संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|काशीखण्ड| अध्याय ४९ काशीखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० विषयानुक्रमणिका काशीखण्डः - अध्याय ४९ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ४९ Translation - भाषांतर सूत उवाच ॥पाराशर्यमुने व्यास कुमारः कुंभजन्मने ॥यदावदत्कथामेतां तदा क्व द्रुपदात्मजा ॥१॥॥ व्यास उवाच ॥पुराणसंहितां सूत ब्रूते त्रैकालिकीं कथाम् ॥संदेहो नात्र कर्तव्यो यतस्तद्गोचरोखिलम् ॥२॥॥ स्कंद उवाच॥आकर्णय मुने पूर्वं पंचवक्त्रो हरः स्वयम् ॥पृथिव्यां पंचधा भूत्वा प्रादुरासीज्जगद्धितः ॥३॥उमापि च जगद्धात्री द्रुपदस्य महीभुजः ॥यजतो वह्निकुंडाच्च प्रादुश्चक्रेति सुंदरी ॥४॥पंचापि पांडुतनयाः साक्षाद्रुद्रवपुर्धराः ॥अवतेरुरिह स्वर्गाद्दुष्टसंहारकारकाः ॥५॥नारायणोपि कृष्णत्वं प्राप्य तत्साहचर्यकृत् ॥उद्वृत्तवृत्तशमनः सद्वृत्तस्थितिकारकः ॥६॥प्रतपंतः पृथिव्यां ते पार्थाश्चेरुः पृथक्पृथक् ॥उदयानुदयौ तस्मिन्संपदां विपदामपि ॥७॥कदाचित्ते महावीरा भ्रातृव्यप्रतिपादिताम् ॥विपत्तिमाप्य महतीं बभूवुः काननौकसः ॥८॥पांचाल्यपि च तत्पत्नी पतिव्यसनतापिता ॥धर्मज्ञा प्राप्य तन्वंगी ब्रध्नमाराधयद्भृशम् ॥९॥आराधितोथ सविता तया द्रुपदकन्यया ॥सदर्वी सपिधानां च स्थालिकामक्षयां ददौ ॥१०॥उवाच च प्रसन्नात्मा भास्करो द्रुपदात्मजाम् ॥२३॥आराधयंतीं भावेन सर्वत्र शुचिमानसाम् ॥११॥स्थाल्यैतया महाभागे यावंतोऽन्नार्थिनो जनाः ॥तावंतस्तृप्तिमाप्स्यंति यावच्च त्वं न भोक्ष्यसे ॥१२॥भुक्तायां त्वयि रिक्तैषा पूर्णभक्ता भविप्यति ॥रसवद्व्यंजननिधिरिच्छाभक्ष्यप्रदायिनी ॥१३॥इत्थं वरस्तया लब्धः काश्यामादित्यतो मुने ॥अपरश्च वरो दत्तस्तस्यै देवेन भास्वता ॥१४॥॥ रविरुवाच ॥विश्वेशाद्दक्षिणेभागे यो मां त्वत्पुरतः स्थितम् ॥आराधयिष्यति नरः क्षुद्बाधा तस्य नश्यति ॥१५॥अन्यश्च मे वरो दत्तो विश्वेशेन पतिव्रते ॥तपसा परितुष्टेन तं निशामय वच्मि ते ॥१६॥प्राग्रवे त्वां समाराध्य यो मां द्रक्ष्यति मानवः ॥तस्य त्वं दुःखतिमिरमपानुद निजैः करैः ॥१७॥अतो धर्माप्रिये नित्यं प्राप्य विश्वेश्वराद्वरम् ॥काशीस्थितानां जंतूनां नाशयाम्यघसंचयम् ॥१८॥ये मामत्र भजिष्यंति मानवाः श्रद्धयान्विताः ॥त्वद्वरोद्यतपाणिं च तेषां दास्यामि चिंतितम् ॥१९॥भवतीं मत्समीपस्थां युधिष्ठिरपतिव्रताम् ॥विश्वेशाद्दक्षिणेभागे दंडपाणेः समीपतः ॥२०॥येर्चयिष्यंति भावेन पुरुषा वास्त्रियोपि वा ॥तेषां कदाचिन्नो भावि भयं प्रियवियोगजम् ॥२१॥न व्याधिजं भयं क्वापि न क्षुत्तृड्दोषसंभवम् ॥द्रौपदीक्षणतः काश्यां तव धर्मप्रियेनघे ॥२२॥इति दत्त्वा वरान्देव आदित्यः सर्वदः सताम् ॥शंभुमाराधयामास धर्मं द्रौपद्युपाययौ ॥२३॥आदित्यस्य कथामेतां द्रौपद्याराधितस्य वै ॥यः श्रोष्यति नरो भक्त्या तस्यैनः क्षयमेष्यति ॥२४॥स्कंद उव।च ॥द्रौपदादित्यमाहात्म्यं संक्षेपात्कथितं मया ॥मयूखादित्यमाहात्म्यं शृण्विदानीं घटोद्भव ॥-२५॥पुरा पंचनदे तीर्थे त्रिषुलोकेषु विश्रुते ॥सहस्ररश्मिर्भगवांस्तपस्तेपे सुदारुणम् ॥२६॥प्रतिष्ठाप्य महालिंगं गभस्तीश्वर संज्ञितम् ॥गौरीं च मंगला नाम्नीं भक्तमंगलदां सदा ॥२७॥दिव्यवर्षसहस्रं तु शतेन गुणितं मुने ॥आराधयञ्शिवं सोमं सोमार्धकृतशेखरम् ॥२८॥स्वरूपतस्तु तपनस्त्रिलोकीतापनक्षमः ॥ततोतितीव्र तपसा जज्वाल नितरां मुने ॥२९॥मयूखैस्तत्र सवितुस्त्रैलोक्यदहनक्षमैः ॥ततं समस्तं तत्काले द्यावाभूम्योर्यदंतरम् ॥३०॥वैमानिकैर्विष्णुपदे तत्यजे च गतागतम् ॥तीव्रे पतंगमहसि पतंगत्वभयादिव ॥३१॥मयूखा एव दृश्यंते तिर्यगूर्ध्वमधोपि च॥आदित्यस्य न चादित्यो नीपपुष्पस्थितेरिव ॥३२॥तस्यवै महसां राशेस्तपोराशेस्तपोर्चिषाम्॥चकंपे साध्वसात्तीव्रा त्रैलोक्यं सचराचरम् ॥३३॥सूर्य आत्मास्य जगतो वेदेषु परिपठ्यते ॥स एव चेज्वालयिता को नस्त्राता भवेदिह ॥३४॥जगच्चक्षुरसौ सूर्यो जगदात्मैष भास्करः ॥जगद्योयन्मृतप्रायं प्रातःप्रातः प्रबोधयेत् ॥३५॥तमोंधकूपपतितमुद्यन्नेष दिनेदिने ॥प्रसार्य परितः पाणीन्प्राणिजातं समुद्धरेत् ॥३६॥उदितेऽत्रोदिमो नित्यमस्तं यात्यस्तमाप्नुमः ॥उदयेऽनुदये तस्मादस्माकं कारणं रविः ॥३७॥इति व्याकुलितं विश्वं पश्यन्विश्वेश्वरः स्वयम् ॥विश्वत्राता वरं दातुं संजग्मे तिग्मरश्मये ॥३८॥मयूखमालिनं शंभुरालोक्याति सुनिश्चलम् ॥समाधि विस्मृतात्मानं विसिस्माय तपः प्रति ॥३९॥उवाच च प्रसन्नात्मा श्रीकंठः प्रणतार्तिहृत् ॥अलं तप्त्वा वरं ब्रूहि द्युमणे महसां निधे ॥४०॥निरुद्धेंद्रियवृत्तित्वाद्ब्रध्नो ध्यानसमाधिना ॥न जग्राह वचः शंभोर्द्वित्रिरुक्तोप्यकर्णवत् ॥४१॥काष्ठीभूतं तु तं ज्ञात्वा शिवः पस्पर्श पाणिना ॥महातपः समुद्भूत संतापामृतवर्षिणा ॥४२॥तत उन्मीलयांचक्रे लोचने विश्वलोचनः ॥तस्योदयमिव प्राप्य प्रगे पंकजिनीवनी ॥४३॥परिव्यपेतसंतापस्तपनः स्पर्शनाद्विभोः ॥अवग्रहितसस्यश्रीरुल्ललास यथांबुदात् ॥४४॥मित्रो नेत्रातिथीकृत्य त्र्यक्षं प्रत्यक्षमग्रतः ॥दंडवत्प्रणनामोच्चैस्तुष्टाव च पिनाकिनम् ॥४५॥॥ रविरुवाच ॥देवदेव जगतांपते विभो भर्ग भीम भव चंद्रभूषण ॥भूतनाथ भवभीतिहारक त्वां नतोस्मि नतवांछितप्रद ॥४६॥चंद्रचूडमृड धूर्जटे हर त्र्यक्ष दक्ष शततंतुशातन॥शांतशाश्वत शिवापते शिव त्वां नतोस्मि नतवांछितप्रद ॥४७॥नीललोहित समीहितार्थ दहे(?)द्व्येकलोचन विरूपलोचन ॥व्योमकेशपशुपाशनाशन त्वां नतोस्मि नतवांछितप्रद ॥४८॥वामदेवशितिकंठशूलभृच्चंद्रशेखर फणींद्रभूषण॥कामकृत्पशुपते महेश्वर त्वां नतोस्मि नतवांछितप्रद ॥४९॥त्र्यंबक त्रिपुरसूदनेश्वर त्राणकृत्त्रिनयनत्रयीमय॥कालकूट दलनांतकांतक त्वां नतोस्मि नतवांछितप्रद ॥५०॥शर्वरीरहितशर्वसर्वगस्वर्गमार्गसुखदापवर्गद ॥अंधकासुररिपो कपर्दभृत्त्वां नतोस्मि नतवांछितप्रद ॥५१॥शंकरोग्रगिरिजापते पते विश्वनाथविधिविष्णु संस्तुत ॥वेदवेद्यविदिताऽखिलेंगि तत्वां नतोस्मि नतवांछितप्रद ॥५२॥विश्वरूपपररूप वर्जितब्रह्मजिह्मरहितामृतप्रद ॥वाङमनोविषयदूरदूरगत्वां नतोस्मि नतवांछितप्रद ॥५३॥इत्थं परीत्य मार्तंडो मृडं देवं मृडानिकाम् ॥अथ तुष्टाव प्रीतात्मा शिववामार्धहारिणीम्॥ ५४॥रविरुवाच ॥देवि त्वदीयचरणांबुजरेणुगौरीं भालस्थलीं वहति यः प्रणतिप्रवीणः ॥जन्मांतरेपि रजनीकरचारुलेखा तां गौरयत्यतितरां किल तस्य पुंसः ॥५५॥श्रीमंगले सकलमंगलजन्मभूमे श्रीमंगले सकलकल्मषतूलवह्ने॥श्रीमंगले सकलदानवदर्पहंत्रि श्रीमंगलेऽखिलमिदं परिपाहि विश्वम् ॥५६॥विश्वेश्वरि त्वमसि विश्वजनस्य कर्त्री त्वं पालयित्र्यसि तथा प्रलयेपिहंत्री ॥त्वन्नामकीर्तनसमुल्लसदच्छपुण्या स्रोतस्विनी हरति पातककूलवृक्षान् ॥५७॥मातर्भवानि भवती भवतीव्रदुःखसंभारहारिणि शरण्यमिहास्ति नान्या ॥धन्यास्त एव भुवनेषु त एव मान्या येषु स्फुरेत्तवशुभः करुणाकटाक्षः ॥५८॥ये त्वा स्मरंति सततं सहजप्रकाशां काशीपुरीस्थितिमतीं नतमोक्षलक्ष्मीम् ॥तान्संस्मरेत्स्मरहरो धृतशुद्धबुद्धीन्निर्वाणरक्षणविचक्षणपात्रभूतान् ॥५९॥मातस्तवांघ्रियुगलं विमलं हृदिस्थं यस्यास्ति तस्य भुवनं सकलं करस्थम् ॥यो नामतेज एति मंगलगौरि नित्यं सिद्ध्यष्टकं न परिमुंचति तस्य गेहम् ॥६०॥त्वं देवि वेदजननी प्रणवस्वरूपा गायत्र्यसि त्वमसि वै द्विजकामधेनुः ॥त्वं व्याहृतित्रयमिहाऽखिलकर्मसिद्ध्यै स्वाहास्वधासि सुमनः पितृतृप्तिहेतुः ॥६१॥गौरि त्वमेव शशिमौलिनि वेधसि त्वं सावित्र्यसि त्वमसि चक्रिणि चारुलक्ष्मीः ॥काश्यां त्वमस्यमलरूपिणि मोक्षलक्ष्मीस्त्वं मे शरण्यमिह मंगलगौरि मातः ॥६२॥स्तुत्वेति तां स्मरहरार्धशरीरशोभां श्रीमंगलाष्टक महास्तवनेन भानुः ॥देवीं च देवमसकृत्परितः प्रणम्य तूष्णीं बभूव सविता शिवयोः पुरस्तात् ॥६३॥॥ देवदेव उवाच ॥उत्तिष्ठोत्तिष्ठ भद्रं ते प्रसन्नोस्मि महामते ॥मित्रमन्नेत्रगो नित्यं प्रपश्ये तच्चराचरम् ॥६४॥मम मूर्तिर्भवान्सूर्य सर्वज्ञो भव सर्वगः ॥सर्वेषां महसां राशिः सर्वेषां सर्वकर्मवित् ॥६५॥सर्वेषां सर्वदुःखानि भक्तानां त्वं निराकुरु ॥त्वया नाम्नां चतुःषष्ट्या यदष्टकमुदीरितम् ॥६६॥अनेन मां परिष्टुत्य नरो मद्भक्तिमाप्स्यति ॥अष्टकं मंगलागौर्या मंगलाष्टकसंज्ञकम् ॥६७॥अनेन मंगलागौरीं स्तुत्वा मंगलमाप्स्यति ॥चतुःषष्ट्यष्टकं स्तोत्रं मंगलाष्टकमेव च ॥६८॥एतत्स्तोत्रवरं पुण्यं सर्वपातकनाशनम् ॥दूरदेशांतरस्थोपि जपन्नित्यं नरोत्तमः ॥६९॥त्रिसंध्यं परिशुद्धात्मा काशीं प्राप्स्यति दुर्लभाम् ॥अनेन स्तोत्रयुग्मेन जप्तेन प्रत्यहं नृभिः ॥७०॥ध्रुवदैनंदिनं पापं क्षालितं नात्र संशयः ॥न तस्य देहिनो देहे जातु चित्किल्बिषस्थितिः ॥७१॥त्रिकालं योजयेन्नित्यमेतत्स्तोत्रद्वयंशुभम् ॥किंजप्तैर्बहुभिः स्तोत्रैश्चंचलश्रीप्रदैर्नृणाम् ॥७२॥एतत्स्तोत्रद्वयं दद्यात्काश्यां नैःश्रेयसीं श्रियम् ॥तस्मात्सर्वप्रयत्नेन मानवैर्मोक्षकांक्षिभिः ॥७३॥एतत्स्तोत्रद्वयं जप्यं त्यक्त्वा स्तोत्राण्यनेकशः ॥प्रपंच आवयोरेव सर्व एष चराचरः ॥७४॥तदावयोःस्तवादस्मान्निष्प्रपंचो जनो भवेत् ॥समृद्धिमाप्य महतीं पुत्रपौत्रवतीमिह ॥७५॥अंते निर्वाणमाप्नोति जपन्स्तोत्रमिदं नरः ॥अन्यच्च शृणु सप्ताश्व ग्रहराज दिवाकर ॥७६॥त्वया प्रतिष्ठितं लिंगं गभस्तीश्वरसंज्ञितम् ॥सेवितं भक्तिभावेन सर्वसिद्धिसमर्पकम् ॥७७॥त्वया गभस्तिमालाभिश्चांपेयांबुजकांतिभिः ॥यदर्चित्वैश्वरं लिंगं सर्वभावेन भास्कर ॥७८॥गभस्तीश्वर इत्याख्यां ततो लिंगमवाप्स्यति ॥अर्चयित्वा गभस्तीशं स्नात्वा पंचनदे नरः ॥७९॥न जातु जायते मातुर्जठरे धूतकल्मषः ॥इमां च मंगलागौरीं नारी वा पुरुषोपि वा ॥८०॥चैत्रशुक्लतृतीयायामुपोषणपरायणः ॥महोपचारैः संपूज्य दुकूलाभरणादिभिः ॥८१॥रात्रौ जागरणं कृत्वा गीतनृत्यकथादिभिः ॥प्रातः कुमारीः संपूज्य द्वादशाच्छादनादिभिः ॥८२॥संभोज्यपरमान्नाद्यैर्दत्त्वान्येभ्योपि दक्षिणाम् ॥होमं कृत्वा विधानेन जातवेदस इत्यृचा ॥८३॥अष्टोत्तरशताभिश्च तिलाज्याहुतिभिः प्रगे ॥एकं गोमिथुनं दत्त्वा ब्राह्मणाय कुटुंबिने ॥८४॥श्रद्धया समलंकृत्य भूषणैर्द्विजदंपती ॥भोजयित्वा महार्हान्नैः प्रीयेतां मंगलेश्वरौ ॥८५॥इति मंत्रं समुच्चार्य प्रातः कृत्वाथ पारणम् ॥न दुर्भगत्वमाप्नोति न दारिद्र्यं कदाचन ॥८६॥न वै संतानविच्छित्तिं भोगोच्छित्तिं न जातुचित् ॥स्त्री वैधव्यं न चाप्नोति न नायोषिद्वियोगभाक् ॥८७॥पापानि विलयं यांति पुण्यराशिश्च लभ्यते ॥अपि वंध्या प्रसूयेत कृत्वैतन्मंगलाव्रतम् ॥८८॥एतद्व्रतस्य करणात्कुरूपत्वं न जातुचित् ॥कुमारी विंदतेत्यंतं गुणरूपयुतं पतिम् ॥८९॥कुमारोपि व्रतं कृत्वा विंदति स्त्रियमुत्तमाम् ॥संति व्रतानि बहुशो धनकामप्रदानि च ॥९०॥नाप्नुयुर्जातुचित्तानि मंगलाव्रततुल्यताम् ॥कर्तव्या चाब्दिकी यात्रा मधौ तस्यां तिथौ नरैः ॥९१॥सर्वविघ्नप्रशांत्यर्थं सदा काशीनिवासिभिः ॥अपरं द्युमणे वच्मि तव चात्र तपस्यतः ॥९२॥मयूखा एव खे दृष्टा न च दृष्टं कलेवरम् ॥मयूखादित्य इत्याख्या ततस्ते दितिनंदन ॥९३॥त्वदर्चनान्नृणां कश्चिन्न व्याधिः प्रभविष्यति ॥भविष्यति न दारिद्र्यं रविवारे त्वदीक्षणात् ॥९४ ॥इत्थं मयूखादित्यस्य शिवो दत्त्वा बहून्वरान् ॥तत्रैवांतर्हितो भूतो रविस्तत्रैव तस्थिवान् ॥९५॥श्रुत्वाख्यानमिदं पुण्यं मयूखादित्यसंश्रयम् ॥द्रौपदादित्यसहितं नरो न निरयं व्रजेत् ॥९६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखण्डे पूर्वार्द्धे द्रौपदादित्यमयूखादित्ययोर्वर्णनं नामैकोनपंचाशत्तमोध्यायः ॥४९॥ N/A References : N/A Last Updated : November 26, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP