काशीखण्डः - अध्याय ९५
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ व्यास उवाच [। ॥
शृणु सूत महाबुद्धे यथा स्कंदेन भाषितम् ॥
भविष्यं मम तस्याग्रे कुंभयोने महामते ॥१॥
॥ स्कंद उवाच ॥
निशामय महाभाग त्वं मैत्रावरुणे मुने ॥
पाराशर्यो मुनिवरो यथा मोहमुपैष्यति ॥२॥
व्यस्य वेदान्महाबुद्धिर्नाना शाखा प्रभेदतः ॥
अष्टादशपुराणानि सूतादीन्परिपाठ्य च ॥३॥
श्रुतिस्मृतिपुराणानां रहस्यं यस्त्वचीकरत् ॥
महाभारतसंज्ञं च सर्वलोकमनोहरम् ॥४॥
सर्वपापप्रशमनं सर्वशांतिकरं परम् ॥
यस्य श्रवणमात्रेण ब्रह्महत्या विनश्यति ॥५॥
एकदा स मुनिः श्रीमान्पर्यटन्पृथिवीतले ॥
संप्राप्तो नैमिषारण्यं यत्र संति मुनीश्वराः ॥६॥
अष्टाशीतिसहस्राणि शौनकाद्यास्तपोधनाः ॥.
त्रिपुंड्रितमहाभाला लसद्रुद्राक्षमालिनः ॥७॥
विभूतिधारिणो भक्त्या रुद्रसूक्तजपप्रियान् ॥
लिंगाराधनसंसक्ताञ्छिवनामकृतादरान् ॥८॥
एक एव हि विश्वेशो मुक्तिदो नान्य एव हि ॥
इति ब्रुवाणान्सततं परिनिश्चितमानसान् ॥९॥
विलोक्य स मुनिर्व्यासस्तासर्वान्गिरिशात्मनः ॥
उत्क्षिप्य तर्जनीमुच्चैः प्रोवाचेदं वचः पुनः ॥१०॥
परिनिर्मथ्य वाग्जालं सुनिश्चित्यासकृद्बहु ॥
इदमेकं परिज्ञातं सेव्यः सर्वेश्वरो हरिः ॥११॥
वेदे रामायणे चैव पुराणेषु च भारते ॥
आदिमध्यावसानेषु हरिरेकोऽत्र नापरः ॥१२॥
सत्यं सत्यं त्रिसत्यं पुनः सत्यं न मृषा पुनः ॥
न वेदादपरं शास्त्रं न देवोच्युततः परः ॥१३॥
लक्ष्मीशः सर्वदो नान्यो लक्ष्मीशोप्यपवर्गदः ॥
एक एव हि लक्ष्मीशस्ततो ध्येयो न चापरः ॥१४॥
भुक्तेर्मुक्तेरिहान्यत्र नान्यो दाता जनार्दनात्॥
तस्माच्चतुर्भुजो नित्यं सेवनीयः सुखेप्सुभिः ॥१५॥
विहाय केशवादन्यं ये सेवंतेल्पमेधसः ॥
संसारचक्रे गहने ते विशंति पुनःपुनः ॥१६॥
एक एव हि सर्वेशो हृषीकेशः परात्परः ॥
तं सेवमानः सततं सेव्यस्त्रिजगतां भवेत्॥१७॥
एको धर्मप्रदो विष्णुस्त्वेको बह्वर्थदो हरिः ॥
एकः कामप्रदश्चक्री त्वेको मोक्षप्रदोच्युतः ॥१८॥
शार्ङ्गिणं ये परित्यज्य देवमन्यमुपासते ॥
ते सद्भिश्च बहिष्कार्या वेदहीना यथा द्विजाः ॥१९॥
श्रुत्वेति वाक्यं व्यासस्य नैमिषारण्यवासिनः॥
प्रवेपमानहृदयाः परिप्रोचुरिदं वचः ॥२०॥
॥ ऋषय ऊचुः ॥
पाराशर्य मुने मान्यस्त्वमस्माकं महामते ॥
यतो वेदास्त्वया व्यस्ताः पुराणान्यपि वेत्ति यत् ॥२१॥
यतश्च कर्ता त्वमसि महतो भारतस्य वै ॥
धर्मार्थकाममोक्षाणां विनिश्चयकृतो ध्रुवम् ॥२२॥
तत्त्वज्ञः कोपरश्चात्र त्वत्तः सत्यवतीसुत॥
भवता यत्प्रतिज्ञातं निश्चित्योक्षिप्यतर्जनीम् ॥२३॥
अस्मिन्माणवकास्तत्र परिश्रद्दधते नहि ॥
प्रतिज्ञा तस्य वचसस्तव श्रद्धा भवेत्तदा ॥२४॥
यदाऽऽनंदवने शंभोः प्रतिजानासि वै वचः ॥२५॥
गच्छ वाराणसीं व्यास यत्र विश्वेश्वरः स्वयम् ॥
न तत्र युगधर्मोस्ति न च लग्ना वसुंधरा ॥२६॥
इति श्रुत्वा मुनिर्व्यासः किंचित्कुपितवद्धृदि ॥
जगाम तूर्णं सहितः स्वशिष्यैरयुतोन्मितैः ॥२७॥
प्राप्य वाराणसीं व्यासः स्नात्वा पंचनदे ह्रदे ॥
श्रीमन्माधवमभ्यर्च्य ययौ पादोदकं ततः ॥२८॥
तत्र स्नानादिकं कृत्वा दृष्ट्वा चैवादिकेशवम् ॥
पंचरात्रं ततः कृत्वा वैष्णवैरभिनंदितः ॥२९॥
अग्रतः पृष्ठतः शंखैर्वाद्यमानैः प्रमोदितः ॥
जयविष्णो हृषीकेश गोविंद मधुसूदन ॥३०॥
अच्युतानंतवैकुंठ माधवोपेंद्रकेशव ॥
त्रिविक्रम गदापाणे शार्ङ्गपाणे जनार्दन ॥३१॥
श्रीवत्सवक्षः श्रीकांत पीतांबर मुरांतक ॥
कैटभारे बलिध्वंसिन्कंसारे केशिसूदन ॥३२॥
नारायणासुररिपो कृष्ण शौरे चतुर्भुज ॥
देवकीहृदयानंद यशोदानंदवर्धन ॥३३॥
पुंडरीकाक्ष दैत्यारे दामोदर बलप्रिय ॥
बलारातिस्तुत हरे वासुदेव वसुप्रद ॥३४॥
विष्वक्चमूस्तार्क्ष्य रथवनमालिन्नरोत्तम ॥
अधोक्षज क्षमाधार पद्मनाभ जलेशय ॥३५॥
नृसिंह यज्ञवाराह गोपगोपालवल्लभ ॥
गोपीपते गुणातीत गरुडध्वज गोत्रभृत् ॥३६॥
जय चाणूरमथन जय त्रैलोक्यरक्षण ॥
जयानाद्य जयानंद जय नीलोत्पलद्युते ॥३७॥
कौस्तुभोद्भूषितोरस्क पूतनाधातुशोषण ॥
रक्षरक्ष जगद्रक्षामणे नरकहारक ॥३८॥
सहस्रशीर्षपुरुष पुरुहूत सुखप्रद ॥
यद्भूतं यच्च भाव्यं वै तत्रैकः पुरुषो भवान् ॥३९॥
इत्यादि नाममालाभिः संस्तुवन्वनमालिनम् ॥
स्वच्छंदलीलया गायन्नृत्यंश्च परया मुदा ॥४०॥
व्यासो विश्वेशभवनं समायातः सुहृष्टवत् ॥
ज्ञानवापी पुरोभागे महाभागवतैः सह ॥४१॥
विराजमानसत्कंठस्तुलसीवरदामभिः ॥
स्वयं तालधरो जातः स्वयं जातः सुनर्तकः ॥४२॥
वेणुवादनतत्त्वज्ञः स्वयं श्रुतिधरोभवत् ॥
नृत्यं परिसमाप्येत्थं व्यासः सत्यवतीसुतः ॥४३॥
पुनरूर्ध्वभुजं कृत्वा दक्षिणं शिष्यमध्यगः ॥
पुनः पपाठ तानेव श्लोकान्गायन्निवोच्चकैः ॥४४॥
परिनिर्मथ्य वाग्जालं सुनिश्चित्यासकृद्बहु ॥
इदमेकं परिज्ञातं सेव्यः सर्वेश्वरो हरिः ॥४५॥
इत्यादि श्लोकसंघातं स्वप्रतिज्ञा प्रबोधकम्॥
यावत्पठति स व्यासः सव्यमुत्क्षिप्य वै भुजम् ॥४६॥
तस्तंभ तावत्तद्बाहुं स शैलादिः स्वलीलया ॥
वाक्स्तंभश्चापि तस्यासीन्मुनेर्व्यासस्य सन्मुनेः ॥४७॥
ततो गुप्तं समागम्य विष्णुर्व्यासमभाषत ॥
अपराद्धं महच्चात्र भवता व्यास निश्चितम् ॥४८॥
तवैतदपराधेन भीतिर्मेपि महत्तरा ॥
एक एव हि विश्वेशो द्वितीयो नास्ति कश्चन ॥४९॥
तत्प्रसादादहं चक्री लक्ष्मीशस्तत्प्रभावतः ॥
त्रैलोक्यरक्षासामर्थ्यं दत्तं तेनैव शंभुना ॥५०॥
तद्भक्त्या परमैश्वर्यं मया लब्धं वरात्ततः ॥
इदानीं स्तुहि तं शंभुं यदि मे शुभमिच्छसि ॥५१॥
अन्यदापि न वै कार्या भवता शेमुषीदृशी ॥
पाराशर्य इति श्रुत्वा संज्ञया व्याजहार ह ॥५२॥
भुजस्तंभः कृतस्तेन नंदिना दृष्टिमात्रतः ॥
वाक्स्तंभस्तद्भयाज्जातः स्पृश मे कंठकंदलीम्॥ ५३॥
यथा स्तोतुं भवानीश प्रभवाभि भवांतकम ॥
संस्पृश्य विष्णुस्तत्कंठं गुप्तमेव जगाम ह ॥५४॥
ततः सत्यवतीसूनुस्तथा स्तंभितदोर्लतः॥
प्रारब्धवान्महेशानं परितुष्टोतुमुदारधीः ॥५५॥
॥ व्यास उवाच ॥
एको रुद्रो न द्वितीयो यतस्तद्ब्रह्मैवैकं नेह नानास्ति किंचित् ॥
यद्यप्यन्यः कोपि वा कुत्रचिद्वा व्याचष्टां तद्यस्य शक्तिर्मदग्रे ॥२६॥
यः क्षीराब्धेर्मंदराघातजातो ज्वालामाली कालकूटोति भीमः ॥
तं सोढुं वा को परोऽभून्महेशाद्यत्कीलाभिः कृष्णतामाप विष्णुः ॥५७॥
यद्वाणोभूच्छ्रीपतिर्यस्य यंता लोकेशो यत्स्यंदनं भूः समस्ता ॥
वाहा वेदा यस्य येनेषुपाताद्दग्धा ग्रामास्त्रैपुरास्तत्समः कः ॥५८॥
यं कदर्पो वीक्षमाणः समानं देवैरन्यैर्भस्मजातः स्वयं हि ॥
पौष्पैर्बाणैः सर्वविश्वैकजेता को वा स्तुत्यः कामजेतुस्ततोन्यः ॥५९॥
यं वै वेदो वेद नो नैव विष्णुर्नोवा वेधा नो मनो नैव वाणी ॥
तं देवेशं मादृशः कोल्पमेधा याथात्म्याद्वै वेत्त्यहो विश्वनाथम् ॥६०॥
यस्मिन्सर्वं यस्तु सर्वत्र सर्वो यो वै कर्ता योऽविता योऽपहर्ता ॥
नो यस्यादिर्यः समस्तादिरेको नो यस्यांतो योंतकृत्तं नतोस्मि ॥६१॥
यस्यैकाख्या वाजिमेधेन तुल्या यस्या न त्या चैकयाल्पेंद्रलक्ष्मीः ॥
यस्य स्तुत्या लभ्यते सत्यलोको यस्यार्चातो मोक्षलक्ष्मीरदूरा ॥६२॥
नान्यं देवं वेद्म्यहं श्रीमहेशान्नान्यं देवं स्तौमि शंभोर्ऋतेऽहम् ॥
नान्यं देवं वा नमामि त्रिनेत्रात्सत्यं सत्यं सत्यमेतन्मृषा न ॥६३॥
इत्थं यावत्स्तौति शंभुं महर्षिस्तावन्नंदी शांभवाद्दृक्प्रसादात् ॥
तद्दोः स्तंभं त्यक्तवांश्चाबभाषे स्मायंस्मायं ब्राह्मणेभ्यो नमो वः ॥६४॥
नंदिकेश्वर उवाच ॥
इदं स्तवं महापुण्यं व्यास ते परिकीर्तितम् ॥
यः पठिष्यति मेधावी तस्य तुष्यति शंकरः ॥६५॥
व्यासाष्टकमिदं प्रातः पठितव्यं प्रयत्नतः ॥
दुःस्वप्नपापशमनं शिवसान्निध्यकारकम् ॥६६॥
मातृहा पितृहा वापि गोघ्नो बालघ्र एव वा ॥
सुरापी स्वर्णहृद्वापि निष्पापो स्याः स्तुतेर्जपात् ॥६७॥
स्कंद उवाच ॥
पाराशर्यस्तदारभ्य शंभुभक्तिपरोभवत् ॥
लिंगं व्यासेश्वरं स्थाप्य घंटाकर्ण ह्रदाग्रतः ॥६८॥
विभूतिभूषणो नित्यं नित्यरुद्राक्षभूषणः ॥
रुद्रसूक्तपरो नित्यं नित्यं लिंगार्चकोभवत् ॥६९॥
स कृत्वा क्षेत्रसंन्यासं त्यजेन्नाद्यापि काशिकाम् ॥
तत्त्वं क्षेत्रस्य विज्ञाय निर्वाणपददायिनः ॥७०॥
घंटाकर्णह्रदे स्नात्वा दृष्ट्वा व्यासेश्वरं नरः ॥
यत्रकुत्र मृतो वापि वाराणस्यां मृतो भवेत् ॥७१॥
काश्यां व्यासेश्वरं लिंगं पूजयित्वा नरोत्तमः ॥
न ज्ञानाद्भ्रश्यते क्वापि पातकैर्नाभिभूयते ॥७२॥
व्यासेश्वरस्य ये भक्ता न तेषां कलिकालतः ॥
न पापतो भयं क्वापि न च क्षेत्रोपसर्गतः ॥७३॥
व्यासेश्वरः प्रयत्नेन द्रष्टव्यः काशिवासिभिः ॥
घंटाकर्णकृतस्नानैः क्षेत्रपातकभीरुभिः ॥७४॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे व्यासभुजस्तंभोनाम पंचनवतितमोऽध्यायः ॥९५॥
N/A
References : N/A
Last Updated : November 27, 2024
TOP