काशीखण्डः - अध्याय २३
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
शिवशर्मोवाच ॥
सत्यलोकेश्वर विधे सर्वेषां प्रपितामह ॥
किंचिद्विज्ञप्तुकामोस्मि न भयाद्वक्तुमुत्सहे ॥१॥
॥ ब्रह्मोवाच ॥
यत्त्वं प्रष्टुमना विप्र ज्ञातं ते तन्मनोगतम् ॥
पिपृच्छिषुस्त्वं निर्वाणं गणौ तत्कथयिष्यतः ॥२॥
नेतयोर्विष्णुगणयोरगोचरमिहास्ति हि ॥
सर्वमेतौ विजानीतो यत्किंचिद्ब्रह्मगो लके ॥३॥
इत्युक्त्वा सत्कृतास्ते वै ब्रह्मणा भगवद्गणाः ॥
प्रणम्य लोककर्तारं तेऽपि हृष्टाः प्रतस्थिरे ॥४॥
पुनः स्वयानमारुह्य वैकुंठमभितो ययुः ॥
गच्छतापि पुनस्तत्र द्विजेनापृच्छितौ गणौ ॥५॥
॥ शिवशर्मोवाच ॥
कियद्दूरे वयं प्राप्ता गंतव्यं च कियत्पुनः ॥
पृच्छाम्यन्यच्च वां भद्रौ ब्रूतं प्रीत्या तदप्यहो ॥६॥
कांच्यवंती द्वारवती काश्ययोध्या च पंचमी ॥
मायापुरी च मथुरा पुर्यः सप्त विमुक्तिदाः ॥७॥
विहाय षट्पुरीश्चान्याः काश्यामेवप्रतिष्ठिता ॥
मुक्तिर्विश्वसृजा तत्किं मम मुक्तिर्न संप्रति ॥८॥
इति सर्वं मम पुरः प्रसादाद्वक्तुमर्हतम् ॥
इति तद्वाक्यमाकर्ण्य गणावूचतुरादरात् ॥९॥
॥ गणावूचतुः ॥
यथार्थं कथयावस्ते यत्पृष्टं भवतानघ ॥
विष्णुप्रसादाज्जानीवो भूतंभाविभवत्तथा ॥१०॥
विप्रावभासते यावत्किरणैः पुष्पवंतयोः ॥
तावतीभूः समुद्दिष्टा ससमुद्राद्रि कानना ॥११॥
वियच्च तावदुपरि विस्तारपरिमंडलम् ॥
योजनानां च नियुते भूमेर्भानुर्व्यवस्थितः ॥१२॥
भानोः सकाशादुपरि लक्षे लक्ष्यः क्षपाकरः ॥
नक्षत्रधं(मं?)डलं सोमाल्लक्षयोजनमुच्छ्रितम् ॥१३॥
उडुमंडलतः सौम्य उपरिष्टाद्द्विलक्षतः ॥
द्विलक्षे तु बुधाच्छुक्रः शुक्राद्भौमो द्विलक्षके ॥१४॥
माहेयादुपरिष्टाच्च सुरेज्यो नियुतद्वये ॥
द्विलक्षयोजनोत्सेधः सौरिर्देवपुरोहितात् ॥१५॥
दशायुतसमुच्छ्रायं सौरेः सप्तर्षिमंडलम् ॥
सप्तर्षिभ्यः सहस्राणां शतादूर्ध्वं ध्रुवस्थितः ॥१६॥
पादगम्यं हि यत्किंचिद्वस्त्वस्ति धरणीतले ॥
तद्भूर्लोक इति ख्यातः साब्धिद्वीपाद्रिकाननम् ॥१७॥
भूर्लोकाच्च भुवर्लोको ब्रध्नावधिरुदाहृतः ॥
आदित्यादाध्रुवं विप्र स्वर्लोक इति गीयते ॥।१८॥
महर्लोकः क्षितेरूर्ध्वमेककोटिप्रमाणतः ॥
कोटिद्वये तु संख्यातो जनो भूर्लोकतो जनैः ॥१९॥
चतुष्कोटिप्रमाणस्तु तपोलोकोऽस्ति भूतलात् ॥
उपरिष्टात्क्षितेरष्टौ कोटयः सत्यमीरितम् ॥२०॥
सत्यादुपरि वैकुंठो योजनानां प्रमाणतः ॥
भूर्लोकात्परिसंख्यातः कोटिषोडशसंमितः ॥२१॥
यत्रास्ते श्रीपतिः साक्षात्सर्वेषामभयप्रदः ॥
ततस्तु षोडशगुणः कैलासोऽस्ति शिवालयः ॥२२॥
पार्वत्या सहितः शंभुर्गजास्य स्कंद नंदिभिः ॥
यत्र तिष्ठति विश्वेशः सकलः स परः स्मूतः ॥२३॥
तस्य देवस्य खेलोऽयं स्वलीला मूर्तिधारिणः ॥
स विश्वेश इति ख्यात स्तस्याज्ञाकृदिदं जगत् ॥२४॥
सर्वेषां शासकश्चासौ तस्य शास्ता न चापरः ॥
स्वयं सृजति भूतानि स्वयं पाति तथात्ति च ॥२५॥
सर्वज्ञ एकः स प्रोक्तः स्वेच्छाधीन विचेष्टितः ॥
तस्य प्रवतर्कः कोपि नहि नैव निवर्तकः ॥२६॥
अमूर्तं यत्परं ब्रह्म समूर्तं श्रुतिचोदितम् ॥
सर्वव्यापि सदा नित्यं सत्यं द्वैतविवर्जितम् ॥२७॥
सर्वेभ्यः कारणेभ्यश्च परात्परतरं परम् ॥
आनंदं ब्रह्मणो रूपं श्रुतयो यत्प्रचक्षते ॥२८॥
संविदं तेन यं वेदा विष्णुर्वेद न वै विधिः ॥
यतो वाचो निवर्तंते ह्यप्राप्य मनसा सह ॥२९॥
स्वयंवेद्यः परं ज्योतिः सर्वस्य हृदि संस्थितः ॥
योगिगम्यस्त्वनाख्येयो यः प्रमाणैकगोचरः ॥३०॥
नानारूपोप्यरूपो यः सर्वगोपि न गोचरः ॥
अनंतोप्यंतक वपुः सर्ववित्कर्मवर्जितः ॥३१॥
तस्येदमैश्वरं रूपं खंडचंद्रावतंसकम् ॥
तमालश्यामलगलं स्फुरद्भालविलोचनम् ॥३२॥
लसद्वामार्धनारीकं कृतशेषशुभांगदम् ॥
गंगातरंगसत्संग सदाधौतजटातटम् ॥३३॥
स्मरांगरजःपुंज पूजितावयवोज्ज्वलम् ॥
विचित्रगात्रविधृतमहाव्यालविभूषणम् ॥३४॥
महोक्षस्यंदनगमं विरुताजगवायुधम्॥
गजाजिनोत्तरासंगं दशार्धवदनं शुभम् ॥३५॥
उत्त्रासित महामृत्यु महाबलगणावृतम् ॥
शरणार्थिकृतत्राणं नत निर्वाणकारणम् ॥
मनोरथपथातीतं वरदानपरायणम् ॥३६॥
तस्य तत्त्वस्वरूपस्य रूपातीतस्य भो द्विज ॥
परावरे रुद्ररूपे सर्वेव्याप्यावतिष्ठत ॥३७॥
निराकारोपि साकारः शिव एव हि कारणम ॥
मुक्तये भुक्तये वापि न शिवान्मोक्षदो परः ॥३८॥
यथा तेनाखिलं ह्येतत्पार्वतीपतिसात्कृतम ॥
इदं चराचरं सर्वं दृश्यादृश्यमरूपिणा ॥३९॥
तथा मृडानीकांतेन विष्णुसादखिलंजगत ॥
विधाय क्रीड्यते विप्र नित्यं स्वच्छंद लीलया ॥४०॥
यथाशिवस्तथा विष्णुर्यथाविष्णुस्तथा शिवः ॥
अंतरं शिवविष्ण्वोश्च मनागपि न विद्यते ॥४१॥
आहूय पूर्वं ब्रह्मादीन्समस्तान्देवतागणान् ॥
विद्याधरोरगादींश्च सिद्धगंधर्वचारणान् ॥४२॥
निजसिंहासनसमं कृत्वा सिंहासनं शुभम् ॥
उपवेश्य हरिं तत्र च्छत्रं कृत्वा मनोहरम् ॥४३॥
श्लक्ष्णं कोटिशलाकं च विश्वकर्मविनिर्मितम् ॥
पांडुरं रत्नदंडं च स्थूलमुक्तावलंबितम् ॥४४॥
कलशेन विचित्रेण ह्युपरिष्टाद्विराजितम् ॥
सहस्रयोजनायामं सर्वरत्नमयं शुभम् ॥४५॥
पट्टसूत्रमयैरम्यैश्चामरैश्च परिष्कृतम् ॥
राजाभिषेकयोग्यैश्च द्रव्यैः सर्वौषधादिभिः ॥४६॥
प्रत्यक्षतीर्थपाथोभिः पंचकुंभैर्मनोहरैः ॥
सिद्धार्थाक्षतदूर्वाभिर्मंत्रैः स्वयमुपस्थितैः ॥४७॥
देवानां च तथर्षीणां सिद्धानां फणिनामपि ॥
आनीय मंगलकराः कन्याः षोडशषोडश ॥४८॥
वीणामृदंगाब्जभेरी मरु डिंडिमझर्झरैः ॥
आनकैः कांस्यतालाद्यै र्वाद्यैर्ललितगायनैः ॥४९॥
ब्रह्मघोषमहारावैरापूरितनभोंगणे ॥
शुभे तिथौ शुभे लग्ने ताराचंद्रबलान्विते ॥५०॥
आबद्धमुकुटं रम्यं कृतकौतुकमंगलम् ॥
मृडानीकृतशृंगारं सुश्रिया सुश्रियायुतम् ॥५१॥
अभिषिच्य महेशेन स्वयं ब्रह्मांडमंडपे ॥
दत्तं समस्तमैश्वर्यं यन्निजं नान्यगामि च ॥५२॥
ततस्तुष्टाव देवेशः प्रमथैः सह शार्ङ्गिणम् ॥
ब्रह्माणं लोककर्तारमुवाच च वचस्त्विदम् ॥५३॥
मम वंद्यस्त्वयं विष्णुः प्रणमत्वममुं हरिम् ॥
इत्युक्त्वाथ स्वयं रुद्रो ननाम गरुडध्वजम् ॥५४॥
ततो गणेश्वरैः सर्वैंर्ब्रह्मणा च मरुद्गणैः ॥
योगिभिः सनकाद्यैश्च सिद्धैर्देवर्षिभिस्तथा ॥५५॥
विद्याधरैः सगंधर्वैर्यक्षरक्षोप्सरोगणैः ॥
गुह्यकैश्चारणैर्भूतैः शेष वासुकि तक्षकैः ॥५६॥
पतत्रिभिः किंनरैश्च सर्वैः स्थावरजंगमैः ॥
ततो जयजयेत्युक्त्वा नमोस्त्विति नमोस्त्विति ॥५७॥
ततोहरिर्महेशेन संसदि द्युसदां तदा ॥
एतैर्महारवै रम्यैश्चानर्चि परमार्चिषा ॥५८॥
त्वं कर्ता सर्वभूतानां पाता हर्ता त्वमेव च ॥
त्वमेव जगतां पूज्यस्त्वमेव जगदीश्वरः ॥५९॥
दाता धर्मार्थकामानां शास्ता दुर्नयकारिणाम् ॥
अजेयस्त्वं च संग्रामे ममापि हि भविष्यसि ॥६०॥
इच्छाशक्तिः क्रियाशक्तिर्ज्ञानशक्तिस्तथोत्तमा ॥
शक्तित्रयमिदं विष्णो गृहाण प्रापितं मया ॥६१॥
त्वद्द्वेष्टारो हरे नूनं मया शास्याः प्रयत्नतः ॥
त्वद्भक्तानां मया विष्णो देयं निर्वाणमुत्तमम् ॥६२॥
मायां चापि गृहाणेमां दुष्प्रणोद्यां सुरासुरैः ॥
यया संमोहितं विश्वमकिंचिज्ज्ञं भविष्यति ॥६३॥
वामबाहुर्मदीयस्त्वं दक्षिणोसौ पितामहः ॥
अस्यापि हि विधेः पाता जनितापि भविष्यसि ॥६४॥
वैकुंठैश्वर्यमासाद्य हरेरित्थं हरः स्वयम् ॥
कैलासे प्रमथैः सार्धं स्वैरं क्रीडत्युमापतिः ॥६५॥
तदा प्रभृति देवोसौ शार्ङ्गधन्वा गदाधरः ॥
त्रैलोक्यमखिलं शास्ति दानवांतकरो हरिः ॥६६॥
इति ते कथिता विप्र लोकानां च परिस्थितिः ॥
इदानीं कथयिष्यावस्तवनिर्वाण कारणम् ॥६७॥
इदं तु परमाख्यानं शृणुयाद्यः समाहितः ॥
स्वर्लोकमभिगम्याथ काश्यां निर्वाणमाप्नुयात् ॥६८॥
यज्ञोत्सवे विवाहे च मंगलेष्वखिलेष्वपि ॥
राज्याभिषेक समये देवस्थापनकर्मणि ॥६९॥
सर्वाधिकारदानेषु नववेश्मप्रवेशने ॥
पठितव्यं प्रयत्नेन तत्कार्य परिसिद्धये ॥७०॥
अपुत्रो लभते पुत्रमधनो धनवान्भवेत् ॥
व्याधितो मुच्यते रोगाद्बद्धो मुच्येत बंधनात् ॥७१॥
जप्यमेतत्प्रयत्नेन सततं मंगलार्थिना ॥
अमंगलानां शमनं हरनारायणप्रियम ॥७२॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे चतुर्भुजाभिषेको नाम त्रयोविंशतितमोऽध्यायः ॥२३॥
N/A
References : N/A
Last Updated : November 25, 2024
TOP