काशीखण्डः - अध्याय ५९
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
अगस्त्य उवाच ॥
सर्वज्ञ हृदयानंद गौरीचुंबितमूर्धज ॥
तारकांतक षड्वक्त्र तारिणे भद्रकारिणे ॥१॥
सर्वज्ञाननिधे तुभ्यं नमः सर्वज्ञसूनवे ॥
सर्वथा जितमाराय कुमाराय महात्मने ॥२॥
कामारिमर्धनारीशं वीक्ष्य कामकृतं किल ॥
यो जिगाय कुमारोपि मारं तस्मै नमोस्तु ते ॥३॥
यदुक्तं भवता स्कंद मायाद्विजवपुर्हरिः ॥
काश्यां पंचनदं तीर्थमध्यासातीव पावनम्॥ ४॥
भूर्भुवःस्वः प्रदेशेषु काशीपरमपावनम्॥
तत्रापि हरिणाज्ञायि तीर्थं पंचनदं परम् ॥५॥
कुतः पंचनदं नाम तस्य तीर्थस्य षण्मुख ॥
कुतश्च सर्वतीर्थेभ्यस्तदासीत्पावनं परम् ॥६॥
कथं च भगवान्विष्णुरंतरात्मा जगत्पतिः ॥
सर्वेषां जगतां पाता कर्ता हर्ता च लीलया ॥७॥
अरूपो रूपमापन्नो ह्यव्यक्तो व्यक्ततां गतः ॥
निराकारोपि साकारो निष्प्रपंचः प्रपंचभाक् ॥८॥
अजन्मानेकजन्मा च त्वनामास्फुटनामभृत्॥
निरालंबोऽखिलालंबो निर्गुणोपि गुणास्पदम् ॥९॥
अहृषीकोहृषीकेशो प्यनंघ्रिरपिसर्वगः ॥
उपसंहृत्य रूपं स्वं सर्वव्यापी जनार्दनः ॥१०॥
स्थितः सर्वात्मभावेन तीर्थे पंचनदे परे ॥
एतदाख्याहि षड्वक्त्र पंचवक्त्राद्यथा श्रुतम् ॥१ ३॥
स्कंद उवाच ॥
कथयामि कथामेतां नमस्कृत्य महेश्वरम् ॥
सर्वाघौघ प्रशमनीं सर्वश्रेयोविधायिनीम् ॥३२॥
यथा पंचनदं तीर्थं काश्यां प्रथितिमागतम् ॥
यन्नामग्रहणादेव पापं याति सहस्रधा ॥१३॥
प्रयागोपि च तीर्थेशो यत्र साक्षात्स्वयं स्थितः ॥
पापिनां पापसंघातं प्रसह्य निजतेजसा ॥१४॥
हरंति सर्वतीर्थानि प्रयागस्य बलेन हि ॥
तानि सर्वाणि तीर्थानि माघे मकरगे रवौ ॥१५॥
प्रत्यब्दं निर्मलानि स्युस्तीर्थराज समागमात् ॥
प्रयागश्चापि तीर्थेंद्रः सर्वतीर्थार्पितं मलम् ॥१६॥
महाघिनां महाघं च हरेत्पांचनदाद्बलात् ॥
यं संचयति पापौघमावर्षं तीर्थनायकः ॥
तमेकमज्जनादूर्जे त्यजेत्पंचनदे ध्रुवम् ॥१७॥
यथा पंचनदोत्पत्तिस्तथा च कथयाम्यहम् ॥
निशामय महाभाग मित्रावरुणनंदन ॥१८॥
पुरा वेदशिरा नाम मुनिरासीन्महातपाः ॥
भृगुवंश समुत्पन्नो मूर्तो वेद इवापरः ॥१९॥
तपस्यतस्तस्य मुनेः पुरोदृग्गोचरं गता ॥
शुचिरप्सरसां श्रेष्ठा रूपलावण्यशालिनी ॥२०॥
तस्या दर्शनमात्रेण परिक्षुब्धं मुनेर्मनः ॥
चस्कंद स मुनिस्तूर्णं साथ भीता वराप्सराः ॥२१॥
दूरादेव नमस्कृत्य तमृषिं साभ्यभाषत ॥
अतीव वेपमानांगी शुचिस्तच्छापभीतितः ॥२२॥
नापराध्नोम्यहं किंचिन्महोग्रतपसांनिधे ॥
क्षंतव्यं मे क्षमाधार क्षमारूपास्तपस्विनः ॥२३॥
मुनीनां मानसं प्रायो यत्पद्मादपि तन्मृदु ॥
स्त्रियः कठोरहृदयाः स्वरूपेणैव सत्तम ॥२४॥
इति श्रुत्वा वचस्तस्याः शुचेरप्सरसो मुनिः ॥
विवेकसेतुना स्तंभीन्महारोषनदीरयम् ॥२५॥
उवाच च प्रसन्नात्मा शुचे शुचिरसि ध्रुवम् ॥
न मेऽल्पोपि हि दोषोत्र न ते दोषोस्ति सुंदरि ॥२६॥
वह्निस्वरूपा ललना नवनीत समः पुमान् ॥
अनभिज्ञा वदंतीति विचारान्महदंतरम् ॥२७॥
स्निह्येदुद्धृतसारोपि वह्नेः संस्पर्शमाप्य वै ॥
चित्रं स्त्र्याख्या समादानात्पुमान्स्निह्यति दूरतः ॥२८॥
अतः शुचे न भेतव्यं त्वया शुचि मनोगते ॥
अतर्कितोपस्थितया त्वया च स्खलितं मया ॥२९॥
स्खलनान्न तथा हानिरकामात्तपसो मुनेः ॥
यथा क्षणांधीकरणाद्धानिः कोपरयादरेः ॥३०॥
कोपात्तपः क्षयं याति संचितं यत्सुकृच्छ्रतः ॥
यथाभ्रपटलं प्राप्य प्रकाशः पुष्पवंतयोः ॥३१॥
अनर्थकारिणः क्रोधात्क्वार्थानांपरिजृभणम् ॥
क्व वा खलजनोत्सेधात्साधूनां परिवर्धनम् ॥३२॥
अमर्षे कर्षति मनो मनोभू संभवः कुतः ॥
विधुंतुदे तुदत्युच्चैर्विधुं कुत्रास्ति कौमुदी ॥३३॥
ज्वलतो रोषदावाग्नेः क्व वा शांतितरोः स्थितिः ॥
दृष्टा केनापि किं क्वापि सिंहात्कलभसुस्थता ॥३४॥
तस्मात्सर्वप्रयत्नेन प्रतीपः प्रतिघातुकः ॥
चतुर्वर्गस्य देहस्य परिहेयो विपश्चिता ॥३५॥
इदानीं शृणु कल्याणि कर्तव्यं यत्त्वया शुचे ॥
अमोघबीजा हि वयं तद्बीजमुररी कुरु ॥३६॥
एतस्मिन्रक्षिते वीर्ये परिस्कन्ने त्वदीक्षणात् ॥त्वया तव भवित्रेकं कन्यारत्नं महाशुचि ॥३७॥
इत्युक्ता तेन मुनिना पुनर्जातेव साप्सराः ॥
महाप्रसाद इत्युक्त्वा मुनेः शुक्रमजीगिलत् ॥३८॥
अथ कालेन दिव्यस्त्री कन्यारत्नमजीजनत् ॥
अतीव नयनानंदि निधानं रूपसंपदाम् ॥३९॥
तस्यैव वेदशिरस आश्रमे तां निधाय सा ॥
शुचिरप्सरसां श्रेष्ठा जगाम च यथेप्सितम् ॥४०॥
तां च वेदशिराः कन्यां स्नेहेन समवर्धयत् ॥
क्षीरेण स्वाश्रमस्थाया हरिण्या हरिणीक्षणाम् ॥४१॥
मुनिर्नाम ददौ तस्यै धूतपापेति चार्थवत् ॥
यन्नामोच्चारणेनापि कंपते पातकावली ॥४२॥
सर्वलक्षणशोभाढ्यां सर्वावयव सुंदरीम् ॥
मुनिस्तत्याज नोत्संगात्क्षणमात्रमपि क्वचित् ॥४३॥
दिनेदिने वर्धमानां तां पश्यन्मुमुदे भृशम् ॥
क्षीरनीरधिवद्रम्यां निशि चांद्रमसीं कलाम् ॥४४॥
अथाष्टवार्षिकीं दृष्ट्वा तां कन्यां स मुनीश्वरः ॥
कस्मै देयेति संचित्य तामेव समपृच्छत ॥४५॥
॥ वेदशिरा उवाच ॥
अयि पुत्रि महाभागे धूतपापे शुभेक्षणे ॥
कस्मै दद्यावराय त्वां त्वमेवाख्याहि तं वरम् ॥४६॥
अतिस्नेहार्द्रचित्तस्य जनेतुश्चेति भाषितम् ॥
निशम्य धूतपापा सा प्रोवाच विनतानना ॥४७॥
॥ धूतपापोवाच॥
जनेतर्यद्यहं देया सुंदराय वराय ते ॥
तदा तस्मै प्रयच्छ त्वं यमहं कथयामि ते ॥४८॥
तुभ्यं च रोचते तात शृणोत्ववहितो भवान् ॥
सर्वेभ्योतिपवित्रो यो यः सर्वेषां नमस्कृतः ॥४९ .॥
सर्वे यमभिलष्यंति यस्मात्सर्वसुखोदयः ॥
कदाचिद्यो न नश्येत यः सदैवानुवर्तते ॥५०॥
इहामुत्रापि यो रक्षेन्महापदुदयाद्ध्रुवम् ॥
सर्वे मनोरथा यस्मात्परिपूर्णा भवंति हि ॥५१॥
दिनेदिने च सौभाग्यं वर्धते यस्य सन्निधौ ॥
नैरंतर्येण यत्सेवां कुर्वतो न भयं क्वचित् ॥५२॥
यन्नामग्रहणादेव केपि वाधां न कुर्वते ॥
यदाधारेण तिष्ठंति भुवनानि चतुर्दश ॥५३॥
एवमाद्या गुणा यस्य वरस्य वरचेष्टितम् ॥
तस्मै प्रयच्छ मां तात मम तेपीहशर्मणे ॥५४॥
एतच्छ्रुत्वापि ता तस्या भृशं मुदमवाप ह ॥
धन्योस्मि धन्या मे पूर्वे येषामैषा सुतान्वये ॥५५॥
ध्रुवा हि धूतपापासौ यस्या ईदृग्विधा मतिः ॥
ईदृग्विधैर्गुणगणैर्गरिम्णा कोत्र वै भवेत् ॥५६॥
अथवा स कथं लभ्यो विना पुण्यभरोदयम् ॥
इति क्षणं समाधाय मनः स मुनिपुंगवः ॥५७॥
ज्ञानेन तं समालोच्य वरमीदृग्गुणोदयम् ॥
धन्यां कन्यां बभाषेथ शृणु वत्से शुभैषिणि ॥५८॥
॥ पितोवाच ॥
वरस्य ये त्वया प्रोक्ता गुणा एते विचक्षणे ॥
एषां गुणानामाधारो वरोस्तीति विनिश्चितम् ॥५९॥
परं स सुखलभ्यो न नितरां सुभगाकृतिः ॥
तपः पणेन स क्रय्यः सुतीर्थविपणौ क्वचित् ॥६०॥
तीर्थभारैः स सुलभो न कौलीन्येन कन्यके ॥
न वेदशास्त्राभ्यसनैर्न चैश्वर्यबलेन वै ॥६१॥
न सौंदर्येण वपुषा न बुद्ध्या न पराक्रमैः ॥
एकयैव मनः शुद्ध्या करणानां जयेन च ॥६२॥
महातपः सहायेन दमदानदयायुजा ॥
लभ्यते स महाप्राज्ञो नान्यथा सदृशः पतिः ॥६३॥
इति श्रुत्वाथ सा कन्या पितरं प्रणिपत्य च ॥
अनुज्ञां प्रार्थयामास तपसे कृतनिश्चया ॥६४॥
॥ स्कंद उवाच ॥
कृतानुज्ञा जनेत्रा सा क्षेत्रे परमपावने ॥
तपस्तताप परमं यदसाध्यं तपस्विभिः ॥६५॥
क्व सा बालातिमृद्वंगी क्व च तत्तादृशं तपः ॥
कठोरवर्ष्मसंसाध्यमहो सच्चेतसो धृतिः ॥६६॥
धारासारा सुवर्षासु महावातवतीष्वलम् ॥
शिलासु सावकाशासु सा बह्वीरनयन्निशाः ॥६७॥
श्रुत्वा गर्जरवं घोरं दृष्ट्वा विद्युच्चमत्कृतीः ॥
आसारसीकरैः क्लिन्ना न चकंपे मनाक्च सा ॥६८॥
तडित्स्फुरंतीत्वसकृत्तमिस्रासु तपोवने ॥
यातायातं करोतीव द्रष्टुं तत्तपसः स्थितिम् ॥६९॥
तपर्तुरेव साक्षाच्च कुमारी कैतवात्किल॥
पंचाग्नीन्परिधायात्र तपस्यति तपोवने ॥७०॥
जलाभिलाषिणी बाला न मनागपि सा पिबत्॥
कुशाग्रतोयपृषतं पंचाग्निपरितापिता ॥७१॥
रोमांच कंचुकवती वेपमानतनुच्छदा॥
पर्यक्षिपत्क्षपाः क्षामा तपसा हैमनीश्च सा ॥७२॥
निशीथिनीषु शिशिरे श्रयंती सारसं रसम् ॥
मेने सा सारसैः केयमुद्यताद्येति पद्मिनी ॥७३॥
मनस्विनामपि मनोरागतां सृजते मधौ ॥
तदोष्ठपल्लवाद्रागो जह्रे माकंदपल्लवैः ॥७४॥
वसंते निवसंती सा वने बालाचलंमनः ॥
चक्रे तपस्यपि श्रुत्वा कोकिला काकलीरवम् ॥७५॥
बंधुजीवेऽधररुचिं कलहंसे कलागतीः ॥
निक्षेपमिव सा क्षिप्त्वा शरद्यासीत्तपोरता ॥७६॥
अपास्तभोगसंपर्का भोगिनां वृत्तिमाश्रिता ॥
क्षुदुद्बोधनिरोधाय धूतपापा तपस्विनी ॥७७॥
शाणेन मणिवल्लीढा कृशाप्यायादनर्घताम् ॥
तथापि तपसा क्षामा दिदीपे तत्तनुस्तराम् ॥७८॥
निरीक्ष्य तां तपस्यंतीं विधिः संशुद्धमानसाम् ॥
उपेत्योवाच सुप्रज्ञे प्रसन्नोस्मि वरं वृणु ॥७९॥
सा चतुर्वक्त्रमालोक्य हंसयानोपरिस्थितम् ॥
प्रणम्य प्रांजलिः प्रीता प्रोवाचाथ प्रजापतिम् ॥८०॥
॥ धूतपापोवाच ॥
पितामह वरो मह्यं यदि देयो वरप्रद ॥
सर्वेभ्यः पावनेभ्योपि कुरु मामतिपावनीम् ॥८१॥
स्रष्टा तदिष्टमाकर्ण्य नितरां तुष्टमानसः ॥
प्रत्युवाचाथ तां बालां विमलां विमलेषिणीम् ॥८२॥
॥ ब्रह्मोवाच ॥
धूतपापे पवित्राणि यानि संत्यत्र सर्वतः ॥
तेभ्यः पवित्रमतुलं त्वमेधि वरतो मम ॥८३॥
तिस्रः कोट्योऽर्धकोटी च संति तीर्थानि कन्यके ॥
दिवि भुव्यंतरिक्षे च पावनान्युत्तरोत्तरम् ॥८४॥
तानि सर्वाणि तीर्थानि त्वत्तनौ प्रतिलोम वै ॥
वसंतु मम वाक्येन भव सर्वातिपावनी ॥८५॥
इत्युक्त्वांतर्दधे वेधाः सापि निर्धूतकल्मषा ॥
धूतपापोटजं प्राप्ताथो वेदशिरसः पितुः ॥८६॥
कदाचित्तां समालोक्य खेलंतीमुटजाजिरे ॥
धर्मस्तत्तपसाकृष्टः प्रार्थयामास कन्यकाम् ॥८७॥
॥धर्म उवाच ॥
पृथुश्रोणि विशालाक्षि क्षामोदरि शुभानने ॥
क्रीतः स्वरूपसंपत्त्या त्वयाहं देहि मे रहः ॥८८॥
नितरां बाधते कामस्त्वत्कृते मां सुलोचने ॥
अज्ञातनाम्ना सा तेन प्रार्थितेत्यसकृद्ग्रहः ॥८९॥
उवाच सा पिता दाता तं प्रार्थय सुदुर्मते ॥
पितृप्रदेया यत्कन्या श्रुतिरेषा सनातनी ॥९०॥
निशम्येति वचो धर्मो भाविनोर्थस्य गौरवात् ॥
पुनर्निबंधयांचक्रे ऽपधृतिर्धृतिशालिनीम् ॥९१॥
॥ धर्म उवाच ॥
न प्रार्थयेहं सुभगे पितरं तव सुंदरि ॥
गांधर्वेण विवाहेन कुरु मे त्वं समीहितम् ॥९२॥
इति निर्बंधवद्वाक्यं सा निशम्य कुमारिका ॥
पितुः कन्याफलंदित्सुः पुनराहेति तं द्विजम् ॥९३॥
अरे जडमते मा त्वं पुनर्ब्रूहीति याह्यतः ॥
इत्युक्तोपि कुमार्या स नातिष्ठन्मदनातुरः ॥९४॥
ततः शशाप तं बाला प्रबला तपसो बलात् ॥
जडोसि नितरां यस्माज्जलाधारो नदो भव ॥९५॥
इति शप्तस्तया सोथ तां शशाप क्रुधान्वितः ॥
कठोरहृदये त्वं तु शिला भव सुदुर्मते ॥९६॥
॥ स्कंद उवाच ॥
इत्यन्योन्यस्य शापेन मुने धर्मो नदोऽभवत् ॥
अविमुक्ते महाक्षेत्रे ख्यातो धर्मनदो महान् ॥९७॥
साप्याह पितरं त्रस्ता स्वशिलात्वस्य कारणम्॥
ध्यानेन धर्मं विज्ञाय मुनिः कन्यामथाब्रवीत् ॥९८॥
मा भैः पुत्रि करिष्यामि तव सर्वं शुभोदयम् ॥
तच्छापो नान्यथा भूयाच्चंद्रकांतशिला भव ॥९९॥
चंद्रोदयमनुप्राप्य द्रवीभूततनुस्ततः ॥
धुनी भव सुते साध्वि धूतपापेति विश्रुता ॥१००॥
स च धर्मनदः कन्ये तव भर्ता सुशोभनः ॥
तैर्गुणैः परिपूर्णांगो ये गुणाः प्रार्थितास्त्वया ॥१॥
अन्यच्च शृणु सद्बुद्धे ममापि तपसो बलात् ॥
द्वैरूप्यं भवतोर्भावि प्राकृतं च द्रवं च वै ॥२॥
इत्याश्वास्य पिता कन्यां धूतपापां परंतप ॥
चंद्रकांतशिलाभूतामनुजग्राह बुद्धिमान् ॥३॥
तदारभ्य मुने काश्यां ख्यातो धर्मनदो ह्रदः ॥
धर्मो द्रवस्वरूपेण महापातकनाशनः ॥४॥
धुनी च धूतपापा सा सर्वतीर्थमयी शुभा ॥
हरेन्महाघसंघातान्कूलजानिव पादपान् ॥५॥
तत्र धर्मनदे तीर्थे धूतपापा समन्विते ॥
यदा न स्वर्धुनी तत्र तदा ब्रध्नस्तपो व्यधात् ॥६॥
गभस्तिमाली भगवान्गभस्तीश्वर सन्निधौ ॥
शीलयन्मंगलां गौरीं तप उग्रं चचार ह ॥७॥
नाम्ना मयूखादित्यस्य तीर्थे तत्र तपस्यतः ॥
किरणेभ्यः प्रववृते महास्वेदोतिखेदतः ॥८॥
किरणेभ्यः प्रवृत्ताया महास्वेदस्य संततिः ॥
ततः सा किरणानाम जाता पुण्या तरंगिणी ॥९॥
महापापांधतमसं किरणाख्या तरंगिणी॥
ध्वंसयेत्स्नानमात्रेण मिलिता धूतपापया ॥११०॥
आदौ धर्मनदः पुण्यो मिश्रितो धूतपापया ॥
यया धूतानि पापानि सर्वतीर्थीकृतात्मना ॥११॥
ततोपि मिलितागत्य किरणा रविणैधिता ॥
यन्नामस्मरणादेव महामोहोंधतां व्रजेत्॥१२॥
किरणा धूतपापे च तस्मिन्धर्मनदे शुभे ॥
स्रवंत्यौ पापसंहर्त्र्यौ वाराणस्यां शुभद्रवे ॥१३॥
ततो भागीरथी प्राप्ता तेन दैलीपिना सह ॥
भागीरथी समायाता यमुना च सरस्वती ॥१४॥
किरणा धूतपापा च पुण्यतोया सरस्वती ॥
गंगा च यमुना चैव पंचनद्योत्र कीर्तिताः ॥१५॥
अतः पंचनदं नाम तीर्थं त्रैलोक्यविश्रुतम् ॥
तत्राप्लुतो न गृह्णीयाद्देहं ना पांचभौतिकम् ॥१६॥
अस्मिन्पंचनदीनां च संभेदेघौघभेदिनि ॥
स्नानमात्रात्प्रयात्येव भित्त्वा ब्रह्मांडमंडपम् ॥१७॥
तीर्थानि संति भूयांसि काश्यामत्र पदेपदे ॥
न पंचनदतीर्थस्य कोट्यंशेन समान्यपि ॥१८॥
प्रयागे माघमासे तु सम्यक्स्नातस्य यत्फलम् ॥
तत्फलं स्याद्दिनैकेन काश्यां पंचनदे ध्रुवम् ॥१९॥
स्नात्वा पंचनदे तीर्थे कृत्वा च पितृतर्पणम् ॥
बिंदुमाधवमभ्यर्च्य न भूयो जन्मभाग्भवेत् ॥१२०॥
यावत्संख्यास्तिलादत्ताः पितृभ्यो जलतर्पणे ॥
पुण्ये पंचनदे तीर्थे तृप्तिः स्यात्तावदाब्दिकी ॥२१॥
श्रद्धया यैः कृतं श्राद्धं तीथें पंचनदे शुभे ॥
तेषां पितामहा मुक्ता नानायोनि गता अपि ॥२२॥
यमलोके पितृगणैर्गाथेयं परिगीयते ॥
महिमानं पांचनदं दृष्ट्वा श्राद्धविधानतः ॥२३॥
अस्माकमपि वंश्योत्र कश्चिच्छ्राद्धं करिष्यति ॥
काश्यां पंचनदं प्राप्य येन मुच्यामहे वयम् ॥२४॥
इयं गाथा प्रतिदिनं श्राद्धदेवस्य सन्निधौ ॥
पितृभिः परिगीयेत काश्यां पंचनदं प्रति ॥२५॥
तत्र पंचनदे तीर्थे यत्किंचिद्दीयते वसु ॥
कल्पक्षयेपि न भवेत्तस्य पुण्यस्य संक्षयः ॥२६॥
वंध्यापि वर्षपर्यंतं स्नात्वा पंचनदे ह्रदे ॥
समर्च्य मंगलां गौंरीं पुत्रं जनयति ध्रुवम् ॥२७॥
जलैः पांचनदैः पुण्यैर्वाससा पारिशोधितैः ॥
महाफलमवाप्नोति स्नपयित्वेष्टदेवताम् ॥२८॥
पंचामृतानां कलशैरष्टोत्तरशतोन्मितैः ॥
तुलितोधिकतां यातो बिंदुः पंचनदांभसः ॥२९॥
पंचकूर्चेन पीतेन यात्र शुद्धिरुदाहृता ॥
सा शुद्धिः श्रद्धया प्राश्य बिंदुं पांचनदांभसः ॥१३०॥
भवेदवभृथस्नानाद्राजसूयाश्वमेधयोः ॥
यत्फलं तच्छतगुणं स्नानात्पांचनदांभसा ॥३१॥
राजसूयाश्वमेधौ च भवेतां स्वर्गसाधनम् ॥
आब्रह्मघटिकाद्वंद्वं मुक्त्यै पांचनदाप्लुतिः ॥३२॥
स्वर्गराज्याभिषेकोपि न तथा संमतः सताम् ॥
अभिषेकः पांचनदो यथानल्पसुखप्रदः ॥३३॥
वरं वाराणसीं प्राप्य भृत्यः पंचनदोक्षिणाम् ॥
नान्यत्र सेवकीभूत भूपकोटिर्नरेश्वरः ॥३४॥
यैर्न पंचनदे स्नातं कार्तिके पापहारिणि ॥
तेऽद्यापि गर्भे तिष्ठंति पुनस्ते गर्भवासिनः ॥३५॥
कृते धर्मनदं नाम त्रेतायां धूतपापकम् ॥
द्वापरे बिंदुतीर्थं च कलौ पंचनदं स्मृतम् ॥३६॥
शतं समास्तपस्तप्त्वा कृते यत्प्राप्यते फलम् ॥
तत्कार्तिके पंचनदे सकृत्स्नानेन लभ्यते ॥३७॥
इष्टापूर्तेषु धर्मेषु यावजन्मकृतेषु यत् ॥
अन्यत्र स्यात्फलं तत्स्यादूर्जे धर्मनदाप्लवात् ॥३८॥
न धूतपाप सदृशं तीर्थं क्वापि महीतले ॥
यदेकस्नानतो नश्येदघं जन्मत्रयार्जितम् ॥३९॥
बिंदुतीर्थे नरो दत्त्वा कांचनं कृष्णलोन्मितम् ॥
न दरिद्रो भवेत्क्वापि न स्वर्णेन वियुज्यते ॥१४०॥
गोभूतिलहिरण्याश्व वासोन्नस्रग्विभूषणम् ॥
यत्किंचिद्बिंदुतीर्थेत्र दत्त्वाक्षयमवाप्नुयात् ॥४१॥
एकामप्याहुतिं दत्त्वा समिद्धेग्नौ विधानतः ॥
पुण्ये धर्मनदे तीर्थे कोटिहोमफलं लभेत् ॥४२॥
न पंचनदतीर्थस्य महिमानमनंतकम् ॥
कोपि वर्णयितुं शक्तश्चतुर्वर्ग शुभौकसः ॥४३॥
श्रुत्वाख्यानमिदं पुण्यं श्रावयित्वापि भक्तितः ॥
सर्वपापविशुद्धात्मा विष्णुलोके महीयते ॥४४॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थें काशीखंड उत्तरार्धे पंचनदाविर्भावो नामैकोनषष्टितमोऽध्यायः ॥५९॥
N/A
References : N/A
Last Updated : November 27, 2024
TOP