काशीखण्डः - अध्याय ६३
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
अगस्त्य उवाच ॥
दृष्ट्वा काशीं दृगानंदां तारकारे पुरारिणा ॥
किमकारि समाचक्ष्व प्राप्तां बहुमनोरथैः ॥१॥
॥ स्कंद उवाच ॥
पतिव्रतापते ऽगस्त्य शृणु वक्ष्याम्यशेषतः ॥
मृगांकलक्ष्मणोत्कंठं काशी नेत्रातिथीकृता ॥२॥
अथ सर्वज्ञनाथेन भक्तवत्सलचेतसा ॥
जैगीषव्यो मुनिश्रेष्ठो गुहां तस्थो निरीक्षितः ॥३॥
यमनेहसमारभ्य मदंराद्रिं विनिर्ययौ ॥
अद्रींद्र सुतया सार्धं रुद्रेणोक्षेंद्रगामिना ॥४॥
तं वासरं पुरस्कृत्य जग्राह नियमं दृढम् ॥
जैगीषव्यो महामेधाः कुंभयोने महाकृती ॥५॥
विषमेक्षण पादाब्जं समीक्षिष्ये यदा पुनः ॥
तदांबुविप्रुषमपि भक्षयिष्यामि चेत्यहो ॥६॥
कुतश्चिद्धारणायोगादथवा शंभ्वनुग्रहात ॥
अनश्नन्नपिबन्योगी जैगीषव्यः स्थितो मुने ॥७॥
तं शंभुरेव जानाति नान्यो जानाति कश्चन ॥
अतएव ततः प्राप्तः प्रथमं प्रमथाधिपः ॥८॥
ज्येष्ठशुक्लचतुर्दश्यां सोमवारानुराधयोः ॥
तत्पर्वणि महायात्रा कर्तव्या तत्र मानवैः ॥९॥
ज्येष्ठस्थानं ततः काश्यां तदाभूदपि पुण्यदम् ॥
तत्र लिंगं समभवत्स्वयं ज्येष्ठेश्वराभिधम् ॥१०॥
तल्लिंगदर्शनात्पुंसां पापं जन्मशतार्जितम् ॥
तमोर्कोदयमाप्येव तत्क्षणादेव नश्यति ॥११॥
ज्येष्ठवाप्यां नरः स्नात्वा तर्पयित्वा पितामहान् ॥
ज्येष्ठेश्वरं समालोक्य न भूयो जायते भुवि ॥१२॥
आविरासीत्स्वयं तत्र ज्येष्ठेश्वर समीपतः ॥
सर्वसिद्धिप्रदा गौरी ज्येष्ठाश्रेष्ठा समंततः ॥१३॥
ज्येष्ठे मासि सिताष्टम्यां तत्र कार्यो महोत्सवः ॥
रात्रौ जागरणं कार्यं सर्वसंपत्समृद्धये ॥१४॥
ज्येष्ठां गौरीं नमस्कृत्य ज्येष्ठवापी परिप्लुता ॥
सौभाग्यभाजनं भूयाद्योषा सौभाग्यभागपि॥ १५॥
निवासं कृतवाञ्शंभुस्तस्मिन्स्थाने यतः स्वयम् ॥
निवासेश इति ख्यातं लिंगं तत्र परं ततः ॥१६॥
निवासेश्वरलिंगस्य सेवनात्सर्वसंपदः ॥
निवसंति गृहे नित्यं नित्यं प्रतिपदं पुनः ॥१७॥
कृत्वा श्राद्धं विधानेन ज्येष्ठस्थाने नरोत्तमः ॥
ज्येष्ठां तृप्तिं ददात्येव पितृभ्यो मधुसर्पिषा ॥१८॥
ज्येष्ठतीर्थे नरः काश्यां दत्त्वा दानानि शक्तितः ॥
ज्येष्ठान्स्वर्गानवाप्नोति नरो मोक्षं च गच्छति ॥१९॥
ज्येष्ठेश्वरो र्च्यः प्रथमं काश्यां श्रेयोर्थिभिर्नरैः ॥
ज्येष्ठागौरी ततोभ्यर्च्या सर्वज्येष्ठमभीप्सुभिः ॥२०॥
अथ नंदिनमाहूय धूर्जटिः स कृपानिधिः ॥
शृण्वतां सर्वदेवानामिदं वचनमब्रवीत् ॥२१॥
॥ ईश्वर उवाच ॥
शैलादे प्रविशाशु त्वं गुहास्त्यत्र मनोहरा ॥
तदंतरेस्ति मे भक्तो जैगीषव्यस्तपोधनः ॥२२॥
महानियमवान्नंदिस्त्वगस्थिस्नायु शेषितः ॥
तमिहानय मद्भक्तं मद्दर्शन दृढव्रतम् ॥२३॥
यदाप्रभृत्यगां काश्या मंदरं सर्वसुंदरम् ॥
महानियमवानेष तदारभ्योज्झिताशनः ॥२४॥
गृहाण लीलाकमलमिदं पीयूषपोषणम् ॥
अनेन तस्य गात्राणि स्पृश सद्यः सुबृंहिणा ॥२५॥
ततो नंदी समादाय तल्लीलाकमलं विभोः ॥
प्रणम्य देवदेवेशमाविशद्गह्वरां गुहाम् ॥२६॥
नंदी दृष्ट्वाथ तं तत्र धारणादृढमानसम् ॥
तपोग्नि परिशुष्कांगं कमलेन समस्पृशत् ॥२७॥
तपांते वृष्टिसंयोगाच्छालूर इव कोटरे ॥
उल्ललास स योगींद्रः स्पर्शमात्रात्तदब्जजात् ॥२८॥
अथ नंदी समादाय सत्वरं मुनिपुंगवम् ॥
देवदेवस्य पादाग्रे नमस्कृत्य न्यपातयत् ॥२९॥
जैगीषव्योथ संभ्रांतः पुरतो वीक्ष्य शंकरम् ॥
वामांगसन्निविष्टाद्रितनयं प्रणनाम ह ॥३०॥
प्रणम्य दंडवद्भूमौ परिलुठ्य समंततः ॥
तुष्टाव परया भक्त्या स मुनिश्चंद्रशेखरम् ॥३१॥
॥ जैगीषव्य उवाच ॥
नमः शिवाय शांताय सर्वज्ञाय शुभात्मने॥
जगदानंदकंदाय परमानंदहेतवे ॥३२॥
अरूपाय सरूपाय नानारूपधराय च ॥
विरूपाक्षाय विधये विधिविष्णुस्तुताय च ॥३३॥
स्थावराय नमस्तुभ्यं जंगमाय नमोस्तुते ॥
सर्वात्मने नमस्तुभ्यं नमस्ते परमात्मने ॥३४॥
नमस्त्रैलोक्यकाम्याय कामांगदहनाय च ॥
नमो शेषविशेषाय नमः शेषांगदाय ते ॥३५॥
श्रीकंठाय नमस्तुभ्यं विषकंठाय ते नमः ॥
वैकुंठवंद्यपादाय नमोऽकुंठितशक्तये ॥३६॥
नमः शक्त्यर्धदेहाय विदेहाय सुदेहिने ॥
सकृत्प्रणाममात्रेण देहिदेहनिवारिणे ॥३७॥
कालाय कालकालाय कालकूट विषादिने ॥
व्यालयज्ञोपवीताय व्यालभूषणधारिणे ॥३८॥
नमस्ते खंडपरशो नमः खंडें दुधारिणे ॥
खंडिताशेष दुःखाय खड्गखेटकधारिणे ॥३९॥
गीर्वाणगीतनाथाय गंगाकल्लोलमालिने ॥
गौरीशाय गिरीशाय गिरिशाय गुहारणे ॥४०॥
चंद्रार्धशुद्धभूषाय चंद्रसूर्याग्निचक्षुषे ॥
नमस्ते चर्मवसन नमो दिग्वसनायते ॥४१॥
जगदीशाय जीर्णाय जराजन्महराय ते ॥
जीवायते नमस्तुभ्यं जंजपूकादिहारिणे ॥४२॥
नमो डमरुहस्ताय धनुर्हस्ताय ते नमः ॥
त्रिनेत्राय नमस्तुभ्यं जगन्नेत्राय ते नमः ॥४३॥
त्रिशूलव्यग्रहस्ताय नमस्त्रिपथगाधर ॥
त्रिविष्टपाधिनाथाय त्रिवेदीपठिताय च ॥४४॥
त्रयीमयाय तुष्टाय भक्ततुष्टिप्रदाय च ॥
दीक्षिताय नमस्तुभ्यं देवदेवाय ते नमः ॥४५॥
दारिताशेषपापाय नमस्ते दीर्घदर्शिने ॥
दूराय दुरवाप्याय दोषनिर्दलनाय च ॥४६॥
दोषाकर कलाधार त्यक्तदोषागमाय च ॥
नमो धूर्जटये तुभ्यं धत्तूरकुसुमप्रिय ॥४७॥
नमो धीराय धर्माय धर्मपालाय ते नमः ॥
नीलग्रीव नमस्तुभ्यं नमस्ते नीललोहित ॥४८॥
नाममात्रस्मृतिकृतां त्रैलोक्यैश्वर्यपूरक ॥
नमः प्रमथनाथाय पिनाकोद्यतपाणये ॥४९॥
पशुपाशविमोक्षाय पशूनां पतये नमः ॥
नामोच्चारणमात्रेण महापातकहारिणे ॥५०॥
परात्पराय पाराय परापरपराय च ॥
नमोऽपारचरित्राय सुपवित्रकथाय च ॥५१॥
वामदेवाय वामार्धधारिणे वृषगामिने ॥
नमो भर्गाय भीमाय नतभीतिहराय च ॥५२॥
भवाय भवनाशाय भूतानांपतये नमः ॥
महादेव नमस्तुभ्यं महेश महसांपते ॥५३॥
नमो मृडानीपतये नमो मृत्युंजयाय ते ॥
यज्ञारये नमस्तुभ्यं यक्षराजप्रियाय च ॥५४॥
यायजूकाय यज्ञाय यज्ञानां फलदायिने ॥
रुद्राय रुद्रपतये कद्रुद्राय रमाय च ॥५५॥
शूलिने शाश्वतेशाय श्मशानावनिचारिणे ॥
शिवाप्रियाय शर्वाय सर्वज्ञाय नमोस्तु ते ॥५६॥
हराय क्षांतिरूपाय क्षेत्रज्ञाय क्षमाकर ॥
क्षमाय क्षितिहर्त्रे च क्षीरगौराय ते नमः ॥५७॥
अंधकारे नमस्तुभ्यमाद्यंतरहिताय च ॥
इडाधाराय ईशाय उपेद्रेंद्रस्तुताय च ॥५८॥
उमाकांताय उग्राय नमस्ते ऊर्ध्वरेतसे ॥
एकरूपाय चैकाय महदैश्वर्यरूपिणे ॥५९॥
अनंतकारिणे तुभ्यमंबिकापतये नमः ॥
त्वमोंकारो वषट्कारो भूर्भुवःस्वस्त्वमेव हि ॥६०॥
दृश्यादृश्य यदत्रास्ति तत्सर्वं त्वमु माधव ॥
स्तुतिं कर्तुं न जानामि स्तुतिकर्ता त्वमेव हि ॥६१॥
वाच्यस्त्वं वाचकस्त्वं हि वाक्च त्वं प्रणतोस्मि ते ॥
नान्यं वेद्मि महादेव नान्यं स्तौमि महेश्वर ॥६२॥
नान्यं नमामि गौरीश नान्याख्यामाददे शिव ॥
मूकोन्यनामग्रहणे बधिरोन्यकथाश्रुतौ ॥६३॥
पंगुरन्याभिगमनेऽस्म्यंधोऽन्यपरिवीक्षणे॥
एक एव भवानीश एककर्ता त्वमेव हि॥ ६४॥
पाता हर्ता त्वमेवैको नानात्वं मूढकल्पना ॥
अतस्त्वमेव शरणं भूयोभूयः पुनःपुनः ॥६५॥
संसारसागरे मग्नं मामुद्धर महेश्वर ॥
इति स्तुत्वा महेशानं जैगीषव्यो महामुनिः ॥६६॥
वाचंयमो भवत्स्थाणोः पुरतः स्थाणुसन्निभः ॥
इति स्तुतिं समाकर्ण्य मुनेश्चंद्रविभूषणः ॥
उवाच च प्रसन्नात्मा वरं ब्रूहीति तं मुनिम् ॥६७॥
॥ जैगीषव्य उवाच ॥
यदि प्रसन्नो देवेश ततस्तव पदांबुजात् ॥
मा भवानि भवानीश दूरं दूरपदप्रद ॥६८॥
अपरश्च वरो नाथ देयोयमविचारतः ॥
यन्मया स्थापितं लिंगं तत्र सान्निध्यमस्तु ते ॥६९॥
॥ ईश्वर उवाच ॥
जैगीषव्य महाभाग यदुक्तं भवतानघ ॥
तदस्तु सर्वं तेभीष्टं वरमन्यं ददामि च ॥७०॥
योगशास्त्रं मया दत्तं तव निर्वाणसाधकम् ॥
सर्वेषां योगिनां मध्ये योगाचार्योऽस्तु वै भवान् ॥७१॥
रहस्यं योगविद्याया यथावत्त्वं तपोधन ॥
संवेत्स्यसे प्रसादान्मे येन निर्वाणमाप्स्यसि ॥७२॥
यथा नदी यथा भृंगी सोमनंदी यथा तथा ॥
त्वं भविष्यसि भक्तो मे जरामरणवर्जितः ॥७३॥
संति व्रतानि भूयांसि नियमाः संत्यनेकधा ॥
तपांसि नाना संत्यत्र संति दानान्यनेकशः ॥७४॥
श्रेयसां साधनान्यत्र पापघ्नान्यपि सर्वथा ॥
परं हि परमश्चैष नियमो यस्त्वया कृतः ॥७५॥
परो हि नियमश्चैष मां विलोक्य यदश्यते ॥
मामनालोक्य यद्भुक्तं तद्भुक्तं केवलत्वघम् ॥७६॥
असमर्च्य च यो भुङ्क्ते पत्रपुष्पफलैरपि ॥
रेतोभक्षी भवेन्मूढः स जन्मान्येकविंशतिम् ॥७७॥
महतो नियमस्यास्य भवतानुष्ठितस्य वै ॥
नार्हंति षोडशी मात्रामप्यन्ये नियमा यमाः ॥७८॥
अतो मच्चरणाभ्याशे त्वं निवत्स्यसि सर्वथा ॥
अतो नैःश्रेयसीं लक्ष्मीं तत्रैव प्राप्स्यसि ध्रुवम् ॥७९॥
जैगीषव्येश्वरं नाम लिंगं काश्यां सुदुर्लभम् ॥
त्रीणि वर्षाणि संसेव्य लभेद्योगं न संशयः ॥८०॥
जैगीषव्यगुहां प्राप्य योगाभ्यसनतत्परः ॥
षण्मासेन लभेत्सिद्धिं वाञ्छितां मदनुग्रहात् ॥८१॥
तव लिंगमिदं भक्तैः पूजनीयं प्रयत्नतः ॥
विलोक्या च गुहा रम्या परासिद्धिमभीप्सुभिः ॥८२॥
अत्र ज्येष्ठेश्वरक्षेत्रे त्वल्लिंगं सर्वसिद्धिदम् ॥
नाशयेदघसंघानि दृष्टं स्पृष्टं समर्चितम् ॥८३॥
अस्मिञ्ज्येष्ठेश्वरक्षेत्रे संभोज्य शिवयोगिनः ॥
कोटिभोज्यफलं सम्यगेकैकपरिसंख्यया ॥८४॥
जैगीषव्येश्वरं लिंगं गोपनीयं प्रयत्नतः ॥
कलौ कलुषबुद्धीनां पुरतश्च विशेषतः ॥८५॥
करिष्याम्यत्र सांनिध्यमस्मिँल्लिंगे तपोधन॥
योगसिद्धिप्रदानाय साधकेभ्यः सदैव हि ॥८६॥
ददे शृणु महाभाग जैगीषव्यापरं वरम् ॥
त्वयेदं यत्कृतं स्तोत्रं योगसिद्धिकरं परम् ॥८७॥
महापापौघशमनं महापुण्यप्रवर्धनम् ॥
महाभीतिप्रशमनं महाभक्तिविवर्धनम् ॥८८॥
एतत्स्तोत्रजपात्पुंसामसाध्यं नैव किंचन ॥
तस्मात्सर्वप्रयत्नेन जपनीयं सुसाधकैः ४॥ ८९॥
इति दत्त्वा वरं तस्मै स्मरारिः स्मेरलोचनः ॥
ददर्श ब्राह्मणां स्तत्र समेतान्क्षेत्रवासिनः ॥९०॥
॥ स्कंद उवाच ॥
निशम्याख्यानमतुलमेतत्प्राज्ञः प्रयत्नतः ॥
निष्पापो जायते मर्त्यो नोपसर्गैः प्रबाध्यते ॥९१॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे ज्येष्ठेशाख्यानं नाम त्रिषष्टितमोऽध्यायः ॥६३॥
N/A
References : N/A
Last Updated : November 27, 2024
TOP