॥
ऊर्ध्वं प्रवर्तते रेतो ह्यणिमादिगुणोदयम् ॥९॥
नित्यं सोमकलापूर्णं शरीरं यस्य योगिनः ॥
तक्षकेणापि दष्टस्य विषं तस्य न सर्पति॥११०॥
आसनेन समायुक्तः प्राणायामेन संयुतः ॥
प्रत्याहारेण संपन्नो धारणामथ चाभ्यसेत् ॥११॥
हृदये पंचभूतानां धारणां यः पृथक्पृथक् ॥
मनसो निश्चलत्वेन धारणा साभिधीयते ॥१२॥
महाभत

हरितालनिभां भूमिं स लकारां सवेधसम् ॥
चतुष्कोणां हृदि ध्यायेदेषा स्यात्क्षितिधारणा ॥१३॥
कंठेंऽबुतत्त्वमर्धेंदुनिभं विष्णुसमन्वितम् ॥
वकारबीजं कुंदाभं ध्यायन्नंबुजयेदिति ॥१४॥
तालुस्थमिंद्रगोपाभं त्रिकोणं रेफसंयुतम् ॥
रुद्रेणाधिष्ठितं तेजो ध्यात्वा वह्निं जयेदिति ॥१५॥
वायुतत्त्वं भ्रुवोर्मध्ये वृत्तमंजनसन्निभम् ॥
यंबीजमीशदैवत्यं ध्यायन्वायुं जयेदिति ॥१६॥
आकाशं च मरीचिवारिसदृशं यद्ब्रह्मरंध्रस्थितं यन्नाथेन सदाशिवेन सहितं शांतं हकाराक्षरम् ॥
प्राणं तत्र विनीय पंचघटिकं चिंतान्वितं धारयेदेषा मोक्षकपाटपाटनपटुः प्रोक्ता नभोधारणा ॥१७॥
स्तंभनीप्लावनीचैव दहनीभ्रामणी तथा ॥
शमनी च भवंत्येता भूतानां पंच धारणाः ॥१८॥
ध्यै चिंतायां स्मृतो धातुश्चिंता तत्त्वे सुनिश्चला ॥
एतद्ध्यानमिह प्रोक्तं सगुणं निर्गुणं द्विधा ॥१९॥
सगुणं वणर्भेदेन निर्गुणं केवलं मतम् ॥
समंत्रं सगुणं विद्धि निर्गुणं मंत्रवर्जितम् ॥१२०॥
अंतश्चेतो बहिश्चक्षुरवस्थाप्य सुखासनम्॥
समत्वं च शरीरस्य ध्यानमुद्रातिसिद्धिदा ॥२१॥
नाश्वमेधेन तत्पुण्यं न च वै राजसूयतः ॥
यत्पुण्यमेकध्यानेन लभेद्योगी स्थिरासनः ॥२२॥
शब्दादीनां च तन्मात्रा यावत्कर्णादिषु स्थिता ॥
तावदेव स्मृतं ध्यानं स्यात्समाधिरतः परम् ॥२३॥
धारणा पंचनाडीका ध्यानं स्यात्षष्टिनाडिकम् ॥
दिनद्वाशकेन स्यात्समाधिरिह भण्यते ॥२४॥
जलसैंधवयोः साम्यं यथा भवति योगतः ॥
तथात्ममनसोरैक्यं समाधिरिह भण्यते ॥२५॥
यदा संक्षीयते प्राणो मानसं च प्रलीयते ॥
तदा समरसत्वं यत्स समाधिरिहोच्यते ॥२६॥
यत्समत्वं द्वयोरत्र जीवात्मपरमात्मनोः ॥
सनष्टसर्वसंकल्पः समाधिरभिधीयते ॥२७॥
नात्मानं न परं वेत्ति न शीतं नोष्ममेव च ॥
समाधियुक्तो योगींद्रो न सुखं न सुखेतरत् ॥२८॥
काल्यते नैव कालेन लिप्यते नैव कर्मणा ॥
भिद्यते न च शस्त्रास्त्रै योगी युक्तः समाधिना ॥२९॥
युक्ताहारविहारश्च युक्तचेष्टो हि कर्मसु ॥
युक्तनिद्रावबोधश्च योगी तत्त्वं प्रपश्यति ॥१३०॥
तत्त्वविज्ञानमानंदं ब्रह्म ब्रह्मविदो विदुः ॥
हेतुदृष्टांत रहितं वाङ्मनोभ्यामगोचरम् ॥३१॥
तत्र योगी निरालंबे निरातंके निरामये ॥
षडंगयोगविधिना परेब्रह्मणि लीयते॥३२॥
यथा घृते घृतं क्षिप्तं घृतमेव हि तद्भवेत् ॥
क्षीरेक्षीरं तथा योगी तत्र तन्मयतां व्रजेत् ॥३३॥
अनसंजातपानीयैर्विदध्यादंगमर्दनम् ॥
त्यजेत्कदुष्णं लवणं क्षीरभोजी सदा भवेत् ॥३४॥
ब्रह्मचारी जितक्रोधो जितलोभो विमत्सरः ॥
अब्दमित्थं सदाभ्यासात्स योगीति निगद्यते ॥३५॥
महामुद्रां नभोमुद्रामुड्डीयानं जलंधरम् ॥
मूलबंधं तु यो वेत्ति स योगी योगसिद्धिभाक् ॥३६॥
शोधनं नाडीजालस्य घटनं चंद्रसूर्ययोः ॥
रसानां शोषणं सम्यङ्महामुद्राभिधीयते ॥३७॥
योनिं वामांघ्रिणाऽऽपीड्य कृत्वा वक्षस्थले हनुम् ॥
हस्ताभ्यां प्रसृतं पादं धारयेद्दक्षिणं चिरम् ॥३८॥
प्राणेन कुक्षिमापूर्य चिरं संरेचयेच्छनैः ॥
एषा प्रोक्ता महामुद्रा महाघौघविनाशिनी ॥३९॥
चंद्रांगे तु समभ्यस्य सूर्यांगे पुनरभ्यसेत्॥
यावत्तुल्या भवेत्संख्या ततो मुद्रां विसर्जयेत् ॥१४०॥
न हि पथ्यमपथ्यं वा रसाः सर्वेपि नीरसाः ॥
अपि घोरं विषं पीतं पीयूषमिवजीर्यति ॥४१॥
क्षयकुष्ठगुदावर्त गुल्माजीर्णपुरोगमाः ॥
तस्य दोषाः क्षयं यांति महामुद्रां च योभ्यसेत् ॥४२॥
कपालकुहरे जिह्वा प्रविष्टा विपरीतगा ॥
भ्रुवोरंतर्गता दृष्टिर्मुद्रा भवति खेचरी ॥४३॥
न पीड्यते शरौघेण न च लिप्येत कर्मणा ॥
बाध्यते न स कालेन यो मुद्रां वेत्ति खेचरीम् ॥४४॥
चित्तं चरति खे यस्मा जिह्वा चरति खे गता ॥
तेनैषा खेचरी नाम मुद्रा सिद्धैर्निषेविता ॥४५॥
यावद्बिंदुः स्थितो देहे तावन्मुत्युभयं कुतः ॥
यावद्बद्धा नभोमुद्रा तावद्बिंदुर्न गच्छति ॥४६॥
उड्डीनं कुरुते यस्मादहोरात्रं महाखगः ॥
उडीयानं ततः प्रोक्तं तत्र बंधो विधीयते ॥४७॥
जठरे पश्चिमं तानं नाभेरूर्ध्वं च धारयेत् ॥
उङ्डीयानो ह्ययं बंधो मृत्योरपि भयं त्यजेत् ॥४८॥
बध्नाति हि शिराजालमधोगामि नभोजलम् ॥
एष जालंधरो बंधः कंठे दुःखौघनाशनः ॥४९॥
जालंधरे कृते बंधे कंठसकोचलक्षणे ॥
न पीयूषं पतत्यग्नौ न च वायुः प्रधावति ॥१५०॥
पार्ष्णिभागेन संपीड्य योनिमाकुंचयेद्गुदम्॥
अपानमूर्ध्वमाकृष्य मूलबंधो विधीयते॥ ५१॥
अपानप्राणयोरैक्ये क्षयो मूत्रपुरीषयोः ॥
युवा भवति वृद्धोपि सततं मूलबंधनात् ॥५२॥
प्राणापानवशो जीवः ऊर्द्ध्वाधः परिधावति ॥
वामदक्षिणमार्गेण चंचलो न स्थितिं लभेत् ॥५३॥
गुणबद्धो यथा पक्षी गतोप्याकृष्यते पुनः ॥
गुणैर्बद्धस्तथा जीवः प्राणायामेन कृष्यते ॥५४॥
अपानः कर्षति प्राणं प्राणोपानं च कर्षति ॥
ऊर्ध्वाधः संस्थितावेतौ संयोजयति योगवित् ॥५५॥
हकारेण बहिर्याति सकारेण विशेत्पुनः॥
हंसहंसेत्यतो मंत्रं जीवो जपति सर्वदा ॥५६॥
षट्शतानि दिवारात्रौ सहस्राण्येकविंशतिः ॥
एतत्संख्यान्वितं मंत्रं जीवो जपति सर्वदा ॥५७॥
अजपा नाम गायत्री योगिनां मोक्षदायिनी ॥
अस्याः संकल्पमात्रेण नरः पापैः प्रमुच्यते ॥५८॥
अंतराया भवंतीह योगिनो योगहानिदाः ॥
श्रूयते दूरगा वार्ता दूरस्थं दृश्यते पुरः ॥५९॥
योजनानां शतं यातुं शक्तिःस्यान्निमिषार्धतः॥
अचिंतितानि शास्त्राणि कंठपाठी भवंति हि ॥१६०॥
धारणाश क्तिरत्युग्रा महाभारो लघुर्भवेत् ॥
क्षणं कृशः क्षणं स्थूलः क्षणमल्पः क्षणं महान् ॥६१॥
परकायं प्रविशति तिरश्चां वेत्ति भाषितम् ॥
दिव्यगंधं तनौ धत्ते दिव्यां वाणीं प्रवक्ति च ॥६२॥
प्रार्थ्यते दिव्यकन्याभिर्दिव्यं धारयते वपुः ॥
इत्यादयोंतरायाः स्युर्योगसंसिद्धिसूचकाः ॥६३॥
यद्येभिरंतरायैर्न क्षिप्यतेऽस्येह मानसम् ॥
तदग्रे तत्समाप्नोति पदं ब्रह्मादि दुर्लभम् ॥६४॥
यत्प्राप्य न निवर्तेत यत्प्राप्य न च शोचति ॥
तल्लभ्यते षडंगेन योगेन कलशोद्भव ॥६५॥
एकेन जन्मना योगः कथमित्थं प्रसिध्यति ॥
ऋते च योगसंसिद्धेः कथं मुक्तिरिहाप्यते ॥६६॥
उभे एव हि निर्वाणवर्त्मनी किल कुंभज ॥
किं वा काश्यां तनुत्यागः किं वा योगोयमीदृशः ॥६७॥
चंचलेंद्रियवृत्तित्वात्कलिकल्मषजृंभणात् ॥
अल्पायुषां तथा नृणां क्वेह योग महोदयः ॥६८॥
अतएव हि जंतूनां महोदयपदप्रदः ॥
सदैव स दयावार्धिः काश्यां विश्वेश्वरः स्थितः ॥६९॥
काश्यां सुखेन कैवल्यं यथालभ्येत जंतुभिः ॥
योगयुक्त्याद्युपायैश्च न तथान्यत्र कुत्रचित् ॥१७०॥
काश्यां स्वदेहसंयोगः सम्यग्योग उदाहृतः ॥
मुच्यते नेह योगेन क्षिप्रमन्येन केनचित् ॥७१॥
विश्वेश्वरो विशालाक्षी द्युनदीकालभैरवः ॥
श्रीमान्ढुंढिर्दंडपाणिः षडंगो योग एष वै ॥७२॥
एतत्षडंगयो योगं नित्यं काश्यां निषेवते ॥
संप्राप्य योगनिद्रां स दीर्घाममृतमश्नुते ॥७३॥
ओंकारः कृत्तिवासाश्च केदारश्च त्रिविष्टपः ॥
वीरेश्वरोथविश्वेशः षडंगोयमिहापरः ॥७४॥
पादोदकासिसंभेद ज्ञानोदमणिकर्णिकाः ॥
षडंगोयं महायोगो ब्रह्मधर्मह्रदावपि ॥७५॥
षडंगसेवनादस्माद्वाराणस्यां नरोत्तम ॥
न जातु जायते जंतुर्जननी जठरे पुनः ॥७६॥
गंगास्नानं महामुद्रा महापातकनाशनी ॥
एतन्मुद्राकृताभ्यासोप्यमृतत्वमवाप्नुयात् ॥७७॥
काशीवीथिषु संचारो मुद्रा भवति खेचरी॥
खेचरो जायते नूनं खेचर्या मुद्रयानया ॥७८॥
उड्डीय सर्वतो देशाद्यानं वाराणसीं प्रति ॥
उङ्डीयानो महाबंध एष मुक्त्यै प्रकल्पते ॥७९॥
जलस्य धारणं मूर्ध्नि विश्वेश स्नानजन्मनः ॥
एष जालंधरो बंधः समस्तसुरदुर्लभः ॥१८०॥
वृतो विघ्नशतेनापि यन्न काशीं त्यजेत्सुधीः ॥
मूलबंधः स्मृतो ह्येष दुःखमूलनिकृंतनः ॥८१॥
इति योगः समाख्यातो मया ते द्विविधो मुने ॥
सषडंगः समुद्रश्च मुक्तये शंभुभाषितः ॥८२॥
यावन्नेंद्रिय वैक्लव्यं यावद्व्याधिर्न बाधते ॥
यावत्कालविलंबोस्ति तावद्योगरतो भवेत् ॥८३॥
उभयोर्योगयोर्मध्ये काशीयोगोयमुत्तमः ॥
काशीयोगं समभ्यस्य प्राप्नुयाद्योगमुत्तमम् ॥८४॥
आधिव्याधिसहायिन्या जरया मृत्युलिंगया ॥
कालं निकटतो ज्ञात्वा काशीनाथं समाश्रयेत ॥८५॥
काशीनाथं समाश्रित्य कुतः कालभयं नृणाम् ॥
क्रुद्धोपि जीवहृत्कालस्तच्च काश्यां सुमंगलम् ॥८६॥
आतिथ्येनेहसियथा प्रतीक्षेतातिथिं कृती ॥
काश्यां कालं तथायांतं भाग्यवान्संप्रतीक्षते ॥८७॥
कलिः कालः कृतंकर्म त्रिकंटकमितीरितम् ॥
एतत्त्रयं न प्रभवेदानंदवनवासिनाम् ॥८८॥
अन्यत्रातर्कितः कालः कलयिष्यत्यसंशयम् ॥
कालादभयमिच्छेच्चेत्ततः काशीं समाश्रयेत् ॥८९॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे योगाख्यानं नामैकचत्वारिंशोऽध्यायः ॥४१॥

N/A

References : N/A
Last Updated : November 26, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP