संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|काशीखण्ड| अध्याय १४ काशीखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० विषयानुक्रमणिका काशीखण्डः - अध्याय १४ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १४ Translation - भाषांतर ॥ गणावूचतुः ॥अलकायाः पुरोभागे पूरैशानीमहोदया ॥अस्यां वसंति सततं रुद्रभक्तास्तपोधनाः ॥१॥शिवस्मरणसंसक्ताः शिवव्रतपरायणाः ॥शिवसात्कृतकर्माणः शिवपूजारताः सदा ॥२॥साभिलाषास्तपस्यंति स्वर्गभोगोस्त्वितीह नः ॥तेऽत्र रुद्रपुरे रम्ये रुद्ररूपधरा नराः ॥३॥अजैकपादहिर्बुध्न्य मुख्या एकादशापि वै ॥रुद्राः परिवृढाश्चात्र त्रिशूलोद्यतपाणयः ॥४॥पुर्यष्टकं च दुष्टेभ्यो देवध्रुग्भ्यो ह्यवंति ते ॥प्रयच्छंति वरान्नित्यं शिवभक्तजने वराः ॥५॥एतैरपि तपस्तप्तं प्राप्य वाराणसीं पुरीम् ॥ईशानेशं महालिंगं परिस्थाप्य शुभप्रदम् ॥६॥ईशानेश प्रसादेन दिश्यैश्यां हि दिगीश्वराः ॥एकादशाप्येकचरा जटामुकुटमंडिताः ॥७॥भालनेत्रा नीलगलाः शुद्धांगा वृषभध्वजाः ॥असंख्याताः सहस्राणि ये रुद्रा अधिभूतलम् ॥८॥तेऽस्यां पुरि वसंत्यैश्यां सर्वभोगसमृद्धयः ॥ईशानेशं समभ्यर्च्य काश्यां देशांतरेष्वपि ॥९॥विपन्नास्तेन पुण्येन जायंते ऽत्रपुरोहिताः ॥अष्टम्यां च चतुर्दश्यामीशानेशं यजंति ये ॥१०॥त एव रुद्रा विज्ञेया इहामुत्राप्यसंशयम् ॥कृत्वा जागरणं रात्रावीशानेश्वर संनिधौ ॥११॥उपोष्यभूतांयांकांचिन्न नरो गर्भभाक्पुनः ॥स्वर्गमार्गे कथामित्थं शृण्वन्विष्णुगणोदिताम् ॥१२॥शिवशर्मा दिवाप्युच्चैरपश्यच्चंद्रचंद्रिकाम् ॥आह्लादयंतीं बहुशः समं सर्वेंद्रियैर्मनः ॥१३॥चमत्कृत्य चमत्कृत्य कोयं लोको हरेर्गणौ ॥पप्रच्छ शिवशर्मा तौ प्रोचतुस्तं च तौ द्विजम् ॥१४॥गणावूचतुः ॥शिवशर्मन्महाभाग लोक एष कलानिधेः ॥पीयूषवर्षिभिर्यस्य करैराप्याय्यते जगत् ॥१५॥पिता सोमस्य भो विप्र जज्ञेऽत्रिर्भगवानृषिः ॥ब्रह्मणो मानसात्पूर्वं प्रजासर्गं विधित्सतः ॥१६॥अनुत्तरं नाम तपो येन तप्तं हि तत्पुरा ॥त्रीणिवर्षसहस्राणि दिव्यानीतीह नौ श्रुतम् ॥१७॥ऊर्ध्वमाचक्रमे तस्य रेतः सोमत्वमीयिवत् ॥नेत्राभ्यां तच्च सुस्राव दशधा द्योतयद्दिशः ॥१८॥तं गर्भं विधिना दिष्टा दश देव्यो दधुस्ततः ॥समेत्य धारयामासुर्नैव ताः समशक्नुवन् ॥१९॥यदा न धारणे शक्तास्तस्य गर्भस्य ता दिशः ॥ततस्ताभिः सजूः सोमो निपपात वसुंधराम् ॥२०॥पतितं सोममालोक्य ब्रह्मा लो कपितामहः ॥रथमारोपयामास लोकानां हितकाम्यया ॥२१॥स तेन रथमुख्येन सागरांतां वसुंधराम् ॥त्रिःसप्तकृत्वो द्रुहिणश्चकारामुं प्रदक्षिणम् ॥२२॥तस्य यत्प्लवितं तेजः पृथिवीमन्वपद्यत ॥तथौषध्यः समुद्भूता याभिः संधार्यते जगत् ॥२३॥सलब्धतेजा भगवान्ब्रह्मणा वर्धितः स्वयम् ॥तपस्तेपे महाभाग पद्मानां दशतीर्दश ॥२४॥अविमुक्तं समासाद्य क्षेत्रं परमपावनम् ॥संस्थाप्य लिंगममृतं चंद्रेशाख्यं स्वनामतः ॥२५॥बीजौषधीनां तोयानां राजाभूदग्रजन्मनाम् ॥प्रसादाद्देवदेवस्य विश्वेशस्य पिनाकिनः ॥२६॥तत्र कूपं विधायैकममृतोदमिति स्मृतम् ॥यस्यांबुपानस्नानाभ्यां नरोऽज्ञातात्प्रमुच्यते ॥२७॥तुष्टेनदेवदेवेन स्वमौलौ यो धृतः स्वयम् ॥आदाय तां कलामेकां जगत्संजविनीं पराम् ॥२८॥पश्चाद्दक्षेण शप्तोपि मासोने क्षयमाप्य च ॥आप्याय्यतेसौ कलया पुनरेव तया शशी ॥२९॥स तत्प्राप्य महाराज्यं सोमः सोमवतां वरः ॥राजसूयं समाजह्रे सहस्रशतदक्षिणम् ॥३०॥दक्षिणामददत्सोमस्त्रींल्लोकानिति नौ श्रुतम् ॥तेभ्यो ब्रह्मर्षिमुख्येभ्यः सदस्येभ्यश्च भो द्विज ॥३१॥हिरण्यगर्भो ब्रह्माऽत्रिर्भृगुर्यत्रर्त्विजोभवन् ॥सदस्योभूद्धरिस्तत्र मुनिभिर्बहुभिर्युतः ॥३२॥तंसिनी च कुहूश्चैव द्युतिः पुष्टिः प्रभावसुः ॥कीर्तिर्धृतिश्च लक्ष्मीश्च नवदेव्यः सिषेविरे ॥३३॥उमया सहितं रुद्रं संतर्प्याध्वरकर्मणा ॥प्राप सोम इति ख्यातिं दत्तां सोमेन शंभुना ॥३४॥तत्रैव तप्तवान्सोमस्तपः परमदुष्करम् ॥तत्रैव राजसूयं च चक्रे चंद्रेश्वराग्रतः ॥३५॥तत्रैव ब्राह्मणैः प्रीतैरित्युक्तोसौ कलानिधिः ॥सोमोस्माकं ब्राह्मणानां राजा त्रैलोक्यदक्षिणः ॥३६॥तत्रैव देवदेवस्य विलोचनपदं गतः ॥देवेन प्रीतमनसा त्रैलोक्याह्लादहेतवे ॥३७॥त्वं ममास्य परामूर्तिरित्युक्तस्तत्तपोबलात् ॥जगत्तवोदयं प्राप्य भविष्यति सुखोदयम् ॥३८॥त्वत्पीयूषमयैर्हस्तैः स्पृष्टमेतच्चराचरम् ॥भानुतापपरीतं च परा ग्लानिं विहास्यति ॥३९॥एतदुक्त्वा महेशानो वरानन्यानदान्मुदा ॥द्विजराजतपस्तप्तं यदत्युग्रं त्वयात्र वै ॥४०॥यच्च क्रतु क्रियोत्सर्गस्त्वया मह्यं निवेदितः ॥स्थापितं यत्त्विदं लिंगं मम चंद्रेश्वराभिधम् ॥४१॥ततोत्र लिंगे त्वन्नाम्नि सोमसोमार्धरूपधृक् ॥प्रतिमासं पंचदश्यां शुक्लायां सर्वगोप्यहम् ॥४२॥अहोरात्रं वसिष्यामि त्रैलोक्यैश्वर्यसंयुतः ॥ततोत्र पूर्णिमायां तु कृता स्वल्पापि सत्क्रिया ॥४३॥जपहोमार्चनध्यानदानब्राह्मणभोजनम् ॥महापूजा च सा नूनं मम प्रीत्यै भविष्यति ॥४४॥जीर्णोद्धारादिकरणं नृत्यवाद्यादिकार्पणम् ॥ध्वजारोपणकर्मादि तपस्वियतितपर्णम् ॥४५॥चंद्रेश्वरे कृतं सर्वं तदानंत्याय जायते ॥अन्यच्च ते प्रवक्ष्यामि शृणु गुह्यं कलानिधे ॥४६॥अभक्ताय च नाख्येयं नास्तिकाय श्रुतिद्रुहे ॥अमावास्या यदा सोम जायते सोमवासरे ॥४७॥तदोपवासः कर्तव्यो भूतायां सद्भिरादरात् ॥कृतनित्यक्रियः सोम त्रयोदश्यां निशामय ॥४८॥शनिप्रदोषे संपूज्य लिंगं चंद्रेश्वराह्वयम् ॥नक्तं कृत्वा त्रयोदश्यां नियमं परिगृह्य च ॥४९॥उपोष्य च चतुर्दश्यां कृत्वा जागरणं निशि ॥प्रातः सोमकुहूयोगे स्नात्वा चंद्रोदवारिभिः ॥५०॥उपास्य संध्यां विधिवत्कृतसर्वोदक क्रियः ॥उपचंद्रोदतीर्थेषु श्राद्धं विधिवदाचरेत् ॥५१॥आवाहनार्घ्यरहितं पिंडान्दद्यात्प्रयत्नतः ॥वसुरुद्रादितिसुतस्वरूपपुरुषत्रयम् ॥५२॥मातामहांस्तथोद्दिश्य तथान्यानपि गोत्रजान् ॥गुरुश्वशुरबंधूनां नामान्युच्चार्य पिंडदः ॥५३॥कुर्वञ्छ्राद्धं च तीर्थेस्मिञ्छ्रद्धयोद्धरतेखिलान् ॥गयायां पिंडदानेन यथा तुप्यंति पूर्वजाः ॥५४॥तथा चंद्रोदकुंडेऽत्र श्राद्धैस्तृप्यंति पूर्वजाः ॥गयायां च यथा मुच्येत्सर्वर्णात्पितृजान्नरः ॥५५॥तथा प्रमुच्यते चर्णाच्चंद्रोदे पिण्डदानतः ॥यदा चंद्रेश्वरं द्रष्टुं यायात्कोपि नरोत्तमः ॥५६॥तदा नृत्यंति मुदितास्तत्पूर्वप्रपितामहाः॥अयं चंद्रोदतीर्थेस्मिंस्तर्पणं नः करिष्यति ॥५७॥अस्माकं मंदभाग्यत्वाद्यदि नैव करिष्यति॥तदातत्तीर्थ संस्पर्शादस्मत्तृप्तिर्भविष्यति॥ ५८॥स्पृशेन्नापि यदा मंदस्तदा द्रक्ष्यति तृप्तये॥एवं श्राद्धं विधायाथ स्पृष्ट्वा चंद्रेश्वरं व्रती॥संतर्प्य विप्रांश्च यतीन्कुर्याद्वै पारणं ततः ॥५९॥एवं व्रते कृते काश्यां सदर्शे सोमवासरे॥भवेदृणत्रयान्मुक्तो मृगांकमदनुग्रहात् ॥६०॥अत्र यात्रा महाचैत्र्यां कार्या क्षेत्रनिवासिभिः ॥तारकज्ञानलाभाय क्षेत्रविघ्ननिवर्तिनी ॥६१॥चंद्रेश्वरं समभ्यर्च्य यद्यन्यत्रापि संस्थितः ॥अघौघपटलीं भित्त्वा सोमलोकमवाप्स्यति ॥६२॥कलौ चंद्रेशमहिमा नाभाग्यैरवगम्यते॥अन्यच्च ते प्रवक्ष्यामि परं गुह्यं निशापते ॥६३॥सिद्धयोगीश्वरं पीठमेतत्साधकसिद्धिदम् ॥सुरासुरेषु गंधर्व नागविद्याधरेष्वपि ॥६४॥रक्षोगुह्यकयक्षेषु किंनरेषु नरेषु च ॥सप्तकोट्यस्तु सिद्धानामत्र सिद्धा ममाग्रतः ६५॥षण्मासं नियताहारो ध्यायन्विश्वेश्वरीमिह॥चंद्रेश्वरार्चनायातान्सिद्धान्पश्यति सोऽग्रगान् ॥६६॥सिद्धयोगीश्वरी साक्षाद्वरदा तस्य जायते ॥तवापि महती सिद्धिः सिद्धयोगीश्वरीक्षणात्॥ ६७॥संति पाठान्यनेकानि क्षितौ साधकसिद्धये॥परं योगीश्वरी पीठाद्भूपृष्ठेनाशु सिद्धिदम्॥ ६८॥यत्र चंद्रेश्वरं लिंगं त्वयेदं स्थापितं शशिन्॥इदमेव हि तत्पीठमदृश्यमकृतात्मभिः॥ ६९॥जितकामा जितक्रोधा जितलोभस्पृहास्मिताः॥योगीश्वरीं प्रपश्यंति मम शक्तिपरां हिताम् ॥७०॥ये तु प्रत्यष्टमि जनास्तथा प्रति चतुर्दशि ॥सिद्धयोगीश्वरीपीठे पूजयिष्यंति भाविताः ॥७१॥अदृष्टरूपां सुभगां पिंगलां सर्वसिद्धिदाम् ॥धूपनैवेद्यदीपाद्यैस्तेषामाविर्भविष्यति ॥७२॥इति दत्त्वा वराञ्छंभुस्तस्मै चंद्रमसे द्विज ॥अंतर्हितो महेशानस्तत्र वैश्वेश्वरे पुरे ॥७३॥तदारभ्य च लोकेऽस्मिन्द्विजराजोधिपोभवत् ॥दिशोवितिमिराः कुर्वन्निजैः प्रसृमरैः करैः ॥७४॥सोमवारव्रतकृतः सोमपानरता नराः ॥सोमप्रभेणयानेन सोमलोकं व्रजंति हि ॥७५॥चंद्रेश्वरसमुत्पत्तिं तथा चांद्रमसं तपः ॥यः श्रोष्यति नरो भक्त्या चंद्रलोके स इज्यते ॥७६॥अगस्तिरुवाच ॥शिवशर्मणि शर्मकारिणीं प थि दिव्ये श्रमहारिणीं गणौ ॥कथयंतौ तु कथामिमां शुभामुडुलोकं परिजग्मतुस्ततः ॥७७॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे सोमलोकवर्णनं नाम चतुर्दशोऽध्यायः ॥१४॥ N/A References : N/A Last Updated : November 24, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP