संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|काशीखण्ड| अध्याय ९५ काशीखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० विषयानुक्रमणिका काशीखण्डः - अध्याय ९५ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ९५ Translation - भाषांतर ॥ व्यास उवाच [। ॥शृणु सूत महाबुद्धे यथा स्कंदेन भाषितम् ॥भविष्यं मम तस्याग्रे कुंभयोने महामते ॥१॥॥ स्कंद उवाच ॥निशामय महाभाग त्वं मैत्रावरुणे मुने ॥पाराशर्यो मुनिवरो यथा मोहमुपैष्यति ॥२॥व्यस्य वेदान्महाबुद्धिर्नाना शाखा प्रभेदतः ॥अष्टादशपुराणानि सूतादीन्परिपाठ्य च ॥३॥श्रुतिस्मृतिपुराणानां रहस्यं यस्त्वचीकरत् ॥महाभारतसंज्ञं च सर्वलोकमनोहरम् ॥४॥सर्वपापप्रशमनं सर्वशांतिकरं परम् ॥यस्य श्रवणमात्रेण ब्रह्महत्या विनश्यति ॥५॥एकदा स मुनिः श्रीमान्पर्यटन्पृथिवीतले ॥संप्राप्तो नैमिषारण्यं यत्र संति मुनीश्वराः ॥६॥अष्टाशीतिसहस्राणि शौनकाद्यास्तपोधनाः ॥.त्रिपुंड्रितमहाभाला लसद्रुद्राक्षमालिनः ॥७॥विभूतिधारिणो भक्त्या रुद्रसूक्तजपप्रियान् ॥लिंगाराधनसंसक्ताञ्छिवनामकृतादरान् ॥८॥एक एव हि विश्वेशो मुक्तिदो नान्य एव हि ॥इति ब्रुवाणान्सततं परिनिश्चितमानसान् ॥९॥विलोक्य स मुनिर्व्यासस्तासर्वान्गिरिशात्मनः ॥उत्क्षिप्य तर्जनीमुच्चैः प्रोवाचेदं वचः पुनः ॥१०॥परिनिर्मथ्य वाग्जालं सुनिश्चित्यासकृद्बहु ॥इदमेकं परिज्ञातं सेव्यः सर्वेश्वरो हरिः ॥११॥वेदे रामायणे चैव पुराणेषु च भारते ॥आदिमध्यावसानेषु हरिरेकोऽत्र नापरः ॥१२॥सत्यं सत्यं त्रिसत्यं पुनः सत्यं न मृषा पुनः ॥न वेदादपरं शास्त्रं न देवोच्युततः परः ॥१३॥लक्ष्मीशः सर्वदो नान्यो लक्ष्मीशोप्यपवर्गदः ॥एक एव हि लक्ष्मीशस्ततो ध्येयो न चापरः ॥१४॥भुक्तेर्मुक्तेरिहान्यत्र नान्यो दाता जनार्दनात्॥तस्माच्चतुर्भुजो नित्यं सेवनीयः सुखेप्सुभिः ॥१५॥विहाय केशवादन्यं ये सेवंतेल्पमेधसः ॥संसारचक्रे गहने ते विशंति पुनःपुनः ॥१६॥एक एव हि सर्वेशो हृषीकेशः परात्परः ॥तं सेवमानः सततं सेव्यस्त्रिजगतां भवेत्॥१७॥एको धर्मप्रदो विष्णुस्त्वेको बह्वर्थदो हरिः ॥एकः कामप्रदश्चक्री त्वेको मोक्षप्रदोच्युतः ॥१८॥शार्ङ्गिणं ये परित्यज्य देवमन्यमुपासते ॥ते सद्भिश्च बहिष्कार्या वेदहीना यथा द्विजाः ॥१९॥श्रुत्वेति वाक्यं व्यासस्य नैमिषारण्यवासिनः॥प्रवेपमानहृदयाः परिप्रोचुरिदं वचः ॥२०॥॥ ऋषय ऊचुः ॥पाराशर्य मुने मान्यस्त्वमस्माकं महामते ॥यतो वेदास्त्वया व्यस्ताः पुराणान्यपि वेत्ति यत् ॥२१॥यतश्च कर्ता त्वमसि महतो भारतस्य वै ॥धर्मार्थकाममोक्षाणां विनिश्चयकृतो ध्रुवम् ॥२२॥तत्त्वज्ञः कोपरश्चात्र त्वत्तः सत्यवतीसुत॥भवता यत्प्रतिज्ञातं निश्चित्योक्षिप्यतर्जनीम् ॥२३॥अस्मिन्माणवकास्तत्र परिश्रद्दधते नहि ॥प्रतिज्ञा तस्य वचसस्तव श्रद्धा भवेत्तदा ॥२४॥यदाऽऽनंदवने शंभोः प्रतिजानासि वै वचः ॥२५॥गच्छ वाराणसीं व्यास यत्र विश्वेश्वरः स्वयम् ॥न तत्र युगधर्मोस्ति न च लग्ना वसुंधरा ॥२६॥इति श्रुत्वा मुनिर्व्यासः किंचित्कुपितवद्धृदि ॥जगाम तूर्णं सहितः स्वशिष्यैरयुतोन्मितैः ॥२७॥प्राप्य वाराणसीं व्यासः स्नात्वा पंचनदे ह्रदे ॥श्रीमन्माधवमभ्यर्च्य ययौ पादोदकं ततः ॥२८॥तत्र स्नानादिकं कृत्वा दृष्ट्वा चैवादिकेशवम् ॥पंचरात्रं ततः कृत्वा वैष्णवैरभिनंदितः ॥२९॥अग्रतः पृष्ठतः शंखैर्वाद्यमानैः प्रमोदितः ॥जयविष्णो हृषीकेश गोविंद मधुसूदन ॥३०॥अच्युतानंतवैकुंठ माधवोपेंद्रकेशव ॥त्रिविक्रम गदापाणे शार्ङ्गपाणे जनार्दन ॥३१॥श्रीवत्सवक्षः श्रीकांत पीतांबर मुरांतक ॥कैटभारे बलिध्वंसिन्कंसारे केशिसूदन ॥३२॥नारायणासुररिपो कृष्ण शौरे चतुर्भुज ॥देवकीहृदयानंद यशोदानंदवर्धन ॥३३॥पुंडरीकाक्ष दैत्यारे दामोदर बलप्रिय ॥बलारातिस्तुत हरे वासुदेव वसुप्रद ॥३४॥विष्वक्चमूस्तार्क्ष्य रथवनमालिन्नरोत्तम ॥अधोक्षज क्षमाधार पद्मनाभ जलेशय ॥३५॥नृसिंह यज्ञवाराह गोपगोपालवल्लभ ॥गोपीपते गुणातीत गरुडध्वज गोत्रभृत् ॥३६॥जय चाणूरमथन जय त्रैलोक्यरक्षण ॥जयानाद्य जयानंद जय नीलोत्पलद्युते ॥३७॥कौस्तुभोद्भूषितोरस्क पूतनाधातुशोषण ॥रक्षरक्ष जगद्रक्षामणे नरकहारक ॥३८॥सहस्रशीर्षपुरुष पुरुहूत सुखप्रद ॥यद्भूतं यच्च भाव्यं वै तत्रैकः पुरुषो भवान् ॥३९॥इत्यादि नाममालाभिः संस्तुवन्वनमालिनम् ॥स्वच्छंदलीलया गायन्नृत्यंश्च परया मुदा ॥४०॥व्यासो विश्वेशभवनं समायातः सुहृष्टवत् ॥ज्ञानवापी पुरोभागे महाभागवतैः सह ॥४१॥विराजमानसत्कंठस्तुलसीवरदामभिः ॥स्वयं तालधरो जातः स्वयं जातः सुनर्तकः ॥४२॥वेणुवादनतत्त्वज्ञः स्वयं श्रुतिधरोभवत् ॥नृत्यं परिसमाप्येत्थं व्यासः सत्यवतीसुतः ॥४३॥पुनरूर्ध्वभुजं कृत्वा दक्षिणं शिष्यमध्यगः ॥पुनः पपाठ तानेव श्लोकान्गायन्निवोच्चकैः ॥४४॥परिनिर्मथ्य वाग्जालं सुनिश्चित्यासकृद्बहु ॥इदमेकं परिज्ञातं सेव्यः सर्वेश्वरो हरिः ॥४५॥इत्यादि श्लोकसंघातं स्वप्रतिज्ञा प्रबोधकम्॥यावत्पठति स व्यासः सव्यमुत्क्षिप्य वै भुजम् ॥४६॥तस्तंभ तावत्तद्बाहुं स शैलादिः स्वलीलया ॥वाक्स्तंभश्चापि तस्यासीन्मुनेर्व्यासस्य सन्मुनेः ॥४७॥ततो गुप्तं समागम्य विष्णुर्व्यासमभाषत ॥अपराद्धं महच्चात्र भवता व्यास निश्चितम् ॥४८॥तवैतदपराधेन भीतिर्मेपि महत्तरा ॥एक एव हि विश्वेशो द्वितीयो नास्ति कश्चन ॥४९॥तत्प्रसादादहं चक्री लक्ष्मीशस्तत्प्रभावतः ॥त्रैलोक्यरक्षासामर्थ्यं दत्तं तेनैव शंभुना ॥५०॥तद्भक्त्या परमैश्वर्यं मया लब्धं वरात्ततः ॥इदानीं स्तुहि तं शंभुं यदि मे शुभमिच्छसि ॥५१॥अन्यदापि न वै कार्या भवता शेमुषीदृशी ॥पाराशर्य इति श्रुत्वा संज्ञया व्याजहार ह ॥५२॥भुजस्तंभः कृतस्तेन नंदिना दृष्टिमात्रतः ॥वाक्स्तंभस्तद्भयाज्जातः स्पृश मे कंठकंदलीम्॥ ५३॥यथा स्तोतुं भवानीश प्रभवाभि भवांतकम ॥संस्पृश्य विष्णुस्तत्कंठं गुप्तमेव जगाम ह ॥५४॥ततः सत्यवतीसूनुस्तथा स्तंभितदोर्लतः॥प्रारब्धवान्महेशानं परितुष्टोतुमुदारधीः ॥५५॥॥ व्यास उवाच ॥एको रुद्रो न द्वितीयो यतस्तद्ब्रह्मैवैकं नेह नानास्ति किंचित् ॥यद्यप्यन्यः कोपि वा कुत्रचिद्वा व्याचष्टां तद्यस्य शक्तिर्मदग्रे ॥२६॥यः क्षीराब्धेर्मंदराघातजातो ज्वालामाली कालकूटोति भीमः ॥तं सोढुं वा को परोऽभून्महेशाद्यत्कीलाभिः कृष्णतामाप विष्णुः ॥५७॥यद्वाणोभूच्छ्रीपतिर्यस्य यंता लोकेशो यत्स्यंदनं भूः समस्ता ॥वाहा वेदा यस्य येनेषुपाताद्दग्धा ग्रामास्त्रैपुरास्तत्समः कः ॥५८॥यं कदर्पो वीक्षमाणः समानं देवैरन्यैर्भस्मजातः स्वयं हि ॥पौष्पैर्बाणैः सर्वविश्वैकजेता को वा स्तुत्यः कामजेतुस्ततोन्यः ॥५९॥यं वै वेदो वेद नो नैव विष्णुर्नोवा वेधा नो मनो नैव वाणी ॥तं देवेशं मादृशः कोल्पमेधा याथात्म्याद्वै वेत्त्यहो विश्वनाथम् ॥६०॥यस्मिन्सर्वं यस्तु सर्वत्र सर्वो यो वै कर्ता योऽविता योऽपहर्ता ॥नो यस्यादिर्यः समस्तादिरेको नो यस्यांतो योंतकृत्तं नतोस्मि ॥६१॥यस्यैकाख्या वाजिमेधेन तुल्या यस्या न त्या चैकयाल्पेंद्रलक्ष्मीः ॥यस्य स्तुत्या लभ्यते सत्यलोको यस्यार्चातो मोक्षलक्ष्मीरदूरा ॥६२॥नान्यं देवं वेद्म्यहं श्रीमहेशान्नान्यं देवं स्तौमि शंभोर्ऋतेऽहम् ॥नान्यं देवं वा नमामि त्रिनेत्रात्सत्यं सत्यं सत्यमेतन्मृषा न ॥६३॥इत्थं यावत्स्तौति शंभुं महर्षिस्तावन्नंदी शांभवाद्दृक्प्रसादात् ॥तद्दोः स्तंभं त्यक्तवांश्चाबभाषे स्मायंस्मायं ब्राह्मणेभ्यो नमो वः ॥६४॥नंदिकेश्वर उवाच ॥इदं स्तवं महापुण्यं व्यास ते परिकीर्तितम् ॥यः पठिष्यति मेधावी तस्य तुष्यति शंकरः ॥६५॥व्यासाष्टकमिदं प्रातः पठितव्यं प्रयत्नतः ॥दुःस्वप्नपापशमनं शिवसान्निध्यकारकम् ॥६६॥मातृहा पितृहा वापि गोघ्नो बालघ्र एव वा ॥सुरापी स्वर्णहृद्वापि निष्पापो स्याः स्तुतेर्जपात् ॥६७॥स्कंद उवाच ॥पाराशर्यस्तदारभ्य शंभुभक्तिपरोभवत् ॥लिंगं व्यासेश्वरं स्थाप्य घंटाकर्ण ह्रदाग्रतः ॥६८॥विभूतिभूषणो नित्यं नित्यरुद्राक्षभूषणः ॥रुद्रसूक्तपरो नित्यं नित्यं लिंगार्चकोभवत् ॥६९॥स कृत्वा क्षेत्रसंन्यासं त्यजेन्नाद्यापि काशिकाम् ॥तत्त्वं क्षेत्रस्य विज्ञाय निर्वाणपददायिनः ॥७०॥घंटाकर्णह्रदे स्नात्वा दृष्ट्वा व्यासेश्वरं नरः ॥यत्रकुत्र मृतो वापि वाराणस्यां मृतो भवेत् ॥७१॥काश्यां व्यासेश्वरं लिंगं पूजयित्वा नरोत्तमः ॥न ज्ञानाद्भ्रश्यते क्वापि पातकैर्नाभिभूयते ॥७२॥व्यासेश्वरस्य ये भक्ता न तेषां कलिकालतः ॥न पापतो भयं क्वापि न च क्षेत्रोपसर्गतः ॥७३॥व्यासेश्वरः प्रयत्नेन द्रष्टव्यः काशिवासिभिः ॥घंटाकर्णकृतस्नानैः क्षेत्रपातकभीरुभिः ॥७४॥इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे व्यासभुजस्तंभोनाम पंचनवतितमोऽध्यायः ॥९५॥ N/A References : N/A Last Updated : November 27, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP