संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|काशीखण्ड|
अध्याय ८२

काशीखण्डः - अध्याय ८२

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ पार्वत्युवाच ॥
वीरेशस्य महेशान श्रूयते महिमा महान् ॥
परां सिद्धिं परोपतुस्तत्र सिद्धाः परः शताः ॥१॥
कथमाविर्भवस्तस्य काश्यां लिंगवरस्य तु ॥
आशुसिद्धिप्रदस्येह तन्मे ब्रूहि जगत्पते ॥२॥
॥ महेश्वर उवाच ॥
निशामय महादेवि वीरेशाविर्भवं परम् ॥
यं श्रुत्वापि नरः पुण्यं प्राप्नोति विपुलं शिवे ॥३॥
आसीदमित्रजिन्नाम राजा परपुरंजयः ॥
धार्मिकः सत्त्वसंपन्नः प्रजारंजनतत्परः ॥४॥
यशोधनो वदान्यश्च सुधीर्ब्राह्मणदैवतः ॥
सदैवावभृथस्नानपरिक्लिन्न शिरोरुहः ॥५॥
विनीतो नीतिसंपन्नः कुशलः सर्वकर्मसु ॥
विद्याब्धिपारदृश्वा च गुणवान्गुणिवत्सलः ॥६॥
कृतज्ञो मधुरालापः पापकर्मपराङ्मुखः ॥
सत्यवाक्छौचनिलयः स्वल्पवाग्विजितेंद्रियः ॥७॥
रणांगणे कृतांताभः संख्यावांश्च सदोजिरे ॥
कामिनीकामकेलिज्ञो युवापि स्थविरप्रियः ॥८॥
धर्मार्थैधितकोशश्च समृद्धबलवाहनः ॥
सुभगश्च सुरूपश्च सुमेधाः सुप्रजाश्रयः ॥९॥
स्थैर्य धैर्य समापन्नो देशकालविचक्षणः ॥
मन्यमानप्रदो नित्यं सर्वदूषणवर्जितः ॥१०॥
वासुदेवांघ्रियुगले चेतोवृत्तिं निधाय सः ॥
चकार राज्यं निर्द्वंद्वं विष्वगीति विवर्जितम् ॥११॥
अलंघ्यशासनः श्रीमान्विष्णुभक्तिपरायणः ॥
अभुनक्प्रचुरान्भोगान्समंताद्विष्णुसात्कृतान् ॥१२॥
हरेरायतनान्युच्चैः प्रतिसौधं पदेपदे ॥
तस्य राज्ये समभवन्महाभाग्यनिधेः शिवे ॥१३॥
गोविंदगोपगोपाल गोपीजनमनोहर ॥
गदापाणे गुणातीत गुणाढ्य गरुडध्वज ॥१४॥
केशिहृत्कैटभाराते कंसारे कमलापते ॥
कृष्णकेशव कंजाक्ष कीनाश भयनाशन ॥१५॥
पुरुषोत्तम पापारे पुंडरीकविलोचन ॥
पीतकौशेयवसन पद्मनाभ परात्पर ॥१६॥
जनार्दन जगन्नाथ जाह्नवीजलजन्मभूः ॥
जन्मिनां जन्महरण जंजपूकाघनाशन ॥१७॥
श्रीवत्सवक्षः श्रीकांत श्रीकर श्रेयसां निधे ॥
श्रीरंगशार्ङ्गकोदंड शौरे शीतांशुलोचन ॥१८॥
दैत्यारे दानवाराते दामोदर दुरंतक ॥
देवकीहृदयानंद दंदशूकेश्वरेशय ॥१९॥
विष्णो वैकुंठनिलय बाणारे विष्टरश्रवः ॥
विष्वक्सेन विराधारे वनमालिन्वनप्रिय ॥२०॥
त्रिविक्रमत्रिलोकीश चक्रपाणे चतुर्भुज ॥
इत्यादीनि पवित्राणि नामानि प्रतिमंदिरम् ॥२१॥
स्त्रीवृद्धबालगोपाल वदनोदीरितानि तु ॥
श्रूयते यत्रकुत्रापि रम्याणि मधुविद्विषः ॥२२॥
सुरसाकाननान्येव विलोक्यंते गृहेगृहे॥
चरित्राणि विचित्राणि पवित्राण्यब्धिजापतेः ॥२३॥
सौधभित्तिषु दृश्यंते चित्रकृन्निर्मितानि तु ॥
ऋते हरिकथायास्तु नान्या वार्ता निशम्यते ॥२४॥
हरिणा नैव विध्यंते हरिनामांशधारिणः ॥
तस्य राज्ञो भयाद्व्याधैररण्यसुखचारिणः ॥२५॥
न मत्स्या नैव कमठा न वराहाश्च केनचित् ॥
हन्यंते क्वापि तद्भीत्या मत्स्यमांसाशिनापि वै ॥२६॥
अप्युत्तानशयास्तस्य राष्ट्रे मित्रजितः क्वचित् ॥
स्तनपानं न कुर्वंति संप्राप्य हरिवासरम् ॥२७॥
पशवोपि तृणाहारं परित्यज्य हरेर्दिने ॥
उपोषणपरा जाता अन्येषां का कथा नृणाम् ॥२८॥
महामहोत्सवः सर्वैः पुरौकोभिर्वितन्यते ॥
तस्मिन्प्रशासति भुवं संप्राप्ते हरिवासरे ॥२९॥
स एव दंड्योऽभूत्तस्य राज्ञो मित्रजितः क्षितौ ॥
यो विष्णुभक्तिरहितः प्राणैरपि धनैरपि ॥३०॥
अंत्यजा अपि तद्राष्ट्रे शंखचक्रांकधारिणः ॥
संप्राप्य वैष्णवीं दीक्षां दीक्षिता इव संबभुः ॥३१॥
शुभानि यानि कर्माणि क्रियंतेऽनुदिनं जनैः ॥
वासुदेवे समर्प्यंते तानि तैरफलेप्सुभिः ॥३२॥
विना मुकुंदं गोविदं परमानंदमच्युतम् ॥
नान्यो जप्येतमन्येत न भज्येत जनैः क्वचित् ॥३३॥
कृष्ण एव परो देव कृष्णएव परागतिः ॥
कृष्ण एव परो बंधुस्तस्यासीदवनीपतेः ॥३४॥
एवं तस्मिन्महीपाले राज्यं सम्यक्प्रशासति ॥
एकदा नारदः श्रीमांस्तं दिदृक्षुः समाययौ ॥३५॥
राज्ञा समर्चितः सोथ मधुपर्क विधानतः ॥
नारदो वर्णयामास तममित्रजितं नृपम् ॥३६॥
॥ नारद उवाच ॥
धन्योसि कृतकृत्योसि मान्योप्यसि दिवौकसाम् ॥
सर्वभूतेषु गोविंदं परिपश्यन्विशांपते ॥३७॥
यो वेद पुरुषो विष्णुर्यो यज्ञपुरुषो हरिः ॥
योंतरात्मास्य जगतः कर्ता हर्ताविता विभुः ॥३८॥
तन्मयं पश्यतो विश्वं तव भूपालसत्तम ॥
दर्शनं प्राप्य शुभदं शुचित्वमगमं परम् ॥३९॥
एक एव हि सारोत्र संसारे क्षणभंगुरे ॥
कमलाकांत पादाब्ज भक्तिभावोऽखिलप्रदः ॥४०॥
परित्यज्य हि यः सर्वं विप्णुमेकं सदा भजेत् ॥
सुमेधसं भजंते तं पदार्थाः सर्व एव हि ॥४१॥
हृषीकेशे हृषीकाणि यस्य स्थैर्यं गतान्यहो ॥
स एव स्थैर्यमाप्नोति ब्रह्मांडेऽतीव चंचले ॥४२॥
यौवनं धनमायुष्यं पद्मिनीजलबिंदुवत् ॥
अतीव चपलं ज्ञात्वाऽच्युतमेकं समाश्रयेत् ॥४३॥
वाचि चेतसि सर्वत्र यस्य देवो जनार्दनः ॥
स एव सर्वदा वंद्यो नररूपी जनार्दनः ॥४४॥
निर्व्याज प्रणिधानेन शीलयित्वा श्रियःपतिम् ॥
पुरुषोत्तमतां को न प्राप्तवानिह भूतले ॥४५॥
अनया विष्णुभक्त्या ते संतुष्टेंद्रियमानसः ॥
उपकर्तुमना ब्रूयां तन्निशामय भूपते ॥४६॥
बाला विद्याधरसुता नाम्ना मलयगंधिनी ॥
क्रीडंती पितुराक्रोडे हृता कंकालकेतुना ॥४७॥
कपालकेतुपुत्रेण दानवेन बलीयसा ॥
आगामिन्यां तृतीयायां तस्याः पाणिग्रहृं किल ॥४८॥
पाताले चंपकावत्यां नगर्यां सास्ति सांप्रतम् ॥
हाटकेशात्समागच्छंस्तया हंसाश्रुनेत्रया ॥४९॥
दृष्टः प्रणम्य विज्ञप्तो यथा तच्च निथामय ॥
ब्रह्मचारिन्मुनिश्रेष्ठ गंधमादनशैलतः ॥५०॥
बालक्रीडनकासक्तां मोहयित्वा निनाय सः ॥
कंकालकेतुर्दुर्वृत्तो दुर्जयोन्यास्त्रघाततः ॥५१॥
स्वस्य त्रिशूलघातेन म्रियते नान्यथा रणे ॥
जगत्पर्याकुलीकृत्य निद्रात्यत्रविनिर्भयः ॥५२॥
यदि कोपि कृतज्ञो मां हत्वेमं दुष्टदानवम् ॥
मद्दत्तेन त्रिशूलेन नयेद्भद्रं भवेन्नरः ॥५३॥
यदत्रोपचिकीर्षुस्त्वं रक्ष मां दुष्टदानवात् ॥
ममापि हि वरो दत्तो भगवत्या महामुने ॥५४॥
विष्णुभक्तो युवा धीमान्पुत्रि त्वां परिणेष्यति ॥
आ तृतीया तिथि यथा तद्वाक्यं तथ्यतां व्रजेत् ॥५५॥
तथा निमित्तमात्रं त्वं भव यत्नं समाचर ॥
इति तद्वचनाद्राजन्विष्णुभक्तिपरायणम् ॥
युवानं चापि धीमंतं त्वामनु प्राप्तवानहम् ॥५६॥
तद्गच्छ कार्यसिद्ध्यै त्वं हत्वा तं दुष्टदानवम् ॥
आनयाशु महाबाहो शुभां मलयगंधिनीम् ॥५७॥
सा तु विद्याधरी जीवेद्विलोक्य त्वां नरेश्वर ॥
पार्वतीवचनाद्दुष्टं घातयिष्यत्ययत्नतः ॥५८॥
इति नारदवाक्यं स निशम्यामित्रजिन्नृपः ॥
अनल्पोत्कलिको जातो विद्याधरसुतां प्रति ॥५९॥
उपायं चापि पप्रच्छ गंतुं तां चंपकावतीम् ॥
नारदेन पुनः प्रोक्तः स राजा गिरिराजजे ॥६०॥
तूर्णमर्णवमासाद्य पूर्णिमादिवसे नृप ॥
भवान्द्रक्ष्यति पोतस्थः कल्पवृंदारथस्थितम् ॥६१॥
तत्र दिव्यांगना काचिद्दिव्यपर्यंक संस्थिता ॥
वीणामादाय गायंती गाथां गास्यति सुस्वरम् ॥६२॥
यत्कर्मविहितं येन शुभं वाथ शुभेतरम् ॥
स एव भुंक्ते तत्तथ्यं विधिसूत्रनियंत्रितः ॥६३॥
गाथामिमां सा संगीय सरथा स महीरुहा ॥
सपर्यंका क्षणादेव मध्ये सिंधुं प्रवेक्ष्यति ॥६४॥
भवानप्यविशंकं च ततः पोतान्महार्णवे ॥
तामनु व्रजतु क्षिप्रं यज्ञवाराहमास्तुवन् ॥६५॥
ततो द्रक्ष्यसि पाताले नगरीं चंपकावतीम् ॥
महामनोहरा राजन्सहितां बालयानया ॥६६॥
इत्युक्त्वांतर्हितो देवि स चतुर्मुखनंदनः ॥
राजाप्यर्णवमासाद्य यथोक्तं परिलक्ष्य च ॥६७॥
विवेशांतःसमुद्रं च नगरीमाससाद ताम् ॥
साथ विद्याधरी बाला नेत्रप्राघुणकी कृता ॥६८॥
तेन राज्ञा त्रिजगती सौंदर्यश्रीरिवैकिका ॥
पातालदेवतेयं वा ममनेत्रोत्सवाय किम् ॥६९॥
निरणायि मधुद्वेष्ट्रा स्रष्टुः सृष्टिविलक्षणा ॥
कुहूराहुभयादेषा कांतिश्चांद्रमसी किमु ॥७०॥
योषिद्रूपं समाश्रित्य तिष्ठतेऽत्राकुतोऽभया ॥
इत्थं क्षणं तां निर्वर्ण्य स राजागात्तदंतिकम् ॥७१॥
सा विलोक्याथ तं बाला नितरां मधुराकृतिम् ॥
विशालोरस्थलतलं प्रलंबतुलसीस्रजम् ॥७२॥
शंखचक्रांकसुभग भुजद्वयविराजितम् ॥
हरिनामाक्षरसुधा सुधौत रदनावलिम् ॥७३॥
भवानीभक्तिबीजोत्थं भूरुहं पुरुषाकृतिम् ॥
मनोरथफलैः पूर्णमासीद्धृष्टतनूरुहा ॥७४॥
दोलापर्यंकमुत्सृज्य ह्रीभरा नम्रकंधरा ॥
वेपथुं च परिष्टभ्य बाला प्रोवाच भूपतिम् ॥७५॥
कस्त्वमत्र कृतांतस्य भवनं मधुराकृते ॥
प्राप्तो मे मंदभाग्यायाश्चेतोवृत्तिं निरुंधयन् ॥७६॥
यावन्नायाति सुभग स कठोरतराकृतिः ॥
अतिपर्याकुलीकृत्य त्रिलोकीं दानवो मुहुः ॥७७॥
कंकालकेतुर्दुर्वृत्तस्त्ववध्यः परहेतिभिः ॥
तावद्गुप्तं समातिष्ठ शस्त्रागारेति गह्वरे ॥७८॥
न मे कन्याव्रतं भंक्तुं स समर्थ उमा वरात्॥
आगामिन्यां तृतीयायां परश्वः पाणिपीडनम् ॥७९॥
संचिकीर्षति दुष्टात्मा गतायुर्मम शापतः ॥
मा तद्भीतिं कुरु युवंस्तत्कार्यं भविताचिरम् ॥८०॥
विद्याधर्येति चोक्तः स शस्त्रागारे निगूढवत् ॥
स्थितो वीरो महाबाहुर्दानवागमने क्षणः ॥८१॥
अथ सायं समायातो दानवो भीषणाकृतिः॥
त्रिशूलं कलयन्पाणौ मृत्योरपि भयावहम् ॥८२॥
आगत्य दानवो रौद्रः प्रलयांबुदनिस्वनः ॥
विद्याधरीं जगादेति मदाघूर्णितलोचनः ॥८३॥
गृहाणेमानि रत्नानि दिव्यानि वरवर्णिनि ॥
कन्यात्वं च परश्वस्ते पाणिग्राहादपैष्यति ॥८४॥
दासीनामयुतं प्रातर्दास्यामि तव सुंदरि ॥
आसुरीणां सुरीणां च दानवीनां मनोहरम् ॥८५॥
गंधर्वीणां नरीणां च किन्नरीणां शतंशतम् ॥
विद्याधरीणां नागीनां यक्षिणीनां शतानि षट् ॥८६॥
राक्षसीनां शतान्यष्टौ शतमप्सरसां वरम् ॥
एतास्ते परिचारिण्यो भविष्यंत्यमलाशये ॥८७॥
यावत्संपत्तिसंभारो दिक्पालानां गृहेषु वै ॥
मत्परिग्रहतां प्राप्य तावतस्त्वमिहेश्वरी ॥८८॥
दिव्यान्भोगान्मया सार्धं भोक्ष्यसे मत्परिग्रहात् ॥
कदा परश्वो भविता यस्मिन्वैवाहिको विधिः ॥८९॥
त्वदंगसंगसंस्पर्श सुखसंदोह मेदुरः ॥
परां निर्वृतिमाप्स्यामि परश्वो निकटं यदि ॥९०॥
मनोरथाश्चिरं यावद्यं मे हृदि समेधिताः ॥
तान्कृतार्थी करिष्यामि परश्वस्तव संगमात् ॥९१॥
जित्वा देवान्रणे सर्वानिंद्रादीन्मृगलोचने ॥
त्रैलोक्यैश्वर्यसंपत्तेस्त्वां करिष्यामि चेश्वरीम् ॥९२॥
आधायांके त्रिशूलं स्वे सुष्वापेति प्रलप्य सः ॥
नरमांसवसास्वाद प्रमत्तो वीतसाध्वसः ॥९३॥
वरं स्मरंती सा गौर्या विद्याधरकुमारिका ॥
विज्ञाय तं प्रमत्तं च सुसुप्तं चातिनिर्भयम् ॥९४॥
आहूय तं नरवरं वरं सर्वांगसुंदरम् ॥।
विष्णुभक्तिकृतत्राणं प्राणनाथेति जल्प्य च ॥९५॥
शूलं तदंकादादाय गृहाणेमं जहि द्रुतम् ॥
इति त्रिशूलं बालातो बालार्कसदृशद्युति ॥९६॥
समादाय महाबाहुः स तदा मित्रजिन्नृपः ॥
जहर्ष च जगादोच्चैर्बालायाश्चाभयं दिशन् ॥९७॥
वामपादप्रहारेण तमाताड्य स निर्भयः ॥
संस्मरंश्चक्रिणं चित्ते जगद्रक्षामणिं हरिम् ॥९८॥
जर्गाद तिष्ठ रे दुष्ट कन्याधर्षणलालस ॥
युध्यस्वात्र मया सार्धं न सुप्तं हन्म्यहं रिपुम् ॥९९॥
इति संश्रुत्य संभ्रांत उत्थाय स दनोः सुतः ॥
त्रिशूलं देहि मे कांते प्रोवाचेति मुहुर्मुहुः ॥१००॥
कोयं मृत्युगृहं प्राप्तः कस्य रुष्टोऽद्य चांतकः ॥
क आयुषाद्य संत्यक्तो यः प्राप्तो मम गोचरम् ॥१॥
मम प्रचंड दोर्दंड कंडू कंडूयन क्षमः ॥
नाल्पो नरोयं भविता किं त्रिशूलेन सुंदरि ॥२॥
माभैर्मे कौतुकं पश्य भक्ष्योऽयं मम सांप्रतम् ॥
कालेन मत्तो भीतेन स्वयमेवोपढौकितः ।६ ३॥
इत्युक्त्वा मुष्टिघातेन तेनोच्चैर्दनुसूनुना ॥
हृदये निहतो राजा शिलातिकठिने द्रुतम् ॥४॥
स चक्रिणा कृतत्राणः पीडामल्पीयसीमपि ॥
नो वेद कठिनोरस्कस्तत्करं प्रत्युतानुदत् ॥५॥
अथ कोपवता राज्ञा हतो वक्त्रे चपेटया ॥
आघूर्णितशिरा भूमौ पतित्वा पुनरुत्थितः ॥६॥
उवाच च वचो धैर्यमवष्टभ्य महाबली ॥७॥
॥ दानव उवाच ॥
ज्ञातं न त्वं मनुष्योसि नृरूपेण चतुर्भुजः ॥
आयातश्छिद्रमासाद्य हंतुं मां दानवांतकः ॥८॥
एकं विधेहि मधुभिद्यदि त्वं बलवानसि ॥
विहायैतन्महच्छूलं युध्यस्व स्वायुधैर्मया ॥९॥
त्वया कपटरूपेण बलिनः कैटभादयः ॥
न बलेन हताः संख्ये हता एवच्छलेन हि ॥११० ।
बलिं पातालमनयस्त्वं नृवामनतां दधत् ॥
नृमृगत्वेन भवता हिरण्यकशिपुर्हतः ॥११॥
त्वया जटिलरूपेण लंकेशो विनिपातितः ॥
गोपालवेषमासाद्य कंसाद्या घातितास्त्वया ॥१२॥
स्त्रीरूपेणाहरस्त्वं तु विप्रलाप्या सुरान्सुधाम् ॥
यादो रूपेण भवता शंखाद्यानि हता बहु ॥१३॥
मायाविनामग्रगण्य सर्वमर्मज्ञसाधक ॥
न त्वत्तोहं बिभेम्यद्य यदि शूलं विहास्यसि ॥१४॥
अथवा दैन्यवचनः किमेभिः कातरोचितैः ॥
न त्यक्ष्यसि त्रिशूलं त्वं न त्वां जेष्याम्यहं रणे ॥१५॥
अवश्यमेव मर्तव्यमद्य प्रातः शरीरिणा ॥
त्वत्करेण वरं मृत्युर्बलेनापिच्छलेन वा ॥१६॥
इयं विद्याधरी कन्या न मया दूषिता सती ॥
साक्षाच्छ्रीरेव मंतव्या तवार्थं रक्षिता मया ॥१७॥
इत्युक्त्वा वामदोर्दंडप्रहारेणातिनिष्ठुरम् ॥
निजघान दनोः सूनुस्तं शिलोच्चयकंपिना ॥१८॥
नृपो वक्षः प्रहारं तं विषह्य रण मूर्द्धनि ॥
लक्षीचकार तद्वक्षस्त्रिशूलं तोलयन्करे ॥१९॥
निजघान महाबाहुः स च प्राणाञ्जहौ क्षणात् ॥
इत्थं कंकालकेतुं स निहत्य सुरकंपनम् ॥१२०॥
विद्याधरीं प्रपश्यंतीं प्राह हृष्टतनूरुहाम् ॥
नारदस्य मुनेर्वाक्यात्तव सुश्रोणि वांछितम् ॥२१॥
कृतं मया कृतज्ञे किं करवाण्यधुना वद ॥
श्रुत्वेति तस्य सा वाक्यं प्राह गंभीरचेतसः ॥२२॥
मलयगंधिन्युवाच ॥
अथोदारमते वीर निज प्राणैः पणीकृताम् ॥
किं मां पृच्छसि जीवातो कुलकन्या प्रदूषिताम् ॥२३॥
इति ब्रुवत्यां कन्यायां पुनः स्वैरचरो मुनिः ॥
अतर्कितागमः प्राप्तो नारदो देवलोकतः ॥२४॥
ततस्तुतुषतुस्तौ तु दृष्ट्वा तं मुनिसत्तमम् ॥
कृतप्रणामौ मुनिना परिविश्राणिताशिषौ ॥२५॥
पाणिग्रहेण विधिनाऽभिषिक्तौ नारदेन तु ॥
जग्मतुर्नारदादिष्ट वर्त्मना कृतमंगलौ ॥२६॥
तया मलयगंधिन्या युतः सोऽमित्रजिन्नृपः ॥
पुरीं वाराणसीं प्राप्य पौरैर्विहितमंगलाम् ॥२७॥
यद्वीक्षणादपि नरो नारकी नैव जातुचित् ॥
गतिमाप्नोति मेधावी तां पुरीमविशन्नृपः ॥२८॥
यस्यां पुर्यां प्रवेशं न लभंते वासवादयः ॥
कैवल्यजनयित्र्यां हि तां पुरीमविशन्नृपः ॥२९॥
अपि स्मृत्वा पुरीं यां वै काशीं त्रैलोक्यकांक्षिताम् ॥
न नरो लिप्यते पापैस्तां विवेश स भूपतिः ॥१३०॥
यस्यां पुर्यां प्रविष्टो ना महद्भिरपि पातकैः ॥
नाभिभूयेत तां काशीं प्राविशत्स विशांपतिः ॥३१॥
सापि विद्याधरी काशी समृद्धिं वीक्ष्य दूरतः ॥
निनिंद स्वर्गलोकं च पातालनगरीमपि ॥३२॥
प्राप्या मित्रजितं कांतं तथा हृष्टा न सा वधूः ॥
यथा दृष्ट्वाप्यहो काशीं परमानंदकेतनम् ॥३३॥
सा कृतार्थमिवात्मानं मन्यमाना मनस्विनी ॥
तेन पत्या च काश्या च परां निर्वृतिमाययौ ॥३४॥
सोप्यमित्रजिदासाद्य पत्नीं मलयगंधिनीम् ॥
धर्मप्रधानं संसेव्य कामं प्राप्तोत्तमं सुखम् ॥३५॥
सैकदा तं पतिं राज्ञी विष्णुभक्तिपरायणम् ॥
रहो विज्ञापयांचक्रे पतिभक्ता सुतार्थिनी ॥३६॥
॥ राज्ञ्युवाच ॥
भूपाभीष्टतृतीयायाश्चरिष्यामि महाव्रतम् ॥
यद्यनुज्ञा भवेद्भर्तुः पुत्रकामार्थितप्रदम् ॥३७॥
॥ राजोवाच ॥
देव्यभीष्टतृतीयायां व्रतं कीदृग्भवेद्वद ॥
का देवता तत्र पूज्या विधानं चापि किं फलम् ॥३८॥
नारी पत्यननुज्ञाता या व्रतादि समाचरेत् ॥
जीवंती दुःखिनी सा स्यान्मृता निरयमृच्छति ॥३९॥
इति राज्ञोदिता राज्ञी प्रवक्तुमुपचक्रमे ॥
इति कर्तव्यतां तस्य व्रतस्य सरहस्यकाम्॥१४०॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखण्डे उत्तरार्ध वीरेश्वराविर्भावेऽमित्रजित्पराक्रमो नाम द्व्यशीतितमोध्यायः ॥८२॥

N/A

References : N/A
Last Updated : November 27, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP