काशीखण्डः - अध्याय ६१
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ अगस्त्य उवाच ॥
षडास्य माधवाख्यानं श्रुतं मे पापनाशनम् ॥
महिमापि श्रुतः श्रेयान्सम्यक्पंचनदस्य वै ॥१॥
यदग्निबिंदुना पृच्छि माधवो दैत्यसूदनः ॥
तस्योत्तरं समाख्याहि यथाख्यातं मधुद्विषा ॥२॥
॥ स्कंद उवाच ॥
शृण्वगस्त्य महर्षे त्वं कथ्यमानं मयाधुना॥
माधवेन यथाचक्षि मुनये चाग्निबिंदवे ॥३॥
॥ बिंदुमाधव उवाच ॥
आदौ पादोदके तीर्थे विद्धि मामादिकेशवम् ॥
अग्निबिंदो महाप्राज्ञ भक्तानां मुक्तिदायकम् ॥४॥
अविमुक्तेऽमृते क्षेत्रे येर्चयंत्यादिकेशवम् ॥
तेऽमृतत्वं भजंत्येव सर्वदुःखविवर्जिताः ॥५॥
संगमेशं महालिंगं प्रतिष्ठाप्यादिकेशवः ॥
दर्शनादघहं नृणां भुक्तिं मुक्तिं दिशेत्सदा ॥६॥
याम्यां पादोदकाच्छ्वेतद्वीपतीर्थं महत्तरम् ॥
तत्राहं ज्ञानदो नृणां ज्ञानकेशवसंज्ञकः ॥७॥
श्वेतद्वीपे नरः स्नात्वा ज्ञानकेशवसन्निधौ ॥
न ज्ञानाद्भ्रश्यते क्वापि ज्ञानकेशवपूजनात् ॥८॥
तार्क्ष्यकेशवनामाहं तार्क्ष्यतीर्थे नरोत्तमैः ॥
पूजनीयः सदा भक्त्या तार्क्ष्य वत्ते प्रिया मम ॥९॥
तत्रैव नारदे तीर्थेस्म्यहं नारदकेशवः ॥
ब्रह्मविद्योपदेष्टा च तत्तीर्थाप्लुत वर्ष्मणाम् ॥१०॥
प्रह्लादतीर्थं तत्रैव नाम्ना प्रह्लादकेशवः ॥
भक्तैः समर्चनीयोहं महाभक्ति समृद्धये ॥११॥
तीर्थेंऽबरीषे तत्राहं नाम्नैवादित्यकेशवः ॥
पातकध्वांतनिचयं ध्वंसयामीक्षणादपि ॥१२॥
दत्तात्रेयेश्वराद्याम्यामहमादिगदाधरः ॥
हरामि तत्र भक्तानां संसारगदसंचयम् ॥१३॥
तत्रैव भार्गवे तीर्थे भृगुकेशव नामतः ॥
काशीनिवासिनः पुंसो बिभर्मि च मनोरथैः ॥१४॥
वामनाख्येमहातीर्थे मनःप्रार्थितदे शुभे ॥
पूज्योहं शुभमिच्छद्भिर्नाम्ना वामनकेशवः ॥१५॥
नरनारायणे तीर्थे नरनारायणात्मकम् ॥
भक्ताः समर्च्य मां स्युर्वै नरनारायणात्मकाः ॥१६॥
तीर्थे यज्ञवराहाख्ये यज्ञवाराहसंज्ञकः ॥
नरैः समर्चनीयोहं सर्वयज्ञफलेप्सुभिः ॥१७॥
विदारनरसिंहोहं काशीविघ्नविदारणः ॥
तन्नाम्नि तीर्थे संसेव्यस्तीर्थोपद्रवशांतये ॥१८॥
गोपीगोविंदतीर्थे तु गोपीगोविंदसंज्ञकम् ॥
समर्च्य मां नरो भक्त्या मम मायां न संस्पृशेत्॥ १९॥
मुने लक्ष्मीनृसिंहोस्मि तीर्थे तन्नाम्नि पावने ॥
दिशामि भक्तियुक्तेभ्यः सदानैः श्रेयसीं श्रियम् ॥२०॥
शेषमाधवनामाहं शेषतीर्थेऽघहारिणि ॥
विश्राणयाम्यशेषाश्च विशेषान्भक्तचिंतितान् ॥२१॥
शंखमाधवतीर्थे च स्नात्वा मां शंखमाधवम् ॥
शंखोदकेन संस्नाप्य भवेच्छंखनिधेः पतिः ॥२२॥
हयग्रीवे महातीर्थे मां हयग्रीवकेशवम् ॥
प्रणम्य प्राप्नुयान्नूनं तद्विष्णोः परमंपदम् ॥२३॥
भीष्मकेशवनामाहं वृद्धकालेशपश्चिमे ॥
उपसर्गान्हरे भीष्मान्सेवितो भक्तियुक्तितः ॥२४॥
निर्वाणकेशवश्चाहं भक्तनिर्वाणसूचकः ॥
लोलार्कादुत्तरेभागे लोलत्वं चेतसो हरे ॥२५॥
वंद्यस्त्रिलोकसुंदर्या याम्यां यो मां समर्चयेत् ॥
काश्यां ख्यातं त्रिभुवनकेशवं न स गर्भभाक् ॥२६॥
ज्ञानवाप्याः पुरोभागे विद्धि मां ज्ञानमाधवम् ॥
तत्र मां भक्तितोभ्यर्च्य ज्ञानं प्राप्नोति शाश्वतम् ॥२७॥
श्वेतमाधवसंज्ञोहं विशालाक्ष्याः समीपतः ॥
श्वेतद्वीपेश्वरं रूपं कुर्यां भक्त्या समर्चितः ॥२८॥
उदग्दशाश्वमेधान्मां प्रयागाख्यं च माधवम् ॥
प्रयागतीर्थे सुस्नातो दृष्ट्वा पापैः प्रमुच्यते ॥२९॥
प्रयागगमने पुंसां यत्फलं तपसि श्रुतम् ॥
तत्फलं स्याद्दशगुणमत्र स्नात्वा ममाग्रतः ॥३०॥
गंगायमुनयोः संगे यत्पुण्यं स्नानकारिणाम् ॥
काश्यां मत्सन्निधावत्र तत्पुण्यं स्याद्दशोत्तरम् ॥३१॥
दानानि राहुग्रस्तेर्के ददतां यत्फलं भवेत् ॥
कुरुक्षेत्रे हि तत्काश्यामत्रैव स्याद्दशाधिकम् ॥३२॥
गंगोत्तरवहा यत्र यमुना पूर्ववाहिनी ॥
तत्संभेदं नरः प्राप्य मुच्यते ब्रह्महत्यया ॥३३॥
वपनं तत्र कर्तव्यं पिंडदानं च भावतः ॥
देयानि तत्र दानानि महाफलमभीप्सुना ॥३४॥
गुणाः प्रजापतिक्षेत्रे ये सर्वे समुदीरिताः ॥
अविमुक्ते महाक्षेत्रेऽसंख्याताश्च भवंति हि ॥३५॥
प्रयागेशं महालिंगं तत्र तिष्ठति कामदम् ॥
तत्सान्निध्याच्च तत्तीर्थं कामदं परिकीर्तितम् ॥३६॥
काश्यां माघः प्रयागे यैर्न स्नातो मकरार्कगः ॥
अरुणोदयमासाद्य तेषां निःश्रेयसं कुतः ॥३७॥
काश्युद्भवे प्रयागे ये तपसि स्नांति संयताः ॥
दशाश्वमेधजनितं फलं तेषां भवेद्ध्रुवम् ॥३८॥
प्रयागमाधवं भक्त्या प्रयागेशं च कामदम् ॥
प्रयागे तपसि स्नात्वा येर्चयंत्यन्वहं सदा॥३९॥
धनधान्यसुतर्द्धीस्ते लब्ध्वा भोगान्मनोरमान् ॥
भुक्त्वेह परमानंदं परं मोक्षमवाप्नुयुः ॥४०॥
माघे सर्वाणि तीर्थानि प्रयागमवियांति हि ॥
प्राच्युदीची प्रतीचीतो दक्षिणाधस्तथोर्ध्वतः ॥४१॥
काशीस्थितानि तीर्थानि मुने यांति न कुत्रचित् ॥
यदि यांति तदा यांति तीर्थत्रयमनुत्तमम् ॥४२॥
आयांत्यूर्जे पंचनदे प्रातःप्रातर्ममांतिकम् ॥
महाघौघप्रशमने महाश्रेयोविधायिनि ॥४३॥
प्राप्य माघमघारिं च प्रयागेश समीपतः ॥
प्रातःप्रयागे संस्नांति सर्वतीर्थानि मामनु ॥४४॥
समासाद्य च मध्याह्नमभियांति च नित्यशः ॥
संस्नातुं सर्वतीर्थानि मुक्तिदां मणिकर्णिकाम् ॥४५॥
काश्यां रहस्यं परममेतत्ते कथितं मुने ॥
यथा तीर्थत्रयीश्रेष्ठा स्वस्वकाले विशेषतः ॥४६॥
अन्यद्रहस्यं वक्ष्यामि न वाच्यं यत्रकुत्रचित् ॥
अभक्तेषु सदा गोप्यं न गोप्यं भक्तिमज्जने ॥४७॥
काश्यां सर्वाणि तीर्थानि एकैकादुत्तरोत्तरम् ॥
महैनांसि प्रहंत्येव प्रसह्य निज तेजसा ॥४८॥
एतदेव रहस्यं ते वाराणस्या उदीर्यते॥
उत्क्षिप्यैकांगुलिं तथ्यं श्रेष्ठैका मणिकर्णिका ॥४९॥
गर्जंति सर्वतीर्थानि स्वस्वधिष्ण्यगतान्यहो ॥
केवलं बलमासाद्य सुमहन्माणिकर्णिकम् ॥५०॥
पापानि पापिनां हत्वा महांत्यपि बहून्यपि ॥
काशीतीर्थानि मध्याह्ने प्रायश्चित्तचिकीर्षया ॥५१॥
पर्वस्वपर्वस्वपि वा नित्यं नियमवं त्यहो ॥
निर्मलानि भवंत्येव विगाह्य मणिकर्णिकाम् ॥५२॥
विश्वेशो विश्वया सार्धं सदोपमणिकर्णिकम् ॥
मध्यंदिनं समासाद्य संस्नाति प्रतिवासरम् ॥५३॥
वैकुंठादप्यहं नित्यं मध्याह्ने मणिकर्णिकाम् ॥
विगाहे पद्मया सार्धं मुदा परमया मुने ॥५४॥
सकृन्ममाख्यां गृणतां निर्हरन्यदघान्यहम् ॥
हरिनामसमापन्नस्तद्बलान्माणिकर्णिकात् ॥५५॥
सत्यलोकात्प्रतिदिनं हं सयानः पितामहः ॥
माध्याह्निक विधानाय समायान्मणिकर्णिकाम् ॥५६॥
इंद्राद्या लोकपालाश्च मरीच्याद्या महर्षयः ॥
माध्याह्निकीं क्रियां कर्तुं समीयुर्मणिकर्णिकाम् ॥५७॥
शेषवासुकिमुख्याश्च नागा वै नागलोकतः ॥
समायांतीह मध्याह्ने संस्नातुं मणिकर्णिकाम् ॥५८॥
चराचरेषु सर्वेषु यावंतश्च सचेतनाः ॥
तावंतः स्नांति मध्याह्ने मणिकर्णी जलेमले ॥५९॥
के माणिकर्णिकेयानां गुणानां सुगरीयसाम् ॥
शक्ता वर्णयितुं विप्राऽसंख्येयानां मदादिभिः ॥६०॥
चीर्णान्युग्राण्यरण्येषु तैस्तपांसि तपोधनैः ॥
यैरियं हि समासादि मुक्तिभूर्मणिकर्णिका ॥६१॥
विश्राणितमहादानास्त एव नरपुंगवाः ॥
चरमे वयसि प्राप्ता यैरेषा मणिकर्णिका ॥६२॥
चीर्णसर्वव्रतास्ते तु यथोक्तविधिना ध्रुवम् ॥
यैः स्वतल्पीकृता माणिकर्णिकेयी स्थली मृदुः ॥६३॥
त एव धन्या मर्त्येस्मिन्सर्वक्रतुषु दीक्षिताः ॥
त्यक्त्वा पुण्यार्जितां लक्ष्मीमैक्षियैर्मणिकर्णिका ॥६४॥
कृता नानाविधा धर्मा इष्टापूर्तास्तु तैर्नृभिः॥
वार्धकं समनुप्राप्य प्रापि यैर्मणिकर्णिका ॥६५॥
रत्नानि सदुकूलानि कांचनं गजवाजिनः ॥
देयाः प्राज्ञेन यत्नेन सदोपमणिकर्णिकम् ॥६६॥
पुण्येनोपार्जितं द्रव्यमत्यल्पमपि यैर्नरैः ॥
दत्तं तदक्षयं नित्यं मुनेधिमणिकणिंकम् ॥६७॥
कुर्याद्यथोक्तमप्येकं प्राणायामं नरोत्तमः ॥
यस्तेन विहितो नूनं षडंगो योग उत्तमः ॥६८॥
जप्त्वैकामपि गायत्रीं संप्राप्य मणिकर्णिकाम् ॥
लभेदयुतगायत्रीजपनस्य फलं स्फुटम् ॥६९॥
एकामप्याहुतिं प्राज्ञो दत्त्वोपमणिकर्णिकम्॥
यावज्जीवाग्निहोत्रस्य लभेदविकलं फलम् ॥७०॥
इति श्रुत्वा हरेर्वाक्यमग्निबिंदुर्महातपाः ॥
प्रणिपत्य महाभक्त्या पुनः पप्रच्छ माधवम् ॥७१॥
॥ अग्निबिंदुरुवाच ॥
विष्णो कियत्परीमाणा पुण्यैषा मणिकर्णिका ॥
ब्रूहि मे पुंङरीकाक्ष नत्वत्तस्तत्त्ववित्परः ॥७२॥
॥ श्रीविष्णुरुवाच ॥
आगंगा केशवादा च हरिश्चंद्रस्य मंडपात् ॥
आमध्याद्देवसरितः स्वर्द्वारान्मणिकर्णिका ॥७३॥
स्थूलमेतत्परीमाणं सूक्ष्मं च प्रवदामि ते ॥
हरिश्चंद्रस्य तीर्थाग्रे हरिश्चंद्रविनायकः ॥७४॥
सीमाविनायकश्चात्र मणिकर्णी ह्रदोत्तरे ॥
सीमाविनायकं भक्त्या पूजयित्वा नरोत्तमः ॥७५॥
मोदकैः सोपचारैश्च प्राप्नुयान्मणिकर्णिकाम्॥
हरिश्चंद्रे महातीर्थे तर्पयेयुः पितामहान् ॥७६॥
शतं समाःसु तृप्ताः स्युः प्रयच्छंति च वांच्छितम्॥
हरिश्चंद्रे महातीर्थे स्नात्वा श्रद्धान्वितो नरः ॥७७॥
हरिश्चंद्रेश्वरं नत्वा न सत्यात्परिहीयते ॥
ततः पर्वततीर्थं च पर्वतेश्वर संनिधौ ॥७८॥
अधिष्ठानं महामेरोर्महापातकनाशनम् ॥
तत्र स्नात्वार्चयित्वेशं किंचिद्दत्त्वा स्वशक्तितः ॥७९॥
अध्यास्य मेरुशिखरं दिव्यान्भोगान्समश्नुते ॥
कंबलाश्वतरं तीर्थं पर्वतेश्वर दक्षिणे ॥८०॥
कंबलाश्वतरेशं च तत्तीर्थात्पश्चिमे शुभम् ॥
तस्मिंस्तीर्थे कृतस्नानस्तल्लिंगं यः समर्चयेत् ॥८१॥
अपि तस्य कुले जाता गीतज्ञाः स्युः श्रियान्विताः ॥
चक्रपुष्करिणी तत्र योनिचक्र निवारिणी॥। ८२॥
संसारचक्रे गहने यत्र स्नातो विशेन्नना ॥
चक्रपुष्करिणी तीर्थ ममाधिष्ठानमुत्तमम् ॥८३॥
समाः परार्धसंख्यातास्तत्र तप्तं महातपः ॥
तत्र प्रत्यक्षतां यातो मम विश्वेश्वरः परः ॥८४॥
तत्र लब्धं मयैश्वर्यमविनाशि महत्तरम् ॥
चक्रपुष्करिणी चैव ख्याताभून्मणिकर्णिका ॥८५॥
द्रवरूपं परित्यज्य ललनारूपधारिणी ॥
प्रत्यक्षरूपिणी तत्र मयैक्षि मणिकर्णिका ॥८६॥
तस्या रूपं प्रवक्ष्यामि भक्तानां शुभदं परम् ॥
यद्रूपध्यानतः पुंभिराषण्मासं त्रिसंध्यतः ॥८७॥
प्रत्यक्षरूपिणी देवी दृश्यते मणिकर्णिका ॥
चतुर्भुजा विशालाक्षी स्फुरद्भालविलोचना ॥८८॥
पश्चिमाभिमुखी नित्यं प्रबद्धकरसंपुटा ॥
इंदीवरवतीं मालां दधती दक्षिणे करे ॥८९॥
वरोद्यते करे सव्ये मातुलुंग फलं शुभम् ॥
कुमारीरूपिणी नित्यं नित्यं द्वादशवार्षिकी ॥९०॥
शुद्धस्फटिककांतिश्च सुनील स्निग्धमूर्द्धजा ॥
जितप्रवालमाणिक्य रमणीय रदच्छदा ॥९१॥
प्रत्यग्रकेतकीपुष्पलसद्धम्मिल्ल मस्तका ॥
सर्वांग मुक्ताभरणा चंद्रकांत्यंशुकावृता ॥९२॥
पुंडरीकमयीं मालां सश्रीकां बिभ्रती हृदि ॥
ध्यातव्यानेन रूपेण मुमुक्षुभिरहर्निशम् ॥९३॥
निर्वाणलक्ष्मीभवनं श्रीमतीमणिकर्णिका ॥
मंत्रं तस्याश्च वक्ष्यामि भक्तकल्पद्रुमाभिधम्॥
यस्यावर्तनतः सिद्ध्येदपि सिद्ध्यष्टकं नृणाम् ॥९४॥
वाग्भवमायालक्ष्मीमदनप्रणवान्वदेत्पूर्वम् ॥
भांत्यं बिंदूपेतं मणिपदमथ कर्णिके सहृत्प्रणवपुटः ॥९५॥
मंत्रःसुरद्रुमसमः समस्तसुखसंततिप्रदो जप्यः ॥
तिथिभिः परिमितवर्णः परमपदं दिशति निशितधियाम् ॥९६॥
तारस्तारतृतीयो बिंद्वंतोमणिपदं ततः कर्णिके ॥
प्रणवात्मिपदं केन म इति मनुसंख्यवर्णमनुः ॥९७॥
अयं मंत्रोऽनिशं जप्यः पुंभिर्मुक्तिमभीप्सुभिः ॥
होमो दशांशकः कार्यः श्रद्धाबद्धादरैर्नृभिः ॥९८॥
परिप्लुतैः पुंडरीकैर्गव्येन हविषास्फुटैः ॥
सशर्करेण मेधावी सक्षौद्रेण सदाशुचिः ॥९९॥
त्रिलक्षमंत्र जप्येन मृतो देशांतरेष्वपि ॥
अवश्यं मुक्तिमाप्नोति मंत्रस्यास्य प्रभावतः ॥१००॥
सौवर्णीं प्रतिमा कार्या नवरत्नसमन्विता॥
पूर्वोक्तरूपसंपन्ना संपूज्या सा प्रयत्नतः ॥१॥
संपूज्यावा सदा गेहे नरैर्मोक्षैककांक्षिभिः ॥
मणिकर्ण्यामथाक्षेप्या समभ्यर्च्य प्रयत्नतः ॥२॥
संसारभीरुभिः पुंभिः श्रद्धाबद्धादरैरिह ॥
उपायः समनुष्ठेयो ह्यपि दूरनिवासिभिः ॥३॥
मणिकर्ण्यां कृतस्नानो मणिकर्णीश वीक्षणात् ॥
जननी जठरावासे वसतिं न लभेन्नरः ॥४॥
मणिकर्णीश्वरं लिंगंं पुरासंस्थापितं मया ॥
प्राग्द्वारेंतर्गृहस्यात्र समर्च्यो मोक्षकांक्षिभिः ॥५॥
ततः पाशुपतं तीर्थमवाच्यां मणिकर्णितः ॥
कृतोदकक्रियस्तत्र पश्येत्पशुपतीश्वरम् ॥६॥
यत्र पाशुपतो योग उपदिष्टः पिनाकिना ॥
ममापि विधिमुख्यानां सुराणां पशुपाशहृत् ॥७॥
अतः पशुपतिर्यत्र लिंगरूपधरः स्वयम्॥
पशुपाशविमोक्षाय नित्यं काश्यां प्रकाशते॥ ८॥
तत्र चैत्र चतुर्दश्यां शुक्लायां शुचिमानसैः ॥
कार्या यात्रा प्रयत्नेन रात्रौ जागरणं तथा ॥९॥
पूजयित्वा पशुपतिमुपोषणपरायणाः ॥
पशुपाशैर्न बध्यंते दर्शे विहितपारणाः ॥११०॥
रुद्रावासस्ततस्तीर्थं तीर्थात्पाशुपतात्पुरः ॥
तत्र स्नात्वा नरैरर्च्यो रुद्रावासेश्वरो हरः ॥११॥
मणिकर्णीश्वराद्याम्यां रुद्रावासेश्वरं नरः ॥
समाराध्य वसेल्लोके रुद्रावासे न संशयः ॥१२॥
विश्वतीर्थं ततो याम्यां विश्वैस्तीर्थैरधिष्ठितम् ॥
तत्र स्नात्वा नरो भक्त्या विश्वनाथं विलोकयेत् ॥१३॥
विश्वां गौरीं च तदनु पूजयित्वाति भक्तितः ॥
विश्वस्य पूज्यो भवति ततो विश्वमयो भवेत् ॥१४॥
मुक्तितीर्थं च तदनु तत्रापि कृतमज्जनः ॥
मोक्षेश्वरं ततोभ्यर्च्य मोक्षमाप्नोत्यसंशयम् ॥१५॥
अविमुक्तेश्वरात्पश्चान्मोक्षेशं वीक्ष्य मानवः ॥
न पुनर्मानवेलोके यातायातं करोत्यहो ॥१६॥
अविमुक्तेश्वरं तीर्थं मुक्तितीर्थान्मनाक्परे ॥
तत्राप्लुत्याविमुक्तेशमर्चयित्वा विमुच्यते ॥१७॥
तत्परे तारकं तीर्थं यत्र विश्वेश्वरः स्वयम् ॥
आचष्टे तारकं ब्रह्ममृतकर्णेमृतात्मकम् ॥१८॥
सुस्नातस्तारके तीर्थे तारकेश्वर दर्शनात् ॥
संसारसागरं तीर्त्वा तारयेत्स्वपितॄनपि ॥१९॥
तत्राभ्याशे स्कंदतीर्थं तत्राप्लुत्य नरोत्तमः ॥
दृष्ट्वा षडाननं चैव जह्यात्षाट्कौशिकीं तनुम् ॥१२०॥
तारकेश्वर पूर्वेण दृष्ट्वा देवं षडाननम् ॥
वसेत्षडानने लोके कौमारं वपुरुद्वहन् ॥२१॥
ढुंढितीर्थं ततः पुण्यं नरस्तत्र कृतोदकः ॥
ढुंढिं गणपतिं स्तुत्वा न विघ्नैरभिभूयते ॥२२॥
भवानीतीर्थमतुलं ढुंढितीर्थस्य दक्षिणे ॥
तत्र स्नात्वा विधानेन भवानीं परिपूज्य च ॥२३॥
दुकूले रत्ननेपथ्यैर्नैवेद्यैर्बहुविस्तरैः ॥
पुष्पैर्धूपैः प्रदीपैश्च भवानी शो प्रपूज्य च ॥५४॥
समस्तमर्चितं तेन त्रैलोक्यं सचराचरम् ॥
भवानीशंकरौ काश्यामर्चितौ श्रद्धया तु यैः ॥२५॥
चैत्राष्टम्यां महायात्रां भवान्याः कारयेत्सुधीः ॥
अष्टाधिकाः प्रकर्तव्याः शतकृत्वः प्रदक्षिणाः ॥२६॥
प्रदक्ष्रिणीकृतातेन सप्तद्वीपवती मही ॥
सशैला ससमुद्रा च साश्रमा च सकानना ॥२७॥
अष्टौ प्रदक्षिणा देयाः प्रत्यहं तुष्टितत्परैः ॥
नमनीयौ प्रयत्नेन भवानीशंकरौ सदा ॥२८॥
भक्तानां कामदा नित्यं भवानी वाससां प्रदा ॥
अतो भवानी संपूज्या काश्यां तीर्थनिवासिभिः ॥२९॥
योगक्षेमं सदा कुर्याद्भवानी काशिवासिनाम् ॥
तस्माद्भवानी संसेव्या सततं काशिवासिभिः ॥१३०॥
भिक्षणीया सदा भिक्षा भिक्षुणा मोक्षकांक्षिणा ॥
यतो भिक्षाप्रदा काश्यां विश्वेशस्य कुटुंबिनी ॥३१॥
गृहमध्येत्र विश्वेशो भवानी तत्कुटुंबिनी ॥
सर्वेभ्यः काशिसंस्थेभ्यो मोक्षभिक्षां प्रयच्छति ॥३२॥
दुष्प्रापमपि यत्किंचित्काशीक्षेत्रनिवासिनाम् ॥
तत्सुप्राप्यं करोत्येव भवानी पूजिता नृभिः ॥३३॥
कुर्याज्जागरणं रात्रौ महाष्टम्यां व्रती नरः ॥
प्रातर्भवानीमभ्यर्च्य प्राप्नुयाद्वांछितं फलम् ॥३४॥
शुक्रेशात्पश्चिमाशायां भवानीं योऽभिवीक्षते ॥
सर्वे मनोरथास्तस्य सिद्ध्यंतीह न सं शयः ॥३५॥
काश्यां सदैव वस्तव्यं स्नातव्योत्तरवाहिनी ॥
भवानीशंकरौ सेव्यौ प्राप्तव्ये भुक्तिमुक्तिके ॥३६॥
मातर्भवानि तव पादरजोभवानि मातर्भवानि तवदासतरो भवानि ॥
मातर्भवानि नभवानि यथाभवेस्मिंस्त्वद्भाग्भवान्यनुदिनं न पुनर्भवानि ॥३७॥
तिष्ठता गच्छता वापि स्वपता जाग्रतापि वा ॥
अयमत्र सदा जप्यः सुखाप्त्यै काशिवासिना ॥३८॥
ईशानतीर्थं तत्रैव भवानीतीर्थसन्निधौ ॥
तत्र स्नातो य ईशानमर्चयेन्न स जन्मभाक् ॥३९॥
ज्ञानतीर्थं च तत्रैव ज्ञानदं सवर्दा नृणाम् ॥
कृताभिषेकस्तत्तीर्थे दृष्ट्वा ज्ञानेश्वरं शिवम् ॥१४०॥
ज्ञानवापीसमीपस्थो ज्ञानेशो यैः समर्चितः ॥
ज्ञानभ्रंशो न तेषां स्यादपि पंचत्वमृच्छताम्॥ ४१॥
शैलादितीर्थं तत्रैव परमर्द्धि प्रकाशकम् ॥
तत्र श्राद्धादिकं कृत्वा दत्त्वा दानं स्वशक्तितः ॥४२॥
शैलादीश्वरमालोक्य ज्ञानवाप्या उदग्दिशि ॥
लभेद्गणत्वपदवीं नात्र कार्या विचारणा ॥४३॥
नंदितीर्थादवाच्यां तु विष्णुतीर्थं परं मम ॥
तत्र पिंडान्विनिर्वाप्य पितॄणामनृणो भवेत् ॥४४॥
विष्णुतीर्थे कृतस्नानो यो मां विष्णुं विलोकयेत् ॥
विश्वेशाद्दक्षिणेपार्श्वे विष्णुलोकं स गच्छति ॥४५॥
यः प्रत्येकादशीं प्राप्य शयनीं बोधिनीं तथा ॥
कुर्याज्जागरणं रात्रौ मम मूर्तिसमीपतः ॥४६॥
प्रातः समर्च्य मां भक्त्या भोजयित्वा द्विजानपि ॥
दत्त्वा गाः कांचनं भूमिं न भूयो भूमिभाग्भवेत् ॥४७॥
कृत्वा तत्र व्रतोत्सर्गं वित्तशाठ्यविवर्जितः ॥
सम्यग्व्रतफलं धीमान्प्राप्नोत्येव ममाज्ञया ॥४८॥
मम तीर्थादवाच्यां तु ती र्थं पैतामहं शुभम् ॥
तत्र श्राद्धविधानेन तर्पयित्वा पितामहान् ॥४९॥
पितामहेश्वरं लिंगं ब्रह्मनालोपरिस्थितम्॥
पूजयित्वा नरो भक्त्या ब्रह्मलोकमवाप्नुयात् ॥१५०॥
ब्रह्मस्रोतः समीपे तु कृतं कर्म शुभाशुभम् ॥
परामक्षयतामेति शुभमेव ततश्चरेत् ॥५१॥
अत्यल्पमपि यत्कर्म कृतमत्र शुभाशुभम् ॥
प्रलयेपि न तस्यास्ति प्रलयो मुनिसत्तम ॥५२॥
नाभितीर्थमिदं प्रोक्तं नाभिभूतं यतः क्षितेः ॥
अपि ब्रह्मांडगोलस्य नाभिरेषा शुभोदया ॥५३॥
सा माणिकर्णिकेयीयं नाभिर्गांभीर्यभूमिका ॥
ब्रह्मांडगोलकं सर्वं यस्यामेति लयोदयम् ॥५४॥
ब्रह्मनालं परं तीर्थं त्रिषु लोकेषु विश्रुतम् ॥
तत्संगमे नरः स्नात्वा कोटिजन्म मलं हरेत् ॥५५॥
ब्रह्मनाले पतेद्येषामपि कीकसमात्रकम् ॥
ब्रह्मांडमंडपांतस्ते न विशंति कदाचन ॥५६॥
ततो भागीरथेस्तीर्थं ब्रह्मनालाच्च दक्षिणे ॥
तत्र स्नात्वा नरः सम्यङ्मुच्यते ब्रह्महत्यया ॥५७॥
भागीरथीश्वरं लिंगं स्वर्गद्वारस्य सन्निधौ ॥
दर्शनाद्ब्रह्महत्यायाः पुरश्चरणमुच्यते ॥५८॥
अशुभां गतिमापन्ना यस्य पूर्वे पितामहाः ॥
तेन भागीरथी तीर्थे तर्पणीयाः प्रयत्नतः ॥५९॥
तत्र भागीरथे तीर्थे श्राद्धं कृत्वा विधानतः ॥
ब्राह्मणान्भोजयित्वा तु ब्रह्मलोके नयेत्पितॄन् ॥१६०॥
तद्दक्षिणे महातीर्थं खुरकर्तरि संज्ञितम् ॥
गोलोकादागताभिश्च गोभिर्यत्खुरकोटिभिः ॥६१॥
स्थपुटीकृतभूभागं ततस्तत्खुर कर्तरि ॥
तस्मिंस्तीर्थे कृतस्नानः कृतपिंडोदकक्रियः ॥६२॥
खुरकर्तरीशं लिंगं दृष्ट्वा गोलोकमाप्नुयात् ॥
गोधनैर्न विमुच्येत तल्लिंगस्य समर्चनात् ॥६३॥
दक्षिणे खुरकर्तर्या मार्कंडं तीर्थमुत्तमम्॥
कृतश्राद्धविधानश्च तस्मिंस्तीर्थेऽघहारिणि ॥६४॥
मार्कंडेयेश्वरं लिंगं दृष्ट्वायुर्दीर्घमाप्नुयात् ॥
ब्रह्मतेजोभिवृद्धिं च कीर्तिं च परमां भुवि ॥६५॥
वसिष्ठतीर्थं परमं महापातकनाशनम् ॥
तर्पयित्वा पितॄंस्तत्र वसिष्ठेशं विलोक्य च ॥६६॥
नरो न लिप्यते पापैर्जन्मत्रयसमर्जितैः ॥
वसिष्ठलोके वसति ब्रह्मतेज समन्वितः ॥६७॥
तत्रैवारुधंती तीर्थं स्त्रीणां सौभाग्यवधर्नम् ॥
पतिव्रताभिस्तत्तीर्थं गाहनीयं विशेषतः ॥६८॥
पौंश्चल्यजनितो दोषस्तत्तीर्थपरिमज्जनात्॥
क्षणाद्विनाश मागच्छेदरुंधत्याः प्रभावतः ॥६९॥
मार्कंडेयेश्वरात्प्राच्यां वसिष्ठेश्वर पूजनात् ॥
निष्पापो जायते मर्त्यो महत्पुण्यमवाप्नुयात् ॥१७०॥
मूर्ती वसिष्ठारुंधत्योस्तत्र पूज्ये प्रयत्नतः॥
न स्त्री वैधव्यमाप्नोति न पुमान्स्त्री वियोगिताम् ॥७१॥
वसिष्ठतीर्थतो याम्यां नर्मदातीर्थमुत्तमम् ॥
विधाय श्राद्धं मेधावी नर्मदेशंविलोक्य च ॥७२॥
तत्र दत्त्वा महादानं पद्मयानविमुच्यते ॥
ततस्त्रिसंध्यं वै तीर्थं त्रिसंध्येश्वर पूर्वतः ॥७३॥
तत्र तीर्थे नरः स्नात्वा कृत्वा संध्यां विधानतः ॥
संध्याकाल विलोपोत्थपातकैर्नाभिभूयते ॥७४॥
त्रिसंध्येश्वरमालोक्य कृतसंध्यस्त्त्रिकालतः ॥
त्रिवेदावर्तजं पुण्यं प्राप्नुयाच्छ्रद्धया द्विजः ॥७५॥
ततोऽनुयोगिनीतीर्थं नरस्तत्र कृताप्लवः ॥
दृष्ट्वा तु योगिनीपीठं योगसिद्धिमवाप्नुयात् ॥७६॥
अगस्ति तीर्थे तत्रास्ति महाघौघ विघातकृत् ॥
तत्र स्नात्वा प्रयत्नेन दृष्ट्वागस्तीचश्वरं विभुम् ॥७७॥
अगस्तिकुंडे च ततः संतर्प्य च पितामहान् ॥
अगस्तिना समेतां च लोपामुद्रां प्रणम्य च ॥७८॥।
सर्वपापविनिर्मुक्तः सर्वक्लेशविवर्जितः ॥
गच्छेत्स पूर्वजैः सार्धं शिवलोकं नरोत्तमः ॥७९॥
दक्षिणेऽगस्त्यतीर्थाच्च तीर्थमस्त्यतिपावनम्॥
गंगाकेशवसंज्ञं च सर्वपातकनाशनम् ॥१८०॥
तत्र मे शुभदां मूर्तिं मुने तत्तीर्थसंज्ञिकाम् ॥
संपूज्य श्रद्धया धीमान्मम लोके महीयते ॥८१॥
तत्र पिंडान्विनिर्वाप्य दत्त्वा दानं स्वशक्तितः ॥
शतसांवत्सरीं तृप्तिं पितॄणां स समर्पयेत् ॥८२॥
मणिकर्णी परीमाणमेतत्ते कीर्तितं महत् ॥
सीमाविनायकाद्याम्यां सर्वविघ्नविघातनात् ॥८३॥
वैरोचनेश्वरात्प्राच्यामहं वैकुंठमाधवः ॥
तत्र मां भक्तितोभ्यर्च्य वैकुंठार्चामवाप्नुयात् ॥८४॥
वीरमाधवसंज्ञोहं वीरेशात्पश्चिमे मुने ॥
तत्र व्रती समभ्यर्च्य न यामीं यातनां लभेत् ॥८५॥
कालमाधवनामाहं कालभैरव सन्निधौ ॥
कलिः कालो न कलयेन्मद्भक्तमिति निश्चितम् ॥८६॥
मार्गशीर्षस्य शुक्लायामेकादश्यामुपोषितः ॥
तत्र जागरणं कृत्वा यमं नालोकयेत्क्वचित् ॥८७॥
निर्वाणनरसिंहोहं पुलस्तीश्वरदक्षिणे ॥
भक्तो निर्वाणमाप्नोति तन्मृर्तिनमनादपि ॥८८॥
महाबलनृसिंहोहमोंकारात्पूर्वतो मुने ॥
दूतान्महाबलान्याम्यान्न पश्येत्तु तदर्चकः ॥६९॥
प्रचंडनरसिंहोहं चंडभैरवपूर्वतः ।
प्रचंडमप्यघं कृत्वा निष्पाप्मा स्यात्तदर्चनात् ॥१९०॥
अहं गिरिनृसिंहोस्मि तद्देहलिविनायकात् ॥
प्राच्यां प्रबलपापौ घगजानां प्रविदारणः ॥९१॥
महाभयहरश्चाहं नरसिंहो महामुने ॥
पितामहेश्वरात्पश्चाद्भक्त साध्वससाध्वसः ॥९२॥
अत्युग्रनरसिंहोहं कलशेश्वरपश्चिमे ॥
अत्युग्रमपि पापौघं हरामि श्रद्धयार्चितः ॥९३॥
ज्वालामालीनृसिंहोऽहं ज्वालामुख्याः समीपतः ॥
संज्वालयामि पापौघ तृणानि परिपूजितः ॥९४॥
कोलाहलनृसिंहोस्मि दैत्यदानवमर्दनः ॥
ममनामसमुच्चारादघकोलाहलो यतः ॥९५॥
कंकालभैरवो यत्र काशीरक्षणदक्षधीः ॥
तत्र मां भक्तितोभ्यर्च्य नोपसर्गैर्निरुध्यते ॥९६॥
विटंकनरसिंहोस्मि नीलकंठेश्वरादनु ॥
तत्र मां श्रद्धया पूज्य नरो भवति निर्भयः ॥९७॥
अनंतवामनश्चाहमनंतेश्वरसन्निधौ ॥
अनंतान्यपि भक्तस्य कलुषाणि हरेऽर्चितः ॥९८॥
दधिवामनसंज्ञोहं भक्तानां दधिभक्तदः ॥
यन्नामस्मरणादेव न दरिद्रो नरो भवेत् ॥९९॥
त्रिविक्रमोस्म्यहं काश्यामुदीच्यां च त्रिलोचनात् ॥
ददामि पूजितो लक्ष्मीं हरामि वृजिनान्यपि ॥२००॥
बलिवामननामाहं बलिना परिपूजितः ॥
बलिभद्रेश्वरात्प्राच्यां भक्तानां बलवर्धनः ॥११॥
दक्षिणे भवतीर्थाच्च ताम्रद्वीपादिहागतः ॥
नाम्ना ताम्रवराहोस्मि भक्तानां चिंतितार्थदः ॥२॥
मुने धरणिवाराहः प्रयागेश्वरसन्निधौ ॥
स्नात्वा वाराहतीर्थेत्र दृष्ट्वा मां किटि रूपिणम् ॥३॥
संपूज्य बहुभावेन न विशेद्योनिसंकटम् ॥
तत्राल्पमपि दत्त्वान्नं धरादानफलं लभेत्॥ ४॥
महाकलुषगंभीर सागरे निपतञ्जनः ॥
मम भक्त्युडुपं प्राप्य प्रलयेपि न मज्जति ॥५॥
अहं कोकावराहोस्मि किटीश्वरसमीपतः ॥
तत्र मां पूजयन्मर्त्यो लभते चिंतितफलम् ॥६॥
नारायणाः शतं पंच शतं च जलशायिनः ॥
त्रिंशत्कमठरूपाणि मत्स्यरूपाणि विंशतिः ॥७॥
गोपालाश्च शतं साष्टं बुद्धाः संति सहस्रशः ॥
त्रिंशतरामाश्च रामा एकोत्तरंशतम् ॥८॥
विष्णुरूपोस्म्यहं चैको मुक्तिमंडपमध्यतः ॥
मुनेकृतप्रसादेन विश्वेशेन श्रितः स्वयम् ॥९॥
नारायणस्वरूपेण गणाश्चक्रगदोद्यताः ॥
कुर्वंति रक्षां क्षेत्रस्य परितो नियुतानि षट् ॥२१०॥
सोग्निबिंदुरिति श्रुत्वा संप्रहृष्टतनूरुहः ॥
पुनः पप्रच्छ मेधावी मूर्तिभेदान्वद प्रभो ॥११॥
हिताय निजभक्तानां मम संदेहशांतये ॥
कति ते मूर्तयोनंत कथं ज्ञेयास्तथा वद ॥१२॥
इत्याकर्ण्य वचस्तस्याग्निबिंदोस्तपसां निधेः ॥
उवाच भगवान्विष्णुर्मूर्तिभेदाननुक्रमात ॥१३॥
याञ्श्रुत्वापि हि नो मर्त्यो यमगोचरतां व्रजेत् ॥
केशवादींश्चतुर्विंशद्भेदानाह प्रजापतिः ॥१४॥
॥ श्रीविष्णुरुवाच ॥
अग्निबिंदो महाप्राज्ञ शृणु ते कथयाम्यहम् ॥
आद्यदक्षिणहस्ताच्च विद्धि सृष्टिक्रमान्मुने ॥१५॥
शंखचक्रगदापद्मैर्मूर्तिं जानीहि कैशवीम् ॥
पूजिता या नृणां कुर्याच्चिंतितार्थमसंशयम्॥ १६॥
मधुहा परिचेतव्यः शंखपद्मगदासिभिः ॥
वैरिणो नाशमायांति तन्मूर्तिपरिसेवनात् ॥१७॥
संकर्षणः समर्च्योत्र शंखाब्जारिगदायुधः ॥
तन्मूर्तिपूजनाज्जातु जंतुर्न स्यात्पुनर्भवी ॥१८॥
शंखकौमोदकीचक्रपद्मैर्दामोदरोर्च्यते ॥
ददाति वित्तं पुत्रांश्च गोधनं धान्यमेव हि ॥१९॥
वामनः शंखचक्राब्जगदाभिरुपलक्षितः ॥
लक्ष्मीवंतं जनं कुर्याद्गृहेपि परिधारितः ॥२२०॥
पांचजन्यं गदांपद्मं चित्रमूर्ति सुदर्शनम् ॥
प्रद्युम्नः पूज्यते मर्त्यैर्बहुद्युम्नं प्रयच्छति ॥२१॥
ऊर्ध्ववामकरात्सृष्ट्या विष्ण्वाद्यं षट्कमुच्यते ॥
यस्य स्मरणमात्रेण विलीयंतेघराशयः ॥२२॥
शंखारिभ्यां गदाब्जाभ्यां पूज्यो विष्णुः श्रिये नरैः ॥
शंखपद्मगदाचक्रैर्माधवः परमर्द्धिदः ॥२३॥
ध्येयोऽनिरुद्धः संसिद्ध्यै शंखाब्जारिगदोद्यतः ॥
शंखेन गदया चक्रांबुजाभ्यां पुरुषोत्तमः ॥२४॥
अधोक्षजो जनिहरः शंखार्यब्जगदो मुने ॥
शंखकौमोदकीपद्मचक्रैर्ध्येयो जनार्दनः ॥२५॥
अधोवामकरात्सृष्ट्या षडगोंविदादि मूर्तयः ॥
शंखं चक्रं गदां पद्मं गोविंदो बिभृयात्सदा ॥२६॥
शंखपद्मगदाचक्रैरर्च्यो लक्ष्म्यै त्रिविक्रमः ॥
शंखाब्जचक्रं बिभ्राणो गदावाञ्श्रीधरः श्रिये ॥२७॥
हृषीकेशश्च शंखेन गदाचक्रांबुजैर्मतः ॥
नृसिंहः शंखचक्राभ्यां पद्मेन गदयोह्यते ॥२८॥
अच्युत शंखभृन्नित्यं गदापद्मरथांगवान् ॥
दक्षिणाधः करादूह्या वासुदेवादयश्च षट् ॥२९॥
वासुदेवश्च शंखारि गदाजलजभृत्सदा॥
शंखांबुज गदाचक्री ध्येयो नारायणो नृभिः ॥२३०॥
गदाधर नारायण
शंखी पद्मी पद्मनाभो ज्ञेयश्चक्री गदी मुने ॥
उपेंद्रः शंखवान्नित्यं गदारि कमलायुधः ॥३१॥
हरिर्हरेदघं शंखी चक्री पद्मी गदी नृणाम् ॥
शंखेन गदया पद्मचक्राभ्यां कृष्ण उच्यते ॥३२॥
एते भेदा मया ख्याताः स्वमूर्तीनां महामुने ॥
यान्विज्ञाय ध्रुवं मर्त्यो भुक्तिं मुक्तिं च विंदति ॥३३॥
एवं वदति गोविंदे मुनये चाग्निबिंदवे ॥
पक्षींद्रः पक्षविक्षिप्तविपक्षोऽक्षिपथं गतः ॥३४॥
प्राह च प्रणिपत्याशु त्र्यक्षस्यागमनं मुदा ॥
संभ्रमेण हृषीकेशः क्वेश इत्यवदत्ततः ॥३५॥
॥ गरुड उवाच ॥
प्रत्यक्षः क्रियतामेष महावृषभकेतनः ॥
यस्य ध्वजस्य रत्नार्चिः पूरयेद्रोदसीमिमाम् ॥३६॥
लोकलोचननिर्माण सफलीकरणक्षमम् ॥
कोटिमार्तंडविद्योत प्रद्योतित दिगाननम् ॥३७॥
निरीक्ष्य पुंडरीकाक्षस्त्र्यक्षस्य वृषभध्वजम् ॥
विमानिनां विमानौघैः परीतगगनांगणम् ॥३८॥
महावाद्यनि नादौघैःप्रतिस्वानित कंदरम् ॥
विद्याधरी परिक्षिप्त पुष्पांजलि सुगंधितम् ॥३९॥
प्रणम्य दूरादपिच संप्रहृष्टतनूरुहः ॥
अभ्युत्थातुं मनश्चक्रे शंखचक्रगदाधरः ॥२४०॥
अग्निबिंदुमथ प्राह मुक्तिदस्तु मुदांनिधिः ॥
इदं सुदर्शनं चक्रं स्पृशासव्येनपाणिना ॥४१॥
अग्निबिंदुरितिप्रोक्तः स्पृशेद्यावत्सुदर्शनम्॥
तावत्सुदर्शनो जातः परमानुग्रहाद्धरेः ॥४२॥
॥ स्कंद उवाच ॥
ज्योतीरूपोथ स मुनिः कौस्तुभे ज्योतिषां तनौ ॥
एकीभूतः कलशज बिंदुमाधवसेवनात्॥ ४३॥
बिंदुमाधवपादाब्ज भ्रमरीकृतमानसाः ॥
अग्निबिंदूपमांयांति कलशोद्भव निश्चितम् ॥४४॥
काश्यां सदैव वस्तव्यं द्रष्टव्यो बिंदुमाधवः ॥
श्रोतव्यमिदमाख्यानं जेतव्या जगतां गतिः ॥४५॥
पुण्या पंचनदोत्पत्तिः पुण्या माधवसंकथा ॥
पुण्यो वाराणसी वासः संभवेत्पुण्यजन्मनाम्॥ ४६॥
अग्निबिंदोः स्तुतिं योत्र माधवाग्रे पठिष्यति ॥
समृद्धसर्वकामः स मोक्षलक्ष्मीपतिर्भवेत् ॥४७॥
श्राद्धकाले सदा जप्यमिदमाख्यानमुत्तमम् ॥
द्विजानां भुंजमानानां पुरस्तात्परतृप्तये ॥४८॥
जप्तव्यमिदमाख्यानं पर्वकाले विशेषतः ॥
पुण्ये पंचनदाभ्याशे पुण्यलक्ष्मीविवृद्धये ॥४९॥
पठितव्यः प्रयत्नेन बिंदुमाधवसंभवः ॥
श्रोतव्यः परया भक्त्या भुक्तिमुक्तिसमृद्धये ॥२५०॥
संप्राप्ते वासरे विष्णो रात्रौ जागरणान्वितः ॥
श्रुत्वाख्यानमिदं पुण्यं वैकुंठे वसतिं लभेत् ॥२५१॥
इति श्रीस्कांदे महापुरण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्द्धे बिंदुमाधवाविर्भावो माधवाग्निबिंदुसंवाद वैष्णवतीर्थमाहात्म्यवर्णनं नामैकषष्टितमोध्यायः ॥६१॥॥
N/A
References : N/A
Last Updated : November 27, 2024
TOP