संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|काशीखण्ड|
अध्याय १९

काशीखण्डः - अध्याय १९

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


शिवशर्मोवाच ॥
तिष्ठन्नेकेन पादेन कोयं भ्रमति सत्तमौ ॥
अनेकरशनाव्यग्र हस्ताग्रो व्यग्रलोचनः ॥१॥
त्रिलोकीमंडपस्तंभ सन्निभोभाभिरावृतः ॥
अतुलं ज्योतिषां राशिं तुलया तुलयन्निव ॥२॥
सूत्रधार इव व्योम व्यायामपरिमापकः ॥
त्रैविक्रमोंघ्रिदंडो वा प्रोद्दंडो गगनांगणे ॥३॥
अथवांबरकासारसारयूपस्वरूपधृक् ॥
कोयं कथय तं देवौ कृपया परया मम ॥४॥
निशम्येति वचस्तस्य वयस्यस्य विमानगौ॥
प्रणयादाहतुस्तस्मै ध्रुवां ध्रुवकथां गणौ ॥५॥
॥ गणावूचतुः ॥
मनोः स्वायंभुवस्यासीदुत्तानचरणः सुतः ॥
तस्य क्षितिपतेर्विप्र द्वौ सुतौ संबभूवतुः ॥६॥
सुरुच्यामुत्तमो ज्येष्ठः सुनीत्यां तु ध्रुवो परः ॥
मध्ये सभं नरपतेरुपविष्टस्य चैकदा ॥७॥
सुनीत्या राजसेवायै नियुक्तोऽलंकृतोर्भकः ॥
ध्रुवो धात्रेयिकापुत्रैः समं विनयतत्परः ॥८॥
स गत्वोत्तानचरणं क्षोणीशं प्रणनाम ह ॥
दृष्ट्वोत्तमं तदुत्संगे निविष्टं जनकस्य वै ॥९॥
प्रोच्चसिंहासनस्थस्य नृपतेर्बाल्यचापलात् ॥
आरोढुकामस्त्वभवत्सौनीतेयस्तदा ध्रुवः ॥१०॥
आरुरुक्षुमवेक्ष्यामुं सुरुचिर्धुवमब्रवीत् ॥
दौर्भगेय किमारोढुमिच्छेरंकं महीपतेः ॥११॥
बालबालिशबुद्धित्वादभाग्या जठरोद्भव ॥
अस्मिन्सिंहासने स्थातुं न त्वया सुकृतं कृतम् ॥१२॥
यदि स्यात्सुकृतं तत्किं दुर्भगोदरगोऽभवः ॥
अनेनैवानुमानेन बुध्यस्व स्वाल्पपुण्यताम् ॥१३॥
भूत्वा राजकुमारोपि नालंकुर्या ममोदरम् ॥
सुकुक्षिजममुं पश्य त्वमुत्तममनुत्तमम् ॥१४॥
अधिजानुधराजानेर्मानेन परिबृंहितम् ॥
प्रांशोः सिंहासनस्यास्य रुचिश्चेदधिरोहणे ॥१५॥
कुक्षिं हित्वा किमवसः सुरुचेश्च सुरोचिषम् ॥
मध्ये भूपसभं बालस्तयेति परिभर्त्सितः ॥१६॥
पतन्निपीतबाष्पांबुर्धैर्यात्किंचिन्न चोक्तवान् ॥
उचिताऽनुचितं किंचिन्नोचिवान्सोपि पार्थिवः ॥१७॥
नियंत्रितो महिष्याश्च तस्याः सौभाग्यगौरवात् ॥
विमृज्य च सभालोकं शोकं संमृज्य चेष्टितैः ॥१८॥
शैशवैः स शिशुर्नत्वा नृपं स्वसदनं ययौ ॥
सुनीतिर्नीतिनिलयमवलोक्याथ बालकम् ॥१९॥
सुखलक्ष्म्यैवचाज्ञासीद्ध्रुवं समवमानितम् ॥
अभिसृत्य च तं बालं मूर्ध्न्युपाघ्राय सा सकृत् ॥२०॥
किंचित्परिम्लानमिव ससांत्वं परिषस्वजे ॥
अथ दृष्ट्वा सुनीतिं स रहोंतः पुरवासिनीम् ॥२१॥
दीर्घं निःश्वस्य बहुशो मातुरग्रे रुरोद ह ॥
सांत्वयित्वाश्रुनयना वदनं परिमार्ज्य च ॥२२॥
दुकूलांचल संपर्कैर्मृदुलैर्मृदुपाणिना ॥
पप्रच्छ तनयं माता वद रोदनकारणम् ॥
विद्यमाने नरपतौ शिशो केनापमानितः ॥२३॥
अपोथसमुपस्पृश्य तांबूलं परिगृह्य च ॥
मात्रा पृष्टः सोपरोधं ध्रुवस्तां पर्यभाषत ॥२४॥
संपृच्छे जननि त्वाहं सम्यक्शंस ममाग्रतः ॥
भार्यात्वेपि च सामान्ये कथं सा सुरुचिः प्रिया ॥२५॥
कथं न भवती मातः प्रिया क्षितिपतेरसि ॥
कथमुत्तमतां प्राप्त उत्तमः सुरुचेः सुतः ॥२६॥
कुमारत्वेपि सामान्ये कथं त्वहमनुत्तमः ॥
कथं त्वं मंदभाग्यासि सुकुक्षिः सुरुचिः कथम् ॥२७॥
कथं नृपासनं योग्यमुत्तमस्य कथं न मे ॥
कथं मे सुकृतं तुच्छमुत्तमस्योत्तमं कथम् ॥२८॥
इति श्रुत्वा वचस्तस्य सुनीतिर्नीतिमच्छिशोः ॥
किंचिदुच्छ्वस्य शनकैः शिशुकोपोपशांतये ॥२९॥
स्वभावमधुरां वाणीं वक्तुं समुपचक्रमे ॥
सापत्नं प्रतिघं त्यक्त्वा राजनीतिविदांवरा ॥३०॥
॥ सुनीतिरुवाच ॥
अयि तात महाबुद्धे विशुद्धेनांतरात्मना ॥
निवेदयामि ते सर्वं माऽपमाने मतिं कृथाः ॥३१॥
तया यदुक्तं तत्सर्वं तथ्यमेव न चान्यथा ॥
सापत्युर्महिषीराज्ञो राज्ञीनामति वल्लभा ॥३२॥
तया जन्मांतरे तात यत्पुण्यं समुपार्जितम् ॥
तत्पुण्योपचयाद्राजा सुरुच्यां सुरुचिर्भृशम् ॥३३॥
मादृश्यो मंदभाग्यायाः प्रमदासु प्रतिष्ठिताः ॥
केवलं राजपत्नीत्ववादस्तासु न तद्रुचिः ॥३४॥
महा सुकृतसंभारैरुत्तमश्चोत्तमोदरे ॥
उवास तस्याः पुण्या या नृपसिंहासनोचितः ॥३५॥
आतपत्रं च चंद्राभं शुभे चापि च चामरे ॥
भद्रासनं तथोच्चं च सिंधुराश्च मदोद्धुराः ॥३६॥
तुरंगमाश्च तुरगास्त्वनाधिव्याधिजीवितम् ॥
निःसपत्नं शुभं राज्यं प्राज्यं हरिहरार्चनम् ॥३७॥
विपुलं च कलाज्ञानमधीतमपराजितम् ॥
तथा जयोरिषड्वर्गे स्वभावात्सात्त्विकी मतिः ॥३८॥
दृष्टिः कारुण्यसंपूर्णा वाणी मधुरभाषिणी ॥
अनालस्यं च कार्येषु तथा गुरुजने नतिः ॥३९॥
सर्वत्र शुचिता तात सा परोपकृतिः सदा ॥
और्जस्वला मनोवृत्तिः सदैवादीनवादिता ॥४०॥
सदोजिरे च पांडित्यं प्रागल्भ्यं चरणांगणे ॥
आर्जवं बंधुवर्गेषु काठिन्यं क्रयविक्रये ॥४१॥
मार्दवं स्त्रीप्रयोगेषु वत्सलत्वं प्रजासु च ॥
ब्राह्मणेभ्यो भयं नित्यं वृद्धवृत्त्युपजीवनम् ॥४२॥
वासो भागीरथीतीरे तीर्थे वा मरणं रणे ॥
अपराङ्मुखताऽर्थिभ्यः प्रत्यर्थिभ्यो विशेषतः ॥४३॥
भोगः परिजनैः सार्धं दानावंध्यदिनागमः ॥
विद्याव्यसनिता नित्यं नित्यं पित्रोरुपस्थितिः ॥४४॥
यशसः संचयो नित्यं नित्यं धर्मस्य संचयः ॥
स्वर्गापवर्गयोः सिद्धिः सदा शीलस्य मंडनम् ॥४५॥
सद्भिश्च संगतिर्नित्यं मैत्री च पितृमित्रकैः ॥
इतिहासपुराणानामुत्कंठा श्रवणे सदा ॥४६॥
विपद्यपि परं धैर्यं स्थैर्यं संपत्समागमे ॥
गांभीर्यं वाग्विलासेषु औदार्यं पात्रपाणिषु ॥४७॥
देहे परैका कृशता तपोभिर्नियमैर्यमैः ॥
एतैर्मनोरथफलैः फलत्येव तपोद्रुमाः ॥४८॥
तस्मादल्पतपस्त्वाद्वै त्वं चाहं च महामते ॥
प्राप्यापि राजसांनिध्यं राजलक्ष्म्या न भाजनम् ॥४९॥
मानापमानयोस्तस्मात्स्वकृतं कारणं परम् ॥
स्रष्टापि नापमार्ष्टुं तत्परीष्टे स्वकृतां कृतिम् ॥
मा शोचस्त्वमतः पुत्र दिष्टमिष्टं समर्पयेत् ॥५०॥
इत्याकर्ण्य सुनीत्यास्तन्महावाक्यं सुनीतिमत् ॥
सौनीते यो ध्रुवोवाचमाददे वक्तुमुत्तरम् ॥५१॥
ध्रुव उवाच ॥
जनयित्रि सुनीते मे शृणु वाक्यमनाकुलम् ॥
मा बाल इति मत्वा मामवमंस्थास्तपस्विनि ॥५२॥
यद्यहं मानवे वंशे जातोस्म्यत्यंत पावने ॥
उत्तानपादतनयस्त्वदीयोदर संभवः ॥५३॥
तप एव हि चेन्मातः कारणं सर्वसंपदाम् ॥
तत्तदासादितं विद्विपदमन्यैर्दुरासदम् ॥५४॥
एकमेव हि साहाय्यं कुरु मातरतंद्रिता ॥
अनुज्ञा दानमात्रं च आशीर्भिरभिनंदय ॥५५॥
सापि ज्ञात्वा महावीर्यं कुमारं कुक्षिसंभवम् ॥
महत्योत्साहसं पत्त्या राजमानमुवाच तम् ॥५६॥
अनुज्ञातुं न शक्ताऽहं त्वामुत्तानशयांगज ॥
साष्टैकवर्षदेशीयन्तथापि कथयाम्यहम् ॥५७॥
सपत्नीवाक्यभल्लीभिर्भिन्ने महति मे हृदि ॥
तव बाष्पौघवारीणि न तिष्ठंति करोमि किम् ॥५८॥
तानि मन्येऽत्र मार्गेण स्रवंत्यविरतं शिशो ॥
स्रवंतीश्च चिकीर्षंति प्रतिकूल जलाः किल ॥५९॥
त्वदेकतनया तात त्वदाधारैकजीविता ॥
त्वमंगयष्टिरसि मे त्वन्मुखासक्तलोचना ॥६०॥
लब्धोसि कतिभिः कष्टैरिष्टाः संप्रार्थ्य देवताः ॥
त्वन्मुखेंदूदये तात मन्मनः क्षीरनीरधिः ॥६१॥
आनन्दपयसापूर्य कुचावुद्वेलितो भवेत् ॥
त्वदंगसंगसंभूत सुखसन्दोह शीतला ॥६२॥
सुखंशये सुशयने प्रावृत्य पुलकांबरम् ॥
अपोऽथ समुपस्पृश्य तांबूलं परिगृह्य च ॥६३॥
त्वदास्यस्यौष्ठपुटक दुग्धवार्धि विवर्धिताम् ॥
सुधासुधांशुवदनधयत्यपि धिनोमि न ॥६४॥
त्वदीयः शीतलालापः प्राप श्रुतिपथं यदा ॥
सपत्नीवाक्यदवथुस्तदैवत्यात्स वेपथुः ॥६५॥
यदंग निद्रासिचिरं ध्यायंत्यस्मि तदेत्यहम् ॥
कदा निद्रा दरिद्रोसौ भवितार्कोदयेऽब्जवत् ॥६६॥
यदोपेया गृहान्वत्स खेलित्वा बालखेलनैः ॥
तदानर्घ्यार्घ्यमुत्स्रष्टुं स्तनौस्यातामिवोन्मुखौ ॥६७॥
यदा सौधाद्विनिर्यायाः पद्मरेखांकितं पदम् ॥
प्राणानां ते यियासूनां तदा तदवलंबनम् ॥६८॥
यदायदा बहिर्यासि पुत्र त्रिचतुरं पदम् ॥
तदातदा मम प्राणः कंठप्राघुणिकी भवेत् ॥६९॥
चित्रं पुत्र त्वरयति यातुं मे मानसांडजः ॥
सुधाधाराधर इव बहिश्चिरयति त्वयि ॥७०॥
अथ तिष्ठंतु कठिनाः प्राणाः कंठाटवीतटे ॥
तपस्यंतोतिसंतप्तास्तपसे त्वयि यास्यति ॥७१॥
इत्यनुज्ञामनुप्राप्य जननी चरणांबुजौ ॥
क्षणं मौलिजजंबाल जडौ कृत्वा ध्रुवो ययौ ॥७२॥
तयापि धैर्यसूत्रेण सुनीत्या परिगुंफ्य च ॥
नेत्रेंदीवरजामाला ध्रुवस्योपायनीकृता ॥७३॥
मात्रातन्मार्गरक्षार्थं तदा तदनुगीकृताः ॥
परैरवार्यप्रसराः स्वाशीर्वादाः परःशताः ॥७४॥
स्वसौधात्स विनिर्गत्य बालोऽबालपराक्रमः ॥
अनुकूलेन मरुता दर्शिताध्वाऽविशद्वनम् ॥७५॥
समरुत्तरुशाखाग्र प्रसारणमिषेण सः ॥
कृताहूतिरिव प्रेम्णा वनेन वनमाविशत् ॥७६॥
समातृदैवतोभिज्ञः केवलं राजवर्त्मनि ॥
न वेद काननाध्वानं क्षणं दध्यौ नृपात्मजः ॥७७॥
यावदुन्मील्य नयने पुरः पश्यति स ध्रुवः ॥
तावद्ददर्श सप्तर्षीनतर्कित गतीन्वने ॥७८॥
वालिशेष्वसहायेषु भवेद्भाग्यं सहायकृत् ॥
अरण्यान्यां रणे गेहे ततो भाग्यं हि कारणम् ॥७९॥
क्व राजतनयो बालो गहनं क्व च तद्वनम् ॥
बलात्स्वसात्प्रत्कुर्वत्यै नमस्ते भवितव्य ते ॥८०॥
यत्र यस्य हि यद्भाव्यं शुभं वाऽशुभमेव च ॥
आकृष्यभाविनी रज्जुस्तत्र तस्य हि दापयेत ॥८१॥
अन्यथा विदधात्येष मानवो बुद्धिवैभवात् ॥
भगवत्या भवित्र्याऽसौ विदध्याद्विधिरन्यथा ॥८२॥
नवयो न च वै चित्र्यं न चित्रं विदधेहितम् ॥
न बलं नोद्यमः पुंसां कारणं प्राक्कृतं कृतम् ॥८३॥
अथ दृष्ट्वा स सप्तर्षीन्सप्तसप्त्यतितेजसः ॥
भाग्यसूत्रैरिवाकृष्योपनीतान्प्रमुमोद ह ॥८४॥
तिलकांकित सद्भालान्कुशोपग्रहितांगुलीन् ॥
कृष्णाजिनोपविष्टांश्च यज्ञसूत्रैरलंकृतान् ॥८५॥
साक्षसूत्रकरान्किंचिद्विनिमीलितलो चनान् ॥
सुधौतसूक्ष्मकाषायवासः प्रावरणान्वितान ॥८६॥
अकांडेपि महाभागान्मिलितान्सप्तनीरधीन् ॥
चित्रं विपद्विनिर्मग्नानुद्दिधीर्षूनिव प्रजाः ॥८७॥
उपगम्य विनम्रः स प्रबद्धकरसंपुटः ॥
ध्रुवो विज्ञापयांचक्रे प्रणम्य ललितं वचः ॥८८॥
॥ ध्रुव उवाच ॥
अवैत मां मुनिवराः सुनीत्युदरसंभवम्॥
उत्तानपादतनयं ध्रुवं निर्विण्णमानसम् ॥८९॥
इदं वनमनुप्राप्तं सनाथं युष्मदंघ्रिभिः ॥
प्रायोनभिज्ञं सर्वत्र महर्द्ध्युषितमानसम् ॥९०॥
ते दृष्ट्वोर्जस्वलं बालं स्वभाव मधुराकृतिम् ॥
अनर्घ्यनयनेपथ्यं मृदुगंभीरभाषिणम् ॥९१॥
उपोपवेश्य शिशुकं प्रोचुर्वै विस्मिता भृशम् ॥
अहोबालविशालाक्ष महाराज कुमारक ॥९२॥
विचार्यापि न जानीमो वद निर्वेदकारणम् ॥
अद्य ते ह्यर्थचिंता नो क्वापमानः प्रसूर्गृहे ॥९३॥
नीरुक्छरीरसंपत्तिर्निवेदे किं नु कारणम् ॥
अनवाप्ताभिलाषाणां वैराग्यं जायते नृणाम् ॥९४॥
सप्तद्वीपपतेराज्ञः कुमारस्त्वं तथा कथम् ॥
स्वभावभिन्नप्रकृतौ लोकेस्मिन्न मनोगतम् ॥९५॥
अवगंतुं हि शक्येत यूनो वृद्धस्य वा शिशोः ॥
इति श्रुत्वा वचस्तेषां सहजप्रेमनिर्भरम् ॥९६॥
वाचं जग्राह स तदा शिशुः प्रांशुमनोरथः
॥ध्रुव उवाच ॥
प्रेषितो राजसेवार्थं जनन्याऽहं मुनीश्वराः ॥९७॥
राजांकमारुरुक्षुर्हि सुरुच्या परिभर्त्सितः ॥
उत्तमं चोत्तमीकृत्य मां च मन्मातरं तथा ॥९८॥
धिक्कृत्य प्रशशंस स्वं निर्वेदे कारणं त्विदम् ॥
निशम्येति शिशोर्वाक्यं परस्परमवेक्ष्य ते ॥९९॥
क्षात्रमेव शशंसुस्तदहो बालेपि न क्षमा॥१००॥
ऋषय ऊचुः ॥
किमस्माभिरहो कार्यं कस्तवास्ति मनोरथः ॥
ज्ञातो भवतु तावत्स नः श्रवो गोचरी कुरु ॥१॥
॥ ध्रुव उवाच ॥
मुनयो मम यो बंधुरुत्तमश्चोत्तमोत्तमः ॥
पित्रा दत्तं च सोऽध्यास्तां तद्भद्रासनमुत्तमम् ॥२॥
भवत्कृतं हि साहाय्यमेतदिच्छामि सुव्रताः ॥
प्रायो जाने न बालत्वादुपदेशस्तदुच्यताम् ॥३॥
अनन्यनृपभुक्तं यद्यदन्येभ्यः समुच्छ्रितम् ॥
इंद्रादिदुरवापं यत्कथं लभ्यं दुरासदम् ॥४॥
पित्रोत्सृष्टं न कांक्षामि कांक्षामि स्वभुजाजितम् ॥
मनोरथपथातीतं भवेद्यत्पितुरप्यहो ॥५॥
पितृसंपत्तिभोक्तारः प्रायशो न यशोधनाः ॥
नरोत्तमास्तु ते ज्ञेया ये पित्राधिक्यदर्शिनः ॥६॥
उपार्जितं हि पित्रा ये नाशयंति यशःश्रुतम् ॥
धनं निधनमेवास्तु तेषां दुर्वृत्तचेतसाम् ॥७॥
इति श्रुत्वा वचस्तस्य मुनयः सुनयोर्जितम् ॥
यथार्थमेव प्रत्यूचुर्मरीच्याद्यास्तथा ध्रुवम् ॥८॥
मरीचिरुवाच ॥
अनर्चिताच्युतपदः पदमापद्यते कथम् ॥
यथातथात्वमात्थांग नातथ्यं कथयाम्यहम् ॥९॥
अत्रिरुवाच ॥
अनास्वादितगोविंदपदांबुजरजोरसः ॥
मनोरथपथातीतं स्फीतं नाकलयेत्पदम् ॥११०॥
अंगिरा उवाच ॥
अदवीयः पदं तस्य सर्वासां संपदामिह ॥
कमलाकांतकांतांघ्रि कमले यः सुशीलयेत् ॥११॥
॥ पुलस्त्य उवाच ॥
यस्य स्मरणमात्रेण महापातकसंततिः ॥
परमांतमवाप्नोति स विष्णुः सर्वदो ध्रुव ॥१२॥
॥ पुलह उवाच ॥
यदाहुः परमं ब्रह्म प्रधान पुरुषात्परम् ॥
यन्मायया ततं सर्वं सर्वं दास्यति सोच्युतः ॥१३॥
॥ क्रतुरुवाच ॥
यो यज्ञपुरुषो विष्णुर्वेदवेद्यो जनार्दनः ॥
अंतरात्माऽस्य जगतः तुष्टः किं न यच्छति ॥१४॥
॥ वसिष्ठ उवाच ॥
यद्भ्रूनर्तनवर्तिन्यः सिद्धयोऽष्टौ नृपात्मज ॥
तमाराध्य हृषीकेशमपवर्गोप्यदूरतः ॥१५॥
ध्रुव उवाच ॥
सत्यमुक्तं मुनीशाना विष्णोराराधनं प्रति ॥
कथं वा भगवानीज्यः सविधिश्चोपदिश्यताम् ॥१६॥
॥ मुनय ऊचुः ॥
तिष्ठता गच्छता वापि स्वपता जाग्रता तथा ॥
शयानेनोपविष्टेन जप्यो नारायणः सदा ॥१७॥
द्वादशाक्षरमंत्रेण वासुदेवात्मकेन च॥
ध्यायंश्चतुर्भुजं विष्णुं जप्त्वा सिद्धिं न को गतः ॥१८॥
अतसीपुष्पसंकाशं पीतवाससमच्युतम् ॥
क्षणं सर्वात्मकं पश्यन्को न सिध्यति भूतले ॥१९॥
पुत्रान्कलत्रमित्राणि राज्यं स्वर्गापवर्गकम् ॥
वासुदेवं जपन्मर्त्यः सर्वं प्राप्नोत्यसंशयम् ॥१२०॥
वासुदेव जपासक्तानपिपापकृतो जनान् ॥
नोपस्पृशंति वै विघ्ना यमदूताश्च दारुणाः ॥२१॥
पितामहेन तेप्येष महामंत्र उपासितः ॥
मनुना राज्यकामेन वैष्णवेन महर्द्धिना ॥२२॥
त्वमप्येतेन मंत्रेण वासुदेवपरो भव ॥
यथाभिलषितामृद्धिं क्षिप्रमाप्नुहि सत्तम ॥२३॥
इत्युक्त्वांऽतर्हिताः सर्वे महात्मानो मुनीश्वराः ॥
वासुदेवमना भूत्वा ध्रुवोपि तपसे गतः ॥१२४॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्यां संहितायां चतुर्थे काशीखंडे पूवार्द्धे ध्रुवलोकवर्णने धुवोपदेशोनामैकोनविंशतितमोऽध्यायः ॥१९॥

N/A

References : N/A
Last Updated : November 24, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP