संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|काशीखण्ड| अध्याय १८ काशीखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० विषयानुक्रमणिका काशीखण्डः - अध्याय १८ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १८ Translation - भाषांतर अगस्तिरुवाच ॥इति शृण्वन्कथां रम्यां शिवशर्माऽथ माथुरः ॥मुक्तिपुर्यां सुसंस्नातो मायापुर्यां गतासुकः ॥१॥नेत्रयोः प्राघुणी चक्रे ततः सप्तर्षिमंडलम् ॥व्रजन्स वैष्णवं लोकमंते विष्णुपुरीक्षणात् ॥२॥उवाच च प्रसन्नात्मा स्तुतश्चारणमागधैः ॥प्रार्थितो देवकन्याभिस्तिष्ठ तिष्ठेति चक्षणम् ॥३॥स्थिता सुतासु निःश्वसस्य मंदभाग्या वयं त्विति ॥गतः पुण्यतमाँल्लोकानसौ यत्पुण्यवत्तमः ॥४॥इति शृणवन्मुखात्तासां वचनानि विमानगः ॥देवौ कस्यायमतुलो लोकस्तेजोमयः शुभः ॥५॥इति द्विजवचः श्रुत्वा प्रोचतुर्गणसत्तमौ ॥शिवशर्मञ्छिवमते सदा सप्तर्षयोमलाः ॥६॥वसंतीह प्रजाः स्रष्टुं विनियुक्ताः प्रजासृजा ॥मरीचिरत्रिः पुलहः पुलस्त्यः क्रतुरङ्गिराः ॥७॥वसिष्ठश्च महाभागो ब्रह्मणो मानसाः सुताः ॥सप्त ब्रह्माण इत्येते पुराणे निश्चयं गताः ॥८॥संभूतिरनसूया च क्षमा प्रीतिश्च सन्नतिः ॥स्मृतिरूर्जा क्रमादेषां पत्न्यो लोकस्य मातरः ॥९॥एतेषां तपसा चैतद्धार्यते भुवनत्रयम् ॥उत्पाद्य ब्रह्मणा पूर्वमेते प्रोक्ता महर्षयः ॥१०॥प्रजाः सृजत रे पुत्रा नानारूपाः प्रयत्नतः॥ततः प्रणम्य ब्रह्माणं तपसे कृतनिश्चयाः ॥११॥अविमुक्तं समासाद्य क्षेत्रंक्षेत्रज्ञधिष्ठितम् ॥मुक्तये सर्वजंतूनामविमुक्तं शिवेन यत् ॥१२॥प्रतिष्ठाप्य च लिंगानि ते स्वनाम्नांकितानि च ॥शिवेति परया भक्त्या तेपुरुग्रं तपो भृशम॥१३॥तुष्टस्तत्तपसा शंभुः प्राजापत्यपदं ददौ ॥लिंगान्यत्रीश्वरादीनि दृष्ट्वा काश्यां प्रयत्नतः ॥४॥प्राजापत्येऽत्र ते लोके वसंत्युज्ज्वलतेजसः ॥गोकर्णेशस्य सरसः प्रत्यक्तीरे प्रतिष्ठितम् ॥१५॥लिंगमत्रीश्वरं दृष्ट्वा ब्रह्मतेजोभिवर्धते ॥कर्कोट वाप्या ईशाने मरीचेः कुंडमुत्तमम् ॥१६॥तत्र स्नात्वा नरो भक्त्त्या भ्राजते भास्करो यथा ॥मरीचीश्वर संज्ञं तु तत्र लिंगं प्रतिष्ठितम् ॥१७॥तल्लिंगदर्शनाद्विप्र मारीचं लोकमाप्नुयात् ॥कांत्या मरीचिमालीव शोभते पुरुषर्षभः ॥१८॥पुलहेश पुलस्त्येशौ स्वर्गद्वारस्य पश्चिमे ॥तौ दृष्ट्वा मनुजो लोके प्राजापत्ये महीयते ॥१९॥हरिकेशवने रम्ये दृष्ट्वैवांगिरसेश्वरम् ॥इह लोके वसेद्विप्र तेजसापरिबृंहितः ॥२०॥वरणायास्तटे रम्ये दृष्ट्वा वासिष्ठमीश्वम् ॥क्रत्वीश्वरं च तत्रैव लभते वसतिं त्विह ॥२१॥काश्यामेतानि लिंगानि सेवितानि शुभैषिभिः॥मनोभिवांछितं दद्युरिह लोके परत्र च ॥२२॥गणावूचतुः ॥शिवशर्मन्महाभाग तिष्ठते सात्र सुंदरी ॥अरुंधती महापुण्या पतिव्रतपरायणा ॥२३॥यस्याः स्मरणमात्रेण गंगास्नान फलं लभेत् ॥अंतःपुरचरैर्द्वित्रैः पवित्रैः सहितो विभुः ॥२४॥सदा नारायणो देवो यस्याश्चक्रे कथां मुदा ॥कमलायाः पुरोभागे पातिव्रत्य सुतोषितः ॥२५॥पतिव्रतास्वरुंधत्याः कमले विमलाशयः ॥यथास्ति न तथाऽन्यस्याः कस्याश्चित्कापि भामिनि ॥२६॥न तद्रूपं न तच्छीलं न तत्कौलीन्यमेव च ॥न तत्कलासुकौशल्यं पत्युः शुश्रूषणं न तत् ॥२७॥न माधुर्यं न गांभीर्यं न चार्यपरितोषणम् ॥अरुंधत्या यथा देवि तथाऽन्यासां क्वचित्प्रिये ॥२८॥धन्यास्ता योषितो लोके सभाग्याः शुद्धबुद्धयः ॥अरुंधत्याः प्रसंगे या नामापि परिगृह्णते ॥२९॥यदा पतिव्रतानां तु कथास्मद्भवने भवेत् ॥तदा प्राथमिकीं रेखामेषाऽलंकुरुते सती ॥३० !।ब्रुवतोरिति संकथां तथा गणयोर्वैष्णवयोर्मुदावहाम् ॥ध्रुवलोकउपागतस्ततो नयनातिथ्यमतथ्यवर्जितः ॥३१॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे सप्तर्षिलोकवर्णनंनामाष्टादशोऽध्यायः ॥१८॥ N/A References : N/A Last Updated : November 24, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP