संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|काशीखण्ड|
अध्याय ७८

काशीखण्डः - अध्याय ७८

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ पार्वत्युवाच ॥
आनंदकानने शंभो यल्लिंगं पुण्यवर्धनम् ॥
यन्नामस्मरणादेव महापातकसंक्षयः ॥१॥
यत्सेव्यं साधकैर्नित्यं यत्र प्रीतिरनुत्तमा ॥
यत्र दत्तं हुतं जप्तं ध्यातं भवति चाक्षयम् ॥२॥
यस्य संस्मरणादेव यल्लिंगस्य विलोकनात् ॥
यल्लिंगप्रणतेश्चापि यस्य संस्पर्शनादपि ॥३॥
पंचामृतादि स्नपनपूर्वाद्यस्यार्चनादपि ॥
तल्लिंगं कथयेशान भवेच्छ्रेयः परंपरा ॥४॥
॥ स्कंद उवाच ॥
इति देवीसमुदितं समाकर्ण्य वटोद्भव ॥
सर्वज्ञेन यदाख्यातं तदाख्यास्यामि ते शृणु ॥९॥
देवदेव उवाच ॥
उमे भवत्या यत्पृष्टं भवबंधविमोक्षकृत् ॥
ततोऽहं कथयिष्यामि लिंगं स्थिरमना भव ॥६॥
आनंदकानने चात्र रहस्यं परमं मम ॥
न मया कस्यचित्ख्यातं न प्रष्टुं वेत्ति कश्चन ॥७॥
संति लिंगान्यनेकानि ममानंदवने प्रिये॥
परं त्वया यथा पृष्टं यथावत्तद्ब्रवीमि ते ॥८॥
यत्र मुक्तिस्वरूपा त्वं स्वयं तिष्ठसि विश्वगे ॥
यत्र ते नंदनश्चास्ति क्षेत्रं विघ्नविघातकृत् ॥९॥
ममापि येन त्रिपुरं समरे जयकांक्षिणः ॥
जयाशा पूरिता स्तुत्या बहुमोदकदानतः ॥१०॥
यत्रास्ति तीर्थमघहृत्पितृप्रीतिविवर्धनम् ॥
यत्स्नानाद्वृत्रहा वृत्रवधपापाद्विमुक्तवान् ॥११॥
धर्माधिकरणं यत्र धर्मराजोप्यवाप्तवान् ॥
सुदुष्करं तपस्तप्त्वा परमेण समाधिना ॥१२॥
पक्षिणोपि हि यत्रापुर्ज्ञानं संसारमोचनम् ॥
रम्यो हिरण्मयो यत्र बभूव बहुपाद्द्रुमः ॥१३॥
यल्लिंगदर्शनादेव दुर्दमो नाम पार्थिवः ॥
उद्वेजकोपि लोकानां क्षणाद्धर्ममतिस्त्वभूत् ॥१४॥
तस्य लिंगस्य माहात्म्यमाविर्भावं च सुंदरि ॥
निशामयाभिधास्यामि महापातक नाशनम् ॥१५॥
धर्मपीठं तदुद्दिष्टमत्रानंदवने मम ॥
तत्पीठदर्शनादेव नरः पापैः प्रमुच्यते ॥१६॥
पुरा विवस्वतः पुत्रो यमः परमसंयमी ॥
तपस्तताप विपुलं विशालाक्षि तवाग्रतः ॥१७॥
शिशिरे जलमध्यस्थो वर्षास्वभ्रावकाशकः ॥
तपर्तौ पंचवह्निस्थः कदाचिदिति तप्तवान् ॥१८॥
पादाग्रांगुष्ठभूस्पर्शी बहुकालं स तस्थिवान् ॥
एकपादस्थितः सोपि कदाचिद्बह्वनेहसम् ॥१९॥
समीराभ्यवहर्तासीद्बहुदिष्टं सदिष्टवान् ॥
पपौ स तु पिपासुः सन्कुशाग्रजलविप्रुषः ॥२०॥
दिव्यां चतुर्युगीमित्थं स निनाय तपश्चरन् ॥
चतुर्गुणं दिदृक्षुर्मां परमेण समाधिना ॥२१॥
ततोहं तस्य तपसा संतुष्टः स्थिरचेतसः ॥
ययौ तस्मै वरान्दातुं शमनाय महात्मने ॥२२॥
वटः कांचनशाखाख्यो यस्तपस्तापसंततिम् ॥
दूरीचकार सुच्छायो बहुद्विजसमाश्रयः ॥२३॥
मंदमद मरुल्लोल पल्लवैः करपल्लवैः ॥
योध्वगानध्वसंतप्तानाह्वये दिवतापहृत् ॥२४॥
स्वानुरागैः सुरभिभिः स्वादुभिश्च पचेलिमैः ॥
प्रीणयेदर्थिसार्थं यो वृत्तैर्निजफलैरलम् ॥२५॥
तदधस्तात्परं वीक्ष्य तमहं तपनांगजम् ॥
स्थाणुनिश्चल वर्ष्माणं नासाग्रन्यस्तलोचनम् ॥२६॥
तपस्तेजोभिरुद्यद्भिः परितः परिधीकृतम् ॥
भानुमंतमिवाकाशे सुनीले स्वेन तेजसा ॥२७॥
स्वाख्यांकितं महालिंगं प्रतिष्ठाप्यातिभक्तितः ॥
स्वच्छ सूर्योपलमयतेजः पुंजैरिवार्चितम् ॥२८॥
साक्षीकृत्येव तल्लिंगं तप्यमानं महत्तपः ॥
प्रत्यवोचं धर्मराजं वरं ब्रूहीति भास्करे ॥२९॥
अलं तप्त्वा महाभाग प्रसन्नोस्मि शुभव्रत ॥
निशम्य शमनश्चेति दृष्ट्वा मां प्रणनाम ह ॥३०॥
चकार स्तवनं चापि परिहृष्टेंद्रियेश्वरः ॥
निर्व्याजं स समाधिं च विसृज्य ब्रध्ननंदनः ॥३१॥
धर्म उवाच ॥
नमोनमः कारणकारणानां नमोनमः कारणवर्जिताय ॥
नमोनमः कार्यमयाय तुभ्यं नमोनमः कार्यविभिन्नरूप ॥३२॥
अरूपरूपाय समस्तरूपिणे पराणुरूपाय परापराय ॥
अपारपाराय पराब्धिपार प्रदाय तुभ्यं शशिमौलये नमः ॥३३॥
अनीश्वरस्त्वं जगदीश्वरस्त्वं गुणात्मकस्त्वं गुणवर्जितस्त्वम् ॥
कालात्परस्त्वं प्रकृतेः परस्त्वं कालाय कालात्प्रकृते नमस्ते ॥३४॥
त्वमेव निर्वाणपद प्रदोसि त्वमेव निर्वाणमनंतशक्ते ॥
त्वमात्मरूपः परमात्मरूपस्त्वमंतरात्मासि चराचरस्य ॥३५॥
त्वत्तो जगत्त्वं जगदेवसाक्षाज्जगत्त्वदीयं जगदेकबंधो ॥
हर्ताविता त्वं प्रथमो विधाता विधातृविष्ण्वीश नमो नमस्ते ॥३६॥
मृडस्त्वमेव श्रुतिवर्त्मगेषु त्वमेव भीमोऽश्रुतिवर्त्मगेषु ॥
त्वं शंकरः सोमसुभक्तिभाजामुग्रोसि रुद्र त्वमभक्तिभाजाम् ॥३७॥
त्वमेव शूली द्विषतां त्वमेव विनम्रचेतो वचसां शिवोसि ॥
श्रीकंठ एकः स्वपदश्रितानां दुरात्मनां हालहलोग्रकंठः ॥३८॥
नमोस्तु ते शंकर शांतशंभो नमोस्तु ते चंद्रकलावतंस ॥
नमोस्तु तुभ्यं फणिभूषणाय पिनाकपाणेंऽधकवैरिणे नमः ॥३९॥
स एव धन्यस्तव भक्तिभाग्यस्तवार्चको यः सुकृती स एव ॥
तवस्तुतिं यः कुरुते सदैव स स्तूयते दुश्च्यवनादि देवैः ॥४०॥
कस्त्वामिह स्तोतुमनंतशक्ते शक्नोति मादृग्लघुबुद्धिवैभवः ॥
प्राचां न वाचामिहगोचरो यः स्तुतिस्त्वयीयं नतिरेव यावत् ॥४१॥
स्कंद उवाच॥
उदीर्य सूर्यस्य सुतोतिभक्त्या नमः शिवायेति समुच्चरन्सः ॥
इलामिलन्मौलिरतीव हृष्टः सहस्रकृत्वः प्रणनाम शंभुम् ॥४२॥
ततः शिवस्तं तपसातिखिन्नं निवार्य ताभ्यः प्रणतिभ्य ईश्वरः ॥
वरान्ददौ सप्ततुरंगसूनवे त्वं धर्मराजो भव नामतोपि ॥४३॥
त्वमेव धर्माधिकृतौ समस्त शरीरिणां स्थावरजंगमानाम् ॥
मया नियुक्तोद्य दिनादिकृत्यः प्रशाधि सर्वान्मम शासनेन ॥४४॥
त्वं दक्षिणायाश्च दिशोधिनाथस्त्वं कर्मसाक्षी भव सर्वजंतोः ॥
त्वद्दर्शिताध्वान इतो व्रजंतु स्वकर्मयोग्यां गतिमुत्तमाधमाः ॥४५॥
त्वया यदेतन्ममभक्तिभाजा लिंगं समाराधितमत्र धर्म ॥
तद्दर्शनात्स्पर्शनतोऽर्चनाच्च सिद्धिर्भविष्यत्यचिरेण पुंसाम्॥ ४६॥
धर्मेश्वरं यः सकृदेव मर्त्यो विलोकयिष्यत्यवदातबुद्धिः ॥
स्नात्वा पुरस्तेऽत्र च धर्मतीर्थे न तस्य दूरे पुरुषार्थसिद्धिः ॥४७॥
कृत्वाप्यघानामिह यः सहस्रं धर्मेश्वरं पश्यति दैवयोगात्॥
सहेतनो जातु स नारकीं व्यथां कथां तदीयां दिविकुर्वतेमराः ॥४८॥
यो धर्मपीठं प्रतिलभ्य काश्यां स्वश्रेयसे नो यततेऽत्र मर्त्यः ॥
कथं स धर्मत्वमिवातितेजाः करिष्यति स्वं कृतकृत्यमेव ॥
त्वया यथाप्ता इह धर्मराज मनोरथास्ते गुरुभिस्तपोभिः ॥
तथैव धर्मेश्वरभक्तिभाजां कामाः फलिष्यंति न संशयोत्र ॥५०॥
कृत्वाप्यघान्येव महांत्यपीह धर्मेश्वरार्चां सकृदेव कुर्वन् ॥
कुतो बिभेति प्रियबंधुरेव तव त्वदीयार्चित लिंगभक्तः ॥५१॥
पत्रेण पुष्पेण जलेन दूर्वया यो धर्मधर्मेश्वरमर्चयिष्यति ॥
समर्चयिष्यंत्यमृतांधसस्तं मंदारमालाभिरतिप्रहृष्टाः ॥५२॥
त्वत्तो विभेष्यंति कृतैनसो ये भयं न तेषां भविता कदाचित् ॥
धर्मेश्वरार्चा रचनां करिष्यतां हरिष्यतां बंधुतयामनस्ते ॥५३॥
यदत्र दास्यंति हि धर्मपीठे नरा द्युनद्यां कृतमज्जनाश्च ॥
तदक्षयं भावि युगांतरेपि कृतप्रणामास्तव धर्मलिंगे ॥५४॥
ये कार्तिके मासि सिताष्टमी तिथौ यात्रां करिष्यंति नरा उपोषिताः ॥
रात्रौ च वै जागरणं महोत्सवैर्धर्मेश्वरे तेन पुनर्भवा भुवि ॥५५॥
स्तुतिं च ये वै त्वदुदीरितामिमां नराः पठिष्यंति तवाग्रतः क्वचित् ॥
निरेनसस्ते मम लोकगामिनः प्राप्स्यंति ते वैभवतः सखित्वम् ॥५६॥
पुनर्वरं ब्रूहि यथेप्सितं ददे तेजोनिधेर्नंदन धर्मराज ॥
अदेयमत्रास्ति न किंचिदेव ते विधेहि वागुद्यममात्रमेव ॥५७॥
प्रसन्नमूर्तिं स विलोक्य शंकरं कारुण्यपूर्णं स्वमनोरथाभिदम् ॥
आनंदसंदोहसरोनिमग्नो वक्तुं क्षणं नैव शशाक किंचित् ॥५८॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे धर्मेशमहिमाख्यानं नामाष्टसप्ततितमोऽध्यायः ॥७८॥

N/A

References : N/A
Last Updated : November 27, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP