काशीखण्डः - अध्याय ४५
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ स्कंद उवाच ॥
अथ तद्योगिनीवृंदं दूराद्दृष्टिं प्रसार्य च ॥
स्वनेत्रदैर्घ्यनिर्माणं प्रशशंस फलान्वितम् ॥१॥
दिव्यप्रासादमालानां पताकाश्चलपल्लवाः ॥
सादरं दूरमार्गस्थान्पांथानाह्वयतीरिव ॥२॥
चंचत्प्रासादमाणिक्यैर्विजृंभितमरीचिभिः ॥
सुनीलमपि च व्योमवीक्ष्यमाणं सुनिर्मलम् ॥३॥
देवत्वं माययाच्छाद्य वेषं कार्पटिकोचितम् ॥
विधाय काशीमविशद्योगिनीचक्रमक्रमम् ॥४॥
काचिच्चयोगिनी भूता काचिज्जाता तपस्विनी ॥
काचिद्बभूव सैरंध्री काचिन्मासोपवासिनी ॥५॥
मालाकारवधूः काचित्काचिन्नापितसुंदरी ॥
सूतिकर्मविचारज्ञा ऽपरा भैषज्यकोविदा ॥६॥
वैश्या च काचिदभवत्क्रयविक्रयचंचुरा ॥
व्यालग्राहिण्यभूत्काचिद्दासीधात्री च काचन ॥७॥
एका च नृत्यकुशला त्वन्या गानविशारदा ॥
अपरा वेणुवादज्ञा परा वीणाधराभवत् ॥८॥
मृदंगवादनज्ञान्या काचित्ताल कलावती ॥
काचित्कार्मणतत्त्वज्ञा काचिन्मौक्तिकगुंफिका ॥९॥
गंधभागविधिज्ञान्या काचिदक्षकलालया ॥
आलापोल्लासकुशला काचिच्चत्वरचारिणी ॥१०॥
वंशाधिरोहणे दक्षा रज्जुमार्गेण चेतरा ॥
काचिद्वातुलचेष्टाऽभूत्पथि चीवरवेष्टना ॥११॥
अपत्यदाऽनपत्यानां परा तत्रपुरेऽवसत् ॥
काचित्करांघ्रिरेखाणां लक्षणानि चिकेति च ॥१२॥
चित्रलेखन नैपुण्यात्काचिज्जनमनोहरा ॥
वशीकरणमंत्रज्ञा काचित्तत्र चचार ह ॥१३॥
गुटिकासिद्धिदा काचित्काचिदंजनसिद्धिदा ॥
धातुवादविदग्धान्या पादुकासिद्धिदा परा ॥१४॥
अग्निस्तंभ जलस्तंभ वाक्स्तंभं चाप्यशिक्षयत् ॥
खेचरीत्वं ददौ काचिददृश्यत्वं परा ददौ ॥१५॥
काचिदाकर्पणीं सिद्धिं ददावुच्चाटनं परा ॥
काचिन्निजांगसौंदर्य युवचित्तविमोहिनी ॥१६॥
चिंतितार्थप्रदा काचित्काचिज्ज्योतिः कलावती ॥
इत्यादि वेषभाषाभिरनुकृत्य समंततः ॥१७॥
प्रत्यंगणं प्रतिगृहं प्राविशद्योगिनीगणः ॥
इत्थमब्दंचरंत्यस्ता योगिन्योऽहर्निशं पुरि ॥१८॥
न च्छिद्रं लेभिरे क्वापि नृपविघ्नचिकीर्षवः ॥
ततः समेत्य ताः सर्वा योगिन्यो वंध्यवांछिताः ॥
तस्थुः संमंत्र्य तत्रैव न गता मंदरं पुनः ॥१९॥
प्रभुकार्यमनिष्पाद्य सदः संभावनैधितः ॥
कः पुरः शक्नुयात्स्थातुं स्वामिनो क्षतविग्रहः ॥२०॥
अन्यच्च चिंतितं ताभिर्योगिनीभिरिदं मुने ॥
प्रभुं विनापि जीवामो न तु काशीं विना पुनः ॥२१॥
प्रभूरुष्टोपि सद्भृत्ये जीविकामात्रहारकः ॥
काशीहरेत्कराद्भ्रष्टा पुरुषार्थचतुष्टयम् ॥२२॥
नाद्यापि काशीं संत्यज्य तदारभ्य महामुने ॥
योगिन्योन्यत्र तिष्ठंति चरंत्योपि जगत्त्रयम् ॥२३॥
प्राप्यापि श्रीमतीं काशीं यस्तितिक्षति दुर्मतिः ॥
स एव प्रत्युत त्यक्तो धर्मकामार्थमुक्तिभिः ॥२४॥
कः काशीं प्राप्य दुर्बुद्धिरपरत्र यियासति॥
मोक्षनिक्षेप कलशीं तुच्छश्रीकृतमानसः ॥२५॥
विमुखोपीश्वरोस्माकं काशीसेवनपुण्यतः ॥
संमुखो भविता पुण्यं कृतकृत्याः स्म तद्वयम् ॥२६॥
दिनैः कतिपयैरेव सर्वज्ञोपि समेष्यति ॥
विना काशीं न रमते यतोऽन्यत्र त्रिलोचनः ॥२७॥
शंभोः शक्तिरियं काशी काचित्सर्वैरगोचरा ॥
शंभुरेव हि जानीयादेतस्याः परमं सुखम् ॥२८॥
इति निश्चित्य मनसि शंभोरानंदकानने ॥
अतिष्ठद्योगिनीवृंदं कयाचिन्माययावृतम् ॥२९॥
व्यास उवाच ॥
इत्थं समाकर्ण्य मुनिः पुनः पप्रच्छ षण्मुखम् ॥
कानि कानि च नामानि तासां तानि वदेश्वर ॥३०॥
भजनाद्योगिनीनां च काश्यां किं जायते फलम् ॥
कस्मिन्पर्वणि ताः पूज्याः कथं पूज्याश्च तद्वद ॥३१॥
श्रुत्वेतिप्रश्नमौमेयो योगिनीसंश्रयं ततः ॥
प्रत्युवाच मुने वच्मि शृणोत्ववहितो भवान् ॥३२॥
॥ स्कंद उवाच ॥
नामधेयानि वक्ष्यामि योगिनीनां घटोद्भव॥
आकर्ण्य यानि पापानि क्षयंति भविनां क्षणात्॥३३॥
गजानना सिंहमुखी गृध्रास्या काकतुंडिका॥
उष्ट्रग्रीवा हयग्रीवा वाराही शरभानना ॥३४॥
उलूकिका शिवारावा मयूरी विकटानना ॥
अष्टवक्त्रा कोटराक्षी कुब्जा विकटलोचना ॥३५॥
शुष्कोदरी ललज्जिह्वा श्वदंष्ट्रा वानरानना ॥
ऋक्षाक्षी केकराक्षी च बृहत्तुंडा सुराप्रिया ॥३६॥
कपालहस्ता रक्ताक्षी शुकी श्येनी कपोतिका ॥
पाशहस्ता दंडहस्ता प्रचंडा चंडविक्रमा ॥३७॥
शिशुघ्नी पापहंत्री च काली रुधिरपायिनी ॥
वसाधया गर्भभक्षा शवहस्तांत्रमालिनी ॥३८॥
स्थूलकेशी बृहत्कुक्षिः सर्पास्या प्रेतवाहना ॥
दंदशूककरा क्रौंची मृगशीर्षा वृषानना ॥३९॥
व्यात्तास्या धूमनिःश्वासा व्योमैकचरणोर्ध्वदृक् ॥
तापनी शोषणीदृष्टिः कोटरी स्थूलनासिका ॥४०॥
विद्युत्प्रभा बलाकास्या मार्जारी कटपूतना ॥
अट्टाट्टहासा कामाक्षी मृगाक्षी मृगलोचना ॥४१॥
नामानीमानि यो मर्त्यश्चतुःषष्टिं दिनेदिने ॥
जपेत्त्रिसंध्यं तस्येह दुष्टबाधा प्रशाम्यति ॥४२॥
न डाकिन्यो न शाकिन्यो न कूष्मांडा न राक्षसाः ॥
तस्य पीडां प्रकुर्वंति नामानीमानि यः पठेत् ॥४३॥
शिशूनां शांतिकारीणि गर्भशांतिकराणि च ॥
रणे राजकुले वापि विवादे जयदान्यपि ॥४४॥
लभेदभीप्सितां सिद्धिं योगिनीपीठसेवकः ॥
मंत्रांतराण्यपि जपंस्तत्पीठे सिद्धिभाग्भवेत् ॥४५॥
बलिपूजोपहारैश्च धूपदीपसमर्पणैः ॥
क्षिप्रं प्रसन्ना योगिन्यः प्रयच्छेयुर्मनोरथान् ॥४६॥
शरत्काले महापूजां तत्र कृत्वा विधानतः ॥
हवींषि हुत्वा मंत्रज्ञो महतीं सिद्धिमाप्नुयात् ॥४७॥
आरभ्याश्वयुजःशुक्लां तिथिं प्रतिपदं शुभाम् ॥
पूजयेन्नवमीयावन्नरश्चिंतितमाप्नुयात् ॥४८॥
कृष्णपक्षस्य भूतायामुपवासी नरोत्तमः ॥
तत्र जागरणं कृत्वा महतीं सिद्धिमाप्नुयात् ॥४९॥
प्रणवादिचतुर्थ्यन्तैर्नामभिर्भक्तिमान्नरः ॥
प्रत्येकं हवनं कृत्वा शतमष्टोत्तरं निशि ॥५०॥
ससर्पिषा गुग्गुलुना लघुकोलि प्रमाणतः ॥
यां यां सिद्धिमभीप्सेत तांतां प्राप्नोति मानवः ॥५१॥
चैत्रकृष्णप्रतिपदि तत्र यात्रा प्रयत्नतः ॥
क्षेत्रविघ्नशांत्यर्थं कर्तव्या पुण्यकृज्जनैः ॥५२॥
यात्रा च सांवत्सरिकीं यो न कुर्यादवज्ञया ॥
तस्य विघ्नं प्रयच्छंति योगिन्यः काशिवासिनः ॥५३॥
अग्रे कृत्वा स्थिताः सर्वास्ताः काश्यां मणिकर्णिकाम् ॥
तन्नमस्कारमात्रेण नरो विघ्नैर्न बाध्यते ॥५४॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे षष्टियोगन्यागमनंनाम पंचचत्वारिंशोध्यायः ॥४५॥
N/A
References : N/A
Last Updated : November 26, 2024
TOP