काशीखण्डः - अध्याय २१
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ ध्रुव उवाच ॥
नमो हिरण्यगर्भाय सर्वसृष्टिविधायिने ॥
हिरण्यरेतसे तुभ्यं सुहिरण्यप्रदायिने ॥१॥
नमो हरस्वरूपाय भूतसंहारकारिणे ॥
महाभूतात्मभूताय भूतानां पतये नमः ॥२॥
नमः स्थितिकृते तुभ्यं विष्णवे प्रभविष्णवे ॥
तृष्णाहराय कृष्णाय महाभार सहिष्णवे ॥३॥
नमो दैत्यमहारण्य दाववह्निस्वरूपिणे ॥
दैत्यद्रुमकुठाराय नमस्ते शार्ङ्गपाणये ॥४॥
नमः कौमोदकीव्यग्र कराग्राय गदाधर ॥
महादनुजनाशाय नमो नंदकधारिणे ॥५॥
नमः श्रीपतये तुभ्यं नमश्चक्रधराय च ॥
धराधराय वाराह रूपिणे परमात्मने ॥६॥
नमः कमलहस्ताय कमलावल्लभाय ते ॥
नमो मत्स्यादिरूपाय नमः कौस्तुभवक्षसे ॥७॥
नमो वेदांतवेद्याय नमः श्रीवत्सधारिणे ॥
नमो गुणस्वरूपाय गुणिने गुणवर्जिते ॥८॥
नमस्ते पद्मनाभाय पांचजन्यधराय च ॥
वासुदेव नमस्तुभ्यं देवकीनंदनाय च ॥९॥
प्रद्युम्नाय नमस्तुभ्यमनिरुद्धाय ते नमः ॥
नमः कंसविनाशाय नमश्चाणूरमर्दिने ॥१०॥
दामोदरहृषीकेश गोर्विदाच्युतमाधव ॥
उपेंद्रकैटभाऽराते मधुहंतरधोक्षज ॥११॥
नारायणाय नरकहारिणे पापहारिणे ॥
वामनाय नमस्तुभ्यं हरये शौरये नमः ॥१२॥
अनंताय नमस्तुभ्यमनंतशयनाय च ॥
रुक्मिणीपतये तुभ्यं रुक्मिप्रमथनाय च ॥१३॥
चैद्यहंत्रे नमस्तुभ्यं दानवारेसुरारये ॥
मुकुंदपरमानंद नंदगोपप्रियाय च ॥१४॥
नमस्ते पुंडरीकाक्ष दनुजेंद्र निषूदिने ॥
नमो गोपालरूपाय वेणुवादनकारिणे ॥१५॥
गोपीप्रियाय केशिघ्ने गोवर्धनधराय च ॥
रामाय रघुनाथाय राघवाय नमोनमः ॥१६॥
रावणारे नमस्तुभ्यं विभीषणशरण्यद ॥
अजाय जयरूपाय रणांगणविचक्षण ॥१७॥
क्षणादि कालरूपाय नानारूपाय शार्ङ्गिणे ॥
गदिने चक्रिणे तुभ्यं दैत्यचक्रविमर्दिने ॥१८॥
बलाय बलभद्राय बलारातिप्रियाय च ॥
बलियज्ञप्रमथन नमो भक्तवरप्रद ॥१९॥
हिरण्यकशिपोर्वक्षो विदारण रणप्रिय ॥
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ॥२०॥
नमस्ते धर्मरूपाय नमः सत्त्वगुणाय च ॥
नमः सहस्रशिरसे पुरुषाय पराय च ॥२१॥
सहस्राक्ष सहस्रांघ्रे सहस्रकिरणाय च ॥
सहस्रमूर्ते श्रीकांत नमस्ते यज्ञपूरुष ॥२२॥
वेदवेद्यस्वरूपाय नमो वेदप्रियाय च॥
वेदाय वेदगदिने सदाचाराध्वगामिने ॥२३॥
वैकुंठाय नमस्तुभ्यं नमो वैकुंठवासिने॥
विष्टरश्रवसे तुभ्यं नमो गरुडगामिने ॥२४॥
विष्वक्सेन नमस्तुभ्यं जगन्मय जनार्दन॥
त्रिविक्रमाय सत्याय नमः सत्यप्रियाय च ॥२५॥
केशवाय नमस्तुभ्यं मायिने ब्रह्मागायिने॥
तपोरूपाय तपसां नमस्ते फलदायिने ॥२६॥
स्तुत्याय स्तुतिरूपाय भक्तस्तुतिरताय च ॥
नमस्ते श्रुतिरूपाय श्रुत्याचार प्रियाय च ॥२७॥
अंडजाय नमस्तुभ्यं स्वेदजाय नमोस्तु ते ॥
जरायुज स्वरूपाय नम उद्भिज्जरूपिणे ॥२८॥
देवानामिंद्ररूपोसि ग्रहाणामसि भानुमान् ॥
लोकानां सत्यलोकोऽसि सिंधूनां क्षीरसागरः ॥२९॥
सुरापगाऽसि सरितां सरसां मानसं सरः ॥
हिमवानसि शैलानां धेनूनां कामधुग्भवान् ॥३०॥
धातूनां हाटकमसि स्फटिकश्चोपलेष्वसि ॥
नीलोत्पलं प्रसूनेषु वृक्षेषु तुलसी भवान् ॥३१॥
सर्वपूज्यशिलानां वै शालग्राम शिला भवान् ॥
मुक्तिक्षेत्रेषु काशी त्वं प्रयागस्तीर्थपंक्तिषु ॥३२॥
वर्णेषु श्वेतवर्णोऽसि द्विपदां ब्राह्मणो भवान् ॥
गरुडोस्यंडजेष्वीश व्यवहारेषु वाग्भवान् ॥३३॥
वेदेषूपनिषद्रूपा मंत्राणां प्रणवोह्यसि ॥
अक्षराणामकारोसि यज्वनां सोमरूपधृक् ॥३४॥
प्रतापिनामग्निरसि क्षमाऽसि त्वं क्षमावताम् ॥
दातॄणामसि पर्जन्यः पवित्राणां परोह्यसि ॥३५॥
चापोसि सर्वशस्त्राणां वातो वेगवतामसि ॥
मनोसींद्रियवर्गेषु निर्भयाणां करोह्यसि ॥३६॥
व्योमव्याप्तिमतां त्वं वै परमात्माऽसि चात्मनाम् ॥
संध्योपास्तिर्भवान्देव सर्वनित्येषु कर्मसु ॥३७॥
क्रतूनामश्वमेधोसि दानानामभयं भवान् ॥
लाभानां पुत्रलाभोसि वसंतस्त्वमृतुष्वहो ॥३८॥
युगानां प्रथमोसि त्वं तिथीनां त्वं कुहूर्ह्यसि ॥
पुष्योसि नक्षत्रगणे संक्रमः सर्वपर्वसु ॥३९॥
योगेषु व्यतिपातस्त्वं तृणेषु हि कुशो भवान् ॥
उद्यमानां हि सर्वेषां निर्वाणं त्वमसि प्रभो ॥४०॥
सर्वासामिह बुद्धीनां धर्मबुद्धिर्भवानज ॥
अश्वत्थः सर्ववृक्षेषु सोमवल्ली लतासु च ॥४१॥
प्राणायामोसि सर्वेपु साधनेषु शुचिष्वहो ॥
सर्वदः सर्वलिंगेषु श्रीमान्विश्वेश्वरो भवान् ॥४२॥
मित्राणां हि कलत्रं त्वं धर्मस्त्वं सर्वबंधुषु ॥
त्वत्तो नान्यज्जगत्यस्मिन्नारायण चराचरे ॥४३॥
त्वमेव माता त्वं तातस्त्वं सुतस्त्वं महाधनम् ॥
त्वमेव सौख्यसंपत्तिस्त्वमायुर्जीवनेश्वरः ॥४४॥
सा कथा यत्र ते नाम तन्मनो यत्त्वदर्पितम् ॥
तत्कर्म यत्त्वदर्थं वै तत्तपो यद्भवत्स्मृतिः ॥४५॥
तद्धनं धनिनां शुद्धं यत्त्वदर्थे व्ययीकृतम् ॥
स एव सकलः कालो यस्मिञ्जिष्णो त्वमर्च्यसे ॥४६॥
तावच्च जीवितं श्रेयो यावत्त्वं हृदि वर्तसे ॥
रोगाः प्रशममायांति त्वत्पादोदक सेवनात् ॥४७॥
महापापानि गोविंद बहुजन्मार्जितान्यपि ॥
सद्यो विलयमायांति वासुदेवेति कीर्तनात् ॥४८॥
अहो पुंसां महामोहस्त्वहो पुंसां प्रमादता ॥
वासुदेवमनादृत्य यदन्यत्र कृतश्रमाः ॥४९॥
इदमेव हि मांगल्यमिदमेव धनार्जनम् ॥
जीवितस्य फलं चैतद्यद्दामोदरकीर्तनम् ॥५०॥
अधोक्षजात्परोधर्मो नार्थो नारायणात्परः ॥
न कामः केशवादन्यो नापवर्गो हरिं विना ॥५१॥
इयमेव परा हानिरुपसर्गो यमेवहि ॥
अभाग्यं परमं चैतद्वासुदेवं न यत्स्मरेत् ॥५२॥
हरेराराधनं पुंसां किं किं न कुरुते बत ॥
पुत्रमित्रकलत्रार्थ राज्यस्वर्गापवर्गदम् ॥५३॥
हरत्यघं ध्वंसयति व्याधीनाधीन्नियच्छति ॥
धर्मं विवर्धयेत्क्षिप्रं प्रयच्छति मनोरथम् ॥५४॥
भगवच्चरणद्वंद्वं निर्द्द्वंद्व ध्यानमुत्तमम् ॥
पापिनापि प्रसंगेन विहितं स्वहितं परम् ॥५५॥
पापिनां यानि पापानि महोपपदभांज्यपि ॥
सुलीनध्यानसंपन्नो नामोच्चारो हरेर्हरेत् ॥५६॥
प्रमादादपि संस्पृष्टो यथाऽनलकणो दहेत् ॥
तथौष्ठपुटसंस्पृष्ट हरिनाम हरेदघम् ॥५७॥
नितांतं कमलाकांते शांतचित्तं विधाय यः ॥
संशीलयेत्क्षणं नूनं कमला तत्र निश्चला ॥५८॥
अयमेव परोधर्मस्त्विदमेव परं तपः ॥
इदमेव परं तीर्थं विष्णुपादांबु यत्पिबेत ॥५९॥
तवोपहारं भक्त्याय सेवते यजपूरुष ॥
सेवितस्तेन नियतं पुरोडाशो महाधिया ॥६०॥
स चैवावभृथस्नातः स च गंगाजलाप्लुतः ॥
विष्णुपादोदकं कृत्वा शंखे यः स्नाति मानवः ॥६१॥
शालग्राम शिला येन पूजिता तुलसी दलैः ॥
स पारिजातमालाभिः पूज्यते सुरसद्मनि ॥६२॥
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा यदि वेतरः ॥
विष्णुभक्ति समायुक्तो ज्ञेयः सर्वोत्तमश्च सः ॥६३॥
शंखचक्रांकिततनुः शिरसां मंजरीधरः ॥
गोपीचंदनलिप्तांगो दृष्टश्चेत्तदघं कुतः ॥६४॥
प्रत्यहं द्वादशशिलाः शालग्रामस्य योऽर्चयेत् ॥
द्वारवत्याः शिलायुक्तः स वैकुंठे महीयते ॥६५॥
तुलसी यस्य भवने प्रत्यहं परिपूज्यते ॥
तद्गृहं नोपसर्पंति कदाचिद्यमकिंकराः ॥६६॥
हरिनामाक्षरमुखं भाले गोपीमृदांकितम् ॥
तुलसीमालितोरस्कं स्पृशेयुर्नयमानुगाः ॥६७॥
गोपीमृत्तुलसी शंखः शालग्रामः सचक्रकः ॥
गृहेपि यस्य पंचैते तस्य पापभयं कुत. ॥६८॥
ये मुहूर्ताः क्षणा ये च या काष्ठा ये निमेषकाः ॥
ऋते विष्णुस्मृतेर्यातास्तेषु मुष्टो यमेन सः ॥६९॥
क्व द्वयक्षरं हरेर्नाम स्फुलिंगसदृशं ज्वलेत ॥
महती पातकानां च राशिस्तूलोपमा क्व च ॥७०॥
गोविंद परमानंदं मुकुंदं मधुसूदनम ॥
त्यक्त्वान्यं नैव जानामि न भजामि स्मरामि न ॥७१॥
न नमामि न च स्तौमि न पश्यामीह चक्षुषा ॥
न स्पृशामि न वायामि गायामि न न हरिं विना ॥७२॥
जले स्थले च पातालेप्यनिले चानलेऽचले ॥
विद्याधरासुरसुरे किं नरे वानरे नरे ॥७३॥
तृणेस्त्रैणे च पाषाणे तरुगुल्मलतासु च ॥
सर्वत्र श्यामलतनुं वीक्षे श्रीवत्सवक्षसम् ॥७४॥
सर्वेषां हृदयावासः साक्षात्साक्षी त्वमेव हि ॥
बहिरंतर्विना त्वां तु नह्यन्यं वेद्मि सर्वगम् ॥७५॥
इत्युक्त्वा विररामासौ शिवशर्मन्ध्रुवस्तदा ॥
देवोपि भगवान्विष्णुस्तमुवाच प्रसन्नदृक् ॥७६॥
॥ श्रीभगवानुवाच ॥
अपि बाल विशालाक्ष ध्रुव ध्रुवमतेऽनघ ॥
परिज्ञातो मया सम्यक्तवहृत्स्थो मनोरथः ॥७७॥
अन्नाद्भवंति भूतानि वृष्टेरन्नसमुद्भवः ॥
तद्वृष्टेः कारणं सूर्यः सूर्याधारो ध्रुवैधि भोः ॥७८॥
ज्योतिश्चक्रस्य सर्वस्य ग्रहर्क्षादेः समंततः ॥
गगने भ्रमतो नित्यं त्वमाधारो भविष्यसि ॥७९॥
मेढीभूतस्तु वै सर्वान्वायुपाशैर्नियंत्रितान् ॥
आकल्पं तत्पदं तिष्ठ भ्रामयञ्ज्योतिषांगणान् ॥८०॥
आराध्य श्री महादेवं पुरापदमिदं मया ॥
आसादियत्तदेतत्ते तपसा प्रतिपादितम् ॥८१॥
केचिच्चतुर्युगं यावत्केचिन्मन्वंतरं ध्रुव ॥
तिष्ठंति त्वं तु वै कल्पं पदमेतत्प्रशास्यसि ॥८२॥
मनुनापि न यत्प्रापि किमन्यैर्मानवैर्ध्रुव ॥
तत्पदं विहितं त्वत्साच्छक्राद्यैरपि दुर्लभम् ॥८३॥
अन्यान्वरान्प्रयच्छामि स्तवेनानेन तोषितः ॥
सुनीतिरपि ते माता त्वत्समीपे चरिष्यति ॥८४॥
इदं स्तोत्रवरं यस्तु पठिष्यति समाहितः ॥
त्रिसंध्यं मनुजस्तस्य पापं यास्यति संक्षयम् ॥८५॥
न तस्य सदनं लक्ष्मीः परित्यक्ष्यत्यसंशयम् ॥
न जनन्या वियोगश्च न बंधुकलहोदयः ॥८६॥
ध्रुवस्तुतिरियं पुण्या महापातकनाशिनी ॥
ब्रह्महापि विशुद्ध्येत का कथेतर पापिनाम् ॥८७॥
महापुण्यस्य जननी महासंपत्तिदायिनी ॥
महोपसर्गशमनी महाव्याधिविनाशिनी ॥८८ !।
यस्याऽस्तिपरमा भक्तिर्मयि निर्मलचेतसः ॥
ध्रुवस्तुतिरियं तेन जप्या मत्प्रीतिकारिणी ॥८९॥
समस्त तीर्थस्नानेन यत्फलं लभते नरः ॥
तत्फलं सम्यगाप्नोति जपन्स्तुत्यानया मुदा ॥९०॥
संति स्तोत्राण्यनेकानि मम प्रीतिकराणि च ॥
ध्रुवस्तुतेर्न चैतस्याः कलामर्हंति षोडशीम् ॥९१॥
श्रुत्वापीमां स्तुतिं मर्त्यः श्रद्धया परया मुदा ॥
पातकैर्मुच्यते सद्यो महत्पुण्यमवाप्नुयात् ॥९२॥
अपुत्रः पुत्रमाप्नोति निर्धनो धनमाप्नुयात् ॥
अभक्तो भक्तिमाप्नोति कीर्तनाच्च ध्रुवस्तुतेः ॥९३॥
दत्त्वा दानान्यनेकानि कृत्वा नाना व्रतानि च ॥
यथालाभानवाप्नोति तथा स्तुत्याऽनया नरः ॥९४॥
त्यक्त्वा सर्वाणि कार्याणि त्यक्त्वा जप्यान्यनेकशः ॥
ध्रुवस्तुतिरियं जप्या सर्वकामप्रदायिनी ॥९५॥
श्रीभगवानुवाच ॥
ध्रुवावधेहि वक्ष्यामि हितं तव महामते ॥
येन ते निश्चलं सम्यक्पदमेतद्भविष्यति ॥९६॥
अहं जिगमिषुस्त्वासं पुरीं वाराणसीं शुभाम् ॥
साक्षाद्विश्वेश्वरो यत्र तिष्ठते मोक्षकारणम् ॥९७॥
विपन्नानां च जंतूनां यत्र विश्वेश्वरः स्वयम् ॥
कर्णे जापं प्रकुरुते कर्मनिर्मूलन क्षमम् ॥९८॥
अस्य संसारदुःखस्य सर्वोपद्रवदायिनः ॥
उपाय एक एवास्ति काशिकानंदभूमिका ॥९९॥
इदं रम्यमिदं नेति बीजं दुःखमहातरोः ॥
तस्मिन्काश्यग्निना दग्धे दुःखस्यावसरः कुतः ॥१००॥
प्राप्य संप्राप्यते येन न भूयो येन शोच्यते ॥
परायानिर्वृतेः स्थानं यत्तदानंदकाननम् ॥१॥
अमृतायनमुत्सृज्य पुरुषोन्यत्र यो वसेत् ॥
आनंदकाननं शंभोः कुतस्तस्य सुखोदयः ॥२॥
वरं शरावहस्तस्य चांडालागारवीथिषु ॥
भिक्षार्थमटनं काश्यां राज्यं नान्यत्र नीरिषु ॥३॥
वैकुंठनगरात्काशीं नित्यं विश्वेशमर्चितुम् ॥
अहमायामि नियमाज्जगदर्च्यं तदर्चिताम् ॥४॥
मयि या परमा शक्तिस्त्रिलोक्या रक्षणक्षमा ॥
तत्र हेतुर्महेशानः स सुदर्शनचक्रदः ॥५॥
पुरा जालंधरं दैत्यं ममापि परिकंपनम् ॥
पादांगुष्ठाग्ररेखोत्थं चक्रं सृष्ट्वा हरोऽहरत् ॥६॥
तच्च चक्रं मया लब्धं नेत्रपद्मार्चनाद्विभोः ॥
एतत्सुदर्शनाख्यं वै दैत्यचक्रप्रमर्दनम् ॥७॥
तन्मया तव रक्षार्थं भूतविद्रावणं परम् ॥
तावत्प्रणुन्नं पुरतस्ततश्चाहमिहागतः ॥८॥
काशीमिदानीं यास्यामि विश्वेश्वर विलोकने॥
अद्य यात्राऽस्ति महती कार्तिक्यां बहुपुण्यदा ॥९॥
कार्तिकस्य चतुर्दश्यां विश्वेशं यो विलोकयेत् ॥
स्नात्वा चोत्तरवाहिन्यां न तस्य पुनरागतिः ॥११०॥
इत्युक्त्वा तार्क्ष्यमारोप्य ध्रुवमानंदमेदुरम् ॥
क्षणाद्वाराणसीं प्राप हरिः स्मरहरोषिताम् ॥११॥
पंचक्रोश्याश्च सीमानं प्राप्य देवो जनार्दनः ॥
वैनतेयादवारुह्य करे धृत्वा ध्रुवं ततः ॥१२॥
मणिकर्ण्यां परिस्नाय विश्वेशमभिपूज्य च ॥
ध्रुवं बभाषे भगवान्हितं तस्य चिकीर्षयन् ॥१३॥
लिंगं स्थापय यत्नेन क्षेत्रेऽत्रैवाविमुक्तके ॥
त्रैलोक्यस्थापनं पुण्यं यथा भवति तेऽक्षयम् ॥१४॥
नियुतं यत्परिस्थाप्य लिंगानि फलमाप्यते ॥
अन्यत्र तदिहैकेन लिंगेन परिलभ्यते ॥१५॥
कालेन भंगमापन्नं जीर्णोद्धारं करोति यः ॥
इह तस्य फलस्यांतः प्रलयेपि न जायते ॥१६॥
वित्तशाठ्यं परित्यज्य प्रासादं योऽत्र कारयेत् ॥
तेन दत्तो भवेत्सर्वो मेरुर्नियुतयोजनः ॥१७॥
कूपवापीतडागानि शक्त्या योऽत्र तु कारयेत् ॥
अन्यत्र करणात्तस्य पुण्यं कोटिगुणाधिकम् ॥१८॥
इज्यार्थमत्र यः कुर्यात्सुरम्यां पुष्पवाटिकाम् ॥
पुष्पेपुष्पे फलं तस्य सुवर्णकुसुमाधिकम् ॥१९॥
अत्र ब्रह्मपुरीं कृत्वा यो विप्रेभ्यः प्रयच्छति ॥
वर्षाशनेन संयुक्तां तस्य पुण्यफलं शृणु ॥१२०॥
क्षीयंते सलिलान्यब्धेर्भौमाश्च त्रसरेणवः ॥
क्षयो न तस्य पुण्यस्य शिवलोके समासतः ॥२१॥
मठानपि तपस्विभ्यः कारयित्वाऽत्र योर्पयेत् ॥
जीवनोपायसंयुक्तान्सोपि पूर्वफलाश्रयः ॥२२॥
कृत्वा महांति पुण्यानि योऽत्र विश्वेश्वरेऽर्पयेत् ॥
न तस्य पुनरावृरत्ति घोरे संसारसागरे ॥२३॥
अनंत इति वादोयं मयिलोकेऽत्र गीयते ॥
परं काशी गुणानां हि मयाप्यंतो न लभ्यते ॥२४॥
तस्मात्प्रयत्नतः काश्यां धुव श्रेयः समाश्रयेत् ॥
काशी श्रेयः फलं पुंसामक्षया योपजायते ॥२५॥
गणावूचतुः ॥
ध्रुवमित्युपदिश्याथ जगाम गरुडध्वजः ॥
ध्रुवोपि लिंगं संस्थाप्य वैद्यनाथसमीपतः ॥२६॥
प्रासादं सुमहत्क्रृत्वा कृत्वा कुंडं तदग्रतः ॥
विश्वेश्वरं समभ्यर्च्य कृतकृत्यो गृहं ययौ ॥२७॥
ध्रुवेश्वरं समभ्यर्च्य ध्रुवकुंडे कृतोदकः ॥
ध्रुवलोकमवाप्नोति नरो भोगसमन्वितः ॥२८॥
ध्रुवस्य परमाख्यानं यः पठेत्पाठयेदपि ॥
स विष्णुलोकमासाद्य जायते विष्णुवल्लभः ॥२९॥
नरो ध्रुवस्य चरितं प्रसंगेन स्मरन्नपि ॥
न पापैरभिभूयेत महत्पुण्यमवाप्नुयात् ॥१३०॥
डति श्रीस्कांदे महापुराण एकाशीतिसाहस्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे ध्रुवस्तुतिर्नामैकविंशतितमोऽध्यायः ॥२१॥
N/A
References : N/A
Last Updated : November 25, 2024
TOP