काशीखण्डः - अध्याय ३७
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
स्कंद उवाच ॥
सदा गृही सुखं भुंक्ते स्त्री लक्षणवती यदि ॥
अतः सुखसमृद्ध्यर्थमादौ लक्षणमीक्षयेत् ॥१॥
वपुरावर्तगंधाश्चच्छाया सत्वं स्वरो गतिः ॥
वर्णश्चेत्यष्टधा प्रोक्ता बुधैर्लक्षणभूमिका ॥२॥
आपादतलमारभ्य यावन्मौलिरुहं क्रमात् ॥
शुभाशुभानि वक्ष्यामि लक्षणानि मुने शृणु ॥३॥
आदौ पादतलं रेखास्ततोंगुष्ठांगुली नखाः ॥
पृष्ठगुल्फद्वयं पार्ष्णी जंघे रोमाणि जानुनी ॥४॥
ऊरू कटी नितंबस्फिग्भगो जघन बस्तिके ॥
नाभिः कुक्षिद्वयं पार्श्वोदरमध्य वलित्रयम् ॥५॥
रोमाली हृदयं वक्षो वक्षोजद्वयचूचुकम् ॥
जत्रुस्कंधां सकक्षादोर्मणिबंध करद्वयम् । ६॥
पाणिपृष्ठं पाणितलं रेखांगुष्ठांगुली नखाः ॥
पृष्ठिः कृकाटिका कंठे चिबुकं च हनुद्वयम् ॥७॥
कपोलौ वक्त्रमधरोत्तरोष्ठौ द्विजजिह्विकाः ॥
घंटिका तालुहसितं नासिकाक्षुतमक्षिणी ॥८॥
पक्ष्म भ्रूकर्णभालानि मौलि सीमंतमौलिजाः ॥
षष्टिः षडुत्तरायोषिदंगलक्षणसत्खनिः ॥९॥
स्त्रीणां पादतलं स्निग्धं मांसलं मृदुलं समम् ॥
अस्वेदमुष्णमरुणं बहुभोगोचितं स्मृतम् ॥१०॥
रूक्षं विवर्णं परुषं खंडितप्रतिबिंबकम् ॥
शूर्पाकारं विशुष्कं च दुःखदौर्भाग्यसूचकम् ॥११॥
चक्र स्वस्तिक शंखाब्ज ध्वजमीनातपत्रवत् ॥
यस्याः पादतले रेखा सा भवेत्क्षितिपांगना ॥१२॥
भवेदखंडभोगायोर्द्ध्वामध्यांगुलिसंगता ॥
रेखाखु सर्पकाकाभा दुःखदारिद्र्यसूचिका ॥१३॥
उन्नतो मांसलोंगुष्ठो वर्तुलोतुलभोगदः ॥
वक्रो ह्रस्वश्च चिपिटः सुखसौभाग्यभंजकः ॥१४॥
विधवा विपुलेन स्याद्दीर्घांगुष्ठेन दुर्भगा ॥
मृदवोंगुलयः शस्ता घनावृत्ताः समुन्नताः ॥१५॥
दीर्घांगुलीभिः कुलटा कृशाभिरतिनिर्धना ॥
ह्रस्वायुष्या च ह्रस्वाभिर्भुग्नाभिर्भुग्नवर्तिनी ॥१६॥
चिपिटाभिर्भवेद्दासी विरलाभिर्दरिद्रिणी ॥
परस्परं समारूढाः पादांगुल्यो भवंति हि ॥१७॥
हत्वा बहूनपि पतीन्परप्रेष्या तदा भवेत् ॥
यस्याः पथि समायांत्या रजोभूमेः समुच्छलेत् ॥१८॥
सा पांसुला प्रजायेत कुलत्रयविनाशिनी ॥
यस्याः कनिष्ठिका भूमिं न गच्छंत्याः परिस्पृशेत् ॥१९॥
सा निहत्य पतिं योषा द्वितीयं कुरुते पतिम् ॥
अनामिका च मध्या च यस्या भूमिं न संस्पृशेत् ॥२०॥
पतिद्वयं निहंत्याद्या द्वितीया च पतित्रयम् ॥
पतिहीनत्वकारिण्यौ हीने ते द्वे इमे यदि ॥२१॥
प्रदेशिनी भवेद्यस्या अंगुष्ठाव्यतिरेकिणी ॥
कन्यैव कुलटा सा स्यादेष एव विनिश्चयः ॥२२॥
स्निग्धाः समुन्नतास्ताम्रा वृत्ताः पादनखाः शुभाः ॥२३॥
राज्ञीत्वसूचकं स्त्रीणां पादपृष्ठं समुन्नतम् ॥
अस्वेदमशिराढ्यं च मसृणं मृदुमांसलम् ॥२४॥
दरिद्रा मध्यनम्रेण शिरालेन सदाध्वगा ॥
रोमाढ्येन भवेद्दासी निर्मांसेन च दुर्भगा ॥२५॥
गूढौ गुल्फौ शिवायोक्तावशिरालौ सुवर्तुलौ ॥
स्थपुटौ शिथिलौ दृश्यौ स्यातां दौर्भाग्यसूचकौ ॥२६॥
समपार्ष्णिः शुभा नारी पृथुपार्ष्णिश्च दुर्भगा ॥
कुलटोन्नतपार्ष्णि स्याद्दीर्घपार्ष्णिश्च दुःखभाक् ॥२७॥
रोमहीने समे स्निग्धे यज्जंघे क्रमवर्तुले ॥
सा राजपत्नी भवति विशिरेसुमनोहरे ॥२८॥
एकरोमा राजपत्नी द्विरोमा च सुखावहा ॥
त्रिरोमा रोमकूपेषु भवेद्वैधव्यदुःखभाक् ॥२९॥
वृत्तं पिशितसंलग्नं जानुयुग्मं प्रशस्यते ॥
निर्मांसं स्वैरचारिण्या दरिद्रा याश्च विश्लथम् ॥३०॥
विशिरैः करभाकारैरूरुभिर्मसृणैर्घनैः ॥
सुवृत्तैरोमरहितैर्भवेयुर्भूपवल्लभाः ॥३१॥
वैधव्यं रोमशैरुक्तं दौर्भाग्यं चिपिटैरपि ॥
मध्यच्छिद्रैर्महादुःखं दारिद्र्यं कठिनत्वचैः ॥३२॥
चतुर्भिरंगुलैः शस्ता कटिर्विंशतिसंयुतैः ॥
समुन्नतनितंबाढ्या चतुरस्रा मृगीदृशाम् ॥३३॥
विनता चिपिटा दीर्घा निर्मांसासंकटाकटिः ॥
ह्रस्वा रोमयुता नार्या दुःखवैधव्यसूचिका ॥३४॥
नितंबबिंबो नारीणामुन्नतो मांसलः पृथुः ॥
महाभोगाय संप्रोक्तस्तदन्योऽशर्मणे मतः ॥३५॥
कपित्थफलवद्वृत्तौ मृदुलौ मांसलौ घनौ ॥
स्फिचौ वलिविनिर्मुक्तौ रतिसौख्यविवर्धनौ ॥३६॥
शुभः कमठपृष्ठाभो गजस्कंधोपमो भगः ॥
वामोन्नतस्तु कन्याजः पुत्रजो दक्षिणोन्नतः ॥३७॥
आखुरोमा गूढमणिः सुश्लिष्टः संहतः पृथुः ॥
तुंगः कमलपर्णाभः शुभोश्वत्थदलाकृतिः ॥३८॥
कुरंगखुररूपोयश्चुल्लिकोदरसन्निभः ॥
रोमशो विवृतास्यश्च दृश्यनासोतिदुर्भगः ॥३९॥
शंखावर्तो भगो यस्याः सा गर्भमिह नेच्छति ॥
चिपिटः खर्पराकारः किंकरी पददो भगः ॥४०॥।
वंशवेतसपत्राभो गजरोमोच्चनासिकः ॥
विकटः कुटिलाकारो लंबगल्लस्तथाऽशुभः ॥४१॥
भगस्य भालं जघनं विस्तीर्णं तुंगमांसलम् ॥
मृदुलं मृदुलोमाढ्यं दक्षिणावर्तमीडितम् ॥४२॥
वामावर्तं च निर्मांसं भुग्नवैधव्यसूचकम् ॥
संकटस्थपुटं रूक्षं जघनं दुःखदं सदा ॥४३॥
बस्तिः प्रशस्ता विपुला मृद्वीस्तोकसमुन्नता ॥
रोमशा च शिराला च रेखांका नैव शोभना ॥४४॥
गंभीरा दक्षिणावर्ता नाभी स्यात्सुखसंपदे ॥
वामावर्ता समुत्ताना व्यक्तग्रंथिर्न शोभना ॥४५॥
सूते सुतान्बहून्नारी पृथुकुक्षिः सुखास्पदम् ॥
क्षितीशं जनयेत्पुत्रं मंडूकाभेन कुक्षिणा ॥४६॥
उन्नतेन वलीभाजा सावर्तेनापि कुक्षिणा ॥
वंध्या प्रव्रजिता दासी क्रमाद्योषा भवेदिह ॥४७॥
समैः समांसैर्मृदुभिर्योषिन्मग्नास्थिभिः शुभैः ॥
पार्श्वेः सौभाग्यसुखयोर्निधानं स्यादसंशयम् ॥४८॥
यस्यादृश्य शिरे पार्श्वे उन्नते रोमसंयुते ॥
निरपत्या च दुःशीला सा भवेद्दुःखशेवधिः ॥४९॥
उदरेणातितुच्छेन विशिरेण मृदुत्वचा ॥
योषिद्भवति भोगाढ्या नित्यं मिष्टान्नसेविनी ॥५०॥
कुंभाकारं दरिद्राया जठरं च मृदंगवत् ॥
कूष्मांडाभं यवाभं च दुष्पूरं जायते स्त्रियाः ॥५१॥
सुविशालोदरी नारी निरपत्या च दुर्भगा ॥
प्रलंबजठरा हंति श्वशुरं चापि देवरम् ॥५२॥
मध्यक्षामा च सुभगा भोगाढ्या सवलित्रया ॥
ऋज्वी तन्वी च रोमाली यस्याः सा शर्मनर्मभूः ॥५३॥
कपिला कुटिला स्थूला विच्छिन्ना रोमराजिका ॥
चौर वैधव्य दौर्भाग्यं विदध्यादिह योषिताम् ॥५४॥
निर्लोमहृदयं यस्याः समं निम्नत्व वर्जितम् ॥
ऐश्वर्यं चाप्यवैधव्यं प्रियप्रेम च सा लभेत् ॥५५॥
विस्तीर्णहृदया योषा पुंश्चली निर्दया तथा ॥
उद्भिन्नरोमहृदया पतिं हंति विनिश्चितम् ॥५६॥
अष्टादशांगुलततमुरः पीवरमुन्नतम् ॥
सुखाय दुःखाय भवेद्रोमशं विषमं पृथु ॥५७॥
घनौ वृत्तौ दृढौ पीनौ समौ शस्तौ पयोधरौ ॥
स्थूलाग्रौ विरलौ शुष्कौ वामोरूणां न शर्मदौ ॥५८॥
दक्षिणोन्नत वक्षोजा पुत्रिणी त्वग्रणीर्मता ॥
वामोन्नतकुचा सूते कन्यां सौभाग्यसुंदरीम् ॥५९॥
अरघट्टघटीतुल्यौ कुचौ दौःशील्यसूचकौ ॥
पीवरास्यौ सांतरालौ पृथूपांतौ न शोभनौ ॥६०॥
मूले स्थूलौ क्रमकृशावग्रे तीक्ष्णौ पयोधरौ ॥
सुखदौ पूर्वकाले तु पश्चादत्यंत दुःखदौ ॥६१॥
सुदृढं चूचुकयुगं शस्तं श्यामं सुवर्तुलम् ॥
अंतर्मग्नं च दीर्घं च कृशं क्लेशाय जायते ॥६२॥
पीवराभ्यां च जत्रुभ्यां धनधान्यनिधिर्वधूः ॥
श्लथास्थिभ्यां च निम्नाभ्यां विषमाभ्यां दरिद्रिणी ॥६३॥
अबद्धावनतौ स्कंधावदीर्घावकृशौ शुभौ ॥
वक्रौ स्थूलौ च रोमाढ्यौ प्रेष्य वैधव्यसूचकौ ॥६४॥
निगूढसंधी स्रस्ताग्रौ शुभावंसौ सुसंहतौ ॥
वैधव्यदौ समुच्चाग्रौ निर्मांसावतिदुःखदौ ॥६५॥
कक्षेसु सूक्ष्मरोमे तु तुंगे स्निग्धे च मांसले ॥
शस्तेन शस्ते गंभीरे शिराले स्वेदमेदुरे ॥६६॥
स्यातां दोषौ सुनिर्दोषौ गूढास्थि ग्रंथिकोमलौ ॥
विशिरौ च विरोमाणौ सरलौ हरिणीदृशाम् ॥६७॥
वैधव्यं स्थूलरोमाणौ ह्रस्वौ दौर्भाग्यसूचकौ ॥
परिक्लेशाय नारीणां परिदृश्यशिरौ भुजौ ॥६८॥
अंभोज मुकुलाकारमंगुष्ठांगुलिसंमुखम् ॥
हस्तद्वयं मृगाक्षीणां बहुभोगाय जायते ॥६९॥
मृदुमध्योन्नतं रक्तं तलं पाण्योररंध्रकम् ॥
प्रशस्तं शस्तरेखाढ्यमल्परेखं शुभश्रियम् ॥७०॥
विधवा बहुरेखेण विरेखेण दरिद्रिणी ॥
भिक्षुकी सुशिराढ्येन नारी करतलेन वै ॥७१॥
विरोम विशिरं शस्तं पाणिपृष्ठंसमुन्नतम् ॥
वैधव्यहेतुरोमाढ्यं निर्मांसं स्नायुमत्त्यजेत् ॥७२॥
रक्ता व्यक्ता गभीरा च स्निग्धा पूर्णा च वर्तुला ॥
कररेखांगना याः स्याच्छुभा भाग्यानुसारतः ॥७३॥
मत्स्येन सुभगा नारी स्वस्तिकेन वसुप्रदा॥
पद्मेन भूपतेः पत्नी जनयेद्भूपतिं सुतम् ॥७४॥
चक्रवर्तिस्त्रियाः पाणौ नंद्यावर्तः प्रदक्षिणः ॥
शंखातपत्रक मठा नृपमातृत्वसूचकाः ॥७५॥
तुलामानाकृतीरेखे वणिक्पत्नीत्वहेतुके ॥
गजवाजिवृषाकाराः करे वामे मृगीदृशाम् ॥७६॥
रेखा प्रासादवज्राभा ब्रूयुस्तीर्थकरं सुतम् ॥
कृषीवलस्य पत्नी स्याच्छकटेन युगेन वा ॥७७॥
चामरांकुशकोदंडै राजपत्नी भवेद्ध्रुवम् ॥
अंगुष्ठमूलान्निर्गत्य रेखा याति कनिष्ठिकाम् ॥७८॥
यदि सा पतिहंत्री स्याद्दूरतस्तां त्यजेत्सुधीः ॥
त्रिशूलासिगदाशक्ति दुंदुभ्याकृति रेखया ॥
नितंबिनी कीर्तिमती त्यागेन पृथिवीतले ॥७९॥
कंक जंबूक मंडूक वृक वृश्चिक भोगिनः ॥
रासभोष्ट्र बिडालाः स्युः करस्था दुःखदाः स्त्रियाः ॥८०॥
शुभदः सरलोंगुष्ठो वृत्तो वृत्तनखो मृदुः ॥८१॥
अंगुल्यश्च सुपर्वाणो दीर्घावृत्ताः क्रमात्कृशाः ॥
चिपिटाःस्थपुटा रूक्षाः पृष्ठरोमयुजोऽशुभाः ॥८२॥
अतिह्रस्वाः कृशा वक्रा विरला रोगहेतुकाः ॥
दुःखायांगुलयः स्त्रीणां बहुपर्वसमन्विताः ॥८३॥
अरुणाः सशिखास्तुंगाः करजाः सुदृशांशुभाः ॥
निम्ना विवर्णाः शुक्त्याभाः पीता दारिद्र्यदायकाः ॥८४॥
नखेषु बिंदवः श्वेताः प्रायः स्युः स्वैरिणी स्त्रियाः ॥
पुरुषा अपि जायंते दुःखिनः पुष्पितैर्नखैः ॥८५॥
अंतर्निमग्नवंशास्थिः पृष्ठिः स्यान्मांसला शुभा ॥
पृष्ठेन रोमयुक्तेन वैधव्यं लभते ध्रुवम् ॥८६॥
भुग्नेन विनतेनापि सशिरेणापि दुःखिता ॥
ऋज्वी कृकाटिका श्रेष्ठा समांसा च समुन्नता॥ ८७॥
शुष्का शिराला रोमाढ्या विशाला कुटिलाशुभा॥
मांसलो वर्तुलः कंठः प्रशस्तश्चतुरंगुलः ॥८८॥
शस्ता ग्रीवा त्रिरेखांका त्वव्यक्तास्थिः सुसंहता ॥
निर्मांसा चिपिटा दीर्घास्थपुटा न शुभप्रदा ॥८९॥
स्थूलग्रीवा च विधवा वक्रग्रीवा च किंकरी ॥
वंध्या द्विचिपिटग्रीवा ह्रस्वग्रीवा च निःसुता ॥९०॥
चिबुकंद्वयंगुलं शस्तं वृत्तं पीनं सुकोमलम् ॥
स्थूलं द्विधा संविभक्तमायतं रोमशं त्यजेत् ॥९१॥
हनुश्चिबुकसंलग्ना निर्लोमा सुघनाशुभा ॥
वक्रा स्थूला कृशा ह्रस्वा रोमशा न शुभप्रदा ॥९२॥
शस्तौ कपोलौ वामाक्ष्याः पीनौ वृत्तौ समुन्नतौ ॥
रोमशौ परुषौ निम्नौ निर्मांसौ परिवर्जयेत् ॥९३॥
समं समांसं सुस्निग्धं स्वामोदं वर्तुलं मुखम् ॥
जनेतृवदनच्छायं धन्यानामिह जायते ॥९४॥
पाटलो वर्तुलः स्निग्धो लेखाभूषितमध्यभूः ॥
सीमंतिनी नामधरो धराजानि प्रियो भवेत् ॥९५॥
कृशः प्रलंबः स्फुटितो रूक्षो दौर्भाग्यसूचकः ॥
श्यावः स्थूलोऽधरोष्ठः स्याद्वैधव्य कलहप्रदः ॥९६॥
मसृणो मत्तकाशिन्याश्चोत्तरोष्ठः सुभोगदः ॥
किंचिन्मध्योन्नतोऽरोमा विपरीतो विरुद्धकृत् ॥९७॥
गोक्षीरसन्निभाः स्निग्धा द्वात्रिंशद्दशनाः शुभाः ॥
अधस्तादुपरिष्टाच्च समाः स्तोकसमुन्नताः ॥९८॥
पीताः श्यावाश्च दशनाः स्थूलादीर्घाद्विपंक्तयः ॥
शुक्त्याकाराश्च विरला दुःखदौर्भाग्यकारणम् ॥९९॥
अधस्तादधिकैर्दंतैर्मातरं भक्षयेत्स्फुटम् ॥
पतिहीना च विकटैः कुलटा विरलैर्भवेत् ॥१००॥
जिह्वेष्टमिष्टभोक्त्री स्याच्छोणामृद्वी तथासिता ॥
दुःखाय मध्यसंकीर्णा पुरोभागसविस्तरा ॥१॥
सितया तोयमरणं श्यामया कलहप्रिया ।
दरिद्रिणी मांसलया लंबयाऽभक्ष्यभक्षिणी ॥२॥
विशालया रसनया प्रमदातिप्रमादभाक् ॥
स्निग्धं कोकनदाभासं प्रशस्तं तालुकोमलम् ॥३॥
सिते तालुनि वैधव्यं पीते प्रव्रजिता भवेत्॥
कृष्णेऽपत्यवियोगार्ता रूक्षे भूरिकुटुंबिनी ॥४॥
कंठे स्थूला सुवृत्ता च क्रमतीक्ष्णा सुलोहिता ॥
अप्रलंबा शुभा घंटी स्थूला कृष्णा च दुःखदा ॥५॥
अलक्षितद्विजं किंचित्किंचित्फुल्ल कपोलकम् ॥
स्मितं प्रशस्तं सुदृशामनिमीलितलोचनम् ॥६॥
समवृत्तपुटानासा लघुच्छिद्रा शुभावहा ॥
स्थूलाग्रा मध्यनम्रा च न प्रशस्ता समुन्नता ॥७॥
आकुंचितारुणाग्रा च वैधव्यक्लेशदायिनी ॥
परप्रेष्या च चिपिटा ह्रस्वा दीर्घा कलिप्रिया ॥८॥
दीर्घायुः कृत्क्षुतं दीर्घं युगपद्द्वित्रिपिंडितम् ॥
ललना लोचने शस्ते रक्तांते कृष्णतारके ॥९॥
गोक्षीरवर्णविशदे सुस्निग्धे कृष्णपक्ष्मणी ॥
उन्नताक्षी न दीर्घायुर्वृत्ताक्षी कुलटा भवेत् ॥११०॥
मेषाक्षीमहिषाक्षी च केकराक्षी न शोभना ॥
कामगृहीला नितरां गोपिंगाक्षी सुदुर्वृता ॥११॥
पारावताक्षी दुःशीला रक्ताक्षी भर्तृघातिनी ॥
कोटरा नयना दुष्टा गजनेत्रा न शोभना ॥१२॥
पुंश्चली वामकाणाक्षी वंध्या दक्षिणकाणिका ॥
मधुपिंगाक्षी रमणी धनधान्यसमृद्धिभाक् ॥१३॥
पक्ष्मभिः सुघनैः स्निग्धैः कृष्णैः सूक्ष्मैः सुभाग्यभाक् ॥
कपिलैर्विरलैः स्थूलैर्निंद्या भवति भामिनी ॥१४॥
भ्रुवौ सुवर्तुले तन्व्याः स्निग्धे कृष्णे असंहते ॥
प्रशस्ते मृदुरोमाणौ सुभ्रुवः कार्मुकाकृती ॥१५॥
खररोमा च पृथुला विकीर्णा सरला स्त्रियाः ॥
न भ्रूः प्रशस्ता मिलिता दीर्घरोमा च पिंगला ॥१६॥
लंबौ कर्णौ शुभावर्तौ सुखदौ च शुभप्रदौ ॥
शष्कुलीरहितौ निंद्यौ शिरालौ कुटिलौ कृशौ ॥१७॥
भालः शिराविरहितो निर्लोमार्धेंदु सन्निभः ॥
अनिम्नस्त्र्यंगुलो नार्याः सौभाग्यारोग्यकारणम् ॥१८॥
व्यक्त स्वस्तिकरेखं च ललाटं राज्यसंपदे ॥
प्रलंबं मस्तकं यस्या देवरं हन्ति सा ध्रुवम् ॥१९॥
रोमशेन शिरालेन प्रांशुना रोगिणी मता ॥१२०॥
सीमन्तः सरलः शस्तो मौलिः शस्तः समुन्नतः ॥
गजकुंभनिभावृत्तैः सौभाग्यैश्वर्यसूचकैः ॥२१॥
स्थूलमूर्धा च विधवा दीर्घशीर्षा च बंधकी ॥
विशालेनापि शिरसा भवेद्दौर्भाग्यभाजनम् ॥२२॥
केशा अलिकुलच्छायाः सूक्ष्माः स्निग्धाः सुकोमलाः ॥
किंचिदाकुंचिताग्राश्च कुटिलाश्चातिशोभनाः ॥२३॥
परुषाः स्फुटिताग्राश्च विरलाश्च शिरोरुहाः ॥
पिंगला लघवो रूक्षा दुःखदारिद्र्यबंधदाः ॥२४॥
भ्रुवोरन्तर्ललाटे वा मशको राज्यसूचकः ॥
वामे कपोले मशकः शोणो मिष्टान्नदः स्त्रियाः ॥२५॥
तिलकं लांछनं वापि हृदि सौभाग्यकारणम् ॥
यस्या दक्षिणवक्षोजे शोणे तिलकलांछने ॥२६॥
कन्या चतुष्टयं सूते सूते सा च सुतत्रयम् ॥
तिलकं लांछनं शोणं यस्या वामे कुचे भवेत् ॥२७॥
एकं पुत्रं प्रसूयादौ ततः सा विधवा भवेत् ॥
गुह्यस्य दक्षिणे भागे तिलकं यदि योषितः ॥२८॥
तदा क्षितिपतेः पत्नी सूते वा क्षितिपं सुतम् ॥
नासाग्रे मशकः शोणो महिष्या एव जायते ॥२९॥
कृष्णः स एव भर्तृघ्न्याः पुंश्चल्याश्च प्रकीर्तितः ॥
नाभेरधस्तात्तिलकं मशको लांछनं शुभम् ॥१३०॥
मशकस्तिलकं चिह्नं गुल्फदेशे दरिद्रकृत ॥
करे कर्णे कपोले वा कण्ठे वामे भवेद्यदि ॥३१॥
एषां त्रयाणामेकं तु प्राग्गर्भे पुत्रदं भवेत् ॥
भालगेन त्रिशूलेन निर्मितेन स्वयंभुवा ॥३२॥
नितंबिनी सहस्राणां स्वामित्वं योषिदाप्नुयात् ॥
सुप्ता परस्परं यातु दंतान्किटिकिटायते ॥३३॥
सुलक्ष्मापि न सा शस्ता या किंचित्प्रलपेत्तथा ॥
पाणौ प्रदक्षिणावर्तो धर्म्यो वामो न शोभनः ॥३४॥
नाभौ श्रुतावुरसि वा दक्षिणावर्त ईडितः ॥
सुखाय दक्षिणावर्तः पृष्ठवंशस्य दक्षिणे ॥३५॥
अन्तःपृष्ठं नाभिसमो बह्वायुः पुत्रवर्धनः ॥
राजपत्न्याः प्रदृश्येत भगमौलौ प्रदक्षिणः ॥३६॥
सचेच्छकटभंगःस्याद्बह्वपत्यसुखप्रदः ॥
कटिगो गुह्यवेधेन पत्यपत्यनिपातनः ॥३७॥
स्यातामुदरवेधेन पृष्ठावर्तौ न शोभनौ ॥
एकेन हंति भर्तारं भवेदन्येन पुं श्चली ॥३८॥
कण्ठगो दक्षिणावर्तो दुःखवैधव्यहेतुकः ॥
सीमन्तेथ ललाटे वा त्याज्यो दूरात्प्रयत्नतः ॥३९॥
सा पतिं हंति वर्षेण यस्या मध्ये कृकाटिकम्॥
प्रदक्षिणो वा वामो वा रोम्णामावर्त्तकः स्त्रियाः ॥१४०॥
एको वा मूर्धनि द्वौ वा वामे वामगती यदि ॥
आदशाहं पतिघ्नौ तौ त्याज्यौ दूरात्सुबुद्धिना ॥४१॥
कट्यावर्ता च कुलटा नाभ्यावर्ता पतिव्रता ॥
पृष्ठावर्ता च भर्तृघ्नी कुलटा वाथ जायते ॥४२॥
स्कंद उवाच ॥
सुलक्षणापि दुःशीला कुलक्षण शिरोमणिः ॥
अलक्षणापि सा साध्वी सर्वलक्षणभूस्तु सा॥ ४३॥
सुलक्षणा सुचारित्रा स्वाधीना पतिदेवता ॥
विश्वेशानुग्रहादेव गृहे योषिदवाप्यते ॥४४॥
अलकृताः स्ववासिन्यो याभिः प्राक्तनजन्मनि ॥
नानाविधैरलंकारैस्ताः सुरूपा भवंति हि ॥४५॥
सुतीर्थेषु वपुर्याभिः क्षयितं वा विहायितम् ॥
ता लावण्यतरंगिण्यो भवंतीह सुलक्षणाः ॥४६॥
अर्चिता जगतां माता याभिर्मृडवधूरिव ॥
ता भवंति सुचारित्रा योषाः स्वाधीनभ र्तृकाः ॥४७॥
स्वाधीन पतिकानां च सुशीलानां मृगीदृशाम् ॥
स्वर्गापवर्गावत्रैव सुलक्षण फलं हि तत् ॥४८॥
सुलक्षणैः सुचरितैरपि मंदायुषं पतिम् ॥
दीर्घायुषं प्रकुर्वंति प्रमदाः प्रमदास्पदम् ॥४९॥
अतः सुलक्षणा योषा परिणेया विचक्षणैः ॥
लक्षणानि परीक्ष्यादौ हित्वा दुर्लक्षणान्यपि ॥१५०॥
लक्षणानि मयोक्तानि सुखाय गृहमेधिनाम्॥
विवाहानपि वक्ष्यामि तन्निबोध घटोद्भव ॥१५१॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे स्त्रीलक्षणवर्णनंनाम सप्तत्रिंशोऽध्यायः ॥३७॥
N/A
References : N/A
Last Updated : November 25, 2024
TOP