काशीखण्डः - अध्याय ४८
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
स्कंद उवाच ॥
शृणुष्व मैत्रावरुणे द्वारवत्यां यदूद्वहः ॥
दानवानां वधार्थाय भुवोभारापनुत्तये ॥१॥
आविरासीत्स्वयं कृष्णः कृष्णवर्त्मप्रतापवान् ॥
वासुदेवो जगद्धाम देवक्या वसुदेवतः ॥२॥
साशीतिलक्षं तस्यासन्कुमारा अर्कवर्चसः ॥
स्वर्गे पितादृशा बालाः सुशीला न हि कुंभज ॥३॥
अतीवरूपसंपन्ना अतीव सुमहाबलाः ॥
अतीव शस्त्रशास्त्रज्ञा अतीव शुभलक्षणाः ॥४॥
तांद्रष्टुं मानसः पुत्रो ब्रह्मणस्तपसांनिधिः ॥
कृतवल्कलकौपीनो धृत कृष्णाजिनांबरः ॥।
गृहीतब्रह्मदंडश्च त्रिवृन्मौंजी सुमेखलः ॥
उरस्थलस्थ तुलसी मालया समलंकृतः ॥६॥
गोपीचंदननिर्यास लसदंगविलेपनः ॥
तपसा कृशसर्वांगो मूर्तो ज्वलनवज्ज्वलन् ॥७॥
आजगामांबरचरो नारदो द्वारकापुरीम् ॥
विश्वकर्मविनिर्माणां जितस्वर्गपुरीश्रियम् ॥८॥
तंदृष्ट्वा नारदं सर्वे विनम्रतरकंधराः ॥
प्रबद्ध मूर्धांजलयः प्रणेमुर्वृष्णिनंदनाः ॥९॥
सांबः स्वरूपसौंदर्य गर्वसर्वस्वमोहितः ॥
न ननाम मुनिं तत्र हसंस्तद्रूपसंपदम् ॥१०॥
सांबस्य तमभिप्रायं विज्ञाय स महामुनिः ॥
विवेश सुमहारम्यं नारदः कृष्णमंदिरम् ॥११॥
कृष्णोथ दृष्ट्वाऽऽगच्छंतं प्रत्युद्गम्य च नारदम् ॥
मधुपर्केण संपूज्य स्वासने चोपवेशयत् ॥१२॥
कृत्वा कथा विचित्रार्थास्तत एकांतवर्तिनः ॥
कृष्णस्य कर्णेऽकथयन्नारदः सांबचेष्टितम् ॥१३॥
अवश्यं किंचिदत्राऽस्ति यशोदानंदवर्धन ॥
प्रायशस्तन्न घटतेऽसंभाव्यं नाथ वास्त्रियाम् ॥१४॥
यूनां त्रिभुवनस्थानां सांबोऽतीव सुरूपवान् ॥
स्वभावचंचलाक्षीणां चेतोवृत्तिः सुचंचला ॥१५॥
अपेक्षंते न मुग्धाक्ष्यः कुलं शीलं श्रुतं धनम् ॥
रूपमेव समीक्षंते विषमेषु विमोहिताः ॥१६॥
अथवा विदितं नो ते वल्लवीनां विचेष्टितम् ॥
विनाष्टौनायिकाः कृष्ण कामयंतेऽबलाह्यमुम् ॥४३॥
वामभ्रुवां स्वभावाच्च नारदस्य च वाक्यतः ॥
विज्ञाताऽऽखिलवृत्तांतस्तथ्यं कृष्णोप्यमन्यत ॥१८॥
तावद्धैर्यंचलाक्षीणां तावच्चेतोविवेकिता ॥
यावन्नार्थी विविक्तस्थो विविक्तेर्थिनि नान्यथा ॥१९॥
इत्थं विवेचयंश्चित्ते कृष्णः क्रोधनदीरयम् ॥
विवेकसेतुनाऽऽस्तभ्य नारदं प्राहिणोत्सुधीः ॥२०॥
सांबस्य वैकृतं किंचित्क्वचित्कृष्णोनवैक्षत॥
गते देवमुनौ तस्मिन्वीक्षमाणोप्यहर्निशम् ॥२१॥
कियत्यपि गते काले पुनरप्याययौ मुनिः ॥
मध्ये लीलावतीनां च ज्ञात्वा कृष्णमवस्थितम् ॥२२॥
बहिः क्रीडंतमाहूय सांबमित्याह नारदः ॥
याहि कृष्णांतिकं तूर्णं कथयागमनं मम ॥२३॥
सांबोपि यामि नोयामि क्षणमित्थमचिंतयत् ॥
कथं रहःस्थ पितरं यामि स्त्रैणसखंप्रति ॥२४॥
न यामि च कथं वाक्यादस्याहं ब्रह्मचारिणः ॥
ज्वलदंगारसंकाश स्फुरत्सर्वांगतेजसः ॥२५॥
प्रणमत्सुकुमारेषु व्रीडितोयं मयैकदा ॥
इदानीमपि नो यायामस्य वाक्यान्महामुनेः ॥२६॥
अत्याहितं तदस्तीह तदागोद्वयदर्शनात् ॥
पितुः कोपोपि सुश्लाघ्यो मयि नो ब्राह्मणस्य तु ॥२७॥
ब्रह्मकोपाग्निनिर्दग्धाः प्ररोहंति न जातुचित् ॥
अपराग्निविनिर्दग्धारो हंते दावदग्धवत् ॥२८॥
इति ध्यात्वा क्षणं सांबोऽविशदंतःपुरंपितुः ॥
मध्ये स्त्रैणसभंकृष्णं यावज्जांबवतीसुतः ॥२९॥
दूरात्प्रणम्य विज्ञप्तिं स चकार सशंकितः ॥
तावत्तमन्वगच्छच्च नारदः कार्यसिद्धये ॥३०॥
ससंभ्रमोथ कृष्णोपि दृष्ट्वा सांबं च नारदम् ॥
समुत्तस्थौ परिदधत्पीतकौशेयमंबरम् ॥३१॥
उत्थिते देवकीसूनौ ताः सर्वा अपि गोपिकाः ॥
विलज्जिताः समुत्तस्धुर्गृह्णंत्यः स्वंस्वमंबरम् ॥३२॥
महार्हशयनीये तं हस्ते धृत्वा महामुनिम् ॥
समुपावेशयत्कृष्णः सांबश्च क्रीडितुं ययौ ॥३३॥
तासां स्खलितमालोक्य तिष्ठंतीनां पुरो मुनिः ॥
कृष्णलीलाद्रवीभूतवरांगानां जगौ हरिम् ॥३४॥
पश्यपश्य महाबुद्धे दृष्ट्वा जांबवतीसुतम् ॥
इमाः स्खलितमापन्नास्तद्रूपक्षुब्धचेतसः ॥३५॥
कृष्णोपि सांबमाहूय सहसैवाशपत्सुतम् ॥
सर्वा जांबवतीतुल्याः पश्यंतमपि दुर्विधेः ॥३६॥
यस्मात्त्वद्रूपमालोक्य गोपाल्यः स्खलिता इमाः ॥
तस्मात्कुष्ठी भव क्षिप्रमकांडागमनेन च ॥३७॥
वेपमानो महाव्याधिभयात्सांबोपि दारुणात् ॥
कृष्णं प्रसादयामास बहुशः पापशांतये ॥३८॥
कृष्णोप्यनेन संजानन्सांबं स्वसुतमौरसम् ॥
अब्रवीत्कुष्ठमोक्षाय व्रज वैश्वेश्वरीं पुरीम् ॥३९॥
तत्र ब्रध्नं समाराध्य प्रकृतिं स्वामवाप्स्यसि ॥
महैनसां क्षयो यत्र नास्ति वाराणसीं विना ॥४०॥
यत्र विश्वेश्वरः साक्षाद्यत्र स्वर्गापगा च सा ॥
येषां महैनसां दृष्टा मुनिभिर्नैव निष्कृतिः ॥
तेषां विशुद्धिरस्त्येव प्राप्य वाराणसीं पुरीम् ॥४१॥
न केवलं हि पापेभ्यो वाराणस्यां विमुच्यते ॥
प्राकृतेभ्योपि पापेभ्यो मुच्यते शंकराज्ञया ॥४२॥
पुरा पुरारिणा सृष्टमविमुक्तं विमुक्तये ॥
सर्वेषामेव जंतूनां कृपयांते तनुत्यजाम् ॥४३॥
तत्रानंदवने शंभोस्तवशाप निराकृतिः ॥
सांब तत्त्वेरितं याहि नान्यथा शापनिर्वृतिः ॥४४॥
ततः कृष्णं समापृच्छ्य कर्मनिर्मुक्तचेष्टितः ॥
नारदः कृतकृत्यः सन्ययावाकाशवर्त्मना ॥४५॥
सांबो वाराणसीं प्राप्य समाराध्यांशुमालिनम् ॥
कुंडं तत्पृष्ठतः कृत्वा निजां प्रकृतिमाप्तवान् ॥४६॥
सांबादित्यस्तदारभ्य सर्वव्याधिहरो रविः ॥
ददाति सर्वभक्तेभ्योऽनामयाः सर्वसंपदः ॥४७॥
सांबकुंडे नरः स्नात्वा रविवारेऽरुणोदये॥
सांबादित्यं च संपूज्य व्याधिभिर्नाभिभूयते ॥४८॥
न स्त्री वैधव्यमाप्नोति सांबादित्यस्य सेवनात् ॥
वंध्या पुत्रं प्रसूयेत शुद्धरूपसमन्वितम् ॥४९॥
शुक्लायां द्विज सप्तम्यां माघे मासि रवेर्दिने ॥
महापर्व समाख्यातं रविपर्व समं शुभम् ॥५०॥
महारोगात्प्रमुच्येत तत्र स्नात्वारुणोदये ॥
सांबादित्यं प्रपूज्यापि धर्ममक्षयमाप्नुयात् ॥५१॥
सन्निहत्यां कुरुक्षेत्रे यत्पुण्यं राहुदर्शने ॥
तत्पुण्यं रविसप्तम्यां माघे काश्यां न संशयः ॥५२॥
मधौमासि रवेर्वारे यात्रा सांवत्सरी भवेत् ॥
अशोकैस्तत्र संपूज्य कुंडे स्नात्वा विधानतः ॥५३॥
सांबादित्यं नरो जातु न शोकैरभिभूयते ॥
संवत्सरकृतात्पापाद्बहिर्भवति तत्क्षणात् ॥५४॥
विश्वेशात्पश्चिमाशायां सांबेनात्र महात्मना ॥
सम्यगाराधिता मूर्तिरादित्यस्य शुभप्रदा ॥५५॥
इयं भविष्या तन्मूर्तिरगस्ते त्वत्पुरोऽकथि ॥
तामभ्यर्च्य नमस्कृत्य कृत्वाष्टौ च प्रदक्षिणाः ॥
नरो भवति निष्पापः काशीवास फलं लभेत् ॥५६॥
सांबादित्यस्य माहात्म्यं कथितं ते महामते ॥
यच्छ्रुत्वापि नरो जातु यमलोकं न पश्यति ॥५७॥
इदानीं द्रौपदादित्यं कथयिष्यामि तेनघ ॥
तथा द्रौपदआदित्यः संसेव्यो भक्तसिद्धिदः ॥५८॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे सांबादित्यमाहात्म्यकथनं नामाष्टचत्वारिंशोध्यायः ॥४८॥
N/A
References : N/A
Last Updated : November 26, 2024
TOP