काशीखण्डः - अध्याय ६९
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ स्कंद उवाच ॥
शृण्वगस्त्य तपोराशे काश्यां लिंगानि यानि वै ॥
सेवितानि नृणां मुक्त्यै भवेयुर्भावितात्मनाम् ॥१॥
कृत्तिप्रावरणं यत्र कृतं देवेन लीलया ॥
रुद्रावास इति ख्यातं तत्स्थानं सर्वसिद्धिदम् ॥२॥
स्थिते तत्रोमया सार्धं स्वेच्छया कृत्तिवाससि ॥
आगत्य नंदी विज्ञप्तिं चक्रे प्रणतिपूर्वकम् ॥३॥
देवदेवेश विश्वेश प्रासादाः सुमनोहराः ॥
सर्वरत्नमया रम्याः साष्टाषष्टिरभूदिह ॥४॥
भूर्भुवःस्वस्तले यानि शुभान्यायतनानि हि ॥
मुक्तिदान्यपि तानीह मयानीतानि सर्वतः ॥५॥
यतो यच्च समानीतं यत्र यच्च कृतास्पदम् ॥
कथयिष्याम्यहं नाथ क्षणं तदवधार्यताम् ॥६॥
स्थाणुर्नाम महालिंगं देवदेवस्य मोक्षदम् ॥
कुरुक्षेत्रादिहोद्भूतं कलाशेषोस्ति तत्र वै ॥७॥
तदग्रे सन्निहत्याख्या महापुष्करिणी शुभा ॥
लोलार्क पश्चिमे भागे कुरुक्षेत्रस्थली तु सा ॥८॥
तत्र स्नातं हुतं जप्तं तप्तं दत्तं शुभार्थिभिः ॥
कुरुक्षेत्राद्भवेत्सत्यं कोटिकोटिगुणाधिकम् ॥९॥
नैमिषाद्देवदेवोत्र ब्रह्मावर्तेन संयुतः ॥
तत्रांशमात्रं संस्थाप्य काश्यामाविरभूद्विभो ॥१०॥
ढुंढिराजोत्तरेभागे सिद्धिदं साधकस्य वै ॥
लिंगं वै देवदेवाख्यं तदग्रे कूप उत्तमः ॥११॥
ब्रह्मावर्त इति ख्यातः पुनरावृत्तिहृन्नृणाम् ॥
तत्कूपाद्भिः कृतस्नानो देवदेवं समर्च्य च ॥१२॥
तत्पुण्यं नैमिषारण्यात्कोटिकोटिगुणं स्मृतम् ॥
गोकर्णायतनादत्र स्वयमाविरभून्महत् ॥१३॥
लिंगं महाबलं नाम सांबादित्यसमीपतः ॥
दर्शनात्स्पर्शनाद्यस्य क्षणादेनो महाबलम् ॥१४॥
वाताहतस्तूलराशिरिव विद्राति दूरतः ॥
कपालमोचनपुरो दृष्ट्वा लिंगं महाबलम् ॥१५॥
महाबलमवाप्नोति निवार्णनगरं व्रजेत् ॥
ऋणमोचनतः प्राच्यां प्रभासात्क्षेत्रसत्तमात् ॥१६॥
शशिभूषणसंज्ञं तु लिंगमत्र प्रतिष्ठितम् ॥
तल्लिंगसेवनान्मर्त्यः शाशिभूषणतां व्रजेत् ॥१७॥
प्रभासक्षेत्रयात्रायाः पुण्यं प्राप्नोति कोटिकृत् ॥
उज्जयिन्या महाकालः स्वयमत्रागतो विभुः ॥१८॥
यन्नामस्मरणादेव न भयं कलिकालतः ॥
प्रणवाख्यान्महालिंगात्प्राच्यां कल्मषनाशनम् ॥१९॥
महाकालाभिधं लिंगं दर्शनान्मोक्षदं परम् ॥
अयोगंधेश्वरं लिंगं पुष्करात्तीर्थसत्तमात् ॥२०॥
आविरासीदिह महत्पुष्करेण सहैव तु ॥
मत्स्योदर्युत्तरेभागे दृष्ट्वा ऽयोगंधमीश्वरम् ॥२१॥
स्नात्वाऽयोगंधकुंडे तु भवात्तारयते पितॄन् ॥
महानादेश्वरं लिंगमट्टहासादिहागतम् ॥२२॥
त्रिलोचनादुदीच्यां तु तद्दृष्टमुक्तये मतम् ॥
महोत्कटेश्वरं लिंगं मरुत्कोटादिहागतम् ॥
कामेश्वरोत्तरे भागे दृष्टं विमलसिद्धिदम् ॥२३॥
विश्वस्थानादिहायातं लिंगं वै विमलेश्वरम् ॥
स्वर्लीनात्पश्चिमे भागे दृष्टं विमलसिद्धिदम् ॥२४॥
महाव्रतं महालिंगं महेंद्रादिह संस्थितम् ॥
स्कंदेश्वर समीपे तु महाव्रतफलप्रदम् ॥२५॥
वृंदारकर्षिवृंदानां स्तुवतां प्रथमे युगे ॥
उत्पन्नं यन्महालिंगं भूमिं भित्त्वा सुदुर्भिदाम् ॥२६॥
महादेवेति तैरुक्तं यन्मनोरथपूरणात ॥
वाराणस्यां महादेवस्तदारभ्याभवच्च यत् ॥२७॥
मुक्तिक्षेत्रं कृतं येन महालिंगेन काशिका ॥
अविमुक्ते महादेवं यो द्रक्ष्यत्यत्रमानवः ॥२८॥
शंभुलोके गमस्तस्य यत्रतत्र मृतस्य हि ॥
अविमुक्ते प्रयत्नेन तत्संसेव्यं मुमुक्षुभिः ॥२९॥
कल्पांतरेपि न त्यक्तं कदाप्यानंदकाननम् ॥
येन लिंगस्वरूपेण महादेवेन सर्वथा ॥३०॥
तत्प्रसादोयमतुलः सर्वरत्नमयः शुभः ॥
हिरण्यगर्भतीर्थाच्च प्रतीच्यां क्षेत्ररक्षकम् ॥३१॥
वाराणस्यामधिष्ठात्री देवता साभिलाषदा ॥
महादेवेति संज्ञा वै सर्वलिंगस्वरूपिणी ॥३२॥
वाराणस्यां महादेवो दृष्टो यैर्लिंगरूपधृक् ॥
तेन त्रैलोक्यलिंगानि दृष्टानीह न संशयः ॥३३॥
वाराणस्यां महादेवं समभ्यर्च्य सकृन्नरः ॥
आभूतसंप्लवं यावच्छिवलोके वसेन्मुदा ॥३४॥
पवित्रपर्वणि सदा श्रावणे मासि यत्नतः ॥
लिंगे पवित्रमारोप्य महादेवे न गर्भभाक् ॥३५॥
पितामहेश्वरं लिंगं गयातीर्थादिहागतम् ॥
फल्ग्रुप्रभृतिभिस्तीर्थैः सार्धकोट्यष्टसंमितैः ॥३६॥
धर्मेण यत्र वै तप्तं युगानामयुतं शतम् ॥
साक्षीकृत्य महालिंगं श्रीमद्धर्मेश्वराभिधम् ॥३७॥
पितामहेश्वरं लिंगं तत्राभ्यर्च्य नरो मुदा ॥
त्रिःसप्तकुलसंयुक्तो मुच्यते नात्र संशयः ॥३८॥
प्रयागात्तीर्थराजाच्च शूलटंको महेश्वरः ॥
तीर्थराजेन सहितः स्थित आगत्य वै स्वयम् ॥३९॥
निर्वाणमंडपाद्रम्यादवाच्यामतिनिर्मलः ॥
प्रासादो मेरुणा यस्य स्पर्धते कांचनोज्वलः ॥४०॥
देवेनैव वरो दत्तो यत्र पूर्वं युगांतरे ॥
पूज्यो महेश्वरः काश्यां प्रथमं कलुषापहः ॥४१॥
यः प्रयाग इह स्नातो नमस्यति महेश्वरम् ॥
समभ्यर्च्य विधानेन महासंभारविस्तरैः ॥४२॥
प्रयागस्नानजात्पुण्याच्छूलटंक विलोकनात् ॥
स प्राप्नुयान्न संदेहः पुण्यं कोटिगुणोत्तरम् ॥४३॥
शंकुकर्णान्महाक्षेत्रान्महातेज इतीरितम् ॥
लिंगमाविरभूदत्र महातेजोविवृद्धिदम् ॥४४॥
महातेजोनिधिस्तस्य प्रासादोतीवनिर्मलः ॥
ज्वालाजटिलिताकाशो माणिक्यैरेव निर्मितः ॥४५॥
तल्लिंगदर्शनात्स्पर्शात्स्तवनाच्च समर्चनात् ॥
प्राप्यते तत्परं धाम यत्र गत्वा न शोचते ॥४६॥
विनायकेश्वरात्पूर्वं महातेजः समर्चनात् ॥
तेजोमयेन यानेन याति माहेश्वरं पदम् ॥४७॥
रुद्रकोटिसमाख्यातात्तीर्थात्परमपावनात् ॥
महायोगीश्वरं लिंगमाविश्चक्रे स्वयं परम् ॥४८॥
पार्वतीश्वर लिंगस्य समीपे सर्वसिद्धिकृत् ॥
तल्लिंगदर्शनात्पुंसां कोटिलिंग फलं भवेत् ॥४९॥
तत्प्रासादस्य परितो रुद्राणां कोटिसंमिताः ॥
प्रासादारम्यसंस्थाना निर्मिता रुद्रमूर्तिभिः ॥५०॥
काश्यां रुद्रस्थली सा तु पठ्यते वेदवादिभिः॥
रुद्रस्थल्यां मृता ये वै कृमिकीटपतंगकाः ॥५१॥
पशुपक्षिमृगा मर्त्या म्लेच्छा वाप्यथ दीक्षिताः ॥
तेषां तु रुद्रीभूतानां पुनरावृत्तिरत्र न ॥५२॥
जन्मांतरसहस्रेषु यत्पापं समुपार्जितम् ॥
रुद्रस्थलीं प्रविष्टस्य तत्सर्वं व्रजति क्षयम् ॥५३॥
अकामो वा सकामो वा तिर्यग्योनिगतोपि वा ॥
रुद्रस्थल्यां त्यजन्प्राणान्परं निर्वाणमाप्नुयात् ॥५४॥
स्वयमेकांबरात्क्षेत्रात्कृत्तिवासा इहागतः ॥
कृत्तिवाससि लिंगेत्र स्वयमेव व्यवस्थितः ॥५५॥
अस्मिन्स्थाने स्वभक्तानां सांबः सर्षिगणो विभुः ॥
स्वयं चोपदिशेद्ब्रह्म श्रुतौ श्रुतिभिरीडितम् ॥५६॥
क्षेत्रेत्र सिद्धिदे प्राप्तश्चंडीशो मरुजांगलात् ॥
प्रचंडपापसंघातं खंडयेच्छतधेक्षणात् ॥५७॥
पाशपाणिगणाध्यक्ष समीपे यः प्रपश्यति ॥
चंडीश्वरं महालिंगं स याति परमां गतिम् ॥५८॥
कालंजरान्नीलकंठस्तिष्ठेदत्र स्वयं विभुः ॥
गणेशाद्दंतकूटाख्यात्समीपे भवनाशनः ॥५९॥
नीलकंठेश्वरं लिंगं काश्यां यैः परिपूजितम् ॥
नीलकंठास्त एव स्युस्तएव शशिभूषणाः ॥६०॥
काश्मीरादिह संप्राप्तं लिंगं विजयसंज्ञितम् ॥
सदा विजयदं पुंसां प्राच्यां शालकटंकटात् ॥६१॥
रणे राजकुले द्यूते विवादे सर्वदैव हि ॥
विजयो जायते पुंसां विजयेश समर्चनात् ॥६२॥
ऊर्ध्वरेतास्त्रिदंडायाः संप्राप्तोत्र स्वयं विभुः ॥
कूश्मांडकं गणाध्यक्षं पुरस्कृत्य व्यवस्थितः ॥६३॥
ऊर्ध्वां गतिमवाप्नोति वीक्षणादूर्ध्वरेतसः ॥
ऊर्ध्वरेतसि ये भक्ता न हि तेषामधोगतिः ॥६४॥
मंडलेश्वरतः क्षेत्राल्लिंगं श्रीकंठसंज्ञितम् ॥
विनायकान्मंडसंज्ञादुत्तरस्यां व्यवस्थितम् ॥६५॥
श्रीकंठस्य च ये भक्ताः श्रीकंठा एव ते नराः ॥
नेह श्रिया वियुज्यंते न परत्र कदाचन ॥६६॥
छागलांडान्महातीर्थात्कपर्दीश्ववरसंज्ञितः ॥
पिशाचमोचने तीर्थे स्वयमाविरभूद्विभुः ॥६७॥
कपर्दीशं समभ्यर्च्य न नरो निरयं व्रजेत् ॥
न पिशाचत्वमाप्नोति कृत्वात्राप्यघमुत्तमम् ॥६८॥
आम्रातकेश्वरात्क्षेत्राल्लिंगं सूक्ष्मेश संज्ञितम् ॥
स्वयमभ्यागतं चात्र क्षेत्रे वै श्रेयसांपदे ॥६९॥
विकट द्विजसंज्ञस्य गणेशस्य समीपतः ॥
दृष्ट्वा सूक्ष्मेश्वरं लिंगं गतिं सूक्ष्मामवाप्नुयात् ॥७०॥ ।
संप्राप्तमिह देवेशं जयंतं मधुकेश्वरात् ॥
लंबोदराद्गणपतेः पुरस्तात्तदवस्थितम् ॥७१॥
जयंतेश्वरमालोक्य स्नात्वा गंगाजले शुभे ॥
प्राप्नुयाद्वांछितां सिद्धिं सर्वत्र विजयी भवेत् ॥७२॥
प्रादुश्चकार देवेशः श्रीशैलात्त्रिपुरांतकः ॥
श्रीशैलशिखरं दृष्ट्वा यत्फलं समुदीरितम् ॥७३॥
त्रिपुरांतकमालोक्य तत्फलं हेलयाप्यते ॥
विश्वेरात्पश्चिमे भागे त्रिपुरांतकमीश्वरम् ॥७४॥
संपूज्य परया भक्त्या न नरो गर्भमाविशेत् ॥
सौम्यस्थानादिहायातो भगवान्कुक्कुटेश्वरः ॥७९॥
वक्रतुंड गणाध्यक्ष समीपे सोपतिष्ठते ॥
तद्दर्शनादर्चनाच्च करस्थाः सर्वसिद्धयः ॥७६॥
जालेश्वरात्त्रिशूली च स्वयमीशः समागतः ॥
कूटदंताद्गणपतेः पुरस्तात्सर्वसिद्धिदः ॥७७॥
रामेश्वरान्महाक्षेत्राज्जटीदेवः समागतः ॥
एकदंतोत्तरे भागे सोर्चितः सर्वकामदः ॥७८॥
त्रिसंध्यात्क्षेत्रतो देवस्त्र्यंबकोस्ति समागतः ॥
त्रिमुखात्पूर्वदिग्भागे पूजितस्त्र्यंबकत्वकृत् ॥७९॥
हरेश्वरो हरिश्चंद्रात्क्षेत्रादत्र समागतः ॥
हरिश्चंद्रेश्वरपुरः पूजितो जयदः सदा ॥८०॥
इह शर्वः समायातः स्थानान्मध्यमकेश्वरात् ॥
चतुर्वेदेश्वरं लिंगं पुरोधाय व्यवस्थितम् ॥८१॥
शर्वं लिंगं समभ्यर्च्य काश्यां परमसिद्धिकृत् ॥
न जातु जंतुपदवीं प्राप्नुयात्क्वापि मानवः ॥८२॥
स्थलेश्वरान्महालिंगं प्रादुर्भूतं परंत्विह ॥
यत्र यज्ञेश्वरं लिंगं सर्वलिंगफलप्रदम् ॥८३॥
महालिंगं समभ्यर्च्य महाश्रद्धासमन्वितः ॥
महतीं श्रियमाप्नोति लोकेत्र च परत्र च ॥८४॥
इह लिंगं सहस्राक्षं सुवर्णाख्यात्समागतम् ॥
यस्य संदर्शनात्पुंसां ज्ञानचक्षुः प्रजायते ॥८५॥
शैलेश्वरादवाच्यां तु सहस्राक्षेश्वरं विभुम् ॥
दृष्ट्वा जन्मसहस्राणां शतानां पातकं त्यजेत् ॥८६॥
हर्षिताद्धर्षितं चात्र प्रादुरासीत्तमोहरम् ॥
लिंगंहर्षप्रदं पुंसां दर्शनात्स्पर्शनादपि ॥८७॥
मंत्रेश्वर समीपे तु प्रासादो हर्षितेशितुः ॥
तद्विलोकनतः पुंसां नित्यं हर्ष परंपरा ॥८८॥
इह स्वयं समायातो रुद्रो रुद्रमहालयात् ॥
यस्य दर्शनतो यांति रुद्रलोके नराः स्फुटम् ॥८९॥
यैस्तु रुद्रेश्वरं लिंगं काश्यामत्र समर्चितम् ॥
ते रुद्ररूपिणो मर्त्या विज्ञेया नात्र संशयः ॥९०॥
त्रिपुरेश समीपे तु दृष्ट्वा रुद्रेश्वरं विभुम् ॥
रुद्रास्त इव विज्ञेया जीवंतोपि मृता अपि ॥९१॥
आगादिह महादेवो वृषेशो वृषभध्वजात् ॥
बाणेश्वरस्य लिंगस्य समीपे वृषदः सदा ॥९२॥
इहागतं तु केदारादीशानेश्वर संज्ञितम् ॥
तद्द्रष्टव्यं प्रतीच्यां च लिंगं प्रह्लादकेशवात् ॥९३॥
ईशानेशं समभ्यर्च्य स्नात्वोत्तरवहांभसि ॥
वसेदीशाननगरे ईशानसदृशप्रभः ॥९४॥
भैरवाद्भैरवी मूर्तिरत्रायाता मनोहरा ॥
संहारभैरवो नाम द्रष्टव्यः स प्रयत्नतः ॥९५॥
पूजनात्सर्वसिद्ध्यै स प्राच्यां खर्वविनायकात् ॥
संहारभैरवः काश्यां संहरेदघसंततिम् ॥९६॥
उग्रः कनखलात्तीर्थादाविरासेह सिद्धिदः ॥
तद्विलोकनतो नृणामुग्रं पापं प्रणश्यति ॥९७॥
उग्रं लिंगं सदा सेव्यं प्राच्यामर्कविनायकात् ॥
अत्युग्रा अपि नश्येयुरुपसर्गास्तदर्चनात् ॥९८॥
वस्त्रापथान्महाक्षेत्राद्भवो नाम स्वयं विभुः ॥
भीमचंडी समीपे तु प्रादुरासीदिह प्रभो ॥९९॥
भवेश्वरं समभ्यर्च्य भवेनाविर्भवेन्नरः ॥
प्रभुर्भवति सर्वेषां राज्ञामाज्ञाकृतामिह ॥१००॥
देवदारुवनाद्दंडी दंडयन्पातकावलीः ॥
वाराणस्यां समागत्य स्थितो लिंगाकृतिर्विभुः ॥१॥
प्राच्यां दंडीश्वरः पूज्यः स देहलिविनायकात् ॥
तस्यार्चनेन मर्त्त्यानां न पुनर्भव ईक्ष्यते ॥२॥
भद्रकर्णह्रदादत्र भद्रकर्णह्रदान्वितः॥
शिवः साक्षादिहायातः सर्वेषां शिवदोर्चितः ॥३॥
उद्दंडाख्याद्गणपतेः प्राच्यां तत्तीर्थमुत्तमम् ॥
भद्रकर्णह्रदे स्नात्वाभ्यर्च्य लिंगं शिवाह्वयम् ॥४॥
सर्वत्र शिवमाप्नोति भद्रकर्णेश पूजनात् ॥
शृणुयात्सर्वभूतानां भद्रं पश्यति चाक्षिभिः॥ ५॥
शंकरश्च हरिश्चंद्रात्त्वत्पुरः प्रतिभासते ॥
तत्पूजनाज्जनानां न जननीजठरे जनिः ॥६॥
यमलिंगान्महातीर्थात्काललिंगमिह स्थितम् ॥
कलशेश इति ख्यातं चंद्रेशात्पश्चिमेन च ॥७॥
यमतीर्थे नरः स्नात्वा मित्रावरुणदक्षिणे ॥
काललिंगं समालोक्य कलिकाल भयं कुतः ॥८॥
तत्र भौमचतुर्दश्यां यस्तु यात्रां करिष्यति ॥
अपि पातक युक्तः स यमयात्रां न यास्यति ॥९॥
नैपालाच्च महाक्षेत्रादायात्पशुपतिस्त्विह ॥
यत्र पाशुपतो योग उपदिष्टः पिनाकिना ॥११०॥
भवता देवदेवेन ब्रह्मादिभ्यो विमुक्तये ॥
तस्य संदर्शनादेव पशुपाशैर्वियुज्यते ॥११॥
करवीरकतीर्थाच्च कपालीश इहागतः ॥
कपालमोचने तीर्थे द्रष्टव्यः स प्रयत्नतः ॥१२॥
तद्विलोकनमात्रेण ब्रह्महत्या विलीयते॥
उमापतिर्देविकाया इहागत्य व्यवस्थितः ॥१३॥
दृष्टः पशुपतिः प्राच्यां हरेत्पापं चिरार्जितम् ॥
लिंगं महेश्वरक्षेत्रादिह दीप्तेश संज्ञितम् ॥१४॥
उपोमापति तिष्ठेत दीप्त्यै चेह परत्र च ॥
भुक्तिमुक्ति प्र दं लिंगं दीप्तेशं काशिमध्गम् ॥१५॥
कायारोहणतः क्षेत्रादाचार्यो नकुलीश्वरः ॥
शिष्यैः परिवृतस्तिष्ठेन्महापाशुपतव्रतैः ॥१६॥
दक्षिणे हि महादेवादृष्टो ज्ञानं प्रयच्छति ॥
अज्ञानं नाशयेत्क्षिप्रं गर्भसंसृतिहेतुकम् ॥१७॥
गंगासागरतश्चायादमरेश इतीरितम् ॥
लिंगं यद्दर्शनादेव नामरत्वं हि दुर्लभम् ॥१८॥
सप्तगोदावरीतीर्थाद्देवो भीमेश्वरः प्रभुः ॥
प्रकाशते लिंगरूपी भुक्त्यै मुक्त्यै नृणामिह ॥१९॥
नकुलीशात्पुरोभागे दृष्टा भीमेश्वरं प्रभुम्॥
महाभीमानि पापानि प्रणश्यंति हि तत्क्षणात् ॥१२०॥
भूतेश्वराद्भस्मगात्रं प्रादुरासीदिह स्वयम् ॥
भीमेशाद्दक्षिणे भागे तदभ्यर्च्य प्रयत्नतः ॥२१॥
सम्यक्पाशुपताद्यो गादभ्यस्ताच्च समाः शतम् ॥
यत्प्राप्यते फलं तत्स्याद्भस्मगात्रविलोकनात् ॥२२॥
नकुलीश्वरतो देवः स्वयंभूरिति विश्रुतः ॥
आत्मनाप्रकटीभूतः काश्यां लिंगाकृतिर्हरः ॥२३॥
स्वयंभु लिंगं संपूज्य स्नात्वा सिद्धिह्रदे नरः ॥
महालक्ष्मीश्वर पुरो न भूयो जन्मभाग्भवेत् ॥२४॥
प्रयागतीर्थनिकषा प्रासादो विद्रुमप्रभः ॥
वाराहस्य महानेष धरणीनाम्न एव हि ॥२५॥
विंध्यपर्वततः प्राप्तो देवं श्रुत्वा समागतम्॥
सगणं सर्षिदेवं च मंदरादत्र कंदरात् ॥२६॥
काश्यां धरणिवाराहो द्रष्टव्यः स प्रयत्नतः॥
आपत्समुद्रसंमग्नमुद्धरेच्छरणागतम् ॥२७॥
कर्णिकाराद्गणाध्यक्षः कर्णिकारप्रसूनरुक्॥
समर्च्योयं गदाहस्त उपसर्गसहस्रहृत् ॥२८॥
तस्माद्धरणिवाराहात्प्रतीच्यां दिशि संस्थितम् ॥
पूजयित्वा गणाध्यक्षं गाणपत्यपदं लभेत् ॥२९॥
हेमकूटाद्विरूपाक्षं लिंगमत्राविरास ह ॥
महेश्वरादवाच्यां च दृष्टं संसारतारकम् ॥१३०॥
गंगाद्वाराद्धिमस्थेशं लिंगं हिमसमप्रभम् ॥
ब्रह्मनालात्प्रतीच्यां च द्रष्टव्यमिह सिद्धिदम् ॥३१॥
गणाधिपश्च कैलासाद्गणा अन्ये महाबलाः ॥
कैलासाद्रेः समायाताः सप्तकोटिमिताः प्रभो ॥३२॥
दुर्गाणि तैः कृतानीह सप्तस्वर्गसमानि च ॥
सद्वाराणि सयंत्राणि कपाटविकटानि च ॥३३॥
कोटिकोटिभटाढ्यानि सर्वर्द्धिसहितान्यपि ॥
सुवर्णरूप्यताम्रैश्च कांस्यरीतिकसीसकैः ॥३४॥
अयस्कांतेन कांतानि दृढान्यभ्रंलिहान्यपि ॥
ततः शैलं महादुर्गं तैः काशीपरितः कृतम् ॥३५॥
परिखापि कृता निम्ना मत्स्योदर्याजलाविला ॥
मत्स्योदरी द्विधा जाता बहिरंतश्चरा पुनः ॥३६॥
तच्च तीर्थं महत्ख्यातं मिलितं गांगवारिभिः ॥
यदा संहारमार्गेण गंगाभः प्रसरेदिह ॥३७॥
तदा मत्स्योदरी तीर्थं लभ्यते पुण्यगौरवात् ॥
सूर्याचंद्रमसोः पर्वतदाकोटिगुणं शतम् ॥३८॥
सर्वपर्वाणि तत्रैव सर्वतीर्थानि तत्र वै ॥
तत्रैव सर्वलिंगानि गंगामत्स्योदरीयतः ॥३९॥
मत्स्योदर्यां हि ये स्नाता यत्रकुत्रापि मानवाः ॥
कृतपिंडप्रदानास्ते न मातुरुदरेशयाः ॥१४०॥
अविमुक्तमिदं क्षेत्रं मत्स्याकारत्वमाप्नुयात् ॥
परितः स्वर्धुनीवारि संसारि परिवीक्ष्यते ॥४१॥
मत्स्योदर्यां कृतस्नाना ये नरास्ते नरोत्तमाः ॥
कृत्वापि बहुपापानि नेक्षंते भास्करेः पुरीम् ॥४२॥
किं स्नात्वा बहुतीर्थेषु किं तप्त्वा दुष्करं तपः ॥
यदि मत्स्योदरी स्नाता कुतो गर्भभयं ततः॥ ४३॥
यत्रयत्र हि लिंगानि नृदेवर्षिकृतान्यपि ॥
तत्र मत्स्योदरीं प्राप्य सुस्नातो मोक्षभाजनम् ॥४४॥
संति तीर्थान्यनेकानि भूर्भुवःस्वर्गतान्यपि ॥
न समानि परं तानि कोट्यंशेनापि निश्चितम् ॥४५॥
इत्थं तीर्थं कृतं तेन विभो कैलासवासिना॥
गणाधिपेन सुमहत्सुमहोदारकर्मणा ॥४६॥
भूर्भुवःसंज्ञकं लिंगं पर्वताद्गंधमादनात्॥
स्वयमाविरभूदत्र तस्मात्प्राच्यां गणाधिपात्॥ ४७॥
विलोक्य भूर्भुवं लिंगं भूर्भुवःस्वर्महः परे ॥
निवसंति जनाः पुण्याः सुचिरं दिव्यभोगिनः ॥४८॥
हाटकेशं महालिंगं भोगवत्या समायुतम् ॥
सप्तपातालतलत इहायातं स्वयं विभो ॥४९॥
शेषवासुकिमुख्यैश्च तत्प्रासादो महानिह ॥
मणिमाणिक्यरत्नौघैर्निरमायि प्रयत्नतः ॥१५०॥
तल्लिंगं हाटकमयं रत्नमालाभिरर्चितम् ॥
ईशानेश्वरतः प्राच्यां पूजनीय प्रयत्नतः ॥५१॥
भक्तितोऽभ्यर्च्य तल्लिंगं नरः सर्वसमृद्धिमान् ॥
भुक्त्वा भोगानसंख्यातानंते निवार्णमृच्छति ॥५२॥
आकाशात्तारकाल्लिगं ज्योतीरूपमिहागतम्॥
ज्ञानवाप्याः पुरोभागे तल्लिंगं तारकेश्वरम् ॥५३॥
तारकं ज्ञानमाप्येत तल्लिंगस्य समर्चनात् ॥
ज्ञानवाप्यां नरः स्नात्वा तारकेशं विलोक्य च ॥५४॥
कृतसंध्यादि नियमः परितर्प्य पितामहान्॥
धृतमौनव्रतो धीमान्यावल्लिंग विलोकनम् ॥५५॥
मुच्यते सर्वपापेभ्यः पुण्यं प्राप्नोति शाश्वतम् ॥
प्रांते च तारकं ज्ञानं यस्माज्ज्ञानाद्विमुच्यते ॥५६॥
किराताच्च किरातेश इहचाविर्बभूव ह ॥
किरातरूपो भगवान्यत्र देवोऽभवत्पुरा ॥५७॥
तत्किरातेश्वरं लिंगं भारभूतेश्वरादनु ॥
नमस्कृत्य नरो जातु न मातुरुदरेशयः ॥५८॥
लंकापुर्याः समागच्छन्मरुकेश्वरसंज्ञकम् ॥
लिंगं यदर्चनात्पुंसां न भयं रक्षसां भवेत् ॥५९॥
नैर्कत्यां दिशि तल्लिंगं निर्ऋतेश्वरसंज्ञकम् ॥
पौलस्त्यराघवात्पश्चात्पूजितं सर्वदुष्टहृत् ॥१६०॥
पुण्यजलप्रियं लिंगं जललिंगस्थलादपि ॥
आयातं तच्च गङ्गाया जलमध्ये व्यवस्थितम्॥ ६१॥
तत्प्रासादोऽद्भुततरो मध्ये गंगं निरीक्ष्यते ॥
सर्वधातुमयः श्रेष्ठः सर्वरत्नमयः शुभः ॥६२॥
अद्यापि दृश्यते कैश्चित्पुण्यसंभारगौरवात् ॥
श्रेष्ठं लिंगमिहायातं तीर्थात्कोटीश्वरादपि ॥६३॥
कोटिलिंगे क्षणे पुण्यं तल्लिंगस्य निरीक्षणात् ॥
श्रेष्ठं ज्येष्ठेश्वरात्पश्चाच्छ्रेष्ठ सिद्धिप्रदायकम्॥ ६४॥
वडवास्यात्समुद्भूतं लिंगमत्रानलेश्वरम् ॥
नलेश्वर पुरोभागे पूजितं सर्वसिद्धिदम्॥ ६५॥
आगत्य विरजस्तीर्थाद्देवदेवस्त्रिलोचनः ॥
लिंगे त्वनादिसंसिद्धे ह्यवतस्थे त्रिविष्टपे ॥६६॥
पुण्ये पिलिपिला तीर्थे सर्वेषां तारकप्रदे ॥
आविश्चक्रे स्वयदेव ओंकारोमरकंटकात् ॥६७॥
तदाद्यं तारकक्षेत्रं यदा गंगा न चागता ॥
यदैवाविरभूत्काशी त्रैलोक्योद्धणाय वै ॥६८॥
तदाकृतिमहल्लिंगं स्वयमाविरभूत्ततः॥
महिमानं न तस्यान्यः परिवेत्ति विभोर्ऋते ॥६९॥
एतान्यायतनानीश आनिनाय महांति च ॥
शेषयित्वांशमात्रं च तस्मिन्क्षेत्रे निजे निजे ॥१७०॥
इहायातानि पुण्यानि सर्वभावेन नान्यथा॥
प्रासादाः सर्वतश्चैषां रम्या अभ्रंलिहा विभो ॥७१॥
बहुधातुमयाश्चित्राः सर्वरत्नसमु्ज्ज्वलाः ॥
येषां कलशमात्रस्य दर्शनान्मुक्तिराप्यते ॥७२॥
श्रुत्वापि नाम चैतेषां लिंगानां सुरसत्तम ॥
अपि जन्मसहस्रोत्थाः क्षीयंते पापराशयः ॥७३॥
इदानीं को निदेशोत्र मयानुष्ठेय ईशितः ॥
प्रसादी क्रियतांसो पि सिद्धो मंतव्य एव हि ॥७४॥
॥ स्कंद उवाच ॥
श्रुत्वेति नंदिनो वाक्यं देवदेवेश्वरो हरः ॥
श्रद्धा प्रसाद्य शैलादिमिदं प्रोवाच कुंभज ॥७५॥
॥ श्रीदेवदेव उवाच ॥
साधूकृतं त्वया नंदिन्सदानंद विधायक ॥
विधेहि मे निदेशं च चंडीर्व्यापारयाधुना ॥७६॥
नवकोट्यस्तु चामुंडायायत्र निवसंति हि ॥
स्वदेवताभिः सहिता भूतवेताल भैरवैः ॥७७॥
ताः पुरी रक्षणार्थाय सवाहनबलायुधाः ॥
प्रतिदुर्गं दुर्गरूपाः परितः परिवासय ॥७८॥
॥ स्कंद उवाच ॥
नंदिनं संनिदेश्येति मृडान्या सहितो मृडः ॥
ययौ त्रैविष्टपं क्षेत्रं मुक्तिबीजप्ररोहणम् ॥७९॥
शिलादतनयोप्यैशीं मूर्द्धन्याज्ञां विधाय च ॥
आहूय सर्वतो दुर्गाः प्रतिदुर्गं न्यवेशयत् ॥१८०॥
निशम्याध्यायमेतं च पुण्यायतन गर्भिणम्॥
नरः स्वर्गापवर्गौ च प्राप्नुयाच्छ्रद्धया क्रमात् ॥८१॥
श्रुत्वाष्टषष्टिमेतां वै महायतन संश्रयाम् ॥
न जातु प्रविशेन्मर्त्यो जनन्या जाठरीं दरीम् ॥१८२॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंडे उत्तरार्धेऽष्टषष्ट्यायतनसमागमो नामैकोनसप्ततितमोध्यायः ॥६९॥
N/A
References : N/A
Last Updated : November 27, 2024
TOP