संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|काशीखण्ड|
अध्याय ६७

काशीखण्डः - अध्याय ६७

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ अगस्त्य उवाच ॥
रत्नेश्वरसमुत्पतिं कथयस्व षडानन ॥
रत्नभूतं महालिंगं यत्काश्यां परिवर्ण्यते ॥१॥
कोस्य लिंगस्य महिमा केनैतच्च प्रतिष्ठितम् ॥
एतं विस्तरतो ब्रूहि गौरीहृदयनंदन ॥२॥
॥ स्कंद उवाच ॥
रत्नेश्वरस्य माहात्म्यं कथयिष्यामि ते मुने॥
यथा च रत्नलिंगस्य प्रादुर्भावोऽभवद्भुवि ॥३॥
श्रुतं नामापि लिंगस्य यस्य जन्मत्रयार्जितम्॥
वृजिनं नाशयेत्तस्य प्रादुर्भावं ब्रुवे मुने ॥४॥
शैलराजेन रत्नानि यानि पुंजीकृतान्यहो॥
उत्तरे कालराजस्य तानि तस्य गिरेर्वृषात्॥ ५॥
सर्वरत्नमयं लिंगं जातं तत्सुकृतात्मनः ॥
शक्रचापसमच्छायं सर्वरत्नद्युतिप्रभम् ॥६॥
तल्लिंगदर्शनादेव ज्ञानरत्नमवाप्यते ॥
शैलेश्वरं समालोक्य शिवौ तत्र समागतौ ॥७॥
यत्र रत्नमयं लिंगमाविर्भूतं स्वयं मुने ॥
तस्य स्फुरत्प्रभाजालैस्ततमंबरमंडलम् ॥८॥
तत्र दृष्ट्वा शुभं लिंगं सर्वरत्नसमुद्भवम् ॥
भवान्यदृष्टपूर्वा हि परिपप्रच्छ शंकरम् ॥९॥
देवदेव जगन्नाथ सर्वभक्ताभयप्रद ॥
कुतस्त्यमेतल्लिंगं द्विसप्तपातालमूलवत् ॥१०॥
ज्वालाजटिलिताकाशं प्रभाभासित दिङ्मुखम् ॥
किमाख्यं किं स्वरूपं च किं प्रभावं भवांतक ॥११॥
यस्य संवीक्षणादेव मनोमेतीव हृष्टवत् ॥
इहैव रमते नाथ कथयैतत्प्रसादतः ॥१२॥
॥ देवदेव उवाच ॥
शृण्वपर्णे समाख्यामि यत्त्वया पृच्छि पार्वति ॥
स्वरूपमेतल्लिंगस्य सर्वतेजोनिधेः परम् ॥१३॥
तव पित्रा हिमवता गिरिराजेन भामिनि ॥
त्वामुद्दिश्य महारत्नसंभारोत्राप्यनायि हि ॥१४॥
अत्र तानि च रत्नानि राशीकृत्य हिमाद्रिणा ॥
सुकृतोपार्जितान्येव ययौ स्वसदनं पुनः ॥१५॥
तवार्थं वाममार्थं वा श्रद्धया यत्समर्प्यते ॥
काश्यां तस्य परीपाको भवेदीदृग्विधोऽनघे ॥१६॥
लिंगं रत्नेश्वराख्यं वै मत्स्वरूपं हि केवलम् ॥
अस्य प्रभावो हि महान्वाराणस्यामुमे ध्रुवम् ॥१७॥
सर्वेषामिह लिंगानां रत्नभूतमिदं परम् ॥
अतो रत्नेश्वरं नाम परं निर्वाणरत्नदम् ॥१८॥
अनेनैव सुवर्णेन पित्रा राशीकृतेन च ॥
प्रासादमस्य लिंगस्य विधापय महेश्वरि ॥१९॥
लिंगप्रासादकरणात्खंडस्फुटित संस्कृतेः ॥
लिंगस्थापनजं पुण्यं हेलयैवेह लभ्यते ॥२०॥
तथेति भगवत्योक्त्वा गणाः प्रासादनिर्मितौ ॥
सोमनंदि प्रभृतयो ऽसंख्या व्यापारिता मुने ॥२१॥
गणैश्च कांचनमयो नानाकौतुकचित्रितः ॥
निर्ममे याममात्रेण प्रासादो मेरुशृंगवत् ॥२२॥
देवी प्रदृष्टवदना दृष्ट्वा प्रासादनिर्मितिम् ॥
गणेभ्यो व्यतरद्भूरि समानं पारितोषिकम् ॥२३॥
पुनश्च देवी पप्रच्छ प्रणिपातपुरःसरम् ॥
महिमानं महादेवं लिंगस्यास्य महामुने ॥२४॥
॥ देवदेव उवाच ॥
लिंगं त्वनादिसंसिद्धमेतद्देवि शुभप्रदम् ॥
आविर्भूतमिदानीं च त्वत्पितुः पुण्यगौरवात् ॥२५॥
गुह्यानां परमं गुह्यं क्षेत्रेऽस्मिश्चिंतितप्रदम् ॥
कलौ कलुषबुद्धीनां गोपनीयं प्रयत्नतः ॥२६॥
यथा रत्नं गृहे गुप्तं न कैश्चिज्ज्ञायते परैः ॥
अविमुक्ते तथा लिंगं रत्नभूतं गृहे मम ॥२७॥
यानि ब्रह्मांडमध्येत्र संति लिंगानि पार्वति ॥
तैरर्चितानि सर्वाणि रत्नेशो यैः समर्चितः ॥२८॥
प्रमादेनापि यैर्गौरि लिंगं रत्नेशमर्चितम् ॥
ते भवंत्येव नियतं सप्तद्वीपेश्वरा नृपाः ॥२९॥
त्रैलोक्ये यानि वस्तूनि रत्नभूतानि तानि तु ॥
रत्नेश्वरं समभ्यर्च्य सकृत्प्राप्नोति मानवः ॥३०॥
पूजयिष्यंति ये लिंगं रत्नेशं कामवर्जिताः ॥
ते सर्वे मद्गणा भूत्वा प्रांते द्रक्ष्यंति मामिह ॥३१॥
रुद्राणां कोटिजप्येन यत्फलं परिकीर्तितम् ॥
तत्फलं लभ्यते देवि रत्नेशस्य समर्चनात् ॥३२॥
लिंगे चानादिसंसिद्धे यद्वृत्तं तद्ब्रवीमि ते ॥
इतिहासं महाश्चर्यं सर्वपापनिकृंतनम् ॥३३॥
पुरेह नर्तकी काचिदासीन्नाट्यार्थकोविदा ॥
सैकदा फाल्गुने मासि शिवरात्र्यां कलावती ॥३४॥
ननर्त जागरं प्राप्य जगौ गीतं च पेशलम् ॥
स्वयं च वादयामास नानावाद्यानि वाद्यवित् ॥३५॥
तेन तौर्यत्रिकेणापि प्रीणयित्वाथ सा नटी॥
रत्नेश्वरं महालिंगं देशमिष्टं जगाम ह ॥३६॥
कालधर्मवशंयाता तत्र सा वरनर्तकी ॥
सुता गंधर्वराजस्य वसुभूतेर्बभूव ह ॥३७॥
संगीतस्य सवाद्यस्य तस्य लास्यस्यपुण्यतः ॥
तत्रेशाग्रे कृतस्येह जागरे शिवरात्रिजे ॥३८॥
रम्या रत्नावली नाम रूपलावण्यशालिनी ॥
कलाकलापकुशला मधुरालापवादिनी ॥३९॥
पितुरानंदकृन्नित्यं वसुभूतेर्घटोद्भव ॥
सर्वगांधर्वकुशला गुणरत्नमहाखनिः ॥४०॥
मुने सखीत्रयं तस्याश्चारु चातुर्यभाजनम् ॥
शशिलेखानंगलेखा चित्रलेखेति नामतः ॥४१॥
तिसृभिस्ताभिरेकत्र वाग्देवीपरिशीलिता ॥
ताभ्यः सर्वाः कलाः प्रादात्परिप्रीता सरस्वती ॥४२॥
प्राप्य रत्नावली गौरि सा जन्मांतरवासनाम् ॥
रत्नेश्वरस्य लिंगस्य जग्राह नियमं शुभम् ॥४३॥
रत्नभूतस्य लिंगस्य काश्यां रत्नेश्वरस्य वै ॥
नित्यं संदर्शनं प्राप्य वक्ष्याम्यपि वचो मुखे ॥४४॥
इत्थं नियमवत्यासीत्सा गंधर्वसुतोत्तमा ॥
ताभिः सखीभिः सहिता नित्यं लिंगं च पश्यति ॥४५॥
एकदाराध्य रत्नेशं ममैतल्लिंगमुत्तमम् ॥
समानर्च च सा बाला रम्यया गीतमालया ॥४६॥
सख्यः प्रदक्षिणीकर्तुं लिंगं तिस्रोऽप्युमे गताः ॥
तस्या गीतेन तुष्टोहं लिंगस्थो वरदोभवम् ॥४७॥
यस्त्वया रंस्यते रात्रावद्य गंधर्वकन्यके ॥
तवनामसमानाख्यः स ते भर्ता भविष्यति ॥४८॥
इति लिंगांबुधेर्जातां परिपीय वचःसुधाम् ॥
बभूवानंदसंदोह मंथरातीव ह्रीमती ॥४९॥
गताथ व्योममार्गेण सखीभिः स्वपितुर्गृहम् ॥
कथयंती निजोदंतं तमालीनां पुरो मुदा ॥५०॥
ताभिर्दिष्ट्येति दिष्ट्येति सखीभिः परिनंदिता ॥
अद्य ते वांछितं भावि रत्नेशस्य समर्चनात् ॥५१॥
यद्यायाति स ते रात्रावद्य कौमारहारकः ॥
चोरो बाहुलतापाशैः पाशितव्योतियत्नतः ॥५२॥
गोचरीक्रियतेस्माभिर्यथा स सुकृतैकभूः ॥
प्रातरेव तव प्रेयान्रत्नेशादिष्ट इष्टकृत् ॥५३॥
यातास्वस्मासु हृष्टासु भवती शयगौरवात् ॥
अहो रत्नेश्वरं लिंगं प्रत्यक्षीकृतवत्यसि ॥५४॥
अहोभाग्योदयो नृणामहो पुण्यसमुच्छ्रयः ॥
एकस्यैव भवेत्सिद्धिर्यदेकत्रापि तिष्ठताम् ॥५५॥
सत्यं वदंति नासत्यं दैवप्राधान्यवादिनः ॥
दैवमेव फलेदेकं नोद्यमो नापरं बलम् ॥५६॥
भवत्या अपि चास्माकमेक एव हि चोद्यमः ॥
परं दैवं फलत्येकं यथा तव न नः पुरः ॥५७॥
लोकानां व्यवहारोयमालिप्रोक्तप्रसंगतः ॥
परं मनोरथावाप्तिस्तव या सैव नः स्फुटम् ॥५८॥
इति संव्याहरंतीनामनंतोध्वाऽतितुच्छवत् ॥
क्षणात्तासां व्यतिक्रांतः प्राप्ताश्च स्वंस्वमालयम् ॥५९॥
अथ प्रातः समुत्थाय पुनरेकत्र संगताः ॥
सा च मौनवती ताभिः परिभुक्तेव लक्षिता ॥६०॥
तूष्णीं प्राप्याथ काशीं सा स्नात्वा मंदाकिनीजले ॥
सखीभिः सहितापश्यल्लिंगं रत्नेश्वरं मम ॥६१॥
निर्वर्त्य नियमं साथ लज्जामुकुलितेक्षणा ॥
निर्बंधेन वयस्याभिः परिपृष्टा जगाद ह ॥६२॥
॥ रत्नावल्युवाच ॥
अथ रत्नेश यात्रायाः प्रयातासु स्वमंदिरम् ॥
भवतीषु स्मरंत्येव तद्रत्नेशवचोऽमृतम्॥ ६३॥
सविशेषांगसंस्काराऽविशं संवेशमंदिरम् ॥
निद्रादरिद्रनयना तद्विलोकनलालसा ॥६४॥
बलात्स्वप्नदशां प्राप्ता भाविनोर्थस्य गौरवात् ॥
आत्मविस्मरणे हेतू ततो मे द्वौ बभूवतुः ॥६५॥
तंद्री तदंगसंस्पर्शौ मम बोधापहारकौ ॥
तंद्र्या परवशा चासं ततस्तत्स्पर्शनेन च ॥६६॥
न जाने त्वथ किं वृत्तं काहं क्वाहं स चाथ कः ॥
तं निर्जिगमिषुं सख्यो यावद्धर्तुं प्रसारितः ॥६७॥
दोः कंकणेन रिपुणा क्वणितं तावदुत्कटम् ॥
महता सिंजितेनाहं तेनाल्पपरिबोधिता ॥६८॥
सुखसंतानपीयूष ह्रदे परिनिमज्य वै ॥
क्षणेन तद्वियोगाग्निकीलासु पतिता बलात् ॥६९॥
किंकुलीयः स नो वेद्मि किंदेशीयः किमाख्यकः ॥
दुनोति नितरां सख्यस्तद्विश्लेषानलो महान् ॥७०॥
अनल्पोत्कलितं चेतः पुनस्तत्संगमाशया ॥
प्राणानां मे यियासूनामेकमेव महौषधम् ॥७१॥
वयस्या निशिभुक्तस्य तस्यैव पुनरीक्षणम् ॥
भवतीनामधीनं च तत्पुनर्दर्शनं मम ॥७२॥
काऽलीकमालयो वक्ति स्निग्धमुग्धेसखीजने ॥
तद्दर्शनेन स्थास्यंति प्राणा यास्यंति चान्यथा ॥७३॥
दशम्यवस्था सन्नह्येद्बाधितुं माधुना भृशम् ॥
इति तस्या गिरः श्रुत्वा दूनाया नितरां च ताः ॥७४॥
प्रवेपमानहृदयाः प्रोचुर्वीक्ष्य परस्परम् ॥७५॥
॥ सख्य ऊचुः ॥
यस्य ग्रामो न नो नाम नान्वयो नापि बुध्यते ॥
स कथं प्राप्यते भद्रे क उपायो विधीयताम् ॥७६॥
इति रत्नावली श्रुत्वा ससंदेहां च तद्गिरम् ॥
वयस्यास्तदवाप्तौ मे यूयं कुंठि मुमूर्छ ह ॥७७॥
इत्यर्धोक्तेन सा बाला यूयं कुंठितशक्तयः ॥
यद्वक्तव्यं त्विति तया यूयं कुंठीति भाषितम् ॥७८॥
ततस्तास्त्वरिताः सख्यः परितापोपहारकान् ॥
बहुशः शीतलोपायान्व्यधुर्मोहप्रशांतये ॥७९॥
व्यपैति न यदा मूर्छा तत्तच्छीतोपचारतः ॥
तस्यास्तदैकयानीतं रत्नेशस्नपनोदकम् ॥८०॥
तदुक्षणात्क्षणादेव तन्मूर्छा विरराम ह ॥
सुप्तोत्थितेव सावादीन्मुहुः शिवशिवेति च ॥८१॥
॥ स्कदं उवाच ॥
श्रद्धावतां स्वभक्तानामुपसर्गे महत्यपि ॥
नोपायांतरमस्त्येव विनेश चरणोदकम् ॥८२॥
ये व्याधयोपि दुःसाध्या बहिरंतः शरीरगाः ॥
श्रद्धयेशोदकस्पर्शात्ते नश्यंत्येव नान्यथा ॥८३॥
सेवितं येन सततं भगवच्चरणोदकम्॥
तं बाह्याभ्यंतरशुचिं नोपसर्पति दुर्गतिः ॥८४॥
आधिभौतिकतापं च तापं वाप्याधिदैविकम् ॥
आध्यात्मिकं तथा तापं हरेच्छ्रीचरणोदकम् ॥८५॥
व्यपेतसंज्वरा चाथ गंधर्वतनया मुने ॥
उचितज्ञेति होवाच ताः सखीः स्रिग्धधो(धी?)रधीः ॥८६॥
॥ रत्नावल्युवाच ॥
शशिलेखेनंगलेखे चित्रलेखे मदीहितं ॥
यूयं कुंठितसामर्थ्याः कुतो वस्ताः कलाः क्व वा ॥८७॥
मत्प्रियप्राप्तये सम्यगुपायोऽस्ति मयेक्षितः ॥
रत्नेश्वरानुग्रहतोऽनुतिष्ठत हि तं हिताः ॥८८॥
शशिलेखेभिलषितप्राप्त्यै लेखांस्त्वमालिख ॥
संलिखानंगलेखे त्वं यूनः सर्वावनीचरान् ॥८९॥
चित्रगे चित्रलेखे त्वं पातालतलशायिनः ॥
किंचिदाविर्भवच्चारु तारुण्यालंकृतीँल्लिख ॥९०॥
अथाकण्येति ताः सख्यस्तच्चातुर्यं प्रवर्ण्य च ॥
लिलिखुः क्रमशः सख्यो यूनो यौवन शेवधीन् ॥९१॥
निर्यत्कौमारलक्ष्मीकान्पुंवत्त्व श्रीसमावृतान् ॥
प्रातःसंध्येव गंधर्वी नृपाद्यांस्तानवैक्षत ॥९२॥
सर्वान्सुरनिकायान्सा व्यलोकत शुभेक्षणा ॥
न चांचल्यं जहावक्ष्णोस्तेषु स्वर्लोकवासिषु ॥९३॥
ततो मध्यमलोकस्थान्मुनिराजकुमारकान् ॥
विलोक्यापि न सा प्रीतिं क्वाप्याप प्रेमनिर्भरा ॥९४॥
अथ रत्नावली बाला कर्णाभ्यर्णविलोचना ॥
दृशौ व्यापारयामास बलिसद्मयुवस्वपि ॥९५॥
दितिजान्दनुजान्वीक्ष्य सा गंधर्वी कुमारकान् ॥
रतिं बबंध न क्वापि तापिता मान्मथैः शरैः ॥९६॥
सुधाकर करस्पृष्टाप्यतिदूनांगयष्टिका ॥
पश्यंती नागयूनः सा किंचिदुच्छ्वसिताऽभवत् ॥९७॥
भोगिनस्तान्विलोक्यापि चित्रंचित्रगतानथ ॥
मनात्संभुक्तभोगेव क्षणमासीत्कुमारिका ॥९८॥
यूनः प्रत्येकमद्राक्षीदशेषाञ्छेष वंशजान् ॥
तक्षकान्वयगांस्तद्वदथ वासुकिगोत्रजान् ॥९९॥
पुलीकानंत कर्कोट भद्रसंतानगानपि ॥
दृष्ट्वा नागकुमारांस्ताञ्छंखचूडमथैक्षत ॥१००॥
शंखचूडेक्षणादेव परां लज्जां बभार सा ॥
उद्भिन्नपुलकाप्यासीदंगप्रत्यंग संधिषु ॥१॥
तत्त्रपाभरतोऽज्ञायि तत्कौमारहरो वरः ॥
तया वैदग्ध्यवरया क्षणतश्चित्रलेखया ॥२॥
अथ चित्रपटी चित्रलेखा चित्रपटांचलम् ॥
परिक्षिप्यावृणोत्तूर्णं परिहासैकपेशला ॥३॥
रत्नावली चित्रलेखां ह्रिया मौनावलंबिनी ॥
दृशा कुटिलयाद्राक्षीत्प्रस्फुरद्दशनांबरा ॥४॥
कटाक्षितानंगलेखा तयाथ शशिलेखया ॥
चित्रलेखापरिक्षिप्त पटांचलमपाकरोत् ॥५॥
वसुभूतिसुता साथ कन्या रत्नावली शुभा ॥
शंखचूडान्ववाये तं रत्नचूडमवैक्षत ॥६॥
तदीक्षणक्षणाद्दृष्टिरानंदाश्रुभिरावृता ॥
कपोलभित्तिरभवत्स्वेदोदकणिकांचिता ॥७॥
चकंपे गात्रलतिका धृतरोमांचकंचुका ॥
चित्रन्यस्तेव तस्तंभ क्षणं मुकुलितानना॥ ८॥
ततः सा चित्रलेखा तामेत्याश्वासयदातुराम्॥
मौत्सुक्यं व्रज गंधर्वि सिद्धस्तेद्य मनोरथः ॥९॥
एतस्यावगतं सर्वं देशनामान्वयादिकम्॥
मा विषीदालिसुलभस्त्वेष रत्नेश्वरार्पितः ॥११०॥
अहो सदृग्वरावाप्त्या रत्नेशेनासि तोषिता ॥
उत्तिष्ठ यामः सदनं रत्नेशः सर्वदोहिनः ॥११॥
अथ देववशाद्यांत्यस्ता दृष्टा गगनाध्वगाः ॥
सुबाहुना दानवेन पातालतलवासिना ॥१२॥
गृहीत्वा ताश्चतस्रोपि निरगाद्दानवो गृहम्॥
हरिर्विकटदंष्ट्रास्यः प्रांतरे हरिणीरिव ॥१३॥
तास्तं विलोक्य गंधर्व्यो दंष्ट्राविकटिताननम् ॥
रुधिरारुणनेत्रं च जाता वेपथुभूमयः ॥१४॥
हा मातर्हा पितस्त्राहि हा विधे मा विधेहि तत् ॥
यदेतत्कर्तुमारब्धमनाथास्वतिनिष्ठुरम् ॥१५॥
हा दैव मंदभाग्याभिः किमस्माभिरनुष्ठितम् ॥
सुकृतेतरवार्तापि नो चित्ते व्याहृता क्वचित् ॥१६॥
शिशुक्रीडनकं हित्वा हित्वा रत्नेश्वरार्चनम् ॥
पित्रोः स्वाधीन सच्चेष्टा इष्टं विद्मो न किंचन ॥१७॥
अधोभुवनगा दीना हीनानाथेन कोत्र नः ॥
त्राति त्राणार्थिनीर्बालाः शंभो रत्नेश सर्वग ॥१८॥
इत्थं गंधर्वतनया विलपंतीः कृपातुरम् ॥
शुश्राव नागराजोसौ रत्नचूडो महामनाः ॥१९॥
कोसौ मत्स्वामिनो नाम रत्नेशस्य महेशितुः ॥
लिंगराजस्य गृह्णाति कर्मबंधनभेदिनः ॥१२०॥
पुनरप्यार्तरावं स श्रुत्वा बालामुखेरितम् ॥
रत्नेश रक्षरक्षेति गृहीतास्त्रो विनिर्ययौ ॥२१॥
तं वसारसपानेन महामांसनिषेवणात् ॥
अत्यंतोन्मत्त दुश्चेष्टं रत्नचूडो निरैक्षत ॥२२॥
अध्याक्षिपच्च रे दुष्ट शिष्टकन्यापहारक ॥
मद्दृष्टिगोचरं यातः क्व यास्यस्यद्य रेऽधम ॥२३॥
मम बाणहतप्राणः प्रयाणं कुरु दुर्मते ॥
आर्तत्राणोद्यतमते वैवस्वतपुरं प्रति ॥२४॥
रत्नेश्वरस्य यैर्नाम प्रलयापद्यपि स्फुटम् ॥
गृहीतं न भवादृग्भ्यस्तेषु भीतिर्भयात्मसु ॥२५॥
रत्नेश्वरमहानाम कृतत्राणास्तु ये नराः ॥
तेषां जन्मजराव्याधि कलिकालभयं कुतः ॥२६॥
इत्युक्त्वा ता भयत्रस्तास्तन्मुखप्रहितेक्षणाः ॥
व्याघ्रघ्राता इव मृगीर्माभैषिष्टेत्युवाच सः ॥२७॥
इत्याश्वास्याथ गंधर्वीः स वै भुजगराजजः ॥
आकर्णपूर्णमाकृष्य कोदंडं प्राहिणोच्छरम् ॥२८॥
सोपि क्रुद्धो दनुजराट्पदास्पृष्टभुजंगवत् ॥
आविद्ध्य कालदंडाभं परिघं व्यसृजन्महत् ॥२९॥
हृदि रत्नेश्वरं लिंगं यस्य सम्यग्विजृंभते ॥
अलातदंडवत्तस्मिन्कालदंडोपि जायते ॥१३०॥
अंतरेव स चिच्छेद परिघं स्वमहेषुभिः ॥
दुर्वृतस्य यथेहायुर्विच्छिद्येतांतरैव हि ॥३१॥
ततोस्य बाणं चिक्षेप कालानलसमप्रभम् ॥
स बाणस्तस्य हृदयं प्रविश्य प्रगवेष्य च ॥३२॥
प्राणानस्य विनिर्यात्य स्वयं तूणमगात्पुनः ॥
हृदिस्थं तस्य दौरात्म्यं सर्वं विज्ञाय तत्त्वतः ॥३३॥
दिगंगनापुरः ख्यातुमिव नागाशुगो गतः ॥३४॥
अन्यायोपार्जितैर्द्रव्यैर्यः सुखं भोक्तुमिच्छति ॥
तानि द्रव्याणि यांत्येव स प्राणानि कुतः सुखम ॥३५॥
इति तं दानवं हत्वा नागराजो महाबली ॥
प्रत्युवाचाथ ताः कन्याः का यूयं कस्य चात्मजाः ॥३६॥
दुरात्मना कुतोनेन संगता दनुजन्मना ॥
क्व वा रत्नेश्वरं लिंगं भवतीभिर्विलोकितम् ॥३७॥
यस्य नामाक्षरोच्चाराद्व्यपेत परमापदः ॥
यृयमाशु तदाख्यात येन जानामि तत्त्वतः ॥२८॥
इति श्रुत्वा गिरस्तस्य नितरां प्रेमनिर्भराः॥
परस्परं मुखं वीक्ष्य कोसौ स्याद्दृष्टपूर्ववत् ॥३९॥
अकारण सखा कोसौ प्रांतरे समुपस्थितः ॥
निजप्राणान्पणीकृत्य येन त्राता स्म बालिकाः ॥१४०॥
अस्य संदर्शनादेव स्वभाव चपलान्यपि ॥
मंथराणींद्रियाणिस्तु परिपीय सुधामिव ॥४१॥
यातुमन्यत्र नो नेत्रे प्रोत्सहेते यथा तथा ॥
अन्यद्वस्त्वंतरं प्रेक्ष्य रमणीयतरंत्वपि ॥४२॥
वचःपीयूषमाधुर्य नितरां प्राप्य नः श्रुती ॥
शब्दांतरग्रहापेक्षां न कुर्वाते स्वजन्मनः ॥४३॥
आप्नुतः पंगुतामेतौ पादौ नश्चंचलावपि ॥
अमुं युवानमालोक्य चोरं नः सन्मनोमणेः ॥४४॥
इति ब्रुवंत्यस्ता बालाः परस्परमनुल्बणम् ॥
दृष्ट्वापि चित्रमध्यस्थं विविदुस्तन्न बालिकाः ॥४५॥
अतीव भीषणाकार दनुजस्यातिसाध्वसात् ॥
अंधीभूतेक्षणास्तं नाज्ञासिषुर्हरिणीक्षणाः ॥४६॥
ऊचुश्च तं युवानं ता निजजीवितरक्षिणम्॥
यदंग भवता पृष्टं स्नेहनिर्भरचेतसा ॥४७॥
तदाचक्षामहे सर्वमवधेहि क्षणं मनः ॥
इयं गंधर्वराजस्य वसुभूतेस्तनूद्भवा ॥४८॥
कन्या रत्नावली नाम गुणरत्नमहाखनिः ॥
वयं वयस्या एतस्याश्छायेवानुगताः सदा ॥४९॥
आरभ्य बाल्यमप्येषा लिंगं रत्नेश्वराभिधम् ॥
यांति पित्राप्यनुज्ञाता काश्यामर्चयितुं सदा ॥१५०॥
वरोपि दत्तस्तेनास्यै प्रसन्नेनाथ शंभुना ॥
हरिष्यतीति यः स्वप्ने कौमारं ते कुमारिके ॥५१॥
तव नामसमानाख्यः स ते भर्ता भविष्यति ॥
युवानं स्वप्नभोक्तारं प्राप्याप्येषा सुदुःखिता ॥५२॥
पुनस्तद्विरहोत्थेन वह्निनातीव तापिता॥
कलाकौशल्यतोऽस्माभिः सोपि चित्रे प्रदर्शितः ॥५३॥
यस्य न ग्राम नामापि नान्वयोप्यवबुध्यते ॥
तं दृष्ट्वा चित्रलिखितमप्येषा जीविता पुनः ॥५४॥
ततो रत्नेश्वरं नत्वा स्वगृहायोत्सुकाभवत् ॥
यांतीस्ततोऽनया सार्धं प्रांतरे गगना ध्वनि ॥५५॥
अतर्किता यमश्चास्मान्धृत्वा पातालमाविशत् ॥
अनंतरं भवानेव तं वेत्ति दनुजाधमम् ॥५६॥
अंग इत्येव वृत्तांतो निजोऽस्माभिरुदीरितः ॥
प्रसादं कुरु चास्माकं पुरः कोसि कृपानिधे ॥५७॥
यदा प्रभृति चास्माभिः स दृष्टो दुष्टदानवः ॥
तदाप्रभृति नो नेत्रे विद्युतेव हतप्रभे ॥५८॥
कांदिशीका भयत्रातर्न विद्मः किंचिदेव हि ॥
क्व वयं का वयं कस्त्वं किं जातं किं भविष्यति ॥५९॥
निशम्येति स पुण्यात्मा नागराजकुमारकः ॥
आश्वास्य ता भयत्रस्ताः प्रोवाचेदं च पुण्यधीः ॥१६०॥
मया सह समायात रत्नेशं दर्थयामि वः ॥
इत्याहूय स ता निन्ये क्रीडावापीं सुखोदकाम् ॥६१॥
वित्रित्रमणिसोपानां हंसकोककृतारवाम्॥
कवीनां वासितव्याजात्स्वागतं कुर्वतीमिव ॥६२॥
तत्र तेनाभ्यनुज्ञाताः क्रीडावाप्यां निमज्ज्य ताः ॥
सचैलपुष्पाभरणाः प्रोन्ममज्जुस्ततः पुनः ॥६३॥
बहिर्निर्गत्य गंधर्व्यः पश्यंत्यः स्थगिता इव ॥
रत्नेशालयमालोक्य कालराजसमीपतः ॥६४॥
परस्परं ततः प्रोचुर्गंधर्व्यो विस्मिता इव ॥
स्वप्नोयं किं नु वा सत्यं खेलो रत्नेश्वरस्य वा ॥६५॥
वयमेव हि वा भ्रांता गंधर्व्यो न वयं किमु ॥
किमेतन्नैव जानीम ऐंद्रजालिक खेलवत्॥ ६६॥
एषोत्तरवहा गंगा स्फुटमेव भवेदिह॥
शंखचूडस्य वाप्येषा शंखचूडालयस्त्वसौ ॥६७॥
एतत्पंचनदं तीर्थमेष वागीश्वरालयः ॥
यस्य संदर्शनादेव वाग्विभूतिर्विजृंभते ॥६८॥
शंखचूडेश्वरश्चैष शंखचूडप्रतिष्ठितः ॥
यस्य संदर्शनात्पुंसां न भयं कालसर्पजम् ॥६९॥
एषा मंदाकिनी नाम दीर्घिका पुण्यतोयभूः ॥
यस्यां कृतोदका मर्त्या मर्त्यलोके विशंति न ॥१७०॥।
असावाशापुरी देवी या स्तुता त्रिपुरारिणा ॥
त्रिपुरं जेतुकामेन मंदाकिन्यास्तटे शुभे ॥७१॥
याद्यापि पूजिता मर्त्यैराशां पूरयतेर्थिनाम्॥
मंदाकिन्याः प्रतीच्यां तु एष सिद्ध्यष्टकेश्वरः ॥७२॥
भवेद्यस्य सपर्यातो गृहे सिद्ध्यष्टकं स्फुटम् ॥
कुंडसिद्ध्यष्टकाख्यं च तत्रैव विरजोदकम् ॥७३॥
यत्र स्नात्वा कृतश्राद्धो विरजस्को दिवं व्रजेत् ॥
मूर्त्यस्ताः सिद्धयश्चाष्टौ याः काश्यां सर्वसिद्धिदाः ॥७४॥
सर्वसिद्धिप्रदश्चासौ महाराजविनायकः ॥
विनायकाः प्रणश्यंति यस्मै प्रणमतां नृणाम् ॥७५॥
असौ सिद्धेश्वरस्योच्चैः प्रासादः कांचनोज्ज्वलः ॥
रत्नध्वजपताकाश्च सिद्धिः स्याद्यद्विलोकनात् ॥७६॥
क्षेत्रस्य मध्यमे ॥भागे मध्यमेश्वर एष वै ॥
मध्याधोलोकयोर्मध्ये न वसेद्यस्य वीक्षणात् ॥७७॥
मध्यमेशं समभ्यर्च्य नरो मध्यमविष्टपे ॥
आसमुद्रक्षितींद्रः स्यात्ततो मोक्षं च विंदति ॥७८॥
ऐरावतेश्वरं लिंगं तत्प्राच्यामिष्टसिद्धिकृत् ॥
दृश्यते यत्पताकायां रम्य ऐरावतो गजः ॥७९॥
वृद्धकालेश्वरस्यैष प्रासादो रत्ननिर्मितः ॥।
प्रतिदर्शं वसेद्यत्र रात्रौ चंद्रः सतारकः ॥१८०॥
यस्य संदर्शनान्नृणां न कालः प्रभवेद्भवे ॥
न कलिः प्रभवेत्सत्यं न च कल्मषराशयः ॥८१॥
इति यावत्कथां चक्रुः संभ्रांता इव बालिकाः॥
तावद्वसुविभूतिः स गंधर्वस्त्वरया ययौ ॥८२॥
नारदाच्छ्रुतवृत्तांतः सुबाहुदनुजन्मनः ॥
रत्नावली सुता प्रीता ससखीका यथाहृता ॥८३॥
रत्नेश्वरात्समायांती शून्ये गगनवर्त्मनि ॥
यथानयच्च पातालं यथा युद्धमभूत्पुनः ॥८४॥
यथा रत्नेश भक्तेन रत्नचूडेन घातितः ॥
स सुबाहुर्दनुजनुर्महेष्वासेन चेषुणा ॥८५॥
यथा च पृष्टवृत्तांतो वापीमार्गेण चानयत् ॥
शंखचूडस्य वापीं तां पातालेषु प्रवर्तिनीम् ॥८६॥
यथा च प्राप्य निर्याताः काशीं दृष्ट्वापि बालिकाः ॥
भृशं संभ्रांतिमापन्नाः पश्यंत्योपि समुत्सुकाः ॥८७॥
दृष्ट्वा गंधर्वराजस्तां पुनर्जातामिवात्मजाम् ॥
सवयस्यामनाम्लानमुखपंकजसुश्रियम्॥ ८८॥
परिष्वज्य समाघ्राय ललाटफलकं मुहुः ॥
अंकमारोप्य पप्रच्छ सर्वं वृत्तांतमादरात् ॥८९॥
अथ सा कथयामास दनुजापहृतेः कथाम्॥
रत्नेश्वरं वरावाप्तिं स्वप्नावस्थां विहाय च॥१९०॥
रत्नावलीमनोवृत्तिं विज्ञायाथ मुखेंगितैः ॥शशिलेखा समाचष्ट स्पष्टवर्णैः सविस्तरम् ॥९१॥
तुतोष नितरां सोथ गंधर्वाधिपतिः कृती ॥
प्रभावं वर्णयामास मुदा रत्नेश्वरस्य च ॥९२
॥ स्कंद उवाच ॥
आकर्णय मुनिश्रेष्ठ विंध्यवृद्धि विवर्धन ॥
प्रत्यहं रत्नचूडोपि वापीमार्गेण संयमी ॥९३॥
नागलोकात्समागत्य स्नात्वा मंदाकिनी जले ॥
रत्नेश्वरं समभ्यर्च्य रत्नांजल्यष्टकेन वै ॥९४॥
सुवर्णपंकजान्यष्टौ समर्पयति हृष्टवत् ॥
एकदा स्वप्नसमये रत्नेशो लिंगरूपधृक् ॥९५॥
रत्नचूडमुवाचेदं निजभक्तं दृढव्रतम् ॥
दानवेन हृतां कन्यां मोचयिष्यति यां भवान् ॥९६॥
तं दानवं रणे जित्वा सा ते पत्नी भविष्यति ॥
इति स्मरन्वरं सोथ नागराजो महामनाः ॥९७॥
तां कन्यां दानवं हत्वा विमोच्य निज वीर्यतः ॥
वापीमार्गेण पातालादानिनाय पुनर्महीम् ॥९८॥
स्वयं च साधयांचक्रे प्रत्यहं नियमं सुधीः॥
लिंगं समर्चयित्वाथ कृत्वा चापि प्रदक्षिणम् ॥९९॥
यावद्बहिः समागच्छेद्रम्याद्रत्नेशमंडपात ॥
तावद्गंधर्वराजाय ताभिः स वसुभूतये ॥२००॥
सोयं सोयं युवा धन्यस्तर्जन्यग्रेण दर्शितः ॥
गंधर्वराजस्तं दृष्ट्वा नागराजकुमारकम्॥ १॥
अतीवस्मेरनयनः संप्रहृष्टतनूरुहः ॥
मनस्येनं च संवर्ण्य तद्रूपं सवयोन्वयम् ॥२॥
धन्योस्म्यनुगृहीतोस्मि रत्नेशेन वरार्पणात् ॥
कन्या धन्यतरा चेयमनुरूपोस्ति यत्पतिः ॥३॥
संप्रधार्येति हृद्येनं समाकार्य च सुंदरम् ॥
पृष्ट्वा तन्नामगोत्रं च गणयित्वा बलाबलम् ॥४॥
रत्नेश्वरस्य पुरतस्तस्मै कन्यां ददौ मुदा ॥
नीत्वा गंधर्वलोकं च कृतकौतुकमंगलम् ॥५॥
मधुपर्केण संपूज्य पाणिमग्राहयत्ततः ॥
वैवाहिकेन विधिना ददौ रत्नान्यनेकशः ॥६॥
शशिलेखानंगलेखा चित्रलेखापि कुंभज ॥
विज्ञाप्य स्वजनेतारं वरयामास तं पतिम् ॥७॥
उपयम्य चतस्रोपि स गंधर्वसुताः शुभाः ॥
रत्नचूडो जगामाथ ताभिः स्वपितृमंदिरम् ॥८॥
यथा चतसृभिः सार्धं श्रुतिभिः प्रणवः शिवम् ॥
स्वपित्रोश्चरणौ नत्वा नवोढाभिः स नागराट् ॥९॥
विनिवेदितवृत्तांतो रत्नेशानुग्रहस्य च ॥
उवास ताभिः ससुखं पितृभ्यामभिनंदितः ॥२१०॥
॥ ईश्वर उवाच ॥
रत्नेश्वरस्य लिंगस्य मम स्थावररूपिणः ॥
सर्वेषां सर्वदस्यास्य प्रभावो गिरिजेऽतुलः ॥११॥
अस्मिँल्लिंगे परां सिद्धि प्राप्ताः सिद्धाः सहस्रशः ॥
गुप्तमासीदिदं लिंगमद्य यावत्सुमध्यमे ॥१२॥
तव पित्रा हिमवता मम भक्तेन सर्वथा ॥
पुण्यार्जितैर्महारत्नै रत्नेशः प्रकटीकृतः ॥१३॥
अस्मिँल्लिंगे मम प्रीतिर्नितरामद्रिराजजे ॥
वाराणस्यामिदं लिंगं पूजनीयं प्रयत्नतः ॥१४॥
नाना रत्नानि लभ्यंते रत्नेशानुग्रहादुमे ॥
स्त्रीरत्नपुत्ररत्नादि स्वर्गमोक्षावपि प्रिये ॥१५॥
योऽत्र रत्नेश्वरं नत्वा मृतो देशांतरेष्वपि ॥
न स स्वर्गादिहागच्छेत्कल्पकोटिशतैरपि ॥१६॥
असितायां चतुर्दश्यामुपोष्य निशि जागरात्॥
रत्नेशसन्निधौ देवि मम सान्निध्यमाप्नुयात् ॥१७॥
अस्य लिंगस्य पूर्वेण त्वया जन्मांतरे प्रिये ॥
दाक्षायणीश्वरं लिगं मद्भक्त्यात्र प्रतिष्ठितम् ॥१८॥
तस्य संदर्शनादेव न नरो याति दुर्गतिम् ॥
अंबिका नाम गौरी त्वं तत्राहं चांबिकेश्वरः ॥१९॥
मूर्तः षडाननस्तत्र तव पुत्रः सुमध्यमे ॥
एतत्त्रयं नरो दृष्ट्वा न गर्भं प्रविशेदुमे ॥२२०॥
रत्नेश्वरस्य माहात्म्यं मया ते समुदीरितम् ॥
गोपनीयं प्रयत्नेन कलिकल्मषचेतसाम् ॥२१॥
इदं रत्नेश्वराख्यानं यः पठिष्यति सर्वदा ॥
सपुत्रपौत्रपशुभिर्न वियुज्येत कर्हिचित् ॥२२॥
श्रुत्वा रत्नेश्वरोत्पतिं सेतिहासां नरोत्तमः ॥
अनूढो लभते सत्यं कन्यारत्नं कुलोचितम् ॥२३॥
कन्यापीमं समाकर्ण्य त्वितिहासं मनोरमम् ॥
श्रद्धया सत्पतिं प्राप्य भविष्यति पतिव्रता ॥२४॥
इतिहासमिमं श्रुत्वा नारी वा पुरुषोपिवा ॥
न जात्विष्टवियोगाग्नि तापेन परितप्यते ॥२२५॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे रत्नेश्वरप्रशंसनं नाम सप्तषष्टितमोऽध्यायः ॥६७॥

N/A

References : N/A
Last Updated : November 27, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP