संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|काशीखण्ड|
अध्याय ५०

काशीखण्डः - अध्याय ५०

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ स्कंद उवाच ॥
वाराणस्यां तथादित्या ये चान्ये तान्वदाम्यतः ॥
कलशोद्भव ते प्रीत्या सर्वे सर्वाघनाशनाः ॥१॥
खखोल्को नाम भगवानादित्य परिकीर्तितः ॥
त्रिविष्टपोत्तरे भागे सर्वव्याधिविघातकृत् ॥२॥
यथा खखोल्क इत्याख्या तस्यादित्यस्य तच्छृणु ॥
पुरा कद्रूश्च विनता दक्षस्य तनये शुभे ॥३॥
कश्यपस्य च ते पत्न्यौ मारीचेः प्राक्प्रजापतेः ॥
क्रीडंत्यावेकदान्योन्यं मुने ते ऊचतुस्त्विति ॥४॥
॥ कद्रूरुवाच ॥
विनते त्वं विजानासि यदि तद्ब्रूहि मेग्रतः॥
अखंडिता गतिस्तेस्ति यतो गगनमंडले ॥५॥
योसावुच्चैःश्रवा वाजी श्रूयते सवितूरथे ॥
किं रूपःसोस्ति शबलो धवलो वा वदाशु मे ॥६॥
पणं च कुरु कल्याणि तुभ्यं यो रोचतेनघे ॥
एवमेव न यात्येष कालक्रीडनकं विना ॥७॥
॥ विनतोवाच ॥
किं पणेन भगिन्यत्र कथयाम्येवमेव हि ॥
त्वज्जये का च मे प्रीतिर्मज्जये किं नु ते सुखम् ॥८॥
ज्ञात्वा पणो न कर्तव्यो मिथः स्नेहमभीप्सता ॥
ध्रुवमेकस्य विजये क्रोधोन्स्येह जायते ॥९॥
कद्रूरुवाच ॥
क्रीडेयं नात्र भगिनि कारणं किमपि क्रुधः ॥
खेलस्य व्यवहारोयं पणे यत्किंचिदुच्यते ॥१०॥
॥ विनतोवाच ॥
तथा कुरु यथा प्रीतिस्तवास्ति पवनाशिनि ॥
अथ तां विनतामाह कद्रूः कुटिलमानसा ॥११॥
तस्यास्तु सा भवेद्दासी पराजीयेत या यया ॥
अस्मिन्पणे इमाः सर्वाः सख्यः साक्षिण्य एव नौ ॥१२॥
इत्यन्योन्यं पणीकृत्य सर्पिण्यपि पतत्त्रिणी ॥
उवाच कर्बुरं कद्रूरश्वं श्वेतं गरुत्मती ॥१३॥
कदागंतव्यमिति च चक्राते ते गमावधिम् ॥
जग्मतुश्च विरम्याथ क्रीडनात्स्वस्वमालयम् ॥१४॥
विनतायां गतायां तु कद्रूराहूय चांगजान् ॥
उवाच यात वै पुत्रा द्रुतं वचनतो मम ॥१५॥
तुरंगमुच्चैःश्रवसं प्रोद्भूतं क्षीरनीरधेः ॥
सुरासुरैर्मथ्यमानान्मंदराघातसाध्वसात् ॥१६॥
कार्यकारणरूपस्य सादृश्यमधिगच्छति ॥
अतस्तं क्षीरवर्णाभं कल्माषयत पुत्रकाः ॥१७॥
तस्य वालधिमध्यास्य कृष्णकुंतलतां गताः ॥
तथा तदंगलोमानि विधत्तविषसीत्कृतैः ॥१८॥
इति श्रुत्वा वचो मातुः काद्रवेयाः परस्परम् ॥
संमंत्र्य मातरं प्रोचुः कद्रूं कद्रूपमागताः ॥१९॥
॥ नागा ऊचुः ॥
मातर्वयं त्वदाह्वानाद्विहाय क्रीडनं बलात् ॥
प्राप्ताः प्रहृष्टा मृष्टान्नं दास्यत्यद्य प्रसूरिति ॥२०॥
मृष्टं तिष्ठतु तद्दूरं विषादप्यधिकं कटु ॥
तत्त्वया वादियन्मंत्रैरौषधैर्नोपशाम्यति ॥२१॥
वयं न यामो यद्भाव्यं तदस्माकं भवत्विह ॥
इति प्रोक्तं विषास्यैस्तैस्तदा कुटिलगामिभिः ॥२२॥
॥ स्कंद उवाच ॥
अन्येपि ये कुटिलगाः पररंध्रनिषेविणः ॥
अकर्णाः कूरहृदयाः पितरौ व्रीडयंति ते ॥२३॥
पित्रोर्गिरं निराकृत्य ये तिष्ठेयुः सुदुर्मदाः ॥
अत्याहितमिह प्राप्य गच्छेयुस्तेऽचिराल्लयम् ॥२४॥
तेषां वचनमाकर्ण्य नयाम इति सोरगी ॥
शशाप तान्क्रुधाविष्टा नागांश्चागः समागतान् ॥२५॥
तार्क्ष्यस्य भक्ष्या भवत यूयं मद्वाक्यलंघनात् ॥
जातमात्राश्च सर्पिण्यो भक्षयंतु स्वबालकान् ॥२६॥
इति शापानलाद्भीतैः कैश्चित्पातालमाश्रितम् ॥
जिजीविषुभिरन्यैश्च द्वित्रैश्चक्रे प्रसूवचः ॥२७॥
ते पुच्छमौच्चैःश्रवसमधिगम्य महाधियः ॥
सुनीलचिकुराभासं चक्रुरंगं च कर्बुरम् ॥२८॥
तत्क्ष्वेडानल धूमौघैः फूत्कारभरनिःसृतैः॥
मातृवाक्कृतिजाद्धर्मान्न दग्धा भानुभानुभिः ॥२९॥
विनतापृष्ठमारुह्य कद्रूः स्नेहवशात्ततः ॥
वियन्मार्गमलंकृत्य ददर्शोष्णांशुमंडलम् ॥३०॥
तिग्मरश्मिप्रभावेण व्याकुलीभूतमानसा ॥
कद्रुस्ततः खगीं प्राह विस्रब्धं विनते व्रज ॥३१॥
उष्णगोरुष्णगोभिर्मे ताप्यते नितरां तनुः ॥
विस्रब्धाहं स्वभावेन त्वं सापेक्षाहि सर्वतः ॥३२॥
स्वरूपेण पतंगी त्वं पतंगोसौ सहस्रगुः ॥
अतएव न ते बाधा गगने तापसंभवा ॥३३॥
वियत्सरसि हंसोयं भवती हंसगामिनी ॥
चंडरश्मिप्रतापाग्निस्त्वामतो नेह बाधते ॥३४॥
खगीमुद्गीयमानां खे पुनरूचे बिलेशया ॥
त्राहित्राहि भगिन्यत्र यावोन्यत्र वियत्पथः ॥३५॥
विनते विनतां मां त्वं किं नावसि पतत्त्रिणी ॥
तव दासी भविष्यामि त्वदुच्छिष्टनिषेविणी ॥३६॥
यावज्जीवमहं भूयां त्वत्पादोदकपायिनी ॥
खखोल्कानि पतेदेषा भृशगद्गदभाषिणी ॥३७॥
मूर्च्छां गतवती पक्षपुटौ धृत्वा बिडोरगी॥
सख्युल्कानि पतेदेषा वक्तव्ये त्विति संभ्रमात् ॥३८॥
खखोल्केति यदुक्ता गीः कद्र्वा संभ्रातचेतसा ॥
तदा खखोल्कनामार्कः स्तुतो विनतया बहु ॥३९॥
मनागतिग्मतां प्राप्ते खे प्रयाति विवस्वति ॥
ताभ्यां तुरंगमो दर्शि किंचित्किर्मीरवान्रथे ॥४०॥
उक्ता विनतयैवैषा तापोपहतलोचना ॥
क्रूरा सरीसृपी सत्यवादिन्या विश्वमान्यया ॥४१॥
कद्रु त्वया जितं भद्रे यत उच्चैःश्रवा हयः ॥
चंद्ररश्मिप्रभोप्येष कल्माष इव भासते ॥४२॥
विधिर्बलीयान्भुजगि चित्रं जयपराजये ॥
क्रूरोपि विजयी क्वापि त्वक्रूरोपि पराजयी ॥४३॥
विनताविनताधारा वदंतीति यथागतम् ॥
कद्रूनिवेशनं प्राप्ता तस्या दास्यमचीकरत् ॥४४॥
कदाचिद्विनतादर्शि सुपर्णनाश्रुलोचना ॥
विच्छाया मलिना दीना दीर्घनिःश्वासवत्यपि ॥४५॥
सुपर्ण उवाच ॥
प्रातःप्रातरहो मातः क्व यासि त्वं दिनेदिने ॥
सायमायासि च कुतो विच्छाया दीनमानसा ॥४६॥
कुतो निःश्वसिसि प्रोच्चैरश्रुपूर्ण विलोचना ॥
यथा क्लीबसुता योषिद्यथापति तिरस्कृता ॥४७॥
ब्रूहि मातर्झटित्यद्य कुतो दूनासि पत्त्रिणि ॥
मयि जीवति ते बाले कालेपि कृतसाध्वसे॥ ४८॥
अश्रुनिर्माणकरणे कारणं किं तपस्विनि ॥
सुचरित्रा सुनारीषु नामंगलमिहेष्यते ॥४९॥
धिक्तांश्च पुत्रान्यन्माता तेषु जीवत्सु दुःखभाक् ॥
वरं वंध्यैव सा यस्याः सुता वंध्यमनोरथाः ॥५०॥
इत्यूर्जस्वलमाकर्ण्य वचः सूनोर्गरुत्मतः ॥
विनता प्राह तं पुत्रं मातृभक्तिसमन्वितम् ॥५१॥
अहं दास्यस्मि रे बाल कद्र्वाश्च क्रूरचेतसः ॥
पृष्ठे वहामि तां नित्यं तत्पुत्रानपि पुत्रक ॥५२॥
कदाचिन्मंदरं यामि कदाचिन्मलयाचलम् ॥
कदाचिदंतरीपेषु चरेयं तदुदन्वताम् ॥५३॥
यत्रयत्र नयेयुस्ते काद्रवेयाः सुदुर्मदाः ॥
व्रजेयं तत्रतत्राहं तदधीना यतः सुत ॥५४॥
गरुड उवाच ॥
दासीत्वकारणं मातः किं ते जातं सुलक्षणे ॥
दक्षप्रजापतेः पुत्रि कश्यपस्यप्रियेऽनघे ॥५५॥
विनतोवाच गरुडं पुरावृत्तमशेषतः ॥
दासीत्वकारणं यद्वदादित्याश्वविलोकनम् ॥५६॥
श्रुत्वेति गरुडः प्राह मातरं सत्वरं व्रज॥
पृच्छाद्य मातस्तान्दुष्टान्काद्रवेयानिदं वचः ॥५७॥
यद्दुर्लभं हि भवतां यत्रात्यंतरुचिश्च वः ॥
मद्दासीत्वविमोक्षाय तद्याचध्वं ददाम्यहम्॥ ५८॥
तथाकरोच्च विनता तेपि श्रुत्वा तदीरितम् ॥
सर्पाः संमंत्र्य तां प्रोचुर्विनतां हृष्टमानसाः ॥५९॥
मातृशापविमोक्षाय यदि दास्यति नः सुधाम् ॥
तदा समीहितं तेस्तु न दास्यत्यथ दास्यसि ॥६०॥
इत्योंकृत्य समापृच्छ्य कद्रूं द्रुतगतिः खगी ॥
गरुत्मंतं समाचष्ट दृष्ट्वा संहृष्टमानसम् ॥६१॥
नागांतकस्ततः प्राह मातरं चिंतयातुराम् ॥
आनीतं विद्धि पीयूषं मातर्मे देहि भोजनम्॥ ६२॥
विनता प्राह तं पुत्रं संप्रहृष्टतनूरुहा ॥
भोः सुपर्णार्णवं तूर्णं याहि मंगलमस्तु ते ॥६३॥
संति तत्रापि बहुशो निषादा मत्स्यघातिनः ॥
वेलातटनिवासाश्च तान्भक्षय दुरात्मनः ॥६४॥
परप्राणैर्निजप्राणान्ये पुष्णंतीह दुर्धियः ॥
शासनीयाः प्रयत्नेन श्रेयस्तच्छासनं परम् ॥६५॥
बहुहिंसाकृतां हिंसा भवेत्स्वर्गस्य साधनम् ॥
विहिंसितेषु दुष्टेषु रक्ष्यते भूरिशो यतः ॥६६॥
निषादेष्वपि चेद्विप्रः कश्चिद्भवति पुत्रक ॥
संरक्षणीयो यत्नेन भक्षणीयो न कर्हिचित् ॥६७॥
॥ गरुड उवाच ॥
मत्स्यादिनां वसन्मध्ये कथं ज्ञेयो द्विजो मया ॥अभक्ष्यो यस्त्वया प्रोक्तस्तच्चिह्नं किं चनात्थ मे ॥६८॥
॥ विनतोवाच ॥
यज्ञसूत्रं गले यस्य सोत्तरीयं सुनिर्मलम् ॥
नित्यधौतानि वासांसि भालं तिलक लांछितम् ॥६९॥
सपवित्रौ करौ यस्य यन्नीवी कुशगर्भिणी॥
यन्मौलिः सशिखाग्रंथिः स ज्ञेयो ब्राह्मणस्त्वया ॥७०॥
उच्चरेदृग्यजुःसाम्नामृचमेकामपीह यः ॥
गायत्रीमात्रमंत्रोपि स विज्ञेयो द्विजस्त्वया ॥७१॥
गरुड उवाच ॥
मध्ये सदा निषादानां यो वसेज्जननि द्विजः ॥
तस्यैतेष्वेकमप्येव न मन्ये लक्ष्मबोधकम् ॥७२॥
लक्ष्मांतरं समाचक्ष्व द्विजबोधकरं प्रसूः ॥
येन विज्ञाय तं विप्रं त्यजेयमपि कंठगम् ॥७३॥
तच्छ्रुत्वा विनता प्राह यस्ते कंठगतोंऽगज ॥
खदिरांगारवद्दह्यात्तमपाकुरु दूरतः ॥७४॥
द्विजमात्रेपि या हिंसा सा हिंसा कुशलाय न ॥
देशं वंशं श्रियं स्वं च निर्मूलयति कालतः ॥७५॥
निशम्य काश्यपिरितिप्रसूपादौप्रणम्य च ॥
गृहीताशीर्ययौ शीघ्रं खमार्गेण खगेश्वरः ॥७६॥
दूरादालोकयांचक्रे निषादान्मत्स्यजीविनः ॥
पक्षौ विधूय पक्षींद्रो रजसापूर्य रोदसी ॥७७॥
अंधीकृत्य दिशोभागानब्धिरोधस्युपाविशत् ॥
व्यादाय वदनं घोरं महाकंदरसन्निभम् ॥७८॥
कांदिशीका निषादास्तु विविशुस्तत्र च स्वयम् ॥
मन्वानेष्वथ पंथानं तेषु कंठं विशत्स्वपि ॥७९॥
जज्वालेंगलसंस्पर्शो द्विजस्तत्कंठकंदलीम् ॥
प्राक्प्रविष्टानथो तार्क्ष्यो निषादानौदरीं दरीम् ॥८०॥
प्रवेश्य कंठतालुस्थं तं विज्ञाय द्विजस्फुटम् ॥
भयादुदगिरत्तूर्णं मातृवाक्येन यंत्रितः ॥८१॥
तमुद्गीर्णं नरं दृष्ट्वा पक्षिराट्समभाषत ॥
कस्त्वं जात्यासि निगद मम कंठविदाहकृत् ॥८२॥
स तदाहेति विप्रोहं पृष्टः सन्गरुडाग्रतः ॥
वसाम्येषु निषादेषु जातिमात्रोपजीवकः ॥८३॥
तं प्रेष्य गरुडो दूरं भक्षयित्वाथ भूरिशः ॥
नभो विक्षोभयांचक्रे प्रलयानिल सन्निभः ॥८४॥
तं दृष्ट्वा तिग्मतेजस्कं ज्वालाततदिगंतरम् ॥
ज्वलद्दावानलं शैलमिव बिभ्युर्दिवौकसः ॥८५॥
ते सन्नह्यंत युद्धाय सज्जीकृत बलायुधाः ॥
अध्यास्य वाहनान्याशु सर्वे वर्मभृतः सुराः ॥८६॥
तिर्यग्गतीरविर्नायं नायमग्निः सधूमवान् ॥
क्षणप्रभाप्यसौ नैव को नः सम्मुख एत्यसौ ॥८७॥
न दैत्येषु प्रभेदृक्स्यान्नाकृतिर्दानवेष्वियम्॥
महासाध्वसदः कोयमस्माकं हृत्प्रकंपनः ॥८८॥
यावत्संभावयंतीति नीतिज्ञा अपि निर्जराः ॥
तावद्दुधाव स्वौ पक्षौ पक्षिराजो महाबलः ॥८९॥
निपेतुः पक्षवातेन सायुधाश्च सवाहनाः ॥
न ज्ञायंते क्व संप्राप्ता वात्यया पार्णतार्णवत् ॥९०॥
अथ तेषु प्रणष्टेषु बुद्ध्या विज्ञाय पक्षिराट् ॥
कोशागारं सुधायाः स तत्रापश्यच्च रक्षिणः ॥९१॥
शस्त्रास्त्रोद्यतपाणींस्तान्सुरानाधूय सर्वशः ॥
ददर्श कर्तरीयंत्रममृतोपरिसंस्थितम् ॥९२॥
मनःपवनवेगेन भ्रममाणं महारयम् ॥
अपिस्पृशंतं मशकं यत्खंडयति कोटिशः ॥९३॥
उपोपविश्य पक्षींद्रस्तस्य यंत्रस्य निर्भयः ॥
क्षणं विचारयामास किमत्र करवाण्यहो ॥९४॥
स्प्रष्टुं न लभ्यते चैतद्वात्या न प्रभवेदिह ॥
क उपायोत्र कर्तव्यो वृथा जातो ममोद्यमः ॥९५॥
न बलं प्रभवेदत्र न किंचिदपि पौरुषम् ॥
अहो प्रयत्नो देवानामेतत्पीयूषरक्षणे ॥९६॥
यदि मे शंकरे भक्तिर्निर्द्वंद्वातीव निश्चला ॥
तदा स देवदेवो मां वियुनक्तु महाऽधिया ॥९७॥
यद्यहं मातृभक्तोस्मि स्वामिनः शंकरादपि ॥
तदा मे बुद्धिरत्रास्तु पीयूषहरणं क्षमा ॥९८॥
आत्मार्थं नोद्यमश्चायं हृत्स्थो वेत्तीति विश्वगः ॥
मातुर्दास्यविमोक्षाय यतेहममृतं प्रति ॥९९॥
जरितौ पितरौ यस्य बालापत्यश्च यः पुमान् ॥
साध्वी भार्या च तत्पुष्ट्यै दोषोऽकृत्येपि तस्य न ॥१००॥
इति चिंतयतस्तस्य बुद्धिरासीन्महात्मनः ॥१॥
देहं चकार सोत्यंतमणीयांसमणोरपि ॥
परमाणुसहस्रांशं कृत्वा रूपं महाद्भुतम् ॥२॥
प्रविश्य कर्तरीयंत्रमधोदेहस्य लाघवात् ॥
बिभ्यत्तद्यंत्रतो देहं वंचयन्वायुखंडनात् ॥
मूलमुत्पाट्य तरसा गृहीत्वाऽमृतभाजनम् ॥३॥
निर्ययौ पावने मार्गे क्रोशत्सु स्वर्गसद्मसु ॥४॥
तथा वैकुंठनाथं ते गत्वा प्रोचुः सुधाभुजः ॥
निर्जित्य नीयते चक्रिन्सुधा नो जीवितं परम् ॥५॥
इत्याकर्ण्य हरिस्तेभ्योऽभयं दत्त्वा त्वरायुतः ॥
कृत्वा युद्धं च सुमहद्विंशार्कघटिकाद्वयम् ॥६॥
शुंभदेव्योर्यथासूत गरुडस्तत्र चाधिकः ॥
तदा प्रसन्नो भगवान्महायुद्धेन सर्वदः ॥७॥
गत्वा गरुडमाहेदं प्रसन्नोस्मि खगेश्वर ॥
वरं वृणीहि भद्रं ते जितवृंदारवृंदक॥ ८॥
हसित्वा गरुडः प्राह विश्वरूपं जनार्दनम् ॥
अहमेव प्रसन्नोस्मि त्वं प्रार्थय वरद्वयम् ॥९॥
ततः कैटभजित्प्राह वैनतेयं मुदान्वितः ॥
वृतंवृतं महोदार देहिदेहि वरद्वयम् ॥११०॥
इति विष्णूदितं श्रुत्वा प्रहसन्नाह पक्षिराट् ॥
किं विलंबेन तद्ब्रूहि दत्तं दत्तं वरद्वयम् ॥११॥
अलब्धलाभे संजाते द्यूतादि विजयोदये ॥
दातव्यं सुधियापात्रे सदा लाभजयौ क्व वा ॥१२॥
॥ श्रीविष्णुरुवाच ॥
बलवानसि पक्षींद्र तन्मे वाहनतां व्रज ॥
एको वरोयं वरद द्वितीयं शृणु काश्यप ॥१३॥
दर्शयित्वामृतं प्राज्ञ मातृदास्यविमोक्षकम् ॥
द्विजिह्वेभ्यः कुरु तथा द्रागश्नंति न ते यथा ॥१४॥
देया सुधा सुधाभुग्भ्यो द्वितीयोस्तु वरो मम ॥
तथेति स प्रतिज्ञाय निर्ययौ पक्षिराड्दिवः ॥१५॥
स मातरं विनिर्मोच्य दास्यात्काश्यपनंदनः ॥
नागानां पुरतो धृत्वा महामृतकमंडलुम् ॥१६॥
अमृतं पातुकामांस्तानित्याचष्ट महामतिः ॥
नागाः शुचित्वमासाद्य भोक्तव्यैषा सुधा शुभा ॥१७॥
नोचेदशुचिभिः स्पृष्टा स्नानादि परिवर्जितैः ॥
यास्यत्यदृश्यतामेषा सुधाऽनिमिषरक्षिता॥ १८॥
सामान्यमपि यद्रक्ष्यं स्पृश्यतेऽशुचिभिः क्वचित् ॥
हरंति तद्रसं देवास्तच्च तिष्ठति नीरसम् ॥१९॥
इत्युक्त्वा सहितो मात्रा वैनतेयो विनिर्ययौ ॥
कुशासने च तैरुक्तो धृत्वा पीयूषभाजनम् ॥१२०॥
यावत्स्नातुं गताः सर्पास्तावत्पीयूषभाजनम् ॥
आदाय विष्णुना दत्तं देवेभ्य इव जीवितम् ॥२१॥
आगत्य भुजगाः स्नात्वा न दृष्ट्वामृतभाजनम् ॥
अहो प्रतारिता नीतममृतं चेति चुक्रुशुः ॥२२॥
ततः पर्यलिहन्दर्भान्पीयूषस्पर्शकांक्षिणः ॥
आस्तां तावत्सुधा दूरं जिह्वास्तेषां द्विधाभवन् ॥२३॥
अन्येप्यन्यायलब्धार्थं ये बुभुक्षंति केवलम् ॥
तन्नो परिणतिं गच्छेद्भोक्तुं वातैर्न लभ्यते ॥२४॥
न्यायाध्वस्थेन तार्क्ष्येण सुधा प्राप्तातिदुर्लभा ॥
लब्धाप्यन्यायतो नागैर्दृष्टमात्रा क्षणाद्गता ॥२५॥
अथ दास्याद्विनिर्मुक्ता विनतोवाच खेचरम् ॥
पुत्र काशीं प्रयास्यामि दास्यपापापनुत्तये ॥२६॥
तावत्पापानि जृंभंते नानाजन्मार्जितान्यपि ॥
यावत्काशी न हृत्संस्था पुनर्भवविघातिनी ॥२७॥
काशीस्मरणमात्रेण किं चित्रं यदघं व्रजेत् ॥
गर्भवासोपि नश्येत विश्वेशानुग्रहात्परात् ॥२८॥
यत्र विश्वेश्वरः साक्षात्तारापतिविभूषणः ॥
तारयेत्तारकद्रोण्या दुस्तराद्भवसागरात् ॥२९॥
विश्वेशानुगृहीतानां विच्छिन्नाखिलकर्मणाम् ॥
भवेत्काशीं प्रति मतिर्नेतरेषां कदाचन ॥१३०॥
काशीं प्रति मनो येषां निःशेषक्षालितैनसाम् ॥
त एव मानवा लोके सत्यं नृप शवोपरे ॥३१॥
तैरेव कालो विजितस्त एव हि गतैनसः ॥
अपुनर्गर्भवासास्ते प्राप्ता वाराणसीह यैः ॥३२॥
श्रेयसां भाजनं चैतन्नृजन्मन मुधा नयेत्॥
देवानामपिदुष्प्राप्यं काशीसंदर्शनादृते ॥३३॥
कः कलिः कोथवा कालः किं वा कर्माण्यनेकधा ॥
परानंदप्रदं क्षेत्रमविमुक्तं यदीक्षितम् ॥३४॥
ते गर्भवासे तिष्ठंति पुनस्ते गर्भवासिनः॥
ये न गर्भवनच्छेत्रीं सेवंते वरणामसिम्॥३५॥
निशम्येति वचः प्राह तार्क्ष्यो नत्वाथ मातरम्॥
अहमप्यागमिष्यामि काशीं द्रष्टुं शिवार्चिताम् ॥३६॥
मातुराज्ञामथ प्राप्य जनन्या सह पक्षिराट् ॥
क्षणाद्वाराणसीं प्राप मोक्षनिक्षेपभूमिकाम् ॥३७॥
उभावपि च तेपाते तप उग्रं महामती ॥
संस्थाप्य शांभवं लिंगं पतत्त्रींद्रोऽचलेंद्रियः ॥३८॥
नाम्ना खखोल्कमादित्यं संस्थाप्य विनता शुभम् ॥
अचिरेणैव कालेन महतस्तपसस्तयोः ॥३९॥
काश्यां प्रसन्नौ संजातौ देवौ शंकरभास्करौ ॥
गरुडस्थापिताल्लिंगादाविरासीदुमापतिः ॥१४०॥
गरुडाय वरान्प्रादात्स बहूनतिदुर्लभान्॥
खगेंद्र मम भक्तोसि तव ज्ञानं भविष्यति ॥४१॥
वेत्स्यसि त्वं रहस्यं मे यन्न ज्ञातं सुरैरपि ॥
त्वयैतत्स्थापितं लिंगं गरुडेश्वरसंज्ञितम् ॥४२॥
परमज्ञानदं पुंसां दृष्टं स्पृष्टं समर्चितम् ॥अन्यच्च शृणु पक्षींद्र हितं ते वच्मि सांप्रतम् ॥४३॥
असावहं स वै विष्णुर्मास्तु ते भेददृक्च नौ ॥
एवं तस्यैव पक्षींद्र दैत्येंद्र बलहारिण ॥४४॥
प्राप्य सत्पत्रतां पत्रिंस्त्वमप्यर्च्यो भविष्यसि ॥
इति दत्त्वा वरं शंभुः स्वभक्ताय गरुत्मते ॥४५॥
तत्रैवांतर्हितो जातो गरुडोपि हरिं ययौ ॥
हरे रथत्वं संप्राप्य सोपि पूज्योऽभवद्भुवि ॥४६॥
तपस्यंतीमथालोक्य कदाचिद्विनतां प्रभुः ॥
शिवस्यैव परामूर्तिः खखोल्को नाम भास्करः ॥४७॥
दत्त्वा वरं च पापघ्नं शिवज्ञानसमन्वितम् ॥
काशीवासिजनानेक भवपापक्षयंकरः ॥४८॥
विनतादित्य इत्याख्यः खखोल्कस्तत्र संस्थितः ॥
इत्थं खखोल्क आदित्यः काशीविघ्नतमोहरः ॥४९॥
तस्य दर्शनमात्रेण सर्वपापैः प्रमुच्यते ॥
काश्यां पैशंगिले तीर्थे खखोल्कस्य विलोकनात् ॥
नरश्चिंतितमाप्नोति नीरोगो जायते क्षणात् ॥१५०॥
नरः श्रुत्वैतदाख्यानं खखोल्कादित्यसंभवम् ॥
गरुडेशेन सहितं सर्वपापैः प्रमुच्यते ॥१५१॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखण्डे पूर्वार्द्धे खखोल्कादित्य गरुडेशयोर्वर्णनंनाम पंचाशत्तमोऽध्यायः ॥५०॥
इति काशीखंडपूर्वार्धं समाप्तम् ॥

N/A

References : N/A
Last Updated : November 26, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP