संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|काशीखण्ड| अध्याय ९७ काशीखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० विषयानुक्रमणिका काशीखण्डः - अध्याय ९७ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ९७ Translation - भाषांतर ॥ अगस्त्य उवाच ॥एतद्भविष्यं श्रुत्वाहं व्यासस्य शिवनंदन ॥आश्चर्यभाजनं जातस्तीर्थानि कथयाधुना ॥१॥आनंदकानने यानि यत्र संति षडानन ॥तानि लिंगस्वरूपाणि समाचक्ष्व ममाग्रतः ॥२॥॥ स्कंद उवाच ॥अयमेव हि वै प्रश्नो देव्यै देवेन भोस्तदा ॥यादृशः कथितो वच्मि तादृशं शृणु कुंभज ॥३॥॥ देव्युवाच ॥यानि यानि हि तीर्थानि यत्रयत्र महेश्वर ॥तानि तानीह मे काश्यां तत्रतत्र वद प्रभो ॥४॥॥ देवदेव उवाच ॥शृणु देवि विशालाक्षि तीर्थं लिंगमुदाहृतम् ॥जलाशयेपि तीर्थाख्या जाता मूर्ति परिग्रहात् ॥५॥मूर्तयो ब्रह्मविष्ण्वर्कशिवविघ्नेश्वरादिकाः ॥लिंगं शैवमिति ख्यातं यत्रैतत्तीर्थमेव तत् ॥६॥वाराणस्यां महादेवः प्रथमं तीर्थमुच्यते ॥तदुत्तरे महाकूपः सारस्वतपदप्रदः ॥७॥क्षेत्रपूर्वोत्तरेभागे तद्दृष्टं पशुपाशहृत् ॥तत्पश्चाद्विग्रहवती पूज्या वाराणसी नरैः ॥८॥सा पूजिता प्रयत्नेन सुखवस्तिप्रदा सदा ॥महादेवस्य पूर्वेण गोप्रेक्षं लिंगमुत्तमम् ॥९॥तद्दर्शनाद्भवेत्सम्यग्गोदानजनितं फलम् ॥गोलोकात्प्रेषिता गावः पूर्वं यच्छंभुना स्वयम् ॥१०॥वाराणसीं समायाता गोप्रेक्षं तत्ततः स्नृतम् ॥गोप्रेक्षाद्दक्षिणेभागे दधीचीश्वरसंज्ञितम् ॥१ १॥तद्दर्शनाद्भवेत्पुंसां फलं यज्ञसमुद्भवम् ॥अत्रीश्वरं तु तत्प्राच्यां मधुकैटभपूजितम् ॥१२॥लिंगं दृष्ट्वा प्रयत्नेन वैष्णवं पदमृच्छति ॥गोप्रेक्षात्पूर्वदिग्भागे लिंगं वै विज्वरं स्मृतम् ॥१३॥तस्य संपूजनान्मर्त्यो विज्वरो जायते क्षणात् ॥प्राच्यां वेदेश्वरस्तस्य चतुर्वेदफलप्रदः ॥१४॥वेदेश्वरादुदीच्यां तु क्षेत्रज्ञश्चादिकेशवः ॥दृष्टं त्रिभुवनं सर्वं तस्य संदर्शनाद्ध्रुवम् ॥१५॥संगमेश्वरमालोक्य तत्प्राच्याम जायतेनघः ॥चतुर्मुखेन विधिना तत्पूर्वेण चतुर्मुखम् ॥१६॥प्रयागसंज्ञकम लिंगमर्चितम ब्रह्मलोकदम् ॥तत्र शांतिकरी गौरी पूजिता शांतिकृद्भवेत् ॥१७॥वरणायास्तटे पूर्वे पूज्यं कुंतीश्वरं नृभिः ॥तत्पूजनात्प्रजायंते पुत्रा निजकुलोज्ज्वलाः ॥१८॥कुंतीश्वरादुत्तरतस्तीर्थं वै कापिलो ह्रदः ॥तत्र वै स्नानमात्रेण वृषभध्वजपूजनात् ॥१९ ।राजसूयस्य यज्ञस्य फलं त्वविकलं भवेत् ॥रोरवादिषु ये केचित्पितरः कोटिसंमिताः ॥२०॥तत्र श्राद्धे कृते पुत्रैः पितृलोकं प्रयांति ते ॥आनुसूयेश्वरं लिंगं गोप्रेक्षादुत्तरे मुने ॥२१॥तद्दर्शनाद्भवेत्स्त्रीणां पातिव्रत्य फलं स्फुटम् ॥तल्लिंगपूर्वदिग्भागे पूज्यः सिद्धिविनायकः ॥२२॥यां सिद्धिं यः समीहेत स तामाप्नोति तन्नतेः ॥हिरण्यकशिपोर्लिंगं गणेशात्पश्चिमे ततः ॥२३॥हिरण्यकूपस्तत्रास्ति हिरण्याश्वसमृद्धिकृत् ॥२४॥मुंडासुरेश्वरं लिंगं तत्प्रतीच्यां च सिद्धिदम्॥अभीष्टदं तु नैर्ऋत्यां गोप्रेक्षाद्वृषभेश्वरम् ॥२५॥मुने स्कंदेश्वरं लिंगं महादेवस्य पश्चिमे ॥तल्लिंगपूजनान्नृणां भवेन्मम सलोकता ॥२६॥तत्पार्श्वतो हि शाखेशो विशाखेशश्च तत्र वै ॥नैगमेयेश्वरस्तत्र येन्ये नंद्यादयो गणाः ॥२७॥तेषामपि हि लिंगानि तत्र संति सहस्रशः ॥तद्दर्शनाद्भवेत्पुंसां तत्तद्गणसलोकता ॥२८॥नंदीश्वरात्प्रतीच्यां च शिलादेशः कुधीहरः ॥महाबलप्रदस्तत्र हिरण्याक्षेश्वरः शुभः ॥२९॥तद्दक्षिणेट्टहासाख्यं लिंगं सर्वसुखप्रदम् ॥प्रसन्नवदनेशाख्यं लिंगं तस्योत्तरे शुभम् ॥३०॥प्रसन्नवदनस्तिष्ठेद्भक्तस्तद्दर्शनाच्छुभात् ॥तदुत्तरे प्रसन्नोदं कुंडं नैर्मल्यदं नृणाम् ॥३१॥प्रतीच्यामट्टहासस्य मित्रावरुणनामनी ॥लिंगे तल्लोकदे पूज्ये महापातकहारिणी ॥३२॥नैर्ऋत्यां चाट्टहासस्य वृद्धवासिष्ठसंज्ञकम् ॥लिंगं तत्पूजनात्पुंसां ज्ञानमुत्पद्यते महत् ॥३३॥वसिष्ठेश समीपस्थः कृष्णेशो विष्णुलोकदः ॥तद्याम्यां याज्ञवल्क्येशो ब्रह्मतेजोविवधर्नः ॥३४॥प्रह्लादेश्वरमभ्यर्च्य तत्पश्चाद्भक्तिवर्धनम् ॥स्वयंलीनः शिवो यत्र भक्तानुग्रहकाम्यया ॥३५॥अतः स्वलीनं तत्पूर्वे लिंगं पूज्यं प्रयत्नतः ॥सदैव ज्ञाननिष्ठानां परमानंदमिच्छताम् ॥या गतिर्विहिता तेषां स्वलीने सा तनुत्यजाम् ॥३६॥वैरोचनेश्वरं लिंगं स्वलीनात्पुरतः स्थितम्॥तदुत्तरे बलीशं च महाबलविवर्धनम् ॥३७॥तत्रैव लिंगं बाणेशं पूजितं सर्वकामदम् ॥चंद्रेश्वरस्य पूर्वेण लिंगं विद्येश्वराभिधम् ॥३८॥सर्वाविद्याः प्रसन्नाः स्युस्तस्य लिंगस्य सेवनात् ॥तद्दक्षिणे तु वीरेशो महासिद्धि विधायकः ॥३९॥तत्रैव विकटा देवी सर्वदुःखौघमोचनी ॥पंचमुद्रं महापीठं तज्ज्ञेयं सर्वसिद्धिदम् ॥४०॥तत्र जप्ता महामंत्राः क्षिप्रं सिध्यंति नान्यथा ॥तत्पीठे वायुकोणे तु संपूज्यः सगरेश्वरः ॥४१॥तदर्चनादश्वमेधफलं त्वविकलं भवेत् ॥तदीशाने च वालीशस्तिर्यग्योनि निवारकः ॥४२॥महापापौघविध्वंसी सुग्रीवेशस्तदुत्तरे ॥हनूमदीश्वरस्तत्र ब्रह्मचर्यफलप्रदः ॥४३॥महाबुद्धिप्रदस्तत्र पूज्यो जांबवतीश्वरः ॥आश्विने येश्वरौ पूज्यौ गंगायाः पश्चिमे तटे ॥४४॥तदुत्तरे भद्रह्रदो गवां क्षीरेण पूरितः ॥कपिलानां सहस्रेण सम्यग्दत्तेन यत्फलम् ॥४५॥तत्फलं लभते मर्त्यः स्नातो भद्रह्रदे ध्रुवम् ॥पूर्वाभाद्रपदा युक्ता पौर्णमासी यदा भवेत् ॥४६॥तदा पुण्यतमः कालो वाजिमेधफलप्रदः ॥ह्रद पश्चिम तीरे तु भद्रेश्वर विलोकनात् ॥४७॥गोलोकं प्राप्नुयात्तस्मात्पुण्यान्नैवात्र संशयः ॥भद्रेश्वराद्यातुधान्यामुपशांत शिवो मुने ॥४८॥तस्य लिंगस्य संस्पर्शात्परा शांतिं समृच्छति ॥उपशांत शिवं लिंगं दृष्ट्वा जन्मशतार्जितम् ॥४९॥त्यजेदश्रेयसो राशिं श्रेयोराशिं च विंदति ॥तदुत्तरे च चक्रेशो योनिचक्र निवारकः ॥५०॥तदुत्तरे चक्रह्रदो महापुण्यविवर्धनः ॥स्नात्वा चक्रह्रदे मर्त्यश्चक्रेशं परिपूज्य च ॥५१॥शिवलोकमवाप्नोति भावितेनांतरात्मना ॥तन्नैर्ऋते च शूलेशो द्रष्टव्यश्च प्रयत्नतः ॥५२॥शूलं तत्र पुरा न्यस्तं स्नानार्थं वरवर्णिनि ॥ह्रदस्तत्र समुत्पन्नः शूलेशस्याग्रतो महान् ॥५३॥स्नानं कृत्वा ह्रदे तत्र दृष्ट्वा शूलेश्वरं विभुम् ॥रुद्रलोकं नरा यांति त्यक्त्वा संसारगह्वरम् ॥५४॥तत्पूर्वतो नारदेन तपस्तप्तं महत्तरम्॥लिंगं च स्थापितं श्रेष्ठं कुंडं चापि शुभं कृतम् ॥५५॥तत्र कुंडे नरः स्नात्वा दृष्ट्वा वै नारदेश्वरम् ॥संसाराब्धिमहाघोरं संतरेन्नात्र संजयः ॥५६॥नारदेश्वर पूर्वेण दृष्ट्वाऽवभ्रातकेश्वरम् ॥निर्मलां गतिमाप्नोति पापौघं च विमुंचति ॥५७॥तदग्रे ताम्रकुंडं च तत्र स्नातो न गर्भभाक् ॥विघ्नहर्ता गणाध्यक्षस्तद्वायव्ये सुविघ्नहृत् ॥५८॥तत्र विघ्नहरं कुंडं तत्र स्नातो न विघ्नभाक् ॥अनारकेश्वरं लिंगं तदुदग्दिशि चोत्तमम् ॥५९॥कुंडं चानारकाख्यं वै तत्र स्नातो न नारकी ॥वरणायास्तटे रम्ये वरणेशस्तदुत्तरे ॥६०॥तत्र पाशुपतः सिद्धस्त्वक्षपादो महामुने ॥अनेनैव शरीरेण शाश्वतीं सिद्धिमागतः ॥६१॥तत्पश्चिमे च शैलेशः परनिर्वाणकामदः ॥कोटीश्वरं तु तद्याम्यां लिंगं शाश्वतसिद्धिदम् ॥६२॥कोटितीर्थे ह्रदे स्नात्वा कोटीशं परिपूज्य च ॥गवां कोटिप्रदानस्य फलमाप्नोति मानवः ॥६३॥महाश्मशानस्तंभोस्ति कोटीशाद्वह्निदिक्स्थितः ॥तस्मिन्स्तंभे महारुद्रस्तिष्ठते चोमया सह ॥६४॥तं स्तंभं समलंकृत्य नरस्तत्पदमाप्नुयात् ॥तत्रैव तीर्थं परमं कपालेश समीपतः ॥६५॥कपालमोचनं नाम तत्र स्नातोऽश्वमेधभाक् ॥ऋणमोचनतीर्थं तु तदुदग्दिशि शोभनम् ॥६६॥तत्र तीर्थे नरः स्नात्वा मुक्तो भवति चर्णतः ॥तत्रैवांगारकं तीर्थं कुंडं चांगारनिर्मलम् ॥६७॥स्नात्वांगारक तीर्थे तु भवेद्भूयो न गर्भभाक् ॥अंगारवारयुक्तायां चतुर्थ्यां स्नाति यो नरः ॥व्याधिभिर्नाभि भूयेत न च दुःखी कदाचन ॥६८॥विश्वकर्मेश्वरं लिंगं ज्ञानदं च तदुत्तरे ॥महामुंडेश्वरं लिंगं तस्य दक्षिणतः शुभम्॥ ६९॥कूपः शुभोद नामापि स्नातव्यं तत्र निश्चितम् ॥तत्र मुंडमयी माला मया क्षिप्तातिशोभना ॥७०॥महामुंडा ततो देवी समुत्पन्नाघहारिणी ॥खट्वांगं च धृतं तत्र खट्वांगेशस्ततोभवत् ॥७१॥निष्पापो जायते मर्त्यः खट्वांगेश विलोकनात् ॥भुवनेशस्ततो याम्यां कुंडं च भुवनेश्वरम् ॥७२॥तत्र कुंडे नरः स्नातो भुवने शोभवेन्नरः ॥तद्याम्यां विमलेशश्च कुंडं च विमलोदकम् ॥७३॥तत्र स्नात्वा विलोक्येशं विमलो जायते नरः ॥तत्र पाशुपतः सिद्धस्त्र्यंबको नाम नामतः ॥७४॥अनेनैव शरीरेण रुद्रलोकमवाप्तवान् ॥भृगोरायतनं तस्य पश्चिमेऽतीव पुण्यदम् ॥७२॥विधिपूर्वं तदभ्यर्च्य प्राप्नुयाच्छिवमंदिरम् ॥शुभेश्वरश्च तद्याम्यां महाशुभफलप्रदः ॥७६॥तत्र सिद्धः पाशुपतः कपिलर्षिर्महातपाः ॥तत्रास्ति हि गुहा रम्या कपिलेश्वर संनिधौ ॥७७॥तां गुहां प्रविशेद्यो वै न स गर्भे विशेत्क्वचित् ॥तत्र यज्ञोदकूपोस्ति वाजिमेधफलप्रदः ॥७८॥ओंकार एष एवासावादिवर्णमयात्मकः ॥मत्स्योदर्युत्तरे कूले नादेशस्त्वहमेव च ॥७९॥नादेशः परमं ब्रह्म नादेशः परमा गतिः ॥नादेशः परमं स्थानं दुःखसंसारमोचनम् ॥८०॥कदाचित्तस्य देवस्य दर्शने याति जाह्नवी ॥मत्स्योदरी सा कथिता स्नानं पुण्यैरवाप्यते ॥८१॥मत्स्योदरी यदा गंगा पश्चिमे कपिलेश्वरम् ॥समायाति महादेवि तदा योगः सुदुर्लभः ॥८२॥उद्दालकेश्वरं लिंगमुदीच्यां कपिलेश्वरात् ॥तद्दर्शनेन संसिद्धिः परा सर्वैरवाप्यते ॥८३॥तदुत्तरे बाष्कुलीशं लिंगं सर्वार्थसिद्धिदम् ॥बाष्कुलीशाद्दक्षिणतो लिंगं वै कौस्तुभेश्वरम् ॥८४॥तस्यार्चनेन रत्नौघैर्न वियुज्येत कर्हिचित् ॥शंकुकर्णेश्वरं लिंगं कौस्तुभेश्वरदक्षिणे ॥८५॥संसेव्य परमं ज्ञानं लभेदद्यापि साधकः ॥अघोरेशो गुहाद्वारि कूपस्तस्योत्तरे शुभः ॥८६॥अघोरोद इति ख्यातो वाजिमेधफलप्रदः ॥गर्गेशो दमनेशश्च तत्र लिंगद्वयं शुभम् ॥८७॥अनेनैवेह देहेन यत्र तौ सिद्धिमापतुः ॥तल्लिंगयोः समर्चातः सिद्धिर्भवति वांछिता ॥८८॥तद्दक्षिणे महाकुंडं रुद्रावास इति स्मृतम् ॥तत्र रुद्रेशमभ्यर्च्य कोटिरुद्रफलं लभेत् ॥८९॥चतुर्दशी यदापर्णे रुद्रनक्षत्र संयुता ॥तदा पुण्यतमः कालस्तस्मिन्कुंडे महाफलः ॥९०॥रुद्रकुंडे नरः स्नात्वा दृष्ट्वा रुद्रेश्वरं विभुम् ॥यत्रतत्र मृतो वापि रुद्रलोकमवाप्नुयात् ॥९१॥रुद्रस्य नैर्ऋते भागे लिंगं तत्र महालयम् ॥तदग्रे पितृकूपोस्ति पितॄणामालयः परः ॥९२॥तत्र श्राद्धं नरः कृत्वा पिंडान्कूपे परिक्षिपेत् ॥एकविंशकुलोपेतः श्राद्धकृद्रुद्रलोकभाक् ॥९३॥तत्र वैतरणी नाम दीर्घिका पश्चिमानना ॥तस्यां स्नातो नरो देवि नरकं नैव गच्छति ॥९४॥बृहस्पतीश्वरं लिंगं रुद्रकुंडाच्च पश्चिमे ॥गुरुपुष्यसमायोगे दृष्ट्वा दिव्यां लभेद्गिरम् ॥९५॥रुद्रावासाद्दक्षिणतः कामेशं लिंगमुत्तमम् ॥तद्दक्षिणे महाकुंडं स्नानाच्चिंतित कामदम् ॥९६॥चैत्रशुक्ल त्रयोदश्यां तत्र यात्रा च कामदा ॥नलकूबर लिंगं च प्राच्यां कामेश्वराच्छुभम् ॥९७॥तदग्रे पावनः कूपो धनधान्य समृद्धिदः ॥नलकूबरपूर्वेण सूर्याचंद्रमसेश्वरौ ॥९६॥अज्ञानध्वांतपटलीं हरतस्तौ समर्चितौ ॥तद्दक्षिणेध्वकेशश्च दृष्टो मोहविनाशनः ॥९९॥तत्र सिद्धीश्वरं लिंगं महासिद्धिसमर्पकम् ॥तत्रैव मंडलेशश्च मंडलेशपदप्रदः ॥१००॥कामकुंडस्य पूर्वेण च्यवनेशः समृद्धिदः ॥तत्रैव सनकेशश्च राजसूयफलप्रदः ॥१॥सनत्कुमार लिंगं च तत्पश्चाद्योगसिद्धिकृत् ॥तदुत्तरे सनंदेशो महाज्ञान समर्थकः ॥२॥तद्याम्यामाहुतीशश्च दृष्टो होमफलप्रदः ॥तद्याम्यां पुण्यजनकं लिंगं पंचशिखेश्वरम् ॥३॥मार्कंडेय ह्रदस्तस्य पश्चिमे पुण्यवर्धनः ॥तस्मिन्ह्रदे नरः स्नात्वा किं भूयः परिशोचति ॥४॥तत्र स्नानं च दानं च भवेदक्षय पुण्यदम् ॥तदुत्तरे च कुंडेशः सर्वसिद्धैर्नमस्कृतः ॥५॥दीक्षां पाशुपतीं लब्ध्वा द्वादशाब्देन यत्फलम् ॥तत्फलं लभते विप्र मर्त्यः कुंडेश दर्शनात् ॥६॥मार्कंडेय ह्रदात्पूर्वं शांडिल्येशः सुपुण्यदः ॥तत्पश्चिमे च चंडेशश्चंडांशु ग्रहणाघहृत् ॥७॥दक्षिणे च कपालेशात्कुंडं श्रीकंठसंज्ञितम् ॥तत्र कुंडे नरः स्नात्वा दाता स्याच्छ्रीप्रभावतः ॥८॥महालक्ष्मीश्वरं लिंगं तस्य कुंडस्य सन्निधौ ॥महालक्ष्मीं समभ्यर्च्य स्नातस्तत्कुंडवारिषु ॥९॥चामरासक्तहस्ताभिर्दिव्यस्त्रीभिश्च वीज्यते ॥यदा मत्स्योदरीं यांति स्वर्गलोकाद्दिवौकसः ॥तदा तेनैव मार्गेण यांति स्त्रीभिर्वृताः सुखम् ॥११०॥स्वर्गद्वारमतः ख्यातं तत्स्थानं मुनिसत्तम ॥तत्कुंड दक्षिणेभागे लिंगं ब्रह्मपदप्रदम् ॥११॥गायत्रीश्वर सावित्रीश्वरौ पूज्यौ प्रयत्नतः ॥मत्स्योदर्यास्तटे रम्ये लिंगं सत्यवतीश्वरम् ॥१२॥तयोः पूर्वेण संपूज्य तपःश्री परिवर्धनम् ॥उग्रेश्वरं महालिंगं लक्ष्मीशात्पूर्वदिक्स्थितम् ॥१३॥जातिस्मरो भवेन्मर्त्यस्तल्लिंगस्य समर्चनात् ॥तद्दक्षिणे चोग्रकुंडं स्नानात्कनखलाधिकम् ॥१४॥करवीरेश्वरं लिंगंतस्य कुंडंस्य पश्चिमे ॥तस्य दर्शनतः पुंसां जायते रोगसंक्षयः ॥१५॥तद्वाव्ये मरीचीशं कुंडं चाघौघनाशनम् ॥तत्पश्चाच्चेंद्रकुंडं लिंगं चेंद्रेश्वरं मुने ॥१६॥इंद्रेशाद्दक्षिणेभागे शुभा कर्कोटवापिका ॥तत्र वापीजले स्नात्वा दृष्ट्वा कर्कोटकेश्वरम् ॥१७॥नागानामाधिपत्यं तु जायते नात्र संशयः ॥तत्पश्चाद्दृमिचंडेशो ब्रह्महत्याहरो हरः ॥१८॥तद्दक्षिणे महाकुंडं रुद्रलोकफलप्रदम् ॥तत्पश्चिमे महालिंगमग्नीश इति विश्रुतम् ॥१९॥आग्नेयं नाम कुंडं च तत्पूर्वेग्निसलोकदम् ॥आग्नेयेश्वरतः प्राच्यां कुंडं तद्दक्षिणे शुभम्॥१२०॥तत्र कुंडे नरः स्नात्वा स्वर्गे वसति पूर्वजैः ॥तत्प्राच्यां बालचंद्रेशश्चंद्रलोकगतिप्रदः ॥२१॥परितो बालचंद्रेशं गणलिंगान्यनेकशः ॥विलोक्य तानि लिंगानि गाणपत्यं पदं लभेत् ॥२२॥बालचंद्र समीपे तु कूपः पितृगणप्रियः ॥तत्र श्राद्धप्रदः स्नात्वा पितॄन्सप्ताऽत्र तारयेत् ॥२३॥तदंधोः पूर्वतो लिंगं पुण्यं विश्वेश्वराह्वयम्॥विश्वेश्वरस्य पूर्वेण वृद्धकालेश्वरो हरः ॥२४॥कालोदो नाम कूपोस्ति तदग्रे सर्वरोगहृत् ॥यैस्तु तत्रोदकं पीतं स्त्रीभिः पुंभिः स्वकर्मभिः ॥२५॥न तेषां परिवर्तोत्र कल्पकोटिशतैरपि ॥तत्पीत्वा जन्मबंधोत्थाद्भयान्मुच्येत मानवः ॥२६॥तत्र कूपे तु यद्दत्तं दानं शिवरतात्मनाम् ॥संवर्तेपि न तस्यास्ति नाशः कलशसंभव ॥२७॥खंडस्फुटितसंस्कारं तत्र कुर्वंति ये नराः ॥ते रुद्रलोकमासाद्य मोदंते सुखिनः सदा ॥२८॥कालेशाद्दक्षिणे भागे मृत्य्वीशस्त्वपमृत्युहृत् ॥लिंगं दक्षेश्वराह्वं च ततः कूपादुदग्दिशि ॥२९॥अपराधसहस्रं तु नश्येत्तस्य समर्चनात् ॥१३०॥महाकालेश लिंगं च दक्षेशात्पूर्वतो महत् ॥महाकुंडे नरः स्नात्वा महाकालं तु योर्चयेत् ॥३१॥अर्चितं तेन वै तत्र जगदेतच्चराचरम् ॥अंतकेश्वरमालोक्य तद्याम्यां नांतकस्य भीः ॥३२॥हस्तिपालेश्वरं लिंगं तस्य दक्षिणतो मुने॥तस्य पूजनतो याति पुण्यं वै हस्तिदानजम् ॥३३॥तत्रैरावतकुंडं च लिंगमैरावतेश्वरम् ॥तल्लिंगमर्चयन्मर्त्यो धनधान्यसमृद्धिभाक् ॥३४॥तद्दक्षिणे श्रेयसे च लिंगं स्यान्मालतीश्वरम् ॥हस्तीश्वरादुत्तरे तु जयंतेशो जयप्रदः ॥३५॥बंदीश्वरो महाकाल कुंडादुत्तरतः शुभः ॥बंदिकुंडं च विख्यातं वाराणस्यां महाघहृत् ॥३६॥तत्र स्नानेन दानेन श्राद्धेनाक्षयमश्नुते ॥धन्वंतरीश्वरं लिंगं कुंडं तन्नाम चैव हि ॥३७॥तस्य लिंगस्य नामान्यत्कुंडनामान्यदेव हि ॥तुंगेश्वरं लिंग नाम कुंडं वैद्येश्वराभिधम् ॥३८॥सुधामय्यो महौषध्यः क्षिप्तास्तत्र महाधियः ॥तत्कुंडस्नानतस्तस्मात्तल्लिंग परिवीक्षणात् ॥नश्यंति व्याधयः सर्वे सह पापैः सुदारुणैः ॥३९॥तदुत्तरे हलीशेशः सर्वव्याधिनिपूदनः ॥शिवेश्वरः शिवकरस्तुंगनाम्नश्च दक्षिणे ॥१४०॥जमदग्नीश्वरं लिंगं शिवेशाद्दक्षिणे शुभम् ॥तत्पश्चिमे भैरवेशः कूपस्तस्योत्तरे शुभः ॥४१॥तदुदस्पर्शमात्रेण सर्वयज्ञफलं लभेत् ॥तत्कूपपश्चिमे भागे सुकेशो योगसिद्धिदः ॥४२॥तन्नैर्ऋत्यां च व्यासेशः कूपश्च विमलोदकः ॥व्यासकूपे नरः स्नात्वा तर्पयित्वा सुरान्पितॄन् ॥४३॥अक्षयं लभते लोकं यत्रकुत्राभिकांक्षितम् ॥व्यासतीर्थात्पश्चिमतो घंटाकर्णो ह्रदो महान् ॥४४॥घंटाकर्णह्रदे स्नात्वा व्यासंश परिदर्शनात् ॥यत्रतत्र मृतो वापि वाराणस्यां मृतो भवेत् ॥४५॥घंटाकर्ण समीपे तु पंचचूडाप्सरः सरः ॥पंचचूडाजले स्नात्वा दृष्ट्वा देवं तमीश्वरम् ॥४६॥स्वर्गलोकं नरो याति पंचचूडाप्रियो भवेत् ॥गौरीकूपस्ततोवाच्यां सर्वजाड्यविनाशनः ॥४७॥पंचचूडोत्तरे भागे तीर्थं चाशोकसंज्ञितम्॥मंदाकिनी महातीर्थं तदुदीच्यां महाघहृत् ॥४८॥स्वर्गलोकेपि सा पुण्या किं पुनर्मानवे मुने ॥तदुत्तरे मध्यमेशो मध्ये क्षेत्रं स्वपित्यहो ॥४९॥तत्र जागरणं कृत्वाऽशोकाष्टम्यां मधौ नरः ॥न जातु शोकं लभते सदानंदमयो भवेत्॥१५०॥मुक्तिक्षेत्रप्रमाणं च क्रोशं क्रोशं च सर्वतः॥आरभ्य लिंगादस्माच्च पुण्यदान्मध्यमेश्वरात् ॥५१॥एतदेव सदा प्राहुः सर्वे वै प्रपितामहाः ॥कश्चिदस्मत्कुले जातो मंदाकिन्या जलाप्लुतः ॥५२॥भोजयेत्प्रयतो विप्रान्यतीन्पाशुपतानपि ॥मदाकिन्यां नरः स्नात्वा दृष्ट्वा वै मध्यमेश्वरम् ॥५३॥एकविंशत्कुलोपेतो रुद्रलोके वसेच्चिरम् ॥मध्यमेशादवाच्यां च विश्वेदेवेश्वरः शुभः ॥५४॥तदर्चनादर्चिताः स्युर्विश्वेदेवास्त्रयोदश ॥तत्पूर्वे वीरभद्रेशो महावीरपदप्रदः ॥५५॥भद्रदा भद्र्काली च तस्य दक्षिणतः शुभा ॥भद्राकाल ह्रदो नाम तत्रातीव शुभप्रदः ॥५६॥आपस्तंबेश्वरं लिंगं तत्प्राच्यां ज्ञानदं परम् ॥तदुत्तरे पुण्यकूपस्तत्पश्चाच्छौनको ह्रदः ॥५७॥ह्रदपश्चिमतो लिंगं शौनकेशं सुधीप्रदम् ॥ह्रदे तत्र नरः स्नात्वा दृष्ट्वा वै शौनकेश्वरम् ॥५८॥ज्ञानं तत्संलभेद्दिव्यं येन मृत्युं तरत्यसौ ॥तद्दक्षिणे जंबुकेशस्तिर्यग्योनि निवारकः ॥५९॥तदुत्तरे मतंगेशो गानविद्याप्रबोधकः ॥मतंगेशस्य वायव्ये नानालिंगानि सर्वतः ॥१६०॥मुनिभिः स्थापितानीह सर्वसिद्धिप्रदानि च ॥ब्रह्मरातेश्वरं लिंगं मतंगेशाच्च दक्षिणे ॥६१॥तल्लिंगदर्शनादायुर्नांतराच्छिद्यते क्वचित् ॥तत्राज्यपेश्वरं लिंगं पितृलिंगान्यनेकशः ॥तल्लिंगसेवया सर्वे तुष्यंति प्रपितामहाः ॥६२॥तद्दक्षिणे सिद्धकूपः सिद्धाः संति सहस्रशः॥वायुरूपास्तु ये सिद्धा ये सिद्धा भानुरश्मिगाः ॥६३॥तैः स्थापितं तु यल्लिंगं तत्सिद्धेश्वरमीरितम् ॥तस्य संदर्शनादेव सर्वाः स्युः सिद्धयोऽमलाः ॥६४॥तत्पश्चिमे सिद्धवापी पीता स्नाता च सिद्धिदा ॥प्राच्यां च सिद्धकूपाद्वै लिंगं व्याघ्रेश्वराभिधम् ॥६५॥तल्लिंगदर्शनान्नृणां न भयं व्याघ्रचोरजम् ॥ज्येष्ठेश्वरं च तद्याम्यां ज्येष्ठस्थानेति सिद्धिदम् ॥६६॥तद्दक्षिणे मुदां धाम लिंगं प्रहसितेश्वरम् ॥तदुत्तरे निवासेश काशीवासफलप्रदः ॥६७॥चतुःसमुद्रकूपोस्ति तत्राब्धिस्नान पुण्यदः ॥ज्येष्ठा देवी तु तत्रास्ति नता ज्येष्ठपदप्रदा ॥६८॥अवाच्यां व्याघ्रलिंगाच्च लिंगं चंडीश्वराभिधम् ॥तदुत्तरे दंडखातं सरः पितृमुदावहम् ॥६९॥ग्रहणानंतरे स्नानं दंडखातेति पुण्यदम् ॥जैगीषव्य गुहा तत्र तत्र लिंगं तदाह्वयम् ॥१७०॥त्रिरात्रोपोषितस्तत्र ज्ञानं लभ्येत निर्मलम् ॥महापुण्यप्रदं लिंगं तत्पश्चाद्देवलेश्वरम् ॥७१॥शतकालस्तत्समीपे शतं कालानुमापतिः ॥तल्लिंगाविर्भवे काश्यां कालयामास कुंभज ॥७२॥तल्लिंगदशर्नादायुः शतवर्षाण्यखंडितम् ॥शातातपेशस्तद्याम्यां महाजपफलप्रदः ॥७३॥तत्पश्चिमे हेतुकेशो हेतुभूतो महाफले ॥तद्दक्षिणेक्षपादेशो महाज्ञानप्रर्वतकः ॥७४॥तदग्रे च कणादेशस्तत्र पुण्योदकः प्रहिः ॥स्नात्वा काणादकूपे यः कणादेशं समर्चयेत् ॥७५॥न धनेन न धान्येन त्यज्यते स कदाचन ॥तस्य दक्षिणतो दृश्यो भूतीशो भूतिकृत्सताम् ॥७६॥तत्पश्चिमेऽघसंहर्तृ आषाढीश्वर संज्ञितम् ॥दुर्वासेशश्च तत्पूर्वे सर्वकामसमृद्धिकृत् ॥७७॥तद्याम्यां भारभूतेशः पापभारापहारकः ॥व्यासेश्वरस्य पूर्वेण द्वौ शंखलिखितेश्वरौ ॥तौ दृश्यौ यत्नतः काश्यां महाज्ञान प्रवर्तकौ ॥७८॥यत्समाप्याप्यते पुण्यं निष्ठा पाशुपतव्रतम् ॥तदाप्यतेत्र विश्वेश सकृदीक्षणतः क्षणात् ॥७९॥तदीशानेवधूतेशो योगज्ञानप्रवर्तकः ॥तीर्थं चैवावधूतेशं सर्वकल्मषनाशकृत् ॥१८०॥अवधूतेश्वरात्पूर्वे लिंगं पशुपतीश्वरम् ॥तल्लिंगसेवया पुंसां पशुपाशविमोक्षणम् ॥८१॥तद्दक्षिणे गोभिलेशो महाभिलषितप्रदः।जीमूतवाहनेशश्च तत्पश्चाल्लिंगमुत्तमम् ॥८२॥विद्याधरपदप्राप्तिस्तल्लिंगपरिसेवनात्॥मयूखार्कः पंचनदे गभस्तीशश्च तत्र वै ॥८३॥दधिकल्पह्रदो नाम तदुदीच्यां महाप्रहिः ॥दुर्लभं तत्प्रहिस्नानं दुर्लभं च तदीक्षणम् ॥८४॥गभस्तीशोत्तरे भागे दधिकल्पेश्वरो हरः ॥नरस्तमाशु संवीक्ष्य कल्पं त्र्यक्षपुरे वसेत् ॥८५॥गभस्तीशाद्दक्षिणे तु मंगलां मंगलालयाम् ॥उद्दिश्य मंगलां गौरीं भोजयेद्द्विजदंपती ॥८६॥अलंकृत्य यथाशक्ति तत्पुण्यांतो न कर्हिचित् ॥क्षितिप्रदक्षिणफला मंगलैका प्रदक्षिणा ॥८७॥वदनप्रेक्षणादेवी मुखप्रेक्षेश्वरोत्तरे ॥मंगलायाः समीपे तु सर्वसिद्धिकरी शिवा ॥८८॥लिंगे त्वष्ट्रीशवृत्तेशौ मुखप्रेक्षोत्तरे शुभे ॥सहेमभूमिदानस्य फलं दर्शनतस्तयोः ॥८९॥तदुत्तरे चर्चिकाया देव्याः संदर्शनं शुभम् ॥रेवतेश्वर लिंगं च चर्चिकाग्रेण शांतिकृत् ॥१९०॥महाशुभायतस्याग्रे लिंगं पंचनदेश्वरम् ॥मंगलोदो महाकूपो मंगला पश्चिमे शुभः ॥९१॥उपमन्योर्महालिंगं मंगला पश्चिमे शुभम् ॥व्याघ्रपादेश्वरं लिंगं तत्पश्चाद्व्याघ्रभीतिहृत् ॥९२॥नैर्ऋत्यां च गभस्तीशाच्छशांकेशोघसंघहृत् ॥तत्पश्चिमे चैत्ररथं लिंगं दिव्यगतिप्रदम् ॥९३॥रेवतेशात्पश्चिमतो जैमिनीशो महाघहृत् ॥तत्र लिंगान्यनेकानि ऋषीणामृषिसत्तम ॥९४॥जैमिनीशाच्च वायव्ये लिंगं वै रावणेश्वरम् ॥न तद्दशर्नतः पुंसां राक्षसानां महाभयम् ॥९५॥तद्दक्षिणे वराहेशो मांडव्येशस्ततो यमे ॥तद्दक्षिणे प्रचंडेशो योगेशो दक्षिणे ततः ॥९६॥तद्दक्षिणे च धातेशः सोमेशश्च तदग्रतः ॥तन्नैर्ऋत्यां कनकेशो महाकनकदः सताम् ॥९७॥तदुत्तरे पांडवानां पंचलिंगानि सन्मुदे ॥संवर्तेशस्तदग्रे च श्वेतेशस्तस्य पश्चिमे ॥९८॥तत्पश्चात्कलशेशश्च लिंगं कालाभयप्रदम् ॥कालेन पाशिते श्वेते मुने कुंभात्समुत्थितम् ॥९९॥चित्रगुप्तेश्वरं लिंगं तदुदीच्यामघापहम् ॥चित्रगुप्तेश्वरात्पश्चाद्यो दृढेशो महाफलः ॥२००॥कलशेशादवाच्यां च ग्रहेशो लिंगमुत्तमम् ॥ग्रहबाधां शमयति तल्लिंग परिलोकनम् ॥१॥चित्रगुप्तेश्वरात्पश्चाद्यदृच्छेशो महाफलः ॥उतथ्यवामदेवेशं लिंगं याम्यां ग्रहेश्वरात् ॥२॥कंबलाश्वतरेशौ च तस्य दक्षिणतः शुभे ॥तत्रैव निर्मलं लिंगं नलकूबरपूजितम् ॥३॥तद्याम्यां मणिकर्णीशं तदुदक्पलितेश्वरम् ॥जराहरं च तत्रैव तत्पश्चात्पापनाशनम् ॥४॥तत्पश्चिमे निर्जरेशस्तन्नैर्ऋत्यां पितामहः ॥पितामहस्रोतिका च तत्र श्राद्धं महाफलम् ॥५॥तद्याम्यां वरुणेशश्च बाणेशस्तस्य दक्षिणे।पितामहस्रोतिकायां कूश्मांडेशस्तु सिद्धिकृत् ॥६॥तत्पूर्वतो राक्षसेशो गंगेशस्तस्य दक्षिणे ॥तदुत्तरे निम्नगेशाः संति लिंगान्यनेकशः ॥७॥ वैवस्वतेश्वरस्तत्र यमलोकनिवारकः ॥तत्पश्चाददितीशश्च चक्रेशस्तस्य चाग्रतः ॥८॥तदग्रे कालकेशाख्यो दृष्टप्रत्ययकृत्परः ॥छाया संदृश्यते तत्र निष्पापस्तदवेक्षणात् ॥९॥तदग्रे तारकेशश्च तदग्रे स्वर्णभारदः॥तदुत्तरे मरुत्तेशः शक्रेशश्च तदग्रतः ॥२१०॥तद्दक्षिणे च रंभेशस्तत्रैव च शशीश्वरः ॥तदुत्तरे लोकपेशास्तत्र लिंगान्यनेकशः ॥११॥नागगंधर्वयक्षाणां किन्नराप्सरसामपि ॥देवर्षिगणवृदानां नानासिद्धिकराण्यपि ॥१२॥शक्रेशाद्दक्षिणे भागे फाल्गुनेशो महाघहृत् ॥महापाशुपतेशश्च तद्याम्यां शुभकृत्परः ॥१३॥तत्पश्चिमे समुद्रेश ईशानेशस्तदुत्तरे॥तत्पूर्वे लांगलीशश्च सर्वसिद्धिसमर्पकः ॥१४॥रागद्वेषविनिर्मुक्ताः सिद्धिं यांति च पूजकाः ॥तेषां मोक्षो मया ख्यातो न तु ते देवि मानवाः ॥१५॥मधुपिंगश्वेतकेतू लांगलीशे तपस्विनौ ॥अनेनैव शरीरेण जग्मतुः सिद्धिमुत्तमाम् ॥१६॥तत्रैव नकुलीशश्च कपिलेशश्च तत्र वै॥रहस्यं परमं चोभौ मम व्रत निषेविणौ॥ १७॥तत्सन्निधौ प्रीतिकेशस्तत्र प्रीतिर्मम प्रिये ॥तत्रोपवासादेकस्मात्फलमब्दशताधिकम् ॥१८॥एकं जागरणं कृत्वा प्रीतिकेश उपोषितः ॥गणत्वपदवी तस्य निश्चिता मम पर्वणि ॥१९॥देवस्य दक्षिणे भागे तत्र वापी शुभोदका ॥तदंबुप्राशनं नृणामपुनर्भवहेतवे ॥२२०॥तज्जलात्पश्चिमे भागे दंडपाणिः सदावति ॥तत्प्राच्यवाच्युत्तरस्यां तारः कालः शिलादजः ॥२१॥ लिंगत्रयं हृदब्जेयच्छ्रद्धयापी तमर्पयेत् ॥यैस्तत्र तज्जलं पीतं कृतार्थास्ते नरोत्तमाः ॥२२॥अविमुक्तसमीपेच्यों मोक्षेशो मोक्षबुद्धिदः ॥करुणेशो दयाधाम तदुदीच्यां समर्चयेत् ॥२३॥स्वर्णाक्षेशस्तु तत्प्राच्यां ज्ञानदस्तस्य चोत्तरे ॥सौभाग्यगौरी संपूज्या बहुसौभाग्यसंपदे ॥२४॥विश्वेशाद्दक्षिणेभागे निकुंभेशः प्रयत्नतः ॥क्षेत्रक्षेमकरः पूज्यस्तत्पश्चाद्विघ्ननायकः ॥२५॥सर्वविघ्नच्छिदभ्यर्च्यश्चतुर्थ्यां तु विशेषतः ॥विरूपाक्षो निकुंभेशाद्वह्नौ पूज्यः सुसिद्धिदः ॥२६॥तद्दक्षिणे च शुक्रेशः पुत्रपौत्रप्रवर्धनः ॥तदुदीच्यां महालिंगं देवयानीश्वराभिधम् ॥२७॥शुक्रेशादग्रतः पूज्यः कचेश इति संज्ञितः ॥शुक्रकूपमुपस्पृश्य हयमेधफलं लभेत् ॥२८॥भवानीशौ नमस्यौ च शुक्रेशात्पश्चिमे शुभौ ॥भक्तपोतप्रदौ तौ तु निजभक्तस्य सर्वदा ॥२९॥अलर्केशः समभ्यर्च्यः शुक्रेशात्पूर्वदिक्स्थितः ॥मदालसेश्वरस्तत्र तत्पूर्वे सर्वविघ्नहृत् ॥२३०॥गणेश्वरेश्वरं लिंगं सर्वसिद्धिकरं परम् ॥हत्वा लंकेश्वरं विप्र रघुणाथ प्रतिष्ठितम् ॥३१॥तल्लिंगस्पर्शनादाशु ब्रह्महापि विशुध्यति ॥महापुण्यप्रदं चान्यत्तत्रार्च्यं त्रिपुरांतकम् ॥३२॥दत्तात्रेयेश्वरं लिंगं तस्य पश्चिमतः शुभम् ॥तद्याम्यां हरिकेशेशो गोकर्णेशस्ततः परम् ॥३३॥सरस्तदग्रे पापघ्नं तत्पश्चाच्च ध्रुवेश्वरः ॥तदग्रे धुवकुंडं च पितृप्रीतिकरं परम् ॥३४॥तदुत्तरपिशाचेशः पैशाच्य पदहारकः ॥पित्रीशस्तद्यमदिशि पितृकुंडं तदग्रतः ॥३५॥तत्र श्राद्धकृतां पुंसां तुष्येयुः प्रपितामहाः॥अग्रे ध्रुवेशात्तारेशो वैद्यनाथः स एव हि ॥३६॥तन्नैर्ऋत्यां मनोलिंगं वंशवृद्धिकरं परम् ॥प्रियव्रतेश्वरं लिंगं वैद्यनाथपुरोगतम् ॥३७॥ तद्याम्यां मुचुकुंदेशस्तत्पार्श्वे गौतमेश्वरः ॥तत्पश्चिमेन भद्रेश्तद्याम्यामृष्यशृंगिणः ॥३८॥ब्रह्मेशस्तत्पुरस्ताच्च पर्जन्येशस्तदीशगः ॥तत्प्राच्यां नहुषेशश्च विशालाक्षी च तत्पुरः ॥३९॥विशालाक्षीश्वरं लिंगं तत्रैव क्षेत्रवस्तिदम् ॥जरासंधेश्वरं लिंगं तद्याम्यां ज्वरनाशनम् ॥२४०॥तत्पुरस्ताद्धिरण्याक्षलिंगं पूज्यं हिरण्यदम् ॥तत्पश्चिमे गयाधीशस्तत्प्रतीच्यां भगीरथः ॥४१॥तदग्रे च दिलीपेशो ब्रह्मेशात्पश्चिमे मुने ॥तत्र लिंगं सकुंडं च स्नातुरिष्टफलप्रदम् ॥४२॥तत्र विश्वावसोर्लिंगं मुंडेशस्तत्र पूर्वतः ॥तद्दक्षिणे विधीशश्च तद्याम्यां वाजिमेधकः ॥४३॥दशाश्वमेधिके स्नात्वा दृष्ट्वा तल्लिंगमुत्तमम् ॥दशानामश्वमेधानां फलं प्राप्नोति मानवः ॥४४॥तदुत्तरे मातृतीर्थं स्नातुर्जन्मभयापहृत् ॥तत्र स्नानं तु यकुर्यान्नारी वा पुरुषोपि वा ॥४५॥ईप्सितं फलमाप्नोति मातृणां च प्रसादतः ॥दक्षिणे तव कुंडाच्च पुष्पदंतेश्वरः परः ॥४६॥तदग्निदिशि देवर्षि गण लिंगान्यनेकशः ॥पुष्पदंताद्दक्षिणतः सिद्धीशः परसिद्धिदः ॥४७॥पंचोपचारपूजातः स्वप्ने सिद्धिं परां दिशेत् ॥राज्यप्राप्तिर्भवेत्पुंसां हरिश्चंद्रेशसेवया ॥४८॥तत्पश्चिमे नैर्ऋतेशोंगिरसेशस्ततो यमे ॥तद्दक्षिणे च क्षेमेशश्चित्रांगेशस्ततो यमे ॥४९॥तद्दक्षिणे च केदारो रुद्रानुचरताप्रदः ॥चंद्रसूर्यान्वयैर्भूपैः केदाराद्दक्षिणापथे ॥२५०॥प्रतिष्ठितानि लिंगानि शतशोथ सहस्रशः ॥लोलार्काद्दक्षिणाशायां सर्वाशापूरकोर्चितः ॥५१॥करंधमेश्वरं लिंगं तत्प्रतीच्यां महाफलम् ॥तत्पश्चिमे महादुर्गा महादुर्गप्रभंजनी ॥५२॥शुष्केश्वरं च तद्याम्यां शुष्कया सरितार्चितम् ॥जनकेशस्तत्प्रतीच्यां शंकुकर्णस्तदुत्तरे ॥५३॥महासिद्धीश्वरं लिंगं तत्प्राच्यां सर्वसिद्धिदम् ॥सिद्धकुंडे नरः स्नात्वा दृष्ट्वा सिद्धेश्वरं महत् ॥५४॥सर्वासामेव सिद्धीनां पारं गच्छति मानवः ॥शंकुकर्णेश वायव्ये लिंगं वाडव्यसंज्ञितम् ॥५५॥तदग्रे च विभांडेशः कहोलेशस्तदुत्तरे ॥तत्र द्वारेश्वरं लिंगं देवी द्वारेश्वरी शुभा ॥५६॥तत्पूजनाद्भवेत्सिद्धिरानंदारण्य वस्तिदा ॥रक्षकाश्च गणास्तत्र नानारूपायुधा मुने ॥५७॥तत्रैव हरिदीशं च लिंगं कात्यायनं ततः ॥तत्पार्श्वे जांगलेशश्च तत्पश्चान्मुकुटेश्वरः ॥५८॥तत्रैव कुंडं विमलं सर्वयात्राफलप्रदम् ॥स्नात्वा मुकुटकुंडे च दृष्ट्वा वै मुकुटेश्वरम् ॥५९॥यात्रया सर्व लिंगानां यत्फलं तदवाप्यते ॥तपसश्चापि योगस्य सिद्धिदा साऽवनीपरा ॥२६०॥मुने शतं सहस्राणि तत्र लिंगानि सिद्धये ॥एका दिगुत्तरा देवि वाराणस्यां प्रिया मम ॥६१॥तत्रापि पंचायतने रतिर्मे नितरां प्रिये ॥उत्पत्तिस्थिति कालेपि तत्राहं सर्वदा स्थितः ॥६२॥एवं यस्तु विजानाति न स पापैः प्रलिप्यते ॥सत्यं सत्यं पुनः सत्यं त्रिसत्यं नान्यतः प्रिये ॥६३॥शीघ्रं तत्रैव गंतव्यं यदीच्छेन्मामकं पदम् ॥उद्देशमात्रं लिगानि कथितानि मया मुने ॥६४॥द्विस्त्रिः कृत्वः स्थापितानि भक्त्या लिंगानि कानिचित् ॥न तानि पुनरुक्तानि श्रद्धयार्च्यानि सर्वतः ॥६५॥एतानि यानि लिंगानि यानि कुंडानि येंऽधवः ॥ या वाप्यस्तानि सर्वाणि श्रद्धेयानि मनीषिभिः ॥६६॥एतेषां दर्शनात्स्नानात्फलमत्रोत्तरोत्तरम्॥अत्रत्यानां च लिंगानां कूपानां सरसामपि ॥६७॥वापीनां चापि मूर्तीनां कः संख्यातुं प्रभुर्भवेत् ॥आनंदकाननस्थानि तृणान्यपि परं वरम् ॥६८॥दिवौकसोपि नान्यत्र यत्पुनर्जन्मभाजनम्॥सर्वलिंगमयी काशी सर्वतीर्थेकजन्मभूः ॥६९॥स्वर्गापवर्गयोर्दात्री दृष्टा देहांतसेविता ॥मम प्रियतमा देवि त्वमेव तपसो बलात् ॥२७०॥स्वभावतस्त्वियं काशी सुखविश्रामभूर्मम ॥ये काश्यानाम गृह्णंति येनुमोदंत एव हि ॥७१॥ते मे शाखविशाखाभाः स्कंदनंदिगजास्यवत् ॥त एव भक्ता मे देवि त एव मम सेवकाः ॥७२॥मुमुक्षवस्त एवात्र येचानंदवनौकसः ॥तपस्तप्तं महत्तैस्तु कृतं तैस्तु महाव्रतम् ॥७३॥ तैश्च दत्तं महादानं ये चानंदवनौकसः ॥ते स्नातसर्वतीर्था वै तेखिलाध्वरदीक्षिताः ॥७४॥ते चीर्णसर्वधर्माहि ये चानंदवनौकसः ॥सुरासुरोरगनरा भूमिभारायतेऽखिलाः ॥वयस्यपीह चरमे येनानंदवनौकसः ॥७५॥अंत्यजोपि वरः काश्यां नान्यत्र श्रुतिपारगः ॥संसारपारगः पूर्वस्त्वंत्यश्चांत्यजतोप्यधः ॥७६॥स एव नूनं सर्वज्ञः स एव ह्यधिकेक्षणः ॥यः पार्थिवीं तनुं हित्वा काश्यां धत्ते सुधामयीम् ॥७७॥श्रुत्वाध्यायमिदं पुण्यं सर्वतीर्थरहस्यवत् ॥काशीदर्शनजं पुण्यं प्राप्नोति नियतं नरः ॥७८॥ ॥७यः पठेदिममध्यायं प्रातः प्रातर्दिनेदिने ॥दृष्टानि तेन सर्वाणि तीर्थान्येतानि नान्यथा ॥७९॥सर्वलिंगमयाध्यायं योऽमुं नित्यं जपेत्सुधीः ॥न तं यमो न तं दूता नैनमंहोपि बाधते ॥२८०॥ब्रह्मयज्ञफलं तस्य जायते सुकृतात्मनः ॥यो जपेदमुमध्यायं शुचिस्तद्गतमानसः ॥८१॥स स्नातः सर्वकुंडेषु सर्ववाप्यंबुपः स च ॥सर्वलिंगार्चकः सोत्र योऽमुमध्यायमाजपेत् ॥८२॥ किमन्यैर्बहुभिः स्तोत्रैरतिस्तोकफलप्रदैः ॥मत्प्रेमवद्भिरध्यायो जप्तव्योयं महाफल ॥८३॥महादानेषु दत्तेषु यत्फलं प्राप्यतेऽत्र वै ॥सकृज्जपान्महाध्यायादमुष्मात्तत्समाप्यते ॥८४॥स्नात्वा सर्वाणि तीर्थानि दृष्ट्वा लिंगान्यनेकशः ॥यत्फलं लभ्यते मर्त्यैस्तदेतज्जपनाद्ध्रुवम् ॥८५॥इदमेव तपोत्युग्रमयमेव जपो महान् ॥काशीलिंगावली नामाध्यायो जप्येत यन्मुने ॥८६॥मम द्रुहे नास्तिकाय वेदनिंदारताय च॥न दातव्यो न दातव्यो न दातव्यो जपस्त्वयम् ॥८७॥अध्यायस्यास्य जपनात्पापं ब्रह्मवधोद्भवम् ॥अगम्यागमनं चापि तथाभक्षस्यभक्षणम् ॥८८॥गुरुदाराभिचारोत्थं हेमस्तेयसमुद्भवम् ॥मातापितृवधाज्जातं गोभ्रूणहननोद्भवम् ॥८९॥महापापानि पापानि ज्ञाताज्ञातानि भूरिशः ॥उपपापानि पापानि मनोवाक्कायजान्यपि ॥२९०॥विलयं यांत्यशेषाणि निःसंदेहं ममाज्ञया ॥पुत्रान्पौत्रान्धनं धान्यं कलत्रं क्षेत्रमेव च ॥९१॥मनःसमीहितं सर्वं स्वर्गं मोक्षसुखान्यपि ॥जप्त्वाध्यायमिमं विद्वान्प्राप्स्यत्येव न संशयः ॥९२॥ इति यावत्समाख्याति देवो देवीपुरः कथाम् ॥तावन्नंदीसमागत्य प्रणम्येति व्यजिज्ञपत् ॥९३॥ जाता परिसमाप्तिश्च महाप्रासादनिर्मितेः ॥सज्जीकृतो रथश्चायं ब्रह्माद्या मिलिताः सुराः ॥९४॥तार्क्ष्यगः पुंडरीकाक्षो द्वारि तिष्ठति सानुगः ॥प्रतीक्षमाणोऽवसरं पुरस्कृत्य मुनीश्वरान् ॥९५॥चतुर्दशसु लोकेषु ये ये तिष्ठंति सुव्रताः ॥ते निशम्याद्यमिलिताः प्रावेशिक महोत्सवम् ॥९६॥॥ स्कंद उवाच ॥इति नंदिवचः श्रुत्वा देवो देवी समायुतः ॥दिव्यं रथं समारुह्य निर्जगाम त्रिविष्टपात् ॥२९७॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे क्षेत्रतीर्थवर्णनं नाम सप्तनवतितमोऽध्यायः ॥९७॥ N/A References : N/A Last Updated : November 27, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP