संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|काशीखण्ड|
अध्याय ८३

काशीखण्डः - अध्याय ८३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


राज्ञ्युवाच ॥
अवधेहि धरानाथ कथयामि यथातथम् ॥
व्रतस्यास्य विधानं च फलं चाभीष्टदेवताम् ॥१॥
पुरा पुरः श्रीदपत्न्याः श्रीमुख्या ब्रह्मसूनुना ॥
नारदेन सुतार्थिन्या व्रतमेतदुदीरितम् ॥२॥
चीर्णं चाथ तया देव्या पुत्रोभून्नलकूबरः ॥
अन्याभिरपि बह्वीभिः पुत्राः प्राप्ता व्रतादितः ॥३॥
विधिनाप्यत्र संपूज्या गौरी सर्वविधानवित् ॥
स्तनंधयेन सहिता धयता स्तनमुन्मुखम् ॥४॥
मार्गशीर्ष तृतीयायां शुक्लायां कलशोपरि ॥
ताम्रपात्रं निधायैकं तंडुलैः परिपूरितम् ॥५॥
अविच्छिन्नं नवीनं च रजनीरागरंजितम् ॥
वासः पात्रोपरि न्यस्य सूक्ष्मात्सूक्ष्मतरं परम् ॥६॥
तस्योपरि शुभं पद्मं रविरश्मिविकासितम् ॥
तत्कर्णिकाया उपरि चतुःस्वर्णविनिर्मितम् ॥७॥
विधिं संपूजयेद्भक्त्या रत्नपट्टाबंरादिभिः ॥
पुष्पैर्नानाविधै रम्यैः फलैर्नारंगमुख्यकैः ॥८॥
सुगंधैश्चंदनाद्यैश्च कर्पूर मृगनाभिभिः ॥
परमान्नादि नैवेद्यैः पक्वान्नैर्बहुभंगिभिः ॥९॥
धूपैरगुरुमुख्यैश्च रम्ये कुसुममंडपे ॥
रात्रौ जागरणं कार्यं विनिंद्रैः परमोत्सवैः ॥१०॥
हस्तमात्रमिते कुंडे जातवेदस इत्यृचा ॥
घृतेन मधुनाप्लुत्य जुहुयान्मंत्रविद्द्विजः ॥११॥
सहस्रकमलानां च स्मेराणां स्वयमेव हि ॥
नवप्रसूतां कपिलां सुशीलां च पयस्विनीम् ॥१२॥
दद्यादाचार्यवर्याय सालंकारां सलक्षणाम् ॥
उपोष्य दंपती भक्त्या नवांबरविभूषितौ ॥१३॥
प्रातःस्नात्वा चतुर्थ्यां च संपूज्याचार्यमादृतः ॥
वस्त्रैराभरणैर्माल्यैर्दक्षिणाभिर्मुदान्वितौ ॥१४॥
सोपस्करां च तां मृर्तिमाचार्याय निवेदयेत् ॥
समुच्चरन्निमं मंत्रं व्रतकृन्मिथुनं मुदा ॥१५॥
नमो विश्वविधानज्ञे विधे विविधकारिणि ॥
सुतं वंशकरं देहि तुष्टामुष्माद्व्रताच्छुभात् ॥१६॥
सहसं भोजयित्वाथ द्विजानां भक्तिपूर्वकम् ॥
भुक्तशेषेण चान्नेन कुर्याद्वै पारणं ततः ॥१७॥
इत्थमेतद्व्रतं राजंश्चिकीर्षामि त्वया सह ॥
कुरु चैतत्प्रियं मह्यमभीष्टफललब्धये ॥१८॥
इति भूपालवर्येण श्रुत्वा संहृष्टचेतसा ॥
मुनेव तं समाचीर्णं सांतर्वत्नी बभूव ह ॥१९॥
तयाथ प्रार्थिता गौरी गर्भिण्या भक्तितोषिता ॥
पुत्रं देहि महामाये साक्षाद्विष्ण्वंशसंभवम् ॥२०॥
जातमात्रो व्रजेत्स्वर्गं पुनगयाति चात्र वै ॥
भक्तः सदाशिवेऽत्यर्थं प्रसिद्धः सर्वभूतले ॥२१॥
विनैव स्तन्यपानेन षोडशाब्दाकृतिः क्षणात् ॥
एवंभूतः सुतो गौरि यथा मे स्यात्तथाकुरु ॥२२॥
मृडान्यापि तथेत्युक्ता राज्ञी भक्त्यातितुष्टया ॥
अथ कालेन तनयं मूलर्क्षे साप्यजीजनत् ॥२३॥
हितैरमात्यैरथ सा विज्ञप्तारिष्टसंस्थिता ॥
देवि राजार्थिनी चेत्त्वं त्यज दुष्टर्क्षजं सुतम् ॥२४॥
सा मंत्रिवाक्यमाकर्ण्य केवलं पतिदेवता ॥
अत्याक्षीत्तं तथा प्राप्तं तनयं नयकोविदा ॥२५॥
धात्रेयिकां समाकार्य प्राहेदं सा नृपांगना ॥
पंचमुद्रे महापीठे विकटा नाम मातृका ॥२६॥
तदग्रे स्थापयित्वामुं बालं धात्रेयिके वद ॥
गौर्यादत्तः शिशुरसौ तवाग्रे विनिवेदितः ॥२७॥
राज्ञ्या पत्युः प्रियेषिण्या मंत्रिविज्ञप्तिनुन्नया ॥
सापि राज्ञ्युदितं श्रुत्वा शिशुं लास्य शशिप्रभम् ॥२८॥
विकटायाः पुरः स्थाप्य गृहं धात्रेयिका गता ॥
अथ सा विकटा देवी समाहूय च योगिनीः ॥२९॥
उवाच नयत क्षिप्रं शिशुं मातृगणाग्रतः ॥
तासामाज्ञां च कुरुत रक्षतामुं प्रयत्नतः ॥३०॥
योगिन्यो विकटावाक्यात्खेचर्यस्ताः क्षणेन तम् ॥
निन्युर्गगनमार्गेण ब्राह्म्याद्या यत्र मातरः ॥३१॥
प्रणम्य योगिनीवृंदं तं शिशुं सूर्यवर्चसम् ॥
पुरो निधाय मातॄणां प्रोवाच विकटोदितम् ॥३२॥
ब्रह्माणी वैष्णवी रौद्री वाराही नारसिंहिका ॥
कौमारी चापि माहेंद्री चामुंडा चैव चंडिका । ३३॥
दृष्ट्वा तं बालकं रम्यं विकटाप्रेषितं ततः ॥
पप्रच्छुर्युगपड्डिंभं कस्ते तातः प्रसूश्च कः ॥३४॥
मातृभिश्चेति पुष्टः स यदा किंचिन्न वक्ति च ॥
तदा तद्योगिनीचक्रं प्राह मातृगणस्त्विति ॥३५॥
राज्ययोग्यो भवत्येष महालक्षणलक्षितः ॥
पुनस्तत्रैव नेतव्यो योगिन्यस्त्वविलंबितम् ॥३६॥
पंचमुद्रा महादेवी तिष्ठते यत्र काम्यदा ।
यस्याः संसेवनान्नृणां निर्वाणश्रीरदूरतः ॥३७॥
सर्वत्रशुभजन्मिन्यां काश्यां मुक्तिः पदेपदे ॥
तथापि सविशेषं हि तत्पीठं सर्वसिद्धिकृत् ॥३८॥
तत्पीठसेवनादस्य षोडशाब्दाकृतेः शिशोः ॥
सिद्धिर्भवित्री परमा विश्वेशानुग्रहात्परात् ॥३९॥
एवं मातृगणाशीर्भिर्योगिनीभिः क्षणेन हि ॥
प्रापितो मातृवाक्येन पंचमुद्रांकितं पुनः ॥४०॥
संप्राप्य तन्महापीठं स्वर्गलोकादिहागतः ॥
आनंदकानने दिव्यं तताप विपुलं तपः ॥४१॥
तपसातीव तीव्रेण निश्चलेंद्रियचेतसः ॥
तस्य राजकुमारस्य प्रसन्नोभूदुमाधवः। ॥४२॥
आविर्बभूव पुरतो लिंगरूपेण शंकरः ॥
प्रोवाच च प्रसन्नोस्मि वरं ब्रूहि नृपांगज ॥४३॥
॥ स्कंद उवाच ॥
सर्वज्योतिर्मयं लिंगं पुरतो वीक्ष्य वाङ्मयम् ॥
सप्तपातालमुद्भिद्य स्थितं बृहदनुग्रहात ॥४४॥
प्रणम्य दंडवद्भूमौ परितुष्टाव धूर्जटिम् ॥
सूक्तैर्जन्मांतराभ्यस्तैः सुहृष्टो रुद्रदेवतैः ॥४५॥
ततः प्रसन्नो भगवान्देवदेवो महेश्वरः ॥
संतुष्टस्तपसा तस्य प्रोवाच वृषभध्वजः॥ ४६॥
॥ देवदेव उवाच ॥
वरं वरय संतप्त तपसा क्लेशितं वपुः ॥
त्वयेदं बालवपुषा वशीकृतं मनो मम ॥४७॥
शिवोक्तं च समाकर्ण्य वरदानं पुनःपुनः ॥
वरं च प्रार्थयांचक्रे परिहृष्टतनूरुहः ॥४८॥
॥ कुमार उवाच ॥
देवदेवमहादेव यदि देयो वरो मम ॥
तदत्र भवता स्थेयं भवतापहृता सदा ॥४९॥
अस्मिँल्लिंगे स्थितः शंभो कुरु भक्तसमीहितम् ॥
विना मुद्रादिकरणं मंत्रेणापि विना विभो ॥५०॥
दिश सिद्धिं परामत्र दर्शनात्स्पर्शनान्नतेः ॥
अस्य लिंगस्य ये भक्ता मनोवाक्कायकर्मभिः ॥५१॥
सदैवानुग्रहस्तेषु कर्तव्यो वर एष मे ॥
इति तद्व्रतमाकर्ण्य लिंगरूपोवदत्प्रभुः ॥५२॥
एवमस्तु यदुक्तं ते वीरवैष्णव सूनुना ॥
जनेतुर्विष्णुभक्ताच्च राज्ञोऽमित्रज्जितो भवान् ॥५३॥
विष्ण्वंश एवमुत्पन्नो मम भक्तिपरांगज ॥
वीरवीरेश्वरं नाम लिंगमेतत्त्वदाख्यया ॥५४॥
काश्यां दास्यत्यभीष्टानि भक्तानां चिंतितान्यहो ॥
अस्मिँल्लिंगे सदा वीर स्थास्याम्यद्यदिनावधि ॥५५॥
दास्यामि च परां सिद्धिमाश्रितेभ्यो न संशयः ॥
परं न महिमानं मे कलौ कश्चिच्च वेत्स्यति ॥५६॥
यस्तु वेत्स्यति भाग्येन स परां सिद्धिमाप्स्यति ॥
अत्र जप्तं हुतं दत्तं स्तुतमर्चितमेव वा ॥५७॥
जीर्णोद्धारादिकरणमक्षय्यफलहेतुकम् ॥
त्वं तु राज्यं परं प्राप्य सर्वभूपालदुर्लभम्॥ ५८॥
भुक्त्वा भोगांश्च विपुलानंते सिद्धिमवाप्स्यसि ॥
पुरी वाराणसी रम्या सर्वस्मिञ्जगतीतले ॥५९॥
पुण्यस्तत्रापि संभेदः सरितोरसि गंगयोः ॥
ततोऽपि च हयग्रीवं तीर्थं चैवाति पुण्यदम् ॥६०॥
यत्र विष्णुर्हयग्रीवो भक्तचिंतितमर्पयेत् ॥
हयग्रीवाच्च वै तीर्थाद्गजतीर्थं विशिष्यते ॥६१॥
यत्र वै स्नानमात्रेण गजदानफलं लभेत् ॥
कोकावराहतीर्थं च पुण्यदं गजतीर्थतः ॥६२॥
कोकावराहमभ्यर्च्य तत्र नो जन्मभाग्जनः ॥
अपि कोकावराहाच्च दिलीपेश्वरसन्निधौ ॥६३॥
दिलीपतीर्थं सुश्रेष्ठं सद्यः पापहरं परम् ॥
ततः सगरतीर्थं च सगरेश समीपतः ॥६४॥
यत्र मज्जन्नरो मज्जेन्न भूयो दुःखसागरे ॥
सप्तसागरतीर्थं च शुभं सगरतीर्थतः ॥६५॥
सप्ताब्धिस्नानजं पुण्यं यत्र स्नात्वा नरो लभेत् ॥
महोदधीति विख्यातं तीर्थं सप्ताब्धितीर्थतः ॥६६॥
सकृद्यत्राप्लुतो धीमान्दहेदघमहोदधिम् ॥
चौरतीर्थं ततः पुण्यं कपिलेश्वर सन्निधौ ॥६७॥
पापं सुवर्णचौर्यादि यत्र स्नात्वा क्षयं व्रजेत् ॥
हंसतीर्थ ततोपीड्यं केदारेश्वर सन्निधौ ॥६८॥
हंस स्वरूपी यत्राहं नयामि ब्रह्मदेहिनः ॥६९॥
ततस्त्रिभुवनाख्यस्य केशवस्याति पुण्यदम् ॥
तीर्थं यत्राप्लुता मर्त्या मर्त्यलोकं विशंति न ॥७०॥
गोव्याघ्रे श्वर तीर्थं च ततोप्यधिकमेव हि ॥
स्वभाववैरमुत्सृज्य यत्रोभौ सिद्धिमापतुः ॥७१॥
ततोपि हि वरं वीर तीर्थं मांधातुसंज्ञितम् ॥
चक्रवर्तिपदं यत्र प्राप्तं तेन महीभुजा ॥७२॥
ततोपि मुचुकुंदाख्यं तीर्थं चातीव पुण्यदम् ॥
यत्र स्नातो नरो जातु रिपुभिर्नाभिभूयते ॥७३॥
पृथु तीर्थं ततोप्युच्चैः श्रेयसां साधनं परम् ॥
पृथ्वीश्वरं यत्र दृष्ट्वा नरः पृथ्वीपतिर्भवेत् ॥७४॥
ततः परशुरामस्य तीर्थं चातीव सिद्धिदम् ॥
यत्र क्षत्रवधात्पापाज्जामदग्न्यो विमुक्तवान् ॥७५।
अद्यापि क्षत्रवधजं पापं तत्र प्रणश्यति ॥
एकेन स्नानमात्रेण ज्ञानाज्ञानकृतेन च ॥७६॥
ततोपि श्रेयसां कर्तृ तीर्थं कृष्णाग्रजस्य हि ॥
यत्र सूतवधात्पापाद्बलदेवो विमुक्तवान् ॥७७॥
दिवोदासस्य वै तीर्थं तत्र राज्ञोऽतिमेधसः ॥
तत्र स्नातो नरो जातु न ज्ञानाच्च्यवतेंऽततः ॥७८॥
ततोपि हि महातीर्थं सर्वपापप्रणाशनम् ॥
यत्र भागीरथी साक्षान्मूर्तिरूपेण तिष्ठति ॥७९॥
स्नात्वा भागीरथी तीर्थे कृत्वा श्राद्धं विधानवित् ॥
दत्त्वा दानं च पात्रेभ्यो न भूयो गर्भभाग्भवेत् ॥८०॥
हरपापं च भो वीर तीर्थं भागीरथीतटे ॥
तत्र स्नात्वा क्षयं यांति महापापकुलान्यपि ॥८१॥
यो निष्पापेश्वरं लिंगं तत्र पश्यति मानवः ॥
निष्पापो जायते वीर स तल्लिंगेक्षणात्क्षणात् ॥८२॥
दशाश्वमेधतीर्थं च ततोपि प्रवरं मतम् ॥
दशानामश्वमेधानां यत्र स्नात्वा फलं लभेत् ।८३॥
ततोपि शुभदं वीर बंदीतीर्थं प्रचक्षते ॥
यत्र स्नातो नरो मुच्येदपि संसारबंधनात् ॥८४॥
हिरण्याक्षेण दैत्येन बहुशो देवताः पुरा ॥
बंदीकृता निगडिता स्तुष्टुवुर्जगदंबिकाम् ॥८५॥
ततो विशृंखलीभूतैर्वंदिता यज्जगज्जनिः ॥
तदा प्रभृति बंदीति गीयतेद्यापि मानवैः ॥८६॥
बंदीतीर्थस्तु तत्रैव महानिगडखंडनम् ॥
तत्र स्नातो विमुच्येत सर्वस्मात्कर्मपाशतः ॥८७॥
बंदीतीर्थं महाश्रेष्ठं काशिपुर्यां विशांपते ॥
तत्र स्नातो नरो यायाद्विमुक्तिं देव्यनुग्रहात् ॥८८॥
ततोपि हि श्रेष्ठतरं प्रयागमिति विश्रुतम् ॥
प्रयागमाधवो यत्र सर्वयागफलप्रदः ॥८९॥
क्षोणीवराहतीर्थं च ततोपि शुभदं परम् ॥
तत्र स्नातो नरो जातु तिर्यग्योनिं न गच्छति ॥९०॥
ततः कालेश्वरं तीर्थं वीरश्रेष्ठतरं परम् ॥
कलिकालौ न बाधेते यत्र स्नातं नरोत्तमम् ॥९१॥
अशोकतीर्थं तत्रैव ततोप्यतितरां शुभम् ॥
यत्र स्नातो नरो जातु नापतेच्छोकसागरे ॥९२॥
ततोति निर्मलतरं शुक्रतीर्थं नृपांगज ॥
शुक्रद्वारा न जायेत यत्र स्नातो नरोत्तमः ॥९३॥
ततोऽपि पुण्यदं राजन्भवानीतीर्थमुत्तमम् ॥
यत्र स्नात्वा भवानीशौ दृष्ट्वा नैव पुनर्भवेत् ॥९४॥
प्रभासतीर्थं विख्यातं ततोपि शुभदं नृणाम् ॥
सोमेश्वरस्य पुरतस्तत्र स्नातो न गर्भभाक् ॥९५॥
ततो गरुडतीर्थं च संसारविषनाशनम् ॥
गरुडेशं समभ्यर्च्य तत्र स्नात्वा न शोचति ॥९६॥
ब्रह्मतीर्थं ततः पुण्यं वीरब्रह्मेश्वरात्पुरः ॥
ब्रह्मविद्यामवाप्नोति तत्र स्नानेन मानवः ॥९७॥
ततो वृद्धार्कतीर्थं च विधितीर्थं ततः परम् ॥
तत्राप्लुतो नरो याति रविलोकं सुनिर्मलम् ॥९८॥
ततो नृसिंहतीर्थं च महाभयनिवारणम् ॥
कालादपि कुतस्तत्र स्नात्वा परिबिभेति च ॥९९॥
ततोपि पुण्यदं नृणां तीर्थं चित्ररथेश्वरम् ॥
यत्र स्नात्वा च दत्त्वा च चित्रगुप्तं न पश्यति ॥१ ० ०॥
धर्मतीर्थं ततः पुण्यं धर्मेश पुरतः स्थितम् ॥
तत्र श्राद्धदिकं कृत्वा पितॄणामनृणो भवेत् ॥१॥
विशालतीर्थं विमलं विशालफलदं ततः ॥
तत्र स्नात्वा विशालाक्षी दृष्ट्वा गर्भेन जायते ॥२॥
जरासंधेश तीर्थं च जरासंधेशसन्निधौ ॥
संसारज्वरपीडाभिस्तत्र स्नातो न मुह्यति ॥३॥
ततोऽपि ललितातीर्थं महासौभाग्यवर्धनम् ॥
स्नात्वार्चयित्वा ललितां न दरिद्रो न दुःखभाक् ॥४॥
ततो गौतमतीर्थं च सर्वपापविशोधनम् ॥
स्नात्वा पिंडान्विनिर्वाप्य यत्र शोचति न क्वचित् ॥५॥
गंगाकेशवतीर्थं च तीर्थं चागस्त्य संज्ञकम् ॥
ततस्तु योगिनीतीर्थं त्रिसंध्याख्यं ततः परम् ॥६॥
ततस्तु नार्मदं तीर्थं तत आरुंधतेयकम् ॥
वासिष्ठं च ततस्तीर्थं मार्कंण्डेयमनुत्तमम् ॥७॥
ज्ञेयान्येतानि तीर्थानि पुण्यदान्युत्तरोत्तरम ॥
खुरकर्तरि संज्ञं च ततस्तीर्थमनुत्तमम् ॥८॥
तत्र श्राद्धादिकरणान्नरोमुच्येत किल्बिषैः ॥
ततो भगीरथं तीर्थं राजर्षेरतिपुण्यदम् ॥९॥
तत्राल्पमपि यच्छेद्यत्कल्पांतेप्यक्षयं हि तत् ॥
एतेभ्योपि हि तीर्थेभ्यो लिंगकोटित्रयादपि ॥११०॥
वीरवीरेश्वरं लिंगं महाश्रेष्ठं भविष्यति ॥
वीरतीर्थे नरः स्नात्वा वीरेशं परिपूज्य च ॥११॥
तीर्थेष्वेतेषु सर्वेषु स्नातो भवति नान्यथा ॥
यस्तु वीरेश्वरं लिंगं नक्तमभ्यर्चयिप्यति ॥
तेन त्रिकोटिसंख्यानि लिंगानीहार्चितानि वै ॥१२॥
यस्तु कामयते लक्ष्मीं मुक्तिदां भुक्तिदामपि ॥
तेन वीरेश्वरं लिंगं संसेव्यमतियत्नतः ॥१३॥
विधायैकं जागरणं नरो वीरेशमर्चयन् ॥
भूतायां नैव गृह्णाति शरीरं पांचभौतिकम् ॥१४॥
इदं लिंगं सदाभ्यर्च्यं सिद्धैः संसिद्धिकामुकैः ॥
ऐहिकामुष्मिकान्यस्मात्सर्वान्कामान्समर्थयेत् ॥१५॥
पंचामृतेन स्नपनं यः करिष्यति मानवः ॥
पलेपले फलं तस्य वीरेशे घटकोटिजम् ॥१६॥
यदन्यत्र फलं लिंगे कोटिपुष्प प्रदानतः ॥
तदेकेनैव पुष्पेण वीरेशे नात्र संशयः ॥१७॥
एकामप्याहुतिं दत्त्वा वीरेश्वरसमीपतः ॥
कोटिहोमफलं सम्यङ्नात्र कार्या विचारणा ॥१८॥
सिक्थेसिक्थे च नैवैद्यै कोटिसिक्थफलं भवेत् ॥
अत्यल्पमपि वीरेशे कृतमक्षयतां व्रजेत् ॥१९॥
अप्येकं यो महारुद्रं जपेद्वीरेश सन्निधौ ॥
जापयेद्वा भवेत्तस्य कोटिरुद्रफलं ध्रुवम् ॥१२०॥
व्रतोत्सर्गादि वीरेशे यत्कृतं व्रतिभिर्नृभिः ॥
तत्कोटिगुणसंख्याकं भवत्येव न संशयः ॥२१॥
कृता अष्टौ नमस्कारा येन वीरेश्वराग्रतः ॥
अष्टकोटि नमस्कारफलं तस्य न संशयः ॥२२॥
सर्वासां संपदां स्थानमिदं लिंगं भविष्यति ॥
वीरश्वेरं न संदेहो वीर मे वरदानतः ॥२३॥
ज्ञानमुत्पत्स्यते पुंसां तारकाख्यं ममाज्ञया ॥
जीवतामेव तत्सेव्यमेतल्लिंगं शुभार्थिभिः ॥२४॥
एतच्छ्रुत्वा पुनः प्राह वीरो मित्रजितः सुतः ॥
प्रणम्य देवदेवेशं परिपूर्णमनोरथः ॥२५॥
तीर्थान्येतानि देवेश यान्युक्तानि ममाग्रतः ॥
कृपया पुनरप्येव तदन्यानि वद प्रभो ॥२६॥
आदिकेशवमारभ्य तत्तीर्थाच्च भगीरथात् ॥
येषां श्रवणमात्रेण निष्पापो जायते नरः ॥२७॥
इति श्रुत्वा महेशानो महीप तनयोदितम् ॥
पुनस्तीर्थानि गंगायां वक्तुं समुपचक्रमे ॥१२८॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे उत्तरार्धे वीरेश्वराविर्भावोनाम त्र्यशीतितमोऽध्यायः ॥८३॥

N/A

References : N/A
Last Updated : November 27, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP