संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|काशीखण्ड|
अध्याय ४३

काशीखण्डः - अध्याय ४३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ अगस्तिरुवाच ॥
दिवोदासं नरपतिं कथं देवस्त्रिलोचनः ॥
काशीं संत्याजयामास कथमागाच्च मंदरात् ॥
एतदाख्यानमाख्याहि श्रोतॄणां प्रमुदे भगोः ॥१॥
॥ स्कंद उवाच ॥
मंदरं गतवान्देवो ब्रह्मणो वाक्य गौरवात् ॥
तपसा तस्य संतुष्टो मंदरस्यैव भूभृतः ॥२॥
गते विश्वेश्वरे देवे मंदरं गिरिसुंदरम् ॥
गिरिशेन समं जग्मुरपि सर्वे दिवौकसः ॥३॥
क्षेत्राणि वैष्णवानीह त्यक्त्वा विष्णुरपि क्षितेः ॥
प्रयातो मंदरं यत्र देवदेव उमाधवः ॥४॥
स्थानानि गाणपत्यानि गणेशोपि ततो व्रजत् ॥
हित्वाहमपि विप्रेंद्र गतवान्मंदरं प्रति ॥५॥
सूरः सौराणि संत्यज्य गतश्चायतनादरम् ॥
स्वंस्वं स्थानं क्षितौ त्यक्त्वा ययुरन्येपि निर्जराः ॥६॥
गतेषु देवसंघेषु पृथिव्याः पृथिवीपतिः ॥
चकार राज्यं निर्द्वंद्वं दिवोदासः प्रतापवान् ॥७॥
विधाय राजधानीं स वाराणस्यां सुनिश्चलाम् ॥
एधां चक्रे महाबुद्धिः प्रजाधर्मेण पालयन् ॥८॥
सूर्यवत्स प्रतपिता दुर्हृदां हृदि नेत्रयोः ॥
सोमवत्सुहृदामासीन्मानसेषु स्वकेष्वऽपि ॥९॥
अखंडमाखंडलवत्कोदंडकलयन्रणे ॥
पलायमानैरालोकिशत्रुसैन्यबलाहकैः ॥१०॥
स धर्मराजवज्जातो धर्माधर्मविवेचकः ॥
अदंड्यान्मण्डयन्राजा दंड्यांश्च परिदंडयन् ॥११॥
धनंजय इवाधाक्षीत्परारण्यान्यनेकशः ॥
पाशीव पाशयांचक्रे वैरिचक्रं विदूरगः ॥१२॥
सोभूत्पुण्यजनाधीशो रिपुराक्षसवर्धनः ॥
जगत्प्राणसमानश्च जगत्प्राणनतत्परः ॥१३॥
राजराजः स एवाभूत्सर्वेषां धनदः सताम् ॥
स एव रुद्रमूर्तिश्च प्रेक्षिष्ट रिपुभी रणे ॥१४॥
विश्वेषां स हि देवानां तपसा रूपधृग्यतः ॥
विश्वेदेवास्ततस्तं तु स्तुवंति च भजंति च ॥१५॥
असाध्यः स हि साध्यानां वसुभ्यो वसुनाधिकः ॥
ग्रहाणां विग्रहधरो दस्रतोऽजस्ररूपभाक् ॥१६॥
मरुद्गणानगणयंस्तुषितांस्तोषयन्गुणैः ॥
सर्वविद्याधरो यस्तु सर्वविद्याधरेष्वपि ॥१७॥
अगर्वानेव गंधर्वान्यश्चक्रे निजगीतिभिः ॥
ररक्षुर्यक्षरक्षांसि तद्दुर्गं स्वर्गसोदरम् ॥१८॥
नागानागांसि चक्रुश्च तस्य नागबलीयसः ॥
दनुजामनुजाकारं कृत्वा तं च सिषेविरे ॥१९॥
जाता गुह्यचरा यस्य गुह्यकाः परितो नृषु ॥
संसेविष्यामहे राजन्नसुरास्त्वां स्ववैभवैः ॥२०॥
वयं यतस्त्वद्विषये सुरावासोऽपि दुर्लभः ॥
अशिक्षयत्क्षितिपतेरिह यस्य तुरंगमान् ॥
आशुगश्चाशुगामित्वं पावमाने पथिस्थितः ॥२१॥
अगजान्यस्य तु गजान्नगवर्ष्मसुवर्ष्मणः ॥
अजस्र दानिनो दृष्ट्वा भवन्नन्येपि दानिनः ॥२२॥
सदोजिरे च बोद्धारो योद्धारश्चरणाजिरे ॥
न यस्य शास्त्रैर्विजिता न शस्त्रैः केनचित्क्वचित् ॥२३॥
न नेत्रविषये जाता विषये यस्यभूभृतः ॥
सदा नष्टपदा द्वेष्यास्तदाऽनष्टपदाः प्रजाः ॥२४॥
कलावानेक एवास्ति त्रिदिवेपि दिवौकसाम् ॥
तस्य क्षोणिभृतः क्षोण्यां जनाः सर्वे कलालयाः ॥२५॥
एक एव हि कामोस्ति स्वर्गे सोप्यंगवर्जितः ॥
सांगोपांगाश्च सर्वेषां सर्वे कामा हि तद्भुवि ॥२६॥
तस्योपवर्तनेप्येको न श्रुतो गोत्रभित्क्वचित् ॥
स्वर्गे स्वर्गसदामीशो गोत्रभित्परिकीर्तितः ॥२७॥
क्षयी च तस्य विषये कोप्याकर्णि न केनचित् ॥
त्रिविष्टपे क्षपानाथः पक्षेपक्षे क्षयीष्यते ॥२८॥
नाके नवग्रहाः संति देशास्तस्याऽनवग्रहाः ॥२९॥
हिरण्यगर्भः स्वर्लोकेप्येक एव प्रकाशते ॥
हिरण्यगर्भाः सर्वेषां तत्पौराणामिहालयाः ॥३०॥
सप्ताश्व एकः स्वर्लोके नितरां भासतेंऽशुमान् ॥
सदंशुकाः प्रतिदिनं बह्वश्वास्तत्पुरौकसः ॥३१॥
सदप्सरा यथास्वर्भूस्तत्पुर्यपिसदप्सराः ॥
एकैव पद्मा वैकुंठे तस्य पद्माकराः शतम् ॥३२॥
अनीतयश्च तद्ग्रामानाराजपुरुषाः क्वचित् ॥
गृहेगृहेत्र धनदा नाक एकोऽलकापतिः ॥३३॥
दिवोदासस्य तस्यैवं काश्यां राज्यं प्रशासतः ॥
गतं वर्षं दिनप्रायं शरदामयुताष्टकम् ॥३४॥
गीर्वाणा विप्रतीकारमथ तस्य चिकीर्षवः ॥
गुरुणा मंत्रयांचक्रुर्धर्मवर्त्मानुयायिनः ॥३५॥
भवादृशामिव मुने प्रायशो धर्मचारिणाम् ॥
विबुधा विदधत्येव महतीरापदांततीः ॥३६॥
यद्यप्यसौ धराधीशो व्याधिनोद्दुर्धराध्वरैः ॥
तानध्वरभुजोऽत्यंतं तथापि सुहृदो न ते ॥३७॥
स्वभाव एव द्युसदां परोत्कर्षासहिष्णुता ॥
बलि बाण दधीच्याद्यैरपराद्धं किमत्र तैः ॥३८॥
अंतराया भवंत्येव धर्मस्यापि पदेपदे ॥
तथापि न निजो धर्मो धर्मधीभिर्विमुच्यते ॥३९॥
अधर्मिणः समेधंते धनधान्यसमृद्धिभिः ॥
अधर्मादेव च परं समूलं यांत्यधोगतिम् ॥४०॥
प्रजाः पालयतस्तस्य पुत्रानिव निजौरसान् ॥
रिपुंजयस्य नाल्पोपि बभूवाधर्मसंग्रहः ॥४१॥
षाड्गुण्यवेदिनस्तस्य त्रिशक्त्यूर्जितचेतसः ॥
चतुरोपायवित्तस्य न रंध्रं विविदुः सुराः ॥४२॥
बुद्धिमंतोपि विबुधा विप्रतीकर्तुमुद्यताः ॥
मनागपि न संशेकुरपकर्तुं तदीशितुः ॥४३॥
एकपत्नीव्रताः सर्वे पुमांसस्तस्य मंडले ॥
नारीषु काचिन्नैवासीदपतिव्रतधर्मिणी ॥४४॥
अनधीतो न विप्रोभूदशूरोनैव बाहुजः ॥
वैश्योनभिज्ञो नैवासीदर्थोपार्जनकर्मसु ॥४५॥
अनन्यवृत्तयः शूद्रा द्विजशुश्रूषणं प्रति ॥
तस्य राष्ट्रे समभवन्दिवोदासस्य भूपतेः ॥४६॥
अविप्लुत ब्रह्मचर्यास्तद्राष्ट्रे ब्रह्मचारिणः ॥
नित्यं गुरुकुलाधीना वेदग्रहणतत्पराः ॥४७॥
आतिथ्यधर्मप्रवणा धर्मशास्त्रविचक्षणाः ॥
नित्यसाधुसमाचारा गृहस्थास्तस्य सर्वतः ॥४८॥
तृतीयाश्रमिणो यस्मिन्वनवृत्तिकृतादराः ॥
निःस्पृहा ग्रामवार्तासु वेदवर्त्मानुसारिणः ॥४९॥
सर्वसंगविनिर्मुक्ता निर्मुक्ता निष्परिग्रहाः ॥
वाङ्मनःकर्मदंडाढ्या यतयो यत्र निःस्पृहाः ॥५०॥
अन्येनुलोमजन्मानः प्रतिलो मभवा अपि ॥
स्वपारंपर्यतो दृष्टं मनाग्वर्त्म न तत्यजुः ॥५१॥
अनपत्या न तद्राष्ट्रे धनहीनोपि कोपि न ॥
अवृद्धसेवी नो कश्चिदकांडमृतिभाक्च न ॥५२॥
न चाटा नैव वाचाटा वंचका नो न हिंसकाः ॥
न पाषंडा न वै भंडा न रंडा न च शौंडिकाः ॥५३॥
श्रुतिघोषो हि सर्वत्र शास्त्रवादः पदेपदे ॥
सर्वत्र सुभगालापा मुदामंगलगीतयः ॥५४॥
वीणावेणुप्रवादाश्च मृदंगा मधुरस्वनाः ॥
सोमपानं विनान्यत्र पानगोष्ठी न कर्णगा ॥५५॥
मांसाशिनः पुरोडाशे नैवान्यत्र कदाचन ॥
न दुरोदरिणो यत्र नाधमर्णा न तस्कराः ॥५६॥
पुत्रस्य पित्रोः पदयोः पूजनं देवपूजनम् ॥
उपवासो व्रतं तीर्थं देवताराधनं परम् ॥५७॥
नारीणां भर्तृपद् योरर्चनं तद्वचःश्रुतिः ॥
समर्चयंति सततमनुजा निजमग्रजम् ॥५८॥
सपर्ययंति मुदिता भृत्याः स्वामिपदांबुजम् ॥
हीनवर्णैरग्रवर्णो वर्ण्यते गुणगौरवैः ॥५९॥
वरिवस्यंति भूयोपि त्रिकालं काशिदेवताः ॥
सर्वत्र सर्वे विद्वांसः समर्च्यंते मनोरथैः ॥६०॥
विद्वद्भिश्च तपोनिष्ठास्तपोनिष्ठैर्जितेंद्रियाः ॥
जितेंद्रियैर्ज्ञाननिष्ठा ज्ञानिभिः शिवयोगिनः ॥६१॥
मंत्रपूतं महार्हं च विधियुक्तं सुसंस्कृतम् ॥
वाडवानां मुखाग्नौ च हूयतेऽहर्निशं हविः ॥६२॥
वापीकूपतडागानामारामाणां पदेपदे ॥
शुचिभिर्द्रव्यसंभारैः कर्तारो यत्र भूरिशः ॥६३॥
यद्राष्ट्रे हृष्टपुष्टाश्च दृश्यंते सर्वजातयः ॥
अनिंद्यसेवा संपन्ना विनामृगयु सौनिकान् ॥६४॥
इत्थं तस्य महीजानेः सर्वत्र शुचिवर्तिनः ॥
उन्मिषंतोप्यनिमिषा मनाक्छिद्रं न लेभिरे ॥६५॥
अथोवाचामर गुरुर्देवानपचिकीर्षुकान् ॥
तस्मिन्राजनि धर्मिष्ठे वरिष्ठे मंत्रवेदिषु ॥६८॥
॥ गुरुरुवाच ॥
संधिविग्रहयानास्ति सं श्रयं द्वैधभावनम् ॥
यथा स राजा संवेत्ति न तथात्रापि कश्चन ॥६७॥
उपायोप्येक एवास्ति चतुर्ष्विह दिवौकसः ॥
भेदो नाम स चेत्सिध्येत्तपोबलिनि तत्र हि ॥६८॥
तेन यद्यपि भूभर्त्रा भूमेर्देवा विवासिताः ॥
तथापि भूरिशस्तत्र संत्यस्मत्पक्षपातिनः ॥६९॥
कालो निमिषमात्रोपि यान्विना न सुखं व्रजेत् ॥
अस्माकमपि तस्यापि संति ते तत्र मानिताः ॥७०॥
अंतर्बहिश्चरा नित्यं सर्वविश्रंभ भूमयः ॥
समागतेषु तेष्वत्र सर्वं नः सेत्स्यति प्रियम् ॥७१॥
समाकर्ण्य च ते सर्वे त्रिदशा गीष्पतीरितम् ॥
निर्णीतवंतस्तस्यार्थं तस्मादंतर्बहिश्चरान् ॥
अभिनंद्याथ तं सर्वे प्रोचुरित्थं भवेदिति ॥७२॥
ततः शक्रः समाहूय वीतिहोत्रं पुरःस्थितम् ॥
ऊचे मधुरया वाचा बहुमानपुरःसरम् ॥७३॥
हव्यवाहन या मूर्तिस्तव तत्र प्रतिष्ठिता ॥
तामुपासंहर क्षिप्रं विषयात्तस्य भूपतेः ॥७४॥
समागतायां तन्मूर्तौ सर्वानष्टाग्रयः प्रजाः ॥
हव्यकव्यक्रियाशून्या विरजिष्यंति राजनि ॥७५॥
प्रजासु च विरक्तासु राज्यकामदुघासु वै ॥
कृच्छ्रेणोपार्जितोऽपार्थो राजशब्दो भविष्यति ॥७६॥
प्रजानां रंजनाद्राजा येयं रूढिरुपार्जिता ॥
तस्यां रूढ्यां प्रनष्टायां राज्यमेव विनंक्ष्यति ॥७७॥
प्रजाविरहितो राजा कोशदुर्गबलादिभिः ॥
समृद्धोप्यचिरान्नश्येत्कूलसंस्थ इव द्रुमः ॥७८॥
त्रिवर्गसाधनाहेतुः प्राक्प्रजैव महीपतेः ॥
क्षीणवृत्त्यां प्रजायां वै त्रिवर्गः क्षीयते स्वयम् ॥७९॥
क्षीणे त्रिवर्गे संक्षीणा गतिर्लोकद्वयात्मिका ॥८०॥
इतींद्रवचनाद्वह्निरह्नाय क्षोणिमंडलात् ॥
आचकर्ष निजां मूर्तिं योगमाया बलान्वितः ॥८१॥
निन्ये न केवलं त्रेतां जाठराग्निमपि प्रभुः ॥
वज्रिणो वचसा वह्निर्निजशक्तिसमन्वितम् ॥८२॥
वह्नौ स्वर्लोकमापन्ने जाते मध्यंदिने नृपः ॥
कृतमाध्याह्निकस्तूर्णं प्राविशद्भोज्यमंडपम् ॥८३॥
महानसाधिकृतयो वेपमानास्ततो मुहुः ॥
क्षुधार्तमपि भूपालमिदं मंदं व्यजिज्ञपन् ॥८४॥
सूपकारा ऊचुः ॥
अत्यहस्करतेजस्क प्रतापविजितानल ॥
किंचिद्विज्ञप्तुकामाः स्मोप्यकांडेरणपंडित ॥८५॥
यदि विश्रुणयेद्राजन्भवानभयदक्षिणाम् ॥
तदा विज्ञापयिष्यामः प्रबद्धकरसंपुटाः ॥८६॥
भ्रूसंज्ञयाकृतादेशाः प्रशस्तास्येनभूभुजा ॥
मृदु विज्ञापयांचक्रुः पाकशालाधिकारिणः ॥८७॥
न जानीमो वयं नाथ त्वत्प्रतापभयार्दितः ॥
कुसृत्याथ कया विद्वान्नष्टो वैश्वानरः पुरात् ॥८८॥
कृशानौ कृशतां प्राप्ते कथं पाकक्रिया भवेत् ॥
तथापि सूर्यपाकेन सिद्धा पक्तिर्हि काचन ॥८९॥
प्रभोरादेशमासाद्य तामिहैवानयामहे ॥
मन्यामहे च भूजाने पक्तिरद्यतनी शुभा ॥९०॥
श्रुत्वांधसिकवाक्यं स महासत्त्वो महामतिः ॥
नृपतिश्चिंतयामास देवानां वै कृतं त्विदम् ॥९१॥
क्षणं संशीलयंस्तत्र ददर्श तपसोबलात् ॥
न केवलं जहौ गेहं हुतभुक्चौदरीर्दरीः ॥९२॥
अप्यहासीदितोलोकाज्जगाम च सुरालयम् ॥
भवत्विह हि का हानिरस्माकं ज्वलने गतै ॥९३॥
तेषामेवविचाराच्च हानिरेषा सुपर्वणाम् ॥
तद्बलेन च किं राज्यं मयेदमुररीकृतम् ॥९४॥
पितामहेन महतो गौरवात्प्रतिपादितम् ॥
इति चिंतयतस्तस्य मध्यलोकशतक्रतोः ॥९५॥
पौराः समागता द्वारि सह जानपदैर्नरैः ॥
द्वास्थेन चाज्ञया राज्ञस्ततस्तेंतः प्रवेशिताः ॥९६॥
दत्त्वोपदं यथार्हं ते प्रणेमुः क्षोणिवज्रिणम् ॥
केचित्संभाषिता राज्ञादरसोदरया गिरा ॥९७॥
केचिच्च समुदा दृष्ट्या केचिच्च करसंज्ञया ॥
विसर्जिता सना राज्ञा बहुमानपुरःसरम् ॥९८॥
तेजिरे भेजिरे सर्वे रत्नार्चिः परिसेविते ॥
विजितामोदसंदोहे सुरानोकहसौरभैः ॥
राज्ञः शतशलाकस्थच्छत्रस्यच्छाययाशुभे ॥९९॥
विशांपतिरथोवाच तन्मुखच्छाययेरितम् ॥
विज्ञाय तदभिप्रायमलंभीत्या पुरौकसः ॥१००॥
विकारकारिभिर्लेखैर्यदिनीतोऽनलो भुवः ॥
एतावतैव किं सिद्धयेन्मयि तेषां पराभवः ॥१॥
चिकीर्षुरहमेवासं पौराः कार्यमिदंपुरा ॥
परं ह्युपेक्षितप्रायं दिष्ट्या तैः स्मारितं चिरात् ॥२॥
गतोऽनलोऽभवद्भद्रं जगत्प्राणोपि यात्वितः ॥
वरुणः पुष्पवंताभ्यामविलंबं प्रयात्वितः ॥३॥
अहमेव हि पर्जन्यो भविष्यामि तपोबलात् ॥
मुदे जनपदानां च सर्वसस्यसमृद्धिदः ॥४॥
तपोयोगबलेनाहमात्मानं परिकल्प्य च ॥
त्रिधावह्निस्वरूपेण पक्तीष्टिव्युष्टिकृत्तमः ॥५॥
अंतर्बहिश्च यो द्वेधा नभस्वत्पदवी दधत् ॥
सर्वेषामेव वेत्स्यामि त्वंतःकरणचेष्टितम् ॥६॥
विधाय चांभसीं मूर्तिं सर्वजीवैकजीवनीम् ॥
प्रजाः संजीवयिप्यामि किं जडैर्विषये मम ॥७॥
यदा खे तमसा पौरा ग्रस्येते शशिभास्करौ ॥
तदा न किं विना ताभ्यां जीवामः क्षितिमंडले ॥८॥
श्रियं चांद्रमसीं प्राप्य ह्लादयिष्याम्यहं प्रजाः ॥
निशाचरेण किमिह क्षयिणा च कलंकिना ॥९॥
अस्मत्कुले मूलभूतो भास्करो मान्य एव नः ॥
स तिष्ठतु सुखेनात्र यातायातं करोतु च ॥११०॥
स एको जगतामात्मा विशेषात्कुलदेवता ॥
सोपकर्तुं न वेत्त्येव तस्येदं व्रतमुत्तमम् ॥११॥
इति नरपतिवाक्सुधारसौघं श्रुतिपुटकैः परिपीय पौरवर्गः ॥
विकसितवदनांबुजो जगामनिजनिजमालयमाधिमुक्तचित्तः ॥१२॥
क्षितिपतिरपि तत्तथा विधाय तपसोसाध्यमिहास्ति किं त्रिलोक्याम् ॥
अतिवह्न्यर्कमसौ दधच्चतेजो द्युसदां शल्यमिवोच्चकैर्बभूव ॥१३॥
इति श्रीस्कांदे महापुरण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे दिवोदासप्रतापवर्णनंनाम त्रिचत्वारिंशोध्यायः ॥४३॥

N/A

References : N/A
Last Updated : November 26, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP