संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|काशीखण्ड| अध्याय ७४ काशीखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० विषयानुक्रमणिका काशीखण्डः - अध्याय ७४ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ७४ Translation - भाषांतर ॥ स्कंद उवाच ॥शृणु वातापि संहर्तः काश्यां पातकतंकिनी ॥पद्मकल्पे तु या वृत्ता दमनस्य द्विजन्मनः ॥१॥भारद्वाजस्य तनयो दमनो नाम नामतः ॥कृतमौंजीविधिः सोथ विद्याजातं प्रगृह्य च ॥२॥संसारदुःखबहुलं जीवितं चापि चंचलम् ॥विज्ञाय दमनो विद्वान्निर्जगाम गृहान्निजात् ॥३॥कांचिद्दिशं समालंब्य निर्वेदं परमं गतः ॥प्रत्याश्रमं प्रतिनगं प्रत्यब्धि प्रतिकाननम् ॥४॥प्रतितीर्थं प्रतिनदि स बभ्राम तपोयुतः ॥यावंत्यायतनानीह तिष्ठंति परितो भुवम् ॥५॥अध्युवास स तावंति संयतेंद्रियमानसः ॥परं न मनसः स्थैर्यं क्वापि प्रापि च तेन वै ॥६॥मनोरथोपदेष्टा च कुत्रचित्क्वापि नेक्षितः ॥कदाचिद्दैवयोगात्स दमनो नाम तापसः ॥७॥रेवातटे निरैक्षिष्ट तीर्थं चामरकंटकम् ॥महदायतनं पुण्यमोंकारस्यापि तत्र वै ॥८॥दृष्ट्वा हृष्टमना आसीच्चेतः स्थैर्यमवाप ह ॥अथ पाशुपतांस्तत्र स निरीक्ष्य तपोधनान् ॥९॥विभूतिभूषिततनून्कृतलिंगसमर्चनान् ॥विहितप्राणयात्रांश्च कृतागमविचारणान् ॥१०॥स्वस्थोपविष्टान्स्वपुरोरग्रतोऽचलमानसान् ॥प्रणम्योपाविशत्तत्र तदाचार्यस्य सन्निधौ ॥११॥प्रबद्धहस्तयुगलः प्रणमतरकंधरः ॥अथ पाशुपताचार्यो गर्गो नाम महामुनिः ॥१२॥वार्धकेन समाक्रांतस्तपसा कृशविग्रहः ॥शंभोराराधनेनिष्ठः श्रेष्ठः सर्वतपस्विषु ॥१३॥पप्रच्छ दमनं चेति कस्त्वं कस्मादिहागतः ॥तरुणोपि विरक्तोसि कुतस्तद्वद सत्तम ॥।१४॥।इति प्रणयपूर्वं स निशम्य दमनोऽब्रवीत् ॥भगोः पाशुपताचार्य सर्वज्ञाराधनप्रिय ॥१५॥कथयामि यथार्थं ते निजचेतोविचेष्टितम् ॥अहं ब्राह्मणदायादो वेदशास्त्रकृतश्रमः ॥१६॥संसारासारतां ज्ञात्वा वानप्रस्थमशिश्रियम् ॥अनेनैव शरीरेण महासिद्धिमभीप्सता ॥१७॥स्नातं बहुषु तीर्थेषु मंत्रा जप्तास्तु कोटिशः ॥देवताः सेविता बह्व्यो हवनं च कृतं बहु ॥१८॥शुश्रूषिताश्च गुरवो बहवो बह्वनेहसम् ॥महाश्मशानेषु निशा भूयस्योप्यतिवाहिताः ॥१९॥शिखराणि गिरींद्राणां मया चाध्युषितान्यहो ॥दिव्यौषधि सहस्राणि मया संसाधितान्यपि ॥२०॥रसायनानि बहुशः सेवितानि मया पुनः ॥महासाहसमालंब्य सिद्धाध्युषितकंदराः ॥२१॥मया प्रविष्टा बहुशः कृतांतवदनोपमाः ॥तपश्चापि महत्तप्तं बहुभिर्नियमैर्यमैः ॥२२॥परं किंचित्क्वचिन्नैक्षि सिद्ध्यंकुरमपि प्रभो ॥इदानीं त्वामनुप्राप्य महीं पर्यटता मया ॥२३॥मनसः स्थैर्यमापन्नमिव संप्राप्तसिद्धिना ॥अवश्यं त्वन्मुखांभोजाद्यद्वचो निःसरिष्यति ॥२४॥तेनैव महती सिद्धिर्भवित्री मम नान्यथा ॥तद्ब्रूहि सूपदेशं च कथं सिद्धिर्भवेन्मम ॥२५॥अनेनैव शरीरेण पार्थिवेन प्रथीयसी ॥दमनस्य निशम्येति गर्गाचार्यो वचस्तदा ॥२६॥प्रत्यक्षदृष्टं प्रोवाच महदाश्चर्यमुत्तमम् ॥सर्वेषां शृण्वतां तत्र शिष्याणां स्थिरचेतसाम् ॥मुमुक्षूणां धृतवतां महापाशुपतं व्रतम् ॥२७॥॥ गर्ग उवाच ॥अनेनैवेह देहेन यदि त्वं सिद्धिकामुकः ॥शृणुष्वावहितो भूत्वा तदा ते कथयाम्यहम् ॥२८॥अविमुक्ते महाक्षेत्रे सर्वसिद्धिप्रदे सताम् ॥धर्मार्थकाममोक्षाख्य रत्नानां परमाकरे ॥२९॥समाश्रितानां जंतूनां सर्वेषां सर्वकर्मणाम् ॥शलभानां प्रदीपाभे तमःस्तोम महाद्विपि ॥३०॥कर्मभूरुह दावाग्नौ संसाराब्ध्यौर्वशोचिपि ॥निर्वाणलक्ष्मी क्षीराब्धौ सुखसंकेतसद्मनि ॥३१॥दीर्घनिद्रा प्रसुप्तानां परमोद्बोधदायिनि ॥यातायातश्रमापन्नप्राणिमार्गमहीरुहि ॥३२॥अनेकजन्मजनित महापापाद्रिवज्रिणि ॥नामोच्चारकृतां पुंसां महाश्रेयो विधायिनि ॥३३॥विश्वेशितुः परेधाम्नि सीम्नि स्वर्गापवर्गयोः ॥स्वर्धुनी लोलकल्लोला नित्यक्षालित भूतले ॥३४॥एवंविधे महाक्षेत्रे सर्वदुःखौघहारिणि ॥प्रत्यक्षं मम यद्वृत्तं तद्ब्रवीमि महामते ॥३५॥यत्र कालभयं नास्ति यत्र नास्त्येनसो भयम् ॥तत्क्षेत्रमहिमानं कः सम्यग्वर्णयितुं क्षमः ॥३६॥तीर्थानि यानि लोकेस्मिञ्जंतूनामघहान्यहो ॥तानि सर्वाणि शुद्ध्यर्थं काशीमायांति नित्यशः ॥३७॥अपि काश्यां वसेद्यस्तु सर्वाशी सर्वविक्रयी ॥स यां गतिं लभेन्मर्त्यो यज्ञैर्दानैर्न सान्यतः ॥३८॥रागबीजसमुद्भूतः संसारविटपो महान् ॥दीर्घस्वाप कुठारेण च्छिन्नः काश्यां न वर्धते ॥३९॥सर्वेषामूषराणां तु काशी परम ऊषरः ॥वप्तुर्बीजमिदं तस्मिन्नुप्तं नैव प्ररोहति ॥४०॥स्मरिष्यंतीह ये काशीमवश्यं तेपि साधवः ॥तेप्यघौघ विनिर्मुक्ता यास्यंति गतिमुत्तमाम् ॥४१॥विभूतिः सर्वलोकानां सत्यादीनां सुभंगुरा ॥अभंगुरा विमुक्तस्य सा तु लभ्या शिवाज्ञया ॥४२॥कृमिकीटपतंगानामविमुक्ते तनुत्यजाम् ॥विभूतिर्दृश्यते या सा क्वास्ति ब्रह्मांडमंडले ॥४३॥वाराणसी यदा प्राप्ता कदाचित्कालपर्ययात् ॥स उपायो विधातव्यो येन नो निष्क्रमो बहिः ॥४४॥पूर्वतो मणिकर्णीशो ब्रह्मेशो दक्षिणे स्थितः ॥पश्चिमे चैव गोकर्णो भारभूतस्तथोत्तरे ॥४५॥इत्येतदुत्तमं क्षेत्रमविमुक्ते महाफलम् ॥मणिकर्णी ह्रदे स्नात्वा दृष्ट्वा विश्वेश्वरंविभुम् ॥४६॥क्षेत्रं प्रदक्षिणीकृत्य राजसूयफलं लभेत् ॥तत्र श्राद्धप्रदातुश्च मुच्यंते प्रपितामहाः ॥४७॥अविमुक्त समं क्षेत्रमपि ब्रह्मांडगोलके ॥न विद्यते क्वचित्सत्यं सत्यं साधकसिद्धिदम् ॥४८॥रक्षंति सततं क्षेत्रं यत्र पाशासिपाणयः ॥महापारिषदा उग्राः क्रूरेभ्योऽक्रूरबुद्धयः ॥४९॥प्राग्द्वारमट्टहासश्च गणकोटिपरीवृतः ॥रक्षेदहर्निशं क्षेत्रं दुर्वृत्तेभ्यो विभीषणः ॥५०॥तथैव भूतधात्रीशः क्षेत्रदक्षिणरक्षकः ॥गोकर्णः पश्चिमद्वारं पाति कोटिगणावृतः ॥५१॥उदग्द्वारं तथा रक्षेद्घंटाकर्णो महागणः ॥ऐशंकोणं छागवक्त्रो भीषणो वह्निदिग्दलम् ॥५२॥रक्षः काष्ठां शंकुकर्णो दृमिचंडो मरुद्दिशम् ॥इत्थं क्षेत्रं सदा पांति गणा एतेऽति भास्वराः ॥८५३॥कालाक्षोरण भद्रस्तु कौलेयः कालकंपनः ॥एते पूर्वेण रक्षंति गंगापारे स्थिता गणाः ॥५४॥वीरभद्रो नभश्चैव कर्दमालिप्तविग्रहः ॥स्थूलकर्णो महाबाहुरसिपारे व्यवस्थिताः ॥५५॥विशालाक्षो महाभीमः कुंडोदरमहोदरौ ॥रक्षंति पश्चिमद्वारं देहलीदेशसंस्थिताः ॥५६॥नंदिसेनश्च पंचालः खरपादकरंटकः ॥आनंदोगोपको बभ्रू रक्षंति वरणातटे ॥५७॥तस्मिन्क्षेत्रे महापुण्ये लिंगमोंकारसंज्ञकम्॥तत्र सिद्धिं परां प्राप्ता देहेनानेन साधकाः ॥५८॥कपिलश्चैव सावर्णिः श्रीकंठः पिगलोंशुमान् ॥एते पाशुपताः सिद्धास्तल्लिंगाराधनेन हि ॥५९॥एकदा तस्य लिंगस्य कृत्वा पंचापिपूजनम् ॥नृत्यतः सहुडुत्कारं तस्मिँल्लिंगे लयं ययुः ॥६०॥अन्यच्च ते प्रवक्ष्यामि तत्र यद्वृत्तमद्भुतम् ॥निशामय महाबुद्धे दमन द्विजसत्तम ॥६१॥एका भेकी मुने तत्र चरंती लिंग सन्निधौ ॥प्रदक्षिणं सदा कुर्यान्निर्माल्याक्षतभक्षिणी ॥६२॥सा तत्र मृत्युं न प्राप शिवनिर्माल्यभक्षणात् ॥क्षेत्रादन्यत्र मरणं जातं तस्यास्तदेनसः ॥६३॥वरं विषमपिप्राश्यं शिवस्वं नैव भक्षयेत् ॥विषमेकाकिनं हंति थिवस्वं पुत्रपौवकम् ॥६४॥शिवस्य परिपुष्टांगाः स्पर्शनीया न साधुभिः ॥तेन कर्मविपाकेन ततस्ते रौरवौकसः ॥६५॥कश्चित्काकः समालोक्य मंडूकीं तामितस्ततः ॥पोप्लूयमानामादाय चंच्वा क्षेत्राद्बहिर्गतः ॥६६॥वर्षाभ्वी तेन सा क्षिप्ता काकेन क्षेत्रबाह्यतः ॥अथ सा कालतो भेकी तत्रैव क्षेत्रसत्तमे ॥६७॥प्रदक्षिणीकरणतो लिंगस्यस्पर्शनादपि॥पुण्यापुण्यवतीजाता कन्यापुष्पबटोर्गृहे ॥६८॥शुभावयवसंस्थाना शुभलक्षणलक्षिता ॥परं गृध्रमुखी जाता निर्माल्याक्षतभक्षणात् ॥६९॥सम्यग्गीतरहस्यज्ञा नितरां मधुरस्वरा ॥सप्तस्वरास्त्रयो ग्रामा मूर्च्छनास्त्वैकविंशतिः ॥७०॥ताना एकोनपंचाश ताला एकोत्तरंशतम् ॥रागाः षडेव तेषां तु पंचपंचापि चांगनाः ॥७१॥षड्विंशद्रागरागिण्य इति रागि मुदावहाः ॥देशकाल विभेदेन पंचषष्टिस्तथा पराः ॥७२॥यावंत एव तालाः स्यु रागास्तावंत एव हि ॥इति गीतोपनिषदा प्रत्यहं सा शुभव्रता ॥७३॥माधवी मधुरालापा सदोंकारं समर्चयेत् ॥प्राप्याप्यनर्घ्यतारुण्यं सा तु पुष्पबटोः सुता ॥७४॥प्राग्जन्मवासनायोगादोंकारं बह्वमंस्त वै ॥स्वभाव चंचलं चेतस्तस्यास्तल्लिंग सेवनात् ॥७५॥दमनस्थैर्यमगमद्योगेनेव महात्मनः ॥न दिवा बाधयांचक्रे क्षुत्तृण्निद्रा क्षपा सुताम् ॥७६॥अतंद्रितमना आसीत्सा तल्लिंग निरीक्षणे ॥अक्ष्णोर्निमेषा यावंतस्तस्या आसन्दिवानिशम् ॥७७॥तावत्कालस्तया साध्व्या महान्विघ्नोऽनुमीयते ॥निमेषांतरितः कालो यो यो व्यथोंगतो मम ॥लिंगानवेक्षणात्तत्र प्रायश्चित्तं कथं भवेत ॥७८॥इति संचितयंत्येव सेवां तत्याज नोंकृतेः ॥जलाभिलाषिणी सा तु लिंगनामामृतं पिबेत् ॥७९॥नान्य द्दिदृक्षिणी तस्या अक्षिणी श्रुतिगे अपि ॥विहाय लिंगमोंकारं हृद्विहायः स्थितं सताम् ॥८०॥तस्याः शब्दग्रहौ नान्य शब्दग्रहणतत्परौ ॥अतीव निपुणौ जातौ तत्सन्माल्यकरौकरौ ॥८१॥नान्यत्र चरणौ तस्याश्चरतः सुखवांछया ॥त्यक्त्वोंकाराजिरक्षोणीं क्षुण्णां निर्वाणपद्मया ॥८२॥ओंकारं प्रणवं सारं परब्रह्मप्रकाशकम् ॥शब्दब्रह्मत्रयीरूपं नादबिंदुकलालयम् ॥८३॥सदक्षरं चादिरूपं विश्वरूपं परावरम् ॥वरं वरेण्यं वरदं शाश्वतं शांतमीश्वरम् ॥८४॥सर्वलोकैकजनकं सर्वलोकैकरक्षकम् ॥सर्वलोकैकसंहर्तृ सर्वलोकैकवंदितम् ॥८५॥आद्यंतरहितं नित्यं र्शिवं शंकरमव्ययम् ॥एकगुणत्रयातीतं भक्तस्वांतकृतास्पदम् ॥८६॥निरुपाधिं निराकारं निर्विकारं निरंजनम् ॥निर्मलं निरहंकारं निष्प्रपंचं निजोदयम् ॥८७॥स्वात्माराममनंतं च सर्वगं सर्वदर्शिनम् ॥सर्वदं सर्वभोक्तारं सर्वं सर्वसुखास्पदम् ॥८८॥वागिंद्रियं तदीयं च प्रोच्चरत्तदहर्निशम् ॥नामांतरं न गृह्णाति क्वचिदन्यस्यकस्यचित् ॥८९॥एतन्नामाक्षररसं रसयंती दिवानिशम् ॥रसना नैव जानाति तस्या अन्यद्रसांतरम् ॥९०॥संमार्जनं रंगमालाः प्रासादं परितः सदा ॥विदध्यान्माधवी तत्र तथार्चा पात्रशोधनम् ॥९१॥तत्र पाशुपता ये वै प्रणवेशार्चने रताः ॥तांश्च शुश्रूषयेन्नित्यं पितृबुद्ध्याति भक्तितः ॥९२॥वैशाखस्य चतुर्दश्यामेकदा सा तु माधवी ॥रात्रौ जागरणं कृत्वा दिवोपवसान्विता ॥९३॥यात्रामिलितभक्तेषु प्रातर्यातेषु सर्वतः ॥संमार्जनादिकं कृत्वा लिंगमभ्यर्च्य हर्षतः ॥९४॥गायंती मधुरं गीतं नृत्यंती निजलीलया॥ध्यायंती लिंगमोंकारं तत्र लिंगे लयं ययौ ॥९५॥अनेनैव शरीरेण पार्थिवेन महामतिः ॥अस्मदाचार्यमुख्यानां पश्यतां च तपस्विनाम् ॥९६॥प्रादुर्बभूव यल्लिंगाज्ज्योतिर्जटिलितांबरम् ॥तत्र ज्योतिषि सा बाला ज्योतिर्मय्यपि साप्यभूत् ॥९७॥राधशुक्लचतुर्दश्यामद्यापि क्षेत्रवासिनः ॥तत्र यात्रां प्रकुर्वंति महोत्सवपुरःसराः ॥९८॥तत्र जागरणं कृत्वा चतुर्दश्यामुपोषिताः ॥प्राप्नुवंति परं ज्ञानं यत्रकुत्रापि वै मृताः ॥९९॥ब्रह्मांडोदर मध्ये तु यानि तीर्थानि सर्वतः ॥तानि वैशाखभूतायामायांत्योंकृति दर्शने ॥१००॥लिंगाग्रे श्रीमुखी नाम्नी गुहास्ति परमोत्तमा ॥पातालस्य च तद्द्वारं तत्र सिद्धा वसंति हि ॥१॥तिष्ठेयुः पंचरात्रं ये गुहायां तत्र सुव्रताः ॥ते नागकन्याः पश्यंति ब्रूयुस्ताश्च शुभाशुभम् ॥२॥कंदरोत्तरदिग्भागे तत्र कूपो रसोदकः ॥आषण्मासं च तत्पीत्वा पिबेद्ब्रह्मरसायनम् ॥३॥तत्र नादेश्वरं लिंगं दृष्ट्वा नादनिदानभूः ॥सर्वनादात्मकं विश्वं तच्छ्रवो गोचरी भवेत् ॥४॥तत्र मत्स्योदरीं स्नात्वा स्वर्धुनीं वरुणाप्लुताम् ॥कृतकृत्यो भवेज्जंतुर्नैव शोचति कुत्रचित् ॥५॥असंख्याता गताः सिद्धिमोंकारेश्वरसेवकाः ॥पार्थिवेनैव देहेन दिव्यभूतेन तत्क्षणात् ॥६॥अविमुक्तं परं क्षेत्रं ब्रह्मांडादपि सर्वतः ॥ततोपि पर ओंकार उक्तो मत्स्योदरी तटे ॥७॥प्रणवेशोंऽग यैः काश्यां न नतो नापि चार्चितः ॥किमर्थं ते समुत्पन्ना मातृतारुण्यहारिणः ॥८॥यदा प्रभृति विश्वेशो मंदरादागतोऽभवत् ॥तस्मिन्नानंद गहने तदाप्रभृति सत्तम ॥९॥सर्वाण्यायतनान्याशु साब्धीनि स गिरीण्यपि ॥स नदीनि स तीर्थानि स द्वीपानि ययुस्ततः ॥११०॥इदानीं मम भाग्येन स्मारितोहं त्वया मुने ॥अहमप्यागमिष्यामि यामः काशीं शनैः शनैः ॥११॥एतेपि मम शिष्या ये महापाशुपतव्रताः ॥काशीं यियासवस्तेपि यतः सर्वे मुमुक्षवः ॥१२॥अपि वार्धकमासाद्य यैः काशी नैव शीलिता ॥मानुषे दुर्लभे नष्टे कुतस्तेषां महासुखम् ॥१३॥यावन्नेंद्रिय वैकल्यं यावन्नैवायुषः क्षयः ॥तावत्सेव्यं प्रयत्नेन शंभोरानंदकाननम्॥ १४॥य आनंदवनं शंभोः शिश्रियुः श्रीनिकेतनम् ॥अचलाश्रीर्न मुंचेत्तान्महासौख्यैकशेवधीन् ॥१५॥इत्याख्याय कथां रम्यां गर्गः पाशुपतोत्तमः ॥भारद्वाजेन सहितः प्राप वाराणसीं पुरीम् ॥१६॥दमनोपि हि धर्मात्मा गर्गाचार्येण संयुतः ॥आराध्य श्रीमदोंकारं तस्मिँल्लिंगे लयं गतः ॥१७॥॥ स्कंद उवाच ॥इल्वलारे परं स्थानमोंकारमविमुक्तके ॥तत्र सिद्धिपरां जग्मुः साधका बहुशो मुने ॥१८॥कलौ कलुषचित्तानां पुरो नाख्येयमेव हि ॥प्रणवेश्वरमाहात्म्यं नास्तिकानां विशेषतः ॥१९॥ये निंदंति महादेवं क्षेत्रं निंदंति येऽधियः ॥पुराणं ये च निंदंति ते संभाष्या न कुत्रचित् ॥१२०॥ओंकारसदृशं लिंगं न क्वचिज्जगतीतले ॥इति गौर्यै समाख्यातं देवदेवेन निश्चितम् ॥१२१॥इममध्यायमाकर्ण्य नरस्तद्गतमानसः ॥विमुक्तः सर्वपापेभ्यः शिवलोकमवाप्नुयात् ॥१२२॥इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थेकाशीखंड उत्तरार्ध ओंकारमाहात्म्यं नाम चतुःसप्ततितमोऽध्यायः ॥७४॥ N/A References : N/A Last Updated : November 27, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP