संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|काशीखण्ड|
अध्याय ९६

काशीखण्डः - अध्याय ९६

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ अगस्त्य उवाच ॥
कृप्णद्वैपायनः स्कंद शंभुभक्तिपरो यदि ॥
यदि क्षेत्ररहस्यज्ञः क्षेत्रसंन्यासकृद्यदि ॥१॥
तथा दृष्टप्रभावश्चेत्तथा चेज्ज्ञानिनां वरः ॥
पुरीं वाराणसीं श्रेष्ठां कथं किल शपिष्यति ॥२॥
॥ स्कंद उवाच ॥
सत्यमेतत्त्वया पृच्छि कथयामि मुने शृणु ॥
तस्य व्यासस्य चरितं भविष्यं त्वयि पृच्छति ॥३॥
यदारभ्य मुनेस्तस्य नंदी स्तंभितवान्भुजम् ॥
तदारभ्य महेशानं संस्तौति परमादृतः ॥४॥
काश्यां तीर्थान्यनेकानि काश्यां लिगान्यनेकशः ॥
तथापि सेव्यो विश्वेशः स्नातव्या मणिकर्णिका ॥५॥
लिंगेष्वेको हि विश्वेशस्तीर्थेषु मणिकर्णिका ॥
इति संव्याहरन्व्यासस्तद्द्वयं बहु मन्यते ॥६॥
त्यक्त्वा स बहु वाग्जालं प्रातः स्नात्वा दिनेदिने ॥
निर्वाणमंडपे वक्ति महिमानं महेशितुः ॥७॥
शिष्याणां पुरतो नित्यं क्षेत्रस्य महिमा महान् ॥
व्याख्यायते मुदा तेन व्यासेन परमर्षिणा ॥८॥
अत्र यत्क्रियते क्षेत्रे शुभं वाऽशुभमेव वा ॥
संवर्तेपि न तस्यांतस्तस्माच्छ्रेयः समाचरेत् ॥९॥
क्षेत्रसिद्धिं समीहंते ये चात्र कृतिनो जनाः ॥
यावज्जीवं न तैस्त्याज्या सुधीभिर्मणिकर्णिका ॥१०॥
चक्रपुष्करिणी तीर्थे स्नातव्यं प्रतिवासरम् ॥
पुष्पैः पत्रैः फलैस्तोयैरर्च्यो विश्वेश्वरः सदा ॥११॥
स्ववर्णाश्रमधर्मश्च त्यक्तव्यो न मनागपि ॥
प्रत्यहं क्षेत्रमहिमा श्रोतव्यः श्रद्धया सकृत् ॥१२॥
यथाशक्ति च देयानि दानान्यत्र सुगुप्तवत् ॥
अन्नान्यपि च देयानि विघ्नान्परिजिहीर्षुणा ॥१३॥
परोपकरणं चात्र कर्तव्यं सुधिया सदा ॥
पर्वस्वपि विशेषेण स्नानदानादिकाः क्रियाः ॥१४॥
विशेषपूजा कर्तव्या सुमहोत्सवपूर्वकम ॥
कार्यास्तथाधिका यात्राः समर्च्याः क्षेत्रदेवताः॥।३५॥
अत्र मर्म न वक्तव्यं सुधियां कस्यचित्क्वचित् ॥
परदार परद्रव्य परापकरणं त्यजेत् ॥१६॥
परापवादो नो वाच्यः परेर्ष्यां न च कारयेत् ॥
असत्यं नैव वक्तव्यं प्राणैः कंठगतैरपि ॥१७॥
अत्रत्य जंतुरक्षार्थमसत्यमपि भाषयेत् ॥
येनकेनप्रकारेण शुभेनाप्यशुभेन वा॥१८॥
अत्रत्यः प्राणिमात्रोपि रक्षणीयः प्रयत्नतः ॥
एकस्मिन्रक्षिते जंतावत्र काश्यां प्रयत्नतः ॥
त्रैलोक्यरक्षणात्पुण्यं यत्स्यात्तत्स्यान्न संशयः ॥१९॥
ये वसंति सदा काश्यां क्षेत्रसंन्यासकारिणः ॥
त एव रुद्रा मंतव्या जीवन्मुक्ता न संशयः ॥२०॥
ते पूज्यास्ते नमस्कार्यास्ते संतोष्याः प्रयत्नतः ॥
तेषु वै परितुष्टेषु तुष्येद्विश्वेश्वरः स्वयम् ॥२१॥
काश्यां वसंति ये मर्त्या दूरस्थैरपि सन्नरैः ॥
योगक्षेमो विधातव्यस्तेषां विश्वेशितुर्मुदे ॥२२॥
प्रसरस्त्विंद्रियाणां च निवार्योत्र निवासिभिः ॥
मनसोपि हि चांचल्यमिह वार्यं प्रयत्नतः ॥२३॥
मरणं नाभिकांक्षेद्धि कांक्ष्यो मोक्षोऽपिनो पुनः ॥
शरीरशोषणोपायः कर्तव्यः सुधिया नहि ॥२४॥
शरीरसौष्ठवं कांक्ष्यं व्रतस्नानादिसिद्धये ॥
आयुर्बह्वत्र वै चिंत्यं महाफलसमृद्धये ॥२८५॥
आत्मरक्षात्र कर्तव्या महाश्रेयोभिवृद्धये ॥
अत्रात्म त्यजनोपायं मनसापि न चिंतयेत् ॥२५॥
एकस्मिन्नपि यच्चाह्नि काश्यां श्रेयोभिलभ्यते ॥
न तु वर्षशतेनापि तदन्यत्राप्यते क्वचित् ॥२७॥
अन्यत्र योगाभ्यसनाद्यावज्जन्म यदर्ज्यते ॥
वाराणस्यां तदेकेन प्राणायामेन लभ्यते ॥२८॥
सर्वतीर्थावगाहाच्च यावज्जन्म यदर्ज्यते ॥
तदानंदवने प्राप्यं मणिकर्ण्येकमज्जनात् ॥२९॥
सर्वलिंगार्चनात्पुण्यं यावज्जन्म यदर्ज्यते ॥
सकृद्विश्वेशमभ्यर्च्य श्रद्धया तदवाप्यते ॥३०॥
यज्जन्मनां सहस्रेण निर्मलं पुण्यमर्जितम् ॥
तत्पुण्यपरिवर्तेन भवेद्विश्वेशदर्शनम् ॥३। ॥
गवां कोटि प्रदानेन सम्यग्दत्तेन यत्फलम ॥
तत्फलं सम्यगाप्येत विश्वेश्वर विलोकनात् ॥३२॥
यत्षोडशमहादानैः पुण्यं प्रोक्तं महर्षिभिः ॥
तत्पुण्यं जायते पुंसां विश्वेशे पुष्पदानतः ॥३३॥
अश्वमेधादिभिर्यज्ञैर्यत्फलं प्राप्यतेखिलैः ॥
पंचामृतानां स्नपनाद्विश्वेशे तदवाप्यते ॥३४॥
वाजपेयसहस्रेण सम्यगिष्टेन यत्फलम् ॥
सकृन्महार्हैर्नैवेद्यैर्विश्वेशे तच्छताधिकम् ॥३२॥
ध्वजातपत्रं चमरं विश्वेशे यः समर्पयेत् ॥
एकच्छत्रं स वै राज्यं प्राप्नुयाद्वसुधातले ॥३५॥
महापूजोपकरणं योर्पयेद्विश्वभर्तरि ॥
न तं संपत्तिसंभारा विमुंचंतीह कुत्रचित् ॥३७॥
सर्वर्तुकुसुमाढ्यां च यः कुर्यात्पुष्पवाटिकाम् ॥
तदंगणे कल्पवृक्षाश्छायां कुर्वंति शीतलाम् ॥३८॥
यः क्षीरस्नपनार्थं वै विश्वेशे धेनुमर्पयेत् ॥
क्षीरार्णवतटे तस्य निवसेयुः पितामहाः ॥३९॥
विश्वेशराजसदने यः सुधां चित्रमेव वा ॥
कारयेत्तस्य भवनं कैलासचित्रितं भवेत् ॥४०॥
ब्राह्मणान्यतिनो वापि तथैव शिवयोगिनः ॥
भोजयेद्योत्र वै काश्यामेकैक गणना क्रमात् ॥४१॥
कोटिभोज्यफलं तस्य श्रद्धया नात्र संशयः ॥
तपस्त्वत्र प्रकर्तव्यं दानमत्र प्रदापयेत् ॥४२॥
विश्वेशस्तोषणीयोत्र स्नानहोमजपादिभिः ॥
अन्यत्र कोटिजप्येन यत्फलं प्राप्यते नरैः ॥
अष्टोत्तरशतं जप्त्वा तदत्र समवाप्यते ॥४३॥
कोटिहोमेन यत्प्रोक्तं फलमन्यत्र सूरिभिः ॥
अष्टोत्तराहुतिशतात्तदत्रानंदकानने ॥४४॥
यो जपेद्रुद्रसूक्तानि काश्यां विश्वेशसन्निधौ ॥
पारायणेन वेदानां सर्वेषां फलमाप्यते ॥४५॥
तस्य पुण्यं न जानामि चिंतिते चाक्षरे परे ॥
काश्यां नित्यं प्रवस्तव्यं सेव्योत्तरवहा सदा ॥४६॥
आपद्यपि हि घोरायां काशी त्याज्या न कुत्रचित् ॥
यतः सर्वापदांहर्ता त्राता विश्वपतिः प्रभुः ॥४७॥
अवंध्यं दिवसं कुर्यात्स्नानदानजपादिभिः ॥
यतः काश्यां कृतं कर्म महत्त्वाय प्रकल्पते ॥४८॥
कृच्छ्रचांद्रायणादीनि कर्तव्यानि प्रयत्नतः ॥
तथेंद्रियविकाराश्च न बाधंतेत्र कर्हिचित् ॥४९॥
यदींद्रियाणि कुर्वंति विक्रियामिह देहिनाम् ॥
तदात्रवाससं सिद्धिर्विघ्नेभ्यो नैव लभ्यते ॥५०॥
॥ अगस्त्य उवाच ॥
कृच्छ्र चांद्रायणादीनि व्यासो वक्ष्यति यानि वै॥
तेषां स्वरूपमाख्याहि स्कंदेंद्रिय विशुद्धये ॥५१॥
॥ स्कंद उवाच ॥
कथयामि महाबुद्धे कृच्छ्रादीनि तवाग्रतः ॥
यानि कृत्वात्र मनुजो देहशुद्धिं लभेत्पराम् ॥५२॥
एकभक्तेन नक्तेन तथैवायाचितेन च ॥
उपवासेन चैकेन पादकृच्छ्रः प्रकीर्तितः ॥५३॥
वटोदुंबरराजीव बिल्वपत्रकुशोदकम् ॥
प्रत्येकं प्रत्यहं पीतं पर्णकृच्छ्रः प्रकीर्तितः ॥५४॥
पिण्याकघृततक्रांबु सक्तूनां प्रतिवासरम् ॥
एकैकमुपवासश्च कृच्छ्रः सौम्यः प्रकीर्तितः ॥५५॥
हविषा प्रातरश्नीत हविषा सायमेव च ॥
हविषा याचितं त्रींस्तु सोपवासस्त्रयहं वसेत् ॥५६॥
एकैकग्रासमश्नीयादहानि त्रीणि पूर्ववत् ॥
त्र्यहं चोपवसेदंत्यमतिकृच्छ्रं चरन्द्विजः ॥५७॥
कृच्छ्रातिकृच्छ्रं पयसा दिवसानेकविंशतिः ॥
द्वादशाहोपवासेन पराकः परिकीर्तितः ॥५८॥
त्र्यहं प्रातस्त्रयहं सायं त्र्यहमद्यादयाचितम्॥
त्र्यहं चोपवसेदंत्यं प्राजापत्यं चरन्द्विजः ॥५९॥
गोमूत्रं गोमयं क्षीरं दधिसर्पिः कुशोदकम्॥
एकरात्रोपवासश्च कृच्छ्रः सांतपनः स्मृतः ॥६०॥
पृथक्सांतपनद्रव्यैः षडहः सोपवासकः ॥
सप्ताहेन तु कृच्छ्रोयं महासांतपनः स्मृतः ॥६१॥
तप्तकृच्छ्रं चरन्विप्रो जलक्षीरघृतानिलान् ॥
एतांस्त्र्यहं पिबेदुष्णान्सकृत्स्नायी समाहितः ॥६२॥
त्र्यहमुष्णाः पिबेदापस्त्र्यहमुष्णं पयः पिबेत् ॥
त्र्यहमुष्णघृतं प्राश्य वायुभक्षो दिनत्रयम् ॥६३॥
पलमेकं पयः पीत्वा सर्पिषश्च पलद्वयम् ॥
पलमेकं तु तोयस्य तप्तकृच्छ्र उदाहृतः ॥६४॥
गोमूत्रेण समायुक्तं यावकं यः प्रयोजयेत् ॥
कृच्छ्रमेकाह्न्किं प्रोक्तं शरीरस्य विशोधनम् ॥६५॥
हस्तावुत्तानतः कृत्वा दिवसं मारुताशनः ॥
रात्रौ जले स्थितो व्युष्टः प्राजापत्येन तत्समम्॥ ६६॥
एकैकं ह्रासयेद्ग्रासं कृष्णे शुक्ले च वर्धयेत्॥
उपस्पृशं स्त्रिषवणमेतच्चांद्रायणं स्मृतम् ॥६७॥
एकैकं वर्धयेद्ग्रासं शुक्ले कृष्णे च ह्रासयेत् ॥
भुंजीत दर्शे नो किंचिदेष चांद्रायणो विधिः ॥६८॥
चतुरः प्रातरश्नीयात्पिंडान्विप्रः समाहितः ॥
चतुरोस्तमिते सूर्ये शिशुचांद्रायणं स्मृतम् ॥६९॥
अष्टावष्टौ समश्नीयात्पिंडान्मध्यंदिने स्थिते ॥
नियतात्मा हविष्यस्य यतिचांद्रायणं स्मृतम् ॥७०॥
यथाकथंचित्पिंडानां तिस्रोशीतीः समाहितः ॥
मासेनाश्नन्हविष्यस्य चंद्रस्यैति सलोकताम् ॥७१॥
अद्भिर्गात्राणि शुध्यंति मनः सत्येन शुद्ध्यति ॥
विद्या तपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुद्ध्यति ॥७२॥
तच्च ज्ञानं भवेत्पुंसां सम्यक्काशीनिषेवणात् ॥
काशीनिषेवणेन स्याद्विश्वेशकरुणोदयः ॥७३॥
ततो महोदयावाप्तिः कर्मनिर्मूलनक्षमा॥
अतः काश्यां प्रयत्नेन स्नान दान तपो जपः ॥७४॥
व्रतं पुराणश्रवणं स्मृत्युक्ताध्व निषेवणम् ॥
प्रतिक्षणे प्रतिदिनं विश्वेश पदचिंतनम् ॥७५॥
लिंगार्चनं त्रिकालं च लिंगस्यापि प्रतिष्ठितिः ॥
साधुभिः सह संलापो जल्पः शिवशिवेति च ॥७६॥
अतिथेश्चापि सत्कारो मैत्रीतीर्थनिवासिभिः ॥
आस्तिक्यबुद्धिर्विनयो मानामान समानधीः ॥७७॥
अकामिता त्वनौद्धत्यमरागित्वमहिंसनम् ॥
अप्रतिग्रहवृत्तिश्च मतिश्चानुग्रहात्मिका ॥७८॥
अदंभितात्वमात्सर्यमप्रार्थितधनागमः ॥
अलोभित्वमनालस्यमपारुष्यमदीनता ॥७९॥
इत्यादि सत्प्रवृत्तिश्च कर्तव्या क्षेत्रवासिना ॥
प्रत्यहं चेति शिष्येभ्यः सधर्ममुपदेक्ष्यति ॥८०॥
नित्यं त्रिषवणस्नायी नित्यं भिक्षाकृताशनः ॥
लिंगपूजार्चको नित्यमित्थं व्यासो वसेत्पुरा ॥८१॥
एकदा तस्य जिज्ञासां कर्तुं देवीं हरोवदत् ॥
अद्य भिक्षाटनं प्राप्ते व्यासे परमधार्मिके ॥८२॥
अपि सर्वगते क्वापि भिक्षां मा यच्छ सुंदरि ॥
तथेत्युक्ता भवानी सा भवं भवनिवारणम्॥ ८३॥
नमस्कृत्य प्रतिगृहं तस्य भिक्षां न्यषेधयत् ॥
स मुनिः सहितः शिष्यैर्भिक्षामप्राप्य दूनवत् ॥८४॥
वेलातिक्रममालोक्य पुनर्बभ्राम तां पुरीम्॥
गृहेगृहे परिप्राप्ता भिक्षान्यैः सर्वभिक्षुकैः ॥८५॥
तदह्निनालभद्भिक्षां सशिष्यः स मुनिः क्वचित् ॥
अथ सायंतनं कर्म कृत्वा छात्रैः समन्वितः ॥८६॥
उपोषणपरो भूत्वा तथैवासीदहर्निशम्॥
अथान्येद्युर्मुनिर्व्यासः कृत्वा माध्याह्निकं विधिम्॥ ८७॥
ययौ भिक्षाटनं कर्तुं सशिष्यः परितः पुरीम् ॥
सर्वत्र स परिभ्रांतः प्रतिसौधं मुहुर्मुहुः ॥८८॥
न क्वापि लब्धवान्भिक्षां भाग्यहीनो धनं यथा ॥
अथ चिंतितवान्व्यासः परिश्रांतः परिभ्रमन् ॥८९॥
को हेतुर्यन्न लभ्येत भिक्षा यत्नेन रक्षिता ॥
अंतेवासिन आहूय व्यासः पप्रच्छ चाखिलान् ॥९०॥
भवद्भिरपि नो भिक्षा परिप्राप्तेति गम्यते ॥
किमत्र पुरि संवृत्तं द्वित्रा यात ममाज्ञया ॥९१॥
द्वितीयेह्न्यपि यद्भिक्षा न लभ्येतातियत्नतः ॥
अनिष्टं किंचिदत्रासीन्महागुरुनिपातजम् ॥९२॥
अन्नक्षयो वा सर्वस्यां नगर्यामभवत्क्षणात् ॥
राजदंडोथ युगपज्जातः सर्वपुरौकसाम् ॥९३॥
अथवा वारिता भिक्षा केनाप्यस्मासु चेर्ष्यया ॥
पुरौकसोभवन्दुस्थास्तूपसर्गेण केनचित् ॥९४॥
किमेतदखिलमज्ञात्वा समागच्छत सत्वरम् ॥
द्वित्राः पवित्रचरणात्प्राप्यानुज्ञां गुरोरथ ॥
समाचख्युः समागम्य दृष्ट्वर्द्धि तत्पुरौकसाम् ॥९५॥
॥ शिष्या ऊचुः ॥
शृण्वंत्वाराध्यचरणा नोपसर्गोत्र कश्चन ॥
नान्नक्षयो वा सर्वस्यां नगर्यामिह कुत्रचित् ॥९६॥
यत्र विश्वेश्वरः साक्षाद्यत्राऽमरधुनी स्वयम् ॥
त्वादृशा यत्र मुनयः क्व भीस्तत्रोपसर्गजा ॥९७॥
समृद्धिर्या गृहस्थानामिह विश्वेशितुः पुरि ॥
न सर्द्धिरस्ति वैकुंठे स्वल्पास्ता अलकादयः ॥९८॥
रत्नाकरेषु रत्नानि न तावंति महामुने॥
यावंति संति विश्वेशनिर्माल्योपभुजां गृहे ॥९९॥
गृहेगृहेत्र धान्यानां राशयो यादृशः पुनः ॥
न तादृशः कल्पवृक्षदत्ता ऐंद्रे पुरे क्वचित् ॥१००॥
यत्र साक्षाद्विशालाक्षी सुविस्तारफलप्रदा ॥
न तत्र पुरि सर्वस्यां नरो वै निर्धनः क्वचित् ॥१॥
निर्वाणलक्ष्म्याः सदने त्वस्मिन्नानंदकानने ॥
मोक्षोपि यत्र सुलभः किमन्यत्तत्र दुर्लभम् ॥२॥
सीमंतिन्यः स्त्रियः सर्वाः पतिव्रतपरायणाः ॥
सर्वा भवानी रूपिण्यो विश्वेशार्पितसत्क्रियाः ॥३॥
यावंतः पुरुषाः काश्यां सर्व एव गणाधिपाः ॥
सर्व एव कुमारा वै सर्वे तारकदृष्टयः ॥४॥
त्रिपुंड्रांकितभाला ये ते सर्वे चंद्रमौलयः ॥
उपसर्गसहस्रैश्च पीड्यमाना अपीह ये ॥५॥
न त्यजंति सदा काशीं सर्वज्ञा एव तेखिलाः ॥
गृहेगृहेपि वटवो ब्रह्मवादविवादिनः ॥६॥
स्वर्धुनी धूतकलुषाः संतीह चतुराननाः ॥
निर्वाणलक्ष्मीपतयः क्षेत्रसंन्यासकारिणः ॥७॥
सर्व एव हृषीकेशाः सर्वे वै पुरुषोत्तमाः ॥
अच्युता एव विज्ञेया एतत्क्षेत्रपरिग्रहाः ॥८॥
स्त्रियो वा पुरुषा वापि सर्व एव न संशयः ॥
सर्व एव त्रिनयनाः सर्व एव चतुर्भुजाः ॥९॥
श्रीकंठाः सर्व एवात्र सर्वे मृत्युंजया ध्रुवम् ॥
मोक्षश्री श्रितवर्ष्माणस्त्वर्धनारीश्वरायतः ॥११०॥
धर्मराशिः परश्चात्र महांतोऽत्रार्थराशयः ॥
सर्वे कामाः फलंत्यत्र कैवल्यं चात्र निर्मलम् ॥११॥
न गर्भवाससंसर्गः काशीसंस्थितिकारिणाम् ॥
न कलिश्चात्र बाधेत कालो नैव प्रबाधते ॥१२॥
एनांसि नात्र बाधंते विश्वेशशरणार्थिनः ॥
यत्र विश्वेश्वरः साक्षान्नादबिंदुकलात्मकः ॥१३॥
ध्वनिरूपी हि तत्रास्ति प्रणवो मंत्रविग्रहः ॥
अतो विग्रहवंतोत्र संति वेदा विनिश्चितम् ॥१४॥
सरस्वती सरिद्रूपा ह्यतः शास्त्रनिकेतनम् ॥
आनंदकाननं सर्वं धर्मशास्त्रकृतालयम्॥ १५॥
यावंतो दिवि वै देवास्तावंतोत्र मृषा न हि ॥
नीराजयंति विश्वेशं रात्रौ रात्रौ सदाऽहयः ॥१६॥
स्वफणामणिदीपैश्च प्राप्य काशीं रसातलात् ॥
समुद्राः सर्व एवात्र कामधेनुव्रजान्विताः ॥१७॥
पंचपीयूषधाराभिर्विश्वेशं स्नपयंति हि ॥
मंदारः पारिजातश्च संतानो हरिचंदनः ॥१८॥
कल्पद्रुमश्च पंचैते तरुभिः सह सर्वदा ॥१९॥
सर्वे सुरनिकायाश्च सर्व एव महर्षयः ॥
योगिनः सर्व एवात्र काशीनाथमुपासते ॥१२०॥
विद्यानां सदनं काशी काशी लक्ष्म्याः परालयः ॥
मुक्तिक्षेत्रमिदं काशी काशी सर्वा त्रयीमयी ॥२१॥
इति श्रुत्वा मुनिवरः पाराशर्यो महातपाः ॥
एवं बभाषे ताञ्शिष्यान्पुनःश्लोकं पठंत्वमुम् ॥२२॥
॥ शिष्या ऊचुः ॥
विद्यानां चाश्रयः काशी काशी लक्ष्म्याः परालयः ॥
मुक्तिक्षेत्रमिदं काशी काशी सर्वा त्रयीमयी ॥२३॥
॥ स्कंद उवाच ॥
निशम्येति तदा व्यासः क्रोधांधीकृतलोचनः ॥
क्षुत्कृशानुज्वलन्मूर्तिः काशीं शप्स्यति कुंभज ॥२४॥
॥ व्यास उवाच ॥
मा भूत्त्रैपूरुषीविद्या मा भूत्त्रैपूरुषं धनम् ॥
मा भूत्त्रैपृरुषी मुक्तिः काशीं व्यासः शपन्निति ॥२५॥
गर्वः परोत्र विद्यानां धनगर्वोत्र वै महान् ॥
मुक्तिगर्वेण नो भिक्षां प्रयच्छंत्यत्र वासिनः ॥२६॥
इति कृत्वा मतिं व्यासः काश्यां शापमदात्तदा ॥
दत्त्वापि शापं स मुनिर्भिक्षितुं क्रोधवान्ययौ ॥२७॥
प्रतिगेहं त्वरायुक्तः प्रविशन्व्योमदत्तदृक् ॥
बभ्राम नगरीं सर्वां क्वापि भैक्षं न लब्धवान् ॥२८॥
अंशुमालिनमावीक्ष्य मनाग्लोहितमंडलम् ॥
भिक्षापात्रं परिक्षिप्य निर्ययावाश्रमं प्रति ॥२९॥
अथ गच्छन्महादेव्या गृहद्वारि निषण्णया ॥
प्राकृतस्त्रीस्वरूपिण्या भिक्षायै प्रार्थितोतिथिः ॥१३०॥
॥ गृहिण्युवाच ॥
भगवन्भिक्षुकास्तावदद्य दृष्टा न कुत्रचित् ॥
असत्कृत्यातिथिं नाथो न मे भोक्ष्यति कर्हिचित् ॥३१॥
वैश्वदेवादिकं कर्म कृत्वा गृहपतिर्मम ॥
प्रतीक्षेतातिथिपथं तस्मात्त्वमतिथिर्भव ॥३२॥
विनातिथि गृहस्थोयस्त्वन्नमेको निषेवते ॥
निषेवतेऽघं स परं सहितः स्वपितामहैः ॥३३॥
तस्मात्त्वरितमायाहि कुरु मे पत्युरीहितम् ॥
गार्हस्थ्यं सफलं कर्तुमिच्छतोऽतिथिपूजनात् ॥३४॥
इति श्रुत्वा गतामर्षो व्यासस्तामाह विस्मितः ॥
॥ व्यास उवाच ॥
भद्रे का त्वं कुतः प्राप्ता पूर्वं दृष्टा न कुत्रचित् ॥३५॥
मन्ये धर्ममयी मूर्तिः कापि त्वं शुचिमानसा ॥
त्वद्दर्शनात्परां प्रीतिं संप्राप्तानींद्रियाणि मे ॥३६॥
त्वं सुधैव भवेः प्रायः सर्वावयवसुंदरि ॥
मंदराघातसंत्रासात्यक्तक्षीरार्णवस्थितिः ॥३७॥
कलासुधाकरस्याथ कुहू राहुभयार्दिता ॥
सीमंतिनी स्वरूपेण तिष्ठेः काश्यामनिर्भया ॥३८॥
अथवा कमलासि त्वं विहाय कमलालयम् ॥
निशि संकोचिनं काश्यां विकाशिन्यां वसेः सदा ॥३९॥
किंवा नु करुणामूर्तिरिह काशिनिवासिनाम् ॥
सर्वदुःखौघहरिणी परानंदप्रदायिनी ॥१४०॥
वाराणस्याः किमथवाऽधिष्ठात्री देवता त्वमु॥
किं वा निर्वाणलक्ष्मीस्त्वं या काश्यां परिगीयते ॥४१॥
श्वपाकं यायजूकं वा प्रांतेऽलंकुर्वती समम्॥
मद्भाग्यं वा परिणतमेतद्योषित्स्वरूपतः ॥४२॥
अथवा सा भवेन्नूनं या क्षेत्रे परिगीयते ॥
भक्तपोतप्रदा भक्त्या भवानी भवनाशिनी ॥४३॥
सर्वथैव न नारी त्वं नासुरी नैव किन्नरी॥
विद्याधरा न नो नागी नो गंधर्वी न यक्षिणी ॥४४॥
त्वमिष्टदेवतैवासि काचिन्मे मोहहारिणी ॥
केयं चिंताथवामेत्र काचित्त्वं भव सुंदरि ॥४५॥
परवानस्म्यहं जातस्तवदर्शनतोऽधुना ॥
अवश्यमेवकर्तास्मि तवादेश्यं तदादिश ॥४६॥
एकं तपोव्ययं हित्वा कारयिष्यसि यत्पुनः ॥
तदेवाहं करिष्यामि विधेयः शुभलोचने ॥४७॥
न वचस्त्वादृशीनांहि महत्त्वं हापयेत्सताम् ॥
परं त्वं कासि सुभगे सत्यं ब्रूहि ममाग्रतः ॥४८॥
अथवा तव देहेस्मिन्क्वा सत्यं निर्मलेक्षणे ॥
इति पृष्टाह मुनिना सा विश्वायुर्घटोद्भव ॥४९॥
अत्रत्यस्यैव हि मुने गृहिणी गृहमेधिनः ॥
नित्यं वीक्षे चरंतं त्वां भिक्षां शिष्यगणैर्वृतम् ॥१५०॥
त्वमेव मां नो जानीषे जाने त्वामहमेव हि ॥
तपस्विन्किं बहूक्तेन यावन्नास्तं व्रजेद्रविः ॥५१॥
प्राणनाथस्य मे तावदातिथ्यं सफलीकुरु ॥
तच्छुत्वा स मुनिः प्राह विनयानतकंधरः ॥५२॥
॥ व्यास उवाच ॥
अस्ति मे नियमः कश्चित्स सिद्धिं चेद्व्रजेच्छुभे ॥
एकभिक्षां तदाहं तु करिष्ये नान्यथा पुनः ॥५३॥
तपस्व्युदीरितं श्रुत्वा सा प्रोवाच वचस्ततः ॥
अविशंक वद मुने कस्तेस्ति नियमः सुधीः ॥५४॥
मम भर्तुः प्रसादेन किंचिन्न्यूनं यतोऽत्र न ॥
इति श्रुत्वा प्रहृष्टात्मा स तामाह तपोधनः ॥५५॥
अयुतं मम शिष्या ये तैः सपक्तिमहं वृणे ॥
अस्तं यावन्न यात्यर्कस्तावद्भोक्ष्येन्यथा नहि ॥५६॥
निशम्येति प्रहृष्टास्या सा प्रोवाच मुनिंततः ॥
किं विलंबेन तद्याहि सर्वाञ्शिष्यान्समाह्वय ॥५७. ॥
पुनः प्राह स तां साध्वि त्वेतावत्सिद्धिरस्ति ते ॥
येन तृप्तिं गमिष्यंति मच्छिष्याः सर्व एव ते ॥५८॥
स्मित्वाथ साब्रवीत्तं तु मुने भर्तुरनुग्रहात् ॥
सिद्धमेव सदैवास्ते सर्वं तावन्ममालये ॥५९॥
यावतार्थिजनस्तृप्तिमेति सर्वोपि सर्वशः ॥
वयं न तादृङ्महिला भर्तृसंदेहकारिकाः ॥१६०॥
आयातोर्थी यदा गेहे सिद्धं कार्यं तदैव हि ॥
परिपूर्णा दिशः सर्वाः परिपूर्णामनोरथाः ॥६१॥
परिपूर्णगृहं सर्वं पत्युःपाद प्रसादतः ॥
याहि तूर्णं समायाहि यावदन्नार्थिभिः सह ॥६२॥
पतिर्मे बहुकालीनः कालं न सहते चिरम् ॥
प्रियातिथिः प्रियतमस्तदातिथ्यसमृद्धये ॥६३॥
आशु गत्वा समागच्छ यावन्नास्तमितो रविः ॥
इति प्रहृष्टस्त्वरितः शिष्यानाहूय सर्वतः ॥६४॥
आगत्यतां पुनः प्राह दृष्ट्वा तन्मार्गलोचनाम् ॥
मातः सर्वे समायातास्त्वरितं देहि भोजनम् ॥६५॥
अस्ताचलं हि समया समियादेष भास्करः ॥
इत्युक्त्वा मंदिरस्यांतर्विविशुस्ते तपोधनाः ॥६६॥
तन्मंडपमणिज्योतिस्तत्याहितदिनश्रियः ॥
यावद्गच्छतितत्सौधमध्यमाशु तपस्विनः ॥६७॥
पादौप्रक्षाल्य तावत्ते कैश्चित्कैश्चित्समर्च्य च ॥
कतिचित्परिविष्टान्ना भोक्तुमेवोपवेशिताः ॥६८॥
तद्दिव्यपाकसंभारान्दृष्टवा तद्दृष्टयः क्षणात् ॥
परातृप्तिमुपागच्छन्घ्राणन्यामोदराजिभिः ॥६९॥
अतितृप्तिं समापन्नास्ते तदन्ननिषेवणात् ॥
आचांताश्चंदनैः स्रग्भिरंबरैः परिभूषिताः ॥१७०॥
अथ सांध्यं विधिं कृत्वा प्रोपविश्य तदग्रतः ॥
अभिनंद्य महाशीर्भिर्यावद्गंतुं प्रचक्रमुः ॥७१॥
तावद्वृद्धगृहस्थेन गृहिणी सा कटाक्षिता ॥
पप्रच्छ तीर्थे वसतां को धर्मो मुख्य एव हि ॥७२॥
तथा तदनुसारेण तीर्थे वर्तामहे वयम् ॥
सर्वधर्मविदां श्रेष्ठः श्रुत्वा तद्गृहिणी वचः ॥७३॥
तदादरसुधाक्लिन्न महान्नस्वादतर्पितः ॥
प्रत्युवाच मुनिर्व्यासः स्मित्वा तां सर्ववित्तमाम् ॥७४॥
॥ व्यास उवाच ॥
स्वच्छांतःकरणेमातर्महामिष्टान्नमानदे ॥
स एष धर्मो नान्योस्ति यत्त्वया परिचर्यते ॥७५॥
त्वमेव धर्मं जानासि पतिशुश्रूषणे रता ॥
यदि पृच्छसि मां सत्यं तदा किंचन वच्मि ते ॥७६॥
वक्तव्यमेव पृष्टेन मनागपि विजानता ॥
स एव धर्मः सुभगे नान्यो धर्मोस्ति कश्चन ॥७७॥
येनैष तोषमायाति तव भर्ता चिरंतनः ॥
॥ गृहिण्युवाच ॥
अयं धर्मो भवेन्नूनं क्रियते च स्वशक्तितः ॥७८॥
साधारणानि धर्माणि संपृच्छे तानि मे वद ॥
॥ व्यास उवाच ॥
अनुद्वेगकरं वाक्यं परोत्कर्षसहिष्णुता ॥७९॥
विचार्य कारिता नित्यं स्वधिष्ण्योदय चिंतनम् ॥
गृहस्थ उवाच ॥
एषु धर्मेषु भो विद्वंस्त्वयि कोस्तीह तद्वद ॥१८०॥
 ततः स्थगितवद्व्यासस्तस्थौ किंचिन्न चोक्तवान् ॥
ततः पुनर्गृहस्थेन स हि प्रोक्तस्तपोधनः ॥८१॥
यद्येत एव वै धर्मास्त्वया ये प्रतिपादिताः ॥
तद्दांतता तवैवैक्षि दानं शापस्य चोत्तमम् ॥८२॥
त्वय्येव हि दया सम्यग्धैर्यं त्वय्येव चोत्तमम् ॥
त्वयि संभावनास्त्येव कामक्रोधविनिग्रहे ॥८३॥
त्वमेव सम्यग्जानीषे वक्तुं चोद्वेगवर्जितम् ॥
त्वय्येव सम्यग्दृश्येत परोत्कर्ष सहिष्णुता ॥८४॥
विचार्य कारितायाश्च त्वमेव निलयोमहान् ॥
स्वस्यधिष्ण्यस्य च भवांश्चिंतयेदुदयं ध्रुवम् ॥८५॥
ममैकं ब्रूहि भो विद्वञ्छापं दद्याच्च यः क्रुधा ॥
अलभन्स्वार्थसंसिद्धिमभाग्यात्तस्य कस्य सः ॥८६॥
॥ व्यास उवाच ॥
यः स्वार्थसिद्धिमलभन्नभाग्याच्छपति क्रुधा ॥
स शापः प्रत्युत भवेच्छप्तुरेवाविवेकिनः ॥८७॥
॥ गृहस्थ उवाच ॥
भवता भ्रमता विप्र नाप्ताभिक्षा यदाप्यहो ॥
तदापराद्धं किमिह वराकैः क्षेत्रवासिभिः ॥८८॥
तपस्विञ्शृणु मे वाक्यं राजधान्यां ममेह यः ॥
ऋद्धिं द्रष्टुं न शक्नोति परिशप्तः स एव हि ॥८९॥
अद्य प्रभृति न क्षेत्रे मदीये शापवर्जिते ॥
आवस क्रोधन मुने न वासे योग्यतात्र ते ॥१९०॥
इदानीमेव निर्गच्छ बहिः क्षेत्रादितो भव ॥
त्वद्विधानां न योग्यं मे क्षेत्रं मोक्षैकसाधनम् ॥९१॥
अत्राल्पमपि यद्दौष्ट्यं कृतं मत्क्षेत्रवासिनाम् ॥
तद्दौष्ट्यस्य परीपाको रुद्रपैशाच्यमेव हि ॥९२॥
तच्छ्रुत्वा वेपमानः स परिशुष्कौष्ठतालुकः ॥
जगाम शरणं गौरीं लुठंस्तच्चरणाग्रतः ॥९३॥
उवाच च वचो मातस्त्राहि त्राहि भृशं रुदन् ॥
अनाथस्त्वत्सनाथोहं बालिशस्तव बालकः ॥९४॥
शरणागतं च संत्राहि रक्ष मां शरणागतम् ॥
बहूनामागसां गेहमस्माकं दुष्टमानसम् ॥९५॥
शंभुशापोऽन्यथाकर्तुं भवत्यापि न शक्यते ॥
अहं च शरणायातस्तदेकं क्रियतां शिवे ॥९६॥
प्रत्यष्टमि सदा क्षेत्रे प्रतिभूतं च पार्वति ॥
दिश प्रवेशनादेशं नेशस्त्वद्वाक्यलंघकः ॥९७॥
इत्युक्ता तेन मुनिना भवानी करुणाजनिः ॥
मुखं महेशितुर्वीक्ष्य तथेत्याह तदाज्ञया ॥९८॥
अथांतर्हितवंतौ तौ शिवौ क्षेत्रशिवंकरौ ॥
व्यासोपि निर्ययौ क्षेत्रात्स्वापराधवशं वदन् ॥९९॥
अहोरात्रं स पश्यन्वै क्षेत्रं दृष्टेरदूरगम् ॥
प्राप्याष्टमीं च भूतां च मध्ये क्षेत्रं सदा विशेत् ॥२००॥
लोलार्कादग्निदिग्भागे स्वर्धुनीं पूर्वरोधसि ॥
स्थितो ह्यद्यापि पश्येत्स काशीप्रासादराजिकाम् ॥१॥
॥ स्कंद उवाच ॥
इत्थं कुंभज स व्यासः क्षेत्रे शापं प्रदास्यति ॥
क्षेत्रशापप्रदानाच्च बहिर्यास्यति तत्क्षणात् ॥२॥
अतएवाविमुक्तस्य क्षेत्रस्य शुभशंसिनः ॥
भविष्यति शुभं नित्यमन्यथा त्वन्यथैव हि ॥३॥
श्रुत्वाध्यायमिमं पुण्यं व्यासशाप विमोक्षणम् ॥
महादुर्गोपसर्गेभ्यो भयं तस्य न कुत्रचित् ॥२०४॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे व्यासशापविमोक्षणं नाम षण्णवतितमोऽध्यायः ॥९६॥

N/A

References : N/A
Last Updated : November 27, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP