संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|काशीखण्ड|
अध्याय ७७

काशीखण्डः - अध्याय ७७

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ पार्वत्युवाच ॥
नमस्ते देवदेवेश प्रणमत्करुणानिधे ॥
वद केदारमाहात्म्यं भक्तानामनुकंपया ॥१॥
तस्मिँल्लिंगे महाप्रीतिस्तव काश्यामनुत्तमा ॥
तद्भक्ताश्च जना नित्यं देवदेवमहाधियः ॥२॥
॥ देवदेव उवाच ॥
शृण्वपर्णेभिधास्यामि केदारेश्वर संकथाम् ॥
समाकर्ण्यापि यां पापोप्यपापो जायते क्षणात् ॥३॥
केदारं यातुकामस्य पुंसो निश्चितचेतसः ॥
आजन्मसंचितं पापं तत्क्षणादेव नश्यति ॥४॥
गृहाद्विनिर्गते पुंसि केदारमभिनिश्चितम् ॥जन्मद्वयार्जितं पापं शरीरादपि निर्व्रजेत् ॥५॥
मध्ये मार्गं प्रपन्नस्य त्रिजन्मजनितं त्वघम् ॥
देहगेहाद्विनिःसृत्य निराशं याति निःश्वसत् ॥६॥
सायंकेदारकेदारकेदारेति त्रिरुच्चरन्॥
गृहेपि निवसन्नूनं यात्राफलमवाप्नुयात् ॥७॥
दृष्ट्वा केदारशिखरं पीत्वा तत्रत्यमंबु च ॥
सप्तजन्मकृतात्पापान्मुच्यते नात्र संशयः ॥८॥
हरपापह्रदे स्नात्वा केदारेशं प्रपूज्य च ॥
कोटिजन्मार्जितैनोभिर्मुच्यते नात्र संशयः ॥९॥
सकृत्प्रणम्य केदारं हरपापकृतोदकः ॥
स्थाप्य लिंगं हृदंभोजे प्रांते मोक्षं गमिष्यति॥१०॥
हरपापह्रदे श्राद्धं श्रद्धया यः करिष्यति ॥
उद्धृत्य सप्तपुरुषान्स मे लोकं गमिष्यति ॥११॥
पुरा राथंतरे कल्पे यदभूदत्र तच्छृणु ॥
अपर्णे दत्तकर्णा त्वं वर्णयामि तवाग्रतः ॥१२॥
एको ब्राह्मणदायाद उज्जयिन्या इहागतः ॥
कृतोपनयनः पित्रा ब्रह्मचर्यव्रतेस्थितः ॥१३॥
स्थलीं पाशुपतीं काशीं स विलोक्य समंततः॥
द्विजैः पाशुपतैः कीर्णां जटामुकुटभूषितैः ॥१४॥
कृतलिंगसमर्चैश्च भूतिभूषितवर्ष्मभिः ॥
भिक्षाहृतान्नसंतुष्टैः पुष्टैर्गंगामृतोदकैः ॥१५॥
बभूवानंदितमना व्रतं जग्राह चोत्तमम्॥
हिरण्यगर्भादाचार्यान्महत्पाशुपताभिधम् ॥१६॥
स च शिष्यो वशिष्ठोभूत्सर्वपाशुपतोत्तमः ॥
स्नात्वा ह्रदे हरपापे नित्यप्रातः समुत्थितः ॥१७॥
विभूत्याहरहः स्नाति त्रिकालं लिंगमर्चयन् ॥
नांतरं स विजानाति शिवलिंगे गुरौ तथा ॥१८॥
स द्वादशाब्ददेशीयो वशिष्ठो गुरुणा सह ॥
ययौ केदारयात्रार्थं गिरिं गौरीगुरोर्गुरुम् ॥१९॥
यत्र गत्वा न शोचंति किंचित्संसारिणः क्वचित ॥
प्राश्योदकं लिंगरूपं लिंगरूपत्वमागताः ॥२०॥
असिधारं गिरिं प्राप्य वशिष्ठस्य तपस्विनः ॥
गुरुर्हिरण्यगर्भाख्यः पंचत्वमगमत्तदा ॥२१॥
पश्यतां तापसानां च विमाने सार्वकामिके ॥
आरोप्य तं पारिषदाः कैलासमनयन्मुदा ॥२२॥
यस्तु केदारमुद्दिश्य गेहादर्धपथेप्यहो ॥
अकातरस्त्यजेत्प्राणान्कैलासे स चिरं वसेत् ॥२३॥
तदाश्चर्यं समालोक्य स वशिष्ठस्तपोधनः ॥
केदारमेव लिंगेषु बह्वमंस्त सुनिश्चितम् ॥२४॥
अथ कृत्वा स कैदारीं यात्रां वाराणसीमगात् ॥
अग्रहीन्नियमं चापि यथार्थं चाकरोत्पुनः ॥२५॥
प्रति चैत्रं सदा चैत्र्यां यावज्जीवमहं ध्रुवम् ॥
विलोकयिष्ये केदारं वसन्वाराणसीं पुरीम् ॥२६॥
तेन यात्राः कृताः सम्यक् षष्टिरेकाधिका मुदा ॥
आनंदकानने नित्यं वसता ब्रह्मचारिणा ॥२७॥
पुनर्यात्रां स वै चक्रे मधौ निकटवर्तिनि ॥
परमोत्साहसंतुष्टः पलिता कलितोप्यलम् ॥२८॥
तपोधनैस्तन्निधनं शंकमानैर्निवारितः ॥
कारुण्यपूर्णहृदयैरन्यैरपि च संगिभिः ॥२९॥
ततोपि न तदुत्साहभंगोभूद्दृढचेतसः ॥
मध्ये मार्गं मृतस्यापि गुरोरिव गतिर्मम ॥३०॥
इति निश्चितचेतस्के वशिष्ठे तापसे शुचौ ॥
अशूद्रान्न परीपुष्टे तुष्टोहं चंडिकेऽभवम् ॥३१॥
स्वप्रेमया स संप्रोक्तो वशिष्ठस्तापसोत्तमः ॥
दृढव्रत प्रसन्नोस्मि केदारं विद्धि मामिह ॥३२॥
अभीष्टं च वरं मत्तः प्रार्थयस्वाविचारितम् ॥
इत्युक्तवत्यपि मयि स्वप्नो मिथ्येति सोब्रवीत् ॥३३॥
ततोपि स मया प्रोक्तः स्वप्नो मिथ्याऽशुचिष्मताम् ॥
भवादृशाममिथ्यैव स्वाख्या सदृशवर्तिनाम् ॥३४॥
वरं ब्रूहि प्रसन्नोस्मि स्वप्नशंकां त्यज द्विज ॥
तव सत्त्ववतः किंचिन्मयादेयं न किंचन ॥३५॥
इत्युक्तं मे समाकर्ण्य वरयामास मामिति ॥
शिष्यो हिरण्यगर्भस्य तपस्विजनसत्तमः ॥३६॥
यदि प्रसन्नो देवेश तदा मे सानुगा इमे ॥
सर्वे शूलिन्नुग्राह्या एष एव वरो मम ॥३७॥
देवि तस्येदमाकर्ण्य परोपकृतिशालिनः ॥
वचनं नितरां प्रीतस्तथेति तमुवाच ह ॥३८॥
पुनः परोपकरणात्तत्तपो द्विगुणीकृतम् ॥
तेन पुण्येन स मया पुनः प्रोक्तो वरं वृणु ॥३९॥
स वशिष्ठो महाप्राज्ञो दृढ पाशुपतव्रतः ॥
देवि मे प्रार्थयामास हिमशैलादिह स्थितिम् ॥४०॥
ततस्तत्तपसाकृष्टः कलामात्रेण तत्र हि ॥
हिमशैले ततश्चात्र सर्वभावेन संस्थितः ॥४१॥
ततः प्रभाते संजाते सर्वेषां पश्यतामहम् ॥
हिमाद्रे प्रस्थितः प्राप्तस्तूयमानः सुरर्षिभिः ॥४२॥
वशिष्ठं पुरतः कृत्वा सर्वसार्थसमायुतम् ॥
हरपापह्रदे तीर्थे स्थितोहं तद्नुग्रहात् ॥४३॥
मत्परिग्रहतः सर्वे हरपापे कृतोदकाः ॥
आराध्य मामनेनैव वपुषा सिद्धिमागताः ॥४४॥
तदा प्रभृति लिंगेस्मिन्स्थितः साधकसिद्धये ॥
अविमुक्ते परे क्षेत्रे कलिकाले विशेषतः ॥४५॥
तुषाराद्रिं समारुह्य केदारं वीक्ष्य यत्फलम् ॥
तत्फलं सप्तगुणितं काश्यां केदारदर्शने ॥४६॥
गौरीकुंडं यथा तत्र हंसतीर्थं च निर्मलम् ॥
यथा मधुस्रवा गंगा काश्यां तदखिलं तथा ॥४७॥
इदं तीर्थं हरपापं सप्तजन्माघनाशनम् ॥
गंगायां मिलितं पश्चाज्जन्मकोटिकृताघहम् ॥४८॥
अत्र पूर्वं तु काकोलौ युध्यतौ खान्निपेततुः ॥
पश्यतां तत्र संस्थानां हंसौ भूत्वा विनिर्गतौ ॥४९॥
गौरि त्वया कृतं पूर्वं स्नानमत्र महाह्रदे ॥
गौरीतीर्थं ततः ख्यातं सर्वतीर्थोत्तमोत्तमम् ॥५०॥
अत्रामृतस्रवा गंगा महामोहांधकारहृत् ॥
अनेकजन्मजनित जाड्यध्वंसविधायिनी ॥५१॥
सरसा मानसेनात्र पूर्वं तप्तं महातपः ॥
अतस्तु मानसं तीर्थं जने ख्यातिमिदं गतम् ॥५२॥
अत्र पूर्वं जनः स्नानमात्रेणैव प्रमुच्यते ॥
पश्चात्प्रसादितश्चाहं त्रिदशैर्मुक्तिदुर्दृशैः ॥५३॥
सर्वे मुक्तिं गमिष्यंति यदि देवेह मानवाः ॥
केदारकुंडे सुस्नातास्तदोच्छित्तिर्भविष्यति ॥५४॥
सर्वेषामेव वर्णानामाश्रमाणां च धर्मिणाम्॥
तस्मात्तनुविसर्गेत्र मोक्षं दास्यति नान्यथा ॥५५॥
ततस्तदुपरोधेन तथेति च मयोदितम् ॥
तदारभ्य महादेवि स्नानात्केदारकुंडतः॥ ५६॥
समर्चनाच्च भक्त्या वै मम नाम जपादपि ॥
नैःश्रेयसीं श्रियं दद्यामन्यत्रापि तनुत्यजाम ॥५७॥
केदारतीर्थे यः स्नात्वा पिंडान्दास्यति चात्वरः ॥
एकोत्तरशतं वंश्यास्तस्य तीर्णा भवांबुधिम्॥ ५८॥
भौमवारे यदा दर्शस्तदा यः श्राद्धदो नरः ॥
केदारकुंडमासाद्य गयाश्राद्धेन किं ततः ॥५९॥
केदारं गंतुकामस्य बुद्धिर्देया नरैरियम् ॥
काश्यां स्पृशंस्त्वं केदारं कृतकृत्यो भविष्यसि ॥६०॥
चैत्रकृष्णचतुर्दश्यामुपवासं विधाय च ॥
त्रिगंडूषान्पिबन्प्रातर्हृल्लिंगमधितिष्ठति ॥६१॥
केदारोदकपानेन यथा तत्र फलं भवेत् ॥
तथात्र जायते पुंसां स्त्रीणां चापि न संशयः ॥६२॥
केदारभक्तं संपूज्य वासोन्नद्रविणादिभिः ॥
आजन्मजनितं पापं त्यक्त्वा याति ममालयम् ॥६३॥
आषण्मासं त्रिकालं यः केदारेशं नमस्यति ॥
तं नमस्यंति सततं लोकपाला यमादयः ॥६४॥
कलौ केदारमाहात्म्यं योपि कोपि न वेत्स्यति ॥
यो वेत्स्यति सुपुण्यात्मा सर्वं वेत्स्यति स ध्रुवम् ॥६५॥
केदारेशं सकृद्दृष्ट्वा देवि मेऽनुचरो भवेत् ॥
तस्मात्काश्यां प्रयत्नेन केदारेशं विलोकयेत् ॥६६॥
चित्रांगदेश्वरं लिंगं केदारादुत्तरे शुभम् ॥
तस्यार्चनान्नरो नित्यं स्वर्गभोगानुपाश्नुते ॥६७॥
केदाराद्दक्षिणे भागे नीलकंठ विलोकनात् ॥
संसारोरगदष्टस्य तस्य नास्ति विषाद्भयम् ॥६८॥
तद्वायव्यंबरीषेशो नरस्तदवलोकनात् ॥
गर्भवासं न चाप्नोति संसारे दुःखसंकुले ॥६९॥
इंद्रद्युम्नेश्वरं लिंगं तत्समीपे समर्च्य च ॥
तेजोमयेन यानेन स स्वर्ग भुवि मोदते ॥७०॥
तद्दक्षिणे नरो दृष्ट्वा लिंगं कालंजरेश्वरम् ॥
जरां कालं विनिर्जित्य मम लोके वसेच्चिरम् ॥७१॥
दृष्ट्वा क्षेमेश्वरं लिंगमुद्क्चित्रांगदेश्वरात् ॥
सर्वत्र क्षेममाप्नोति लोकेऽत्र च परत्र च ॥७२॥
॥ स्कंद उवाच ॥
देवदेवेन विंध्यारे केदार महिमा महान् ॥
इत्याख्यायि पुरांबायै मया तेपि निरूपितः ॥७३॥
केदारेश्वरलिंगस्य श्रुत्वोत्पत्तिं कृती नरः ॥
शिवलोकमवाप्नोति निष्पापो जायते क्षणात् ॥७४॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे केदारमहिमाख्यानं नाम सप्तसप्ततितमोऽध्यायः ॥७७॥

N/A

References : N/A
Last Updated : November 27, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP