संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|काशीखण्ड|
अध्याय ५६

काशीखण्डः - अध्याय ५६

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ स्कंद उवाच॥
अथेशाज्ञां समादाय गजवक्त्रः प्रतस्थिवान् ॥
शंभोः काश्यागमोपायं चिंतयन्मंदराद्रितः ॥१॥
प्राप्य वाराणसीं तूर्णमाशु स्यंदनगो विभुः ॥
वाडवीं मूर्तिमालंब्य प्राविशच्छकुनैः स्तुतः ॥२॥
नक्षत्रपाठको भूत्वा वृद्धः प्रत्यवरोधगः ॥
चचार मध्ये नगरं पौराणां प्रीतिमावहन् ॥३॥
स्वयमेव निशाभागे स्वप्नं संदर्शयन्नृणाम् ॥
प्रातस्तेषां गृहान्गत्वा तेषां वक्ति बलाबलम् ॥४॥
भवद्भिरद्य रात्रौ यद्दृष्टं स्वप्नविचेष्टितम् ॥
भवत्कौतूहलोत्पत्त्यै तदेव कथयाम्यहम् ॥५॥
स्वपता भवता रात्रौ तुर्ये यामे महाह्रदः ॥
अदर्शि तत्र च भवान्मज्जन्मज्जंस्तटंगतः ॥६॥
तदंबुपिच्छिले पंके मग्नोन्मग्नोसि भूरिशः ॥
दुःस्वप्नस्यास्य च महान्विपाकोति भयप्रदः ॥७॥
काषायवसनो मुंडः प्रैक्ष्यहो भवतापि यः ॥
परितापं महानेष जनयिष्यति दारुणम् ॥८॥
रात्रौ सूर्यग्रहो दृष्टो महानिष्टकरो ध्रुवम् ॥
ऐंद्रधनुर्द्वयं रात्रौ यदलोकि न तच्छुभम् ॥९॥
प्रतीच्यां रविरागत्य प्रोद्यंतं व्योम्नि शीतगुम् ॥
पातयामास भूपृष्ठे तद्राज्यभयसूचकम् ॥१०॥
युगपत्केतुयुगलं युध्यमानं परस्परम् ॥
यददर्शि न तद्भद्रं राष्ट्रभंगाय केवलम् ॥११॥
विशीर्यत्केशदशनं नीयमानं च दक्षिणे ॥
आत्मानं यत्समद्राक्षीः कुटुंबस्यापि भीषणम् ॥१२॥
प्रासादध्वजभंगोयस्त्वयैक्षत निशाक्षये ॥
राज्यक्षयकरं विद्धि महोत्पाताय निश्चितम् ॥१३॥
नगरी प्लाविता स्वप्ने तरंगैः क्षीरनीरधेः ॥
पक्षैस्त्रिचतुरैः शंके महाशंकां पुरौकसाम् ॥१४॥
स्वप्ने वानरयानेन यत्त्वमूढोसि दक्षिणाम् ॥
अतस्तद्वंचनोपायः पुरत्यागो महामते ॥१५॥
रुदती या त्वया दृष्टा महिलैका निशात्यये ॥
मुक्तकेशी विवसना सा नारी श्रीरिवोद्गता ॥१६॥
देवालयस्य कलशो यत्त्वया वीक्षितः पतन् ॥
दिनैः कतिपयैरेव राज्यभंगो भविष्यति ॥१७॥
पुरी परिवृता स्वप्ने मृगयूथैः समंततः ॥
रोरूयमाणैरत्यर्थं मासेनैवोद्वसी भवेत् ॥१८॥
आतायियूकगृध्राद्यैः पुरीमुपरिचारिभिः ॥
सूच्यतेत्याहितं किंचिद्ध्रुवमत्र निवासिनाम् ॥१९॥
स्वप्नोत्पातानिति बहूञ्शंसञ्शंसन्नितस्ततः ॥
बहूनुच्चाटयांचक्रे स विघ्नेशः पुरौकसः ॥२०॥
केषांचित्पुरतो वादीद्ग्रहचारं प्रदर्शयन् ॥
एकराशिस्थिताः सौरि सितभौमा न शोभनाः ॥२१॥
सोयं धूमग्रहो व्योम्नि भित्त्वा सप्तर्षिमंडलम् ॥
प्रयातः पश्चिमामाशां स नाशाय विशांपतेः ॥२२॥
अतिचारगतो मंदः पुनर्वक्राध्व संस्थितः ॥
पापग्रहसमायुक्तो न युक्तोयमिहेष्यते ॥२३॥
व्यतीते वासरे योयं भूकंपः समपद्यत ॥
कंपं जनयतेऽतीव हृदो मेपि पुरौकसः ॥२४॥
उदीच्यादक्षिणाशायां येयमुल्का प्रधाविता ॥
विलीना च वियत्येव स निर्घातं न सा शुभा ॥२५॥
उन्मूलितो महामूलो महानिलरयेण यः ॥
चत्वरे चैत्यवृक्षोयं महोत्पातं प्रशंसति ॥२६॥
सूर्योदयमनुप्राप्य प्राच्यां शुष्कतरूपरि ॥
करटो रारटीत्येष कटूत्कट भयप्रदः ॥२७॥
मध्ये विपणि यतूर्णं कौचिच्चारण्यचारिणौ ॥
मृगौ मृगयतां यातौ पौराणां पुरतोऽहितौ ॥२८॥
रसालशालमुकुलं वीक्ष्यते यच्छरद्यदः ॥
महाकालभयं मन्येप्यकालेपि पुरौकसाम् ॥२९॥
साध्वसंजनयित्वेति केचिदुच्चाटिताः पुरः ॥
तेन विघ्नकृतापौराः कपटद्विजरूपिणा॥३०॥
अथ मध्येवरोधं स प्रविश्य निजमायया ॥
दृष्टार्थमेव कथयन्स्त्रीणां विस्रंभभूरभूत् ॥३१॥
तव पुत्रशतं जज्ञे सप्तोनं शुभलक्षणे ॥
तेष्वेकस्तुरगारूढो बाह्याल्यां पतितो मृतः ॥३२॥
अंतर्वत्नी त्वियं कन्या जनयिष्यति शोभनाम् ॥
एषा हि दुर्भगा पूर्वं सांप्रतं सुभगाऽभवत् ॥३३॥
असौ हि राज्ञो राज्ञीनामत्यंतमिहवल्लभा॥
मुक्तालंकृतिरेतस्यै राज्ञा दत्ता निजोरसः ॥३४॥
पंचसप्तदिनान्येव जातानीतीह तर्क्यते ॥
अस्यै राज्ञा प्रसादेन ग्रामौ दातुमुदीरितौ ॥३५॥
इति दृष्टार्थकथनै राज्ञीमान्योभवद्द्विजः ॥
वर्णयंति च ता राज्ञः परोक्षेपि गुणान्बहून् ॥३६॥
अहो यादृगसौ विप्रः सर्वत्रातिविचक्षणः ॥
सुशीलश्च सुरूपश्च सत्यवाङ्मितभाषणः ॥३७॥
अलोलुप उदारश्च सदाचारो जितेंद्रियः ॥
अपि स्वल्पेन संतुष्टः प्रतिग्रहपराङ्मुखः ॥३८॥
जितक्रोधः प्रसन्नास्यस्त्वनसूयुरवंचकः ॥
कृतज्ञः प्रीतिसुमुखः परिवादपराङ्मुखः ॥३९॥
पुण्योपदेष्टा पुण्यात्मा सर्वव्रतपरायणः ॥
शुचिः शुचिचरित्रश्च श्रुतिस्मृतिविशारदः ॥४०॥
धीरः पुण्येतिहासज्ञः सर्वदृक्सर्वसंमतः ॥
कलाकलापकुशलो ज्योतिःशास्त्रविदुत्तमः ॥४१॥
क्षमी कुलीनोऽकृपणो भोक्ता निर्मलमानसः ॥
इत्यादि गुणसंपन्नः कोपि क्वापि न दृग्गतः ॥४२॥
इत्थं तास्तद्गुणग्रामं वर्णयंत्यः पदेपदे ॥
कालं विनोदयंति स्म अंतःपुरचराः स्त्रियः ॥४३॥
एकदावसरं प्राप्य दिवोदासस्य भूभुजः ॥
राज्ञी लीलावती नाम राज्ञे तं विन्यवेदयत् ॥४४॥
राजन्वृद्धो गुणैर्वृद्धो ब्राह्मणः सुविचक्षणः ॥
एकोस्ति स तु द्रष्टव्यो मूर्तो ब्रह्मनिधिः परः ॥४५॥
राज्ञी राज्ञा कृतानुज्ञा सखीं प्रेष्य विचक्षणाम् ॥
आनिनाय च तं विप्रं ब्राह्मं तेज इवांगवत् ॥४६॥
राजापि दूरादायांतं त विलोक्यमहीसुरम् ॥
यत्राकृतिर्गुणास्तत्र जहर्षेति वदन्हृदि ॥४७॥
पदैर्द्वित्रैर्नृपतिना कृताभ्युत्थानसत्कृतिः ॥
चतुर्निगमजाभिः स तमाशीर्भिरनंदयत् ॥४८॥
कृतप्रणामो राज्ञा स सादरं दत्तमासनम् ॥
भेजेथ कुशलं पृष्टः स राज्ञा तेन भूपतिः ॥४९॥
परस्परं कुशलिनौ कुशलौ च कथागमे ॥
प्रश्नोत्तराभ्यां संतुष्टौ द्विजवर्य क्षमाभृतौ ॥५०॥
कथावसाने राज्ञाथ गेहं विससृजे द्विजः ॥
लब्धमानमहापूजः स स्वमाश्रममाविशत् ॥५१॥
गतेऽथ स्वाश्रमं विप्रे दिवोदासो नरेश्वरः ॥
लीलावत्याः पुरो विप्रं वर्णयामास भूरिशः ॥५२॥
महादेवि महाप्राज्ञे लीलावति गुणप्रिये ॥
यथाशंसि तथा विप्रस्ततोपि गुणवत्तरः ॥५३॥
अतीतं वेत्ति सकलं वर्तमानमवैति च ॥
प्रष्टव्यः प्रातराहूय भविष्यं किंचिदेष वै ॥५४॥
महाविभव संभारैर्महाभोगैरनेकधा ॥
व्युष्टायां स नृपो रात्र्यां प्रातराहूतवान्द्विजम् ॥५५॥
सत्कृत्य तं द्विजं भक्त्या दुकूलादि प्रदानतः ॥
एकांते तं द्विजं राजा पप्रच्छ निजहृत्स्थितम् ॥५६॥
॥राजोवाच ॥
द्विजवर्यो भवानेकः प्रतिभातीति निश्चितम् ॥
यथातत्त्ववती ते धीर्न तथान्यस्य मे मतिः ॥५७॥
दृष्ट्वा त्वां तु महाप्राज्ञं शांतं दांतं तपोनिधिम् ॥
किंचित्प्रष्टुमना विप्र तदाख्याहि यथार्थवत् ॥५८॥
शासितेयं मया पृथ्वी न तथान्यैस्तु पार्थिवैः ॥
यावद्भूति मया भुक्ता दिव्या भोगा अनेकधा ॥५९॥
निजौरसेभ्योप्यधिकं रात्रिंदिवमतंद्रितम् ॥
विनिर्जित्य हठाद्दुष्टान्प्रजेयं परिपालिता ॥६०॥
द्विजपादार्चनात्किंचित्सुकृतं वेद्मि नापरम् ॥
अनेनापरिकथ्येन कथितेनेह किं मम ॥६१॥
निर्विस्ममिव मे चेतः सांप्रतं सर्वकर्मसु ॥
विचार्यार्य शुभोदर्कमत आख्याहि सत्तम ॥६२॥
॥ द्विज उवाच ॥
अपि स्वल्पतरं कृत्यं यद्भवेद्भूभुजामिह ॥
एकांते तत्तु पृष्टेन वक्तव्यं सुधिया सदा ॥६३॥
अमात्येनाप्यपृष्टेन न वक्तव्यं नृपाग्रतः ॥
महापमानभीतेन स्तोकमप्यत्र किंचन ॥६४॥
पृष्टश्चेत्कथयामीह मा तत्र कुरु संशयम् ॥
तत्कृते तव गंता वै मनो निर्वेदकारणम् ॥६५॥
शृणु राजन्महाबुद्धे नायथार्थं ब्रवीम्यहम् ॥
विक्रांतोस्यतिशूरोसि भाग्यवानसि सर्वदा ॥६६॥
पुण्येन यशसा बुद्ध्या संपन्नोस्ति भवान्यथा ॥
मन्ये तथामरावत्यां त्रिदशेशोपि नैव हि ॥६७॥
सुधिया त्वां गुरुं मन्ये प्रसादेन सुधाकरम् ॥
तेजसास्ति भवानर्कः प्रतापेनाशुशुक्षणिः ॥६८॥
प्रभंजनो बलेनासि श्रीदोसि श्रीसमर्पणैः ॥
शासनेन भवान्रुद्रो निर्ऋतिस्त्वं रणांगणे ॥६९॥
दुष्टपाशयिता पाशी यमो नियमनेऽसताम् ॥
इंदनात्त्वं महेंद्रोसि क्षमया त्वमसि क्षमा ॥७०॥
मर्यादया भवानब्धिर्महत्त्वे हिमवानसि ॥
भार्गवो राजनीत्यासि राज्येन मनुना समः ॥७१॥
संतापहर्तांबुदवत्पवित्रो गांगनामवत् ॥
सर्वेषामेव जंतूनां काशीव सुगतिप्रदः ॥७२॥
रुद्रः संहाररूपेण पालनेन चतुर्भुजः ॥
विधिवत्त्वं विधातासि भारती ते मुखांबुजे ॥७३॥
त्वत्पाणिपद्मे कमला त्वत्क्रोधेस्ति हलाहलः ॥
अमृतं तव वागेव त्वद्भुजावश्विनीसुतौ ॥७४॥
तत्किं यत्त्वयि भूजानौ सर्वदेवमयो ह्यसि ॥
तस्मात्तव शुभोदर्को मया ज्ञातोस्ति तत्त्वतः ॥७५॥
आरभ्याद्य दिनाद्भूप ब्राह्मणोऽष्टादशेहनि ॥
उदीच्यः कश्चिदागत्य ध्रुवं त्वामुपदेक्ष्यति ॥७६॥
तस्य वाक्यं त्वया राजन्कर्तव्यमविचारितम् ॥
ततस्ते हृत्स्थितं सर्वं सेत्स्यत्येव महामते ॥७७॥
इत्युक्त्वा पृच्छ्य राजानं लब्धानुज्ञो द्विजोत्तमः ॥
विवेश स्वाश्रमं तुष्टो नृपोप्याश्चर्यवानभूत् ॥७८॥
इत्थं विघ्नजिता सर्वा पुरी स्वात्मवशीकृता ॥
सपौरा सावरोधा च सनृपा निजमायया ॥७९॥
कृतकृत्यमिवात्मानं ततो मत्वा स विघ्नजित् ॥
विधाय बहुधात्मानं काश्यां स्थितिमवाप च ॥८०॥
यदा स न दिवोदासः प्रागासीत्कुंभसंभव ॥
तदातनं निजं स्थानमलंचक्रे गणाधिपः ॥८१॥
दिवोदासे नरपतौ विष्णुनोच्चाटिते सति ॥
पुनर्नवीकृतायां च नगर्यां विश्वकर्मणा ॥८२॥
स्वयमागत्य देवेन मंदरात्सुंदरां पुरीम् ॥
वाराणसीं प्रथमतस्तुष्टुवे गणनायकम् ॥८३॥
॥ अगस्त्य उवाच ॥
कथं स्तुतो भगवता देवदेवेन विघ्नजित् ॥
कथं च बहुधात्मानं स चकार विनायकः ॥८४॥
केनकेन स वै नाम्ना काशिपुर्यां व्यवस्थितः ॥
इति सर्वं समासेन कथयस्व षडानन ॥८५॥
इत्युदीरितमाकर्ण्य कुंभयोनेः षडाननः ॥
यथावत्कथयामास गणराज कथां शुभाम् ॥८६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्द्धे गणेशमाया प्रपंचो नाम षट्पंचाशत्तमोऽध्यायः ॥५६॥

N/A

References : N/A
Last Updated : November 27, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP