संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|काशीखण्ड|
अध्याय ३९

काशीखण्डः - अध्याय ३९

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


स्कंद उवाच ॥
शृण्वगस्त्य महाभाग कथां पापप्रणाशिनीम् ॥
नैःश्रेयस्याः श्रियोहेतुमविमुक्त समाश्रयाम् ॥१॥
परं ब्रह्म यदाम्नातं निष्प्रपंचं निरात्मकम् ॥
निर्विकल्पं निराकारमव्यक्तं स्थूलसूक्ष्मवत् ॥२॥
तदेतत्क्षेत्रमापूर्य स्थितं सर्वगमप्यहो ॥
किमन्यत्र न शक्तोसौ जंतून्मोचयितुं भवात् ॥३॥
भवो ध्रुवं यदत्रैव मोचयेत्तं निशामय ॥
महत्या योगयुक्त्या वा महादानैरकामिकैः ॥४॥
सुमहद्भिस्तपोभिर्वा शिवोन्यत्र विमोचयेत् ॥
योगयुक्तिं न महतीं न दानानि महांति च ॥५॥
न तपांस्यतिदीर्घाणि काश्यां मुक्त्यै शिवोर्थयेत् ॥
वियुनक्ति न यत्काश्या उपसर्गे महत्यपि ॥६॥
अयमेव महायोग उपयोगस्त्विहा परः ॥
नियमेन तु विश्वेशे पुष्पं पत्रं फलं जलम् ॥७॥
यद्दत्तं सुमनोवृत्त्या महादानं तदत्र वै ॥
मुक्तिमंडपिकायां च क्षणं यत्स्थिरमास्यते ॥८॥
स्नात्वा गंगामृते शुद्धे तप एतदिहोत्तमम् ॥
सत्कृत्य भिक्षवे भिक्षा यत्काश्यां परिदीयते ॥
तुला पुरुष एतस्याः कलां नार्हति षोडशीम् ॥९॥
हृदि संचिंत्य विश्वेशं क्षणं यद्विनिमील्यते॥
देवस्य दक्षिणे भागे महायोगोयमुत्तमः ॥१०॥
इदमेव तपोत्युग्रं यदिंद्रिय विलोलताम् ॥
निषिध्य स्थीयते काश्यां क्षुत्तापाद्यवमन्य च ॥११॥
मासि मासि यदाप्येत व्रताच्चांद्रायणात्फलम् ॥
अन्यत्र तदिहाप्येत भूतायां नक्तभोजनात् ॥१२॥
मासोपवासादन्यत्र यत्फलं समुपार्ज्यते ॥
श्रद्धयैकोपवासेन तत्काश्यां स्यादसंशयम्॥१३॥
चातुर्मास्य व्रतात्प्रोक्तं यदन्यत्र महाफलम् ॥
एकादश्युपवासेन तत्काश्यां स्यादसंशयम् ॥१४॥
षण्मासान्न परित्यागाद्यदन्यत्र फलं लभेत्॥
शिवरात्र्युपवासेन तत्काश्यां जायते ध्रुवम् ॥१५॥
वर्षं कृत्वोपवासानि लभेदन्यत्र यद्व्रती ॥
तत्फलं स्यात्त्रिरात्रेण काश्यामविकलं मुने ॥१६॥
मासिमासि कुशाग्रांबु पानादन्यत्र यत्फलम् ॥
काश्यामुत्तरवाहिन्यामेकेन चुलुकेन तत् ॥१७॥
अनंतो महिमा काश्याः कस्तं वर्णयितुं प्रभुः ॥
विपत्तिमिच्छतो जंतोर्यत्रकर्णे जपः शिवः ॥१८॥
शंभुस्तत्किंचिदाचष्टे म्रियमाणस्य जन्मिनः ॥
कर्णेऽक्षरं यदाकर्ण्य मृतोप्यमृततां व्रजेत् ॥१९॥
स्मारं स्मारं स्मररिपोः पुरीं त्वमिव शंकरः ॥
अदुनोन्मंदरं यातो बहुशस्तदवाप्तये ॥२०॥
अगस्त्य उवाच ॥
स्वकार्यनिपुणैः स्वामिन्गीर्वाणैरतिदारुणैः ॥
त्याजितोहं पुरीं काशीं हरो त्याक्षीत्कुतः प्रभुः ॥२१॥
पराधीनोहमिव किं देवदेवः पिनाकवान् ॥
काशिकां सोऽत्यजत्कस्मान्निर्वाणमणिराशिकाम् ॥२२॥
॥ स्कंद उवाच ॥
मित्रावरुणसंभूत कथयामि कथामिमाम् ॥
तत्याज च यथा स्थाणुः काशीं विध्युपरोधतः ॥२३॥
प्रार्थितस्त्वं यथा लेखैः परोपकृतये मुने ॥
द्रुहिणेन तथा रुद्रः स्वरक्षण विचक्षणः ॥२४॥
॥ अगस्त्य उवाच ॥
कथं स भगवान्रुद्रो द्रुहिणेन कृपांबुधिः ॥
प्रार्थितोभूत्किमर्थं च तन्मे ब्रूहि षडानन ॥२५॥
॥ स्कंद उवाच ॥
पाद्मेकल्पे पुरावृत्ते मनोः स्वायंभुवेंतरे ॥
अनावृष्टिरभूद्विप्र सर्वभूतप्रकंपिनी ॥२६॥
तया तु षष्टिहायिन्या पीडिताः प्राणिनोऽखिलाः ॥
केचिदंबुधितीरेषु गिरिद्रोणीषु केचन ॥२७॥
महानिम्नेषु कच्छेषु मुनिवृत्त्या जनाः स्थिताः ॥
अरण्यान्यवनिर्जाता ग्रामखर्वट वर्जिता ॥२८॥
क्रव्यादा एव सर्वेषु नगरेषु पुरेषु च ॥
आसन्नभ्रंलिहो वृक्षाः सर्वत्र क्षोणिमंडले ॥२९॥
चौरा एव महाचौरैरुल्लुठ्यंत इतस्ततः ॥
मांसवृत्त्योपजीवंति प्राणिनः प्राणरक्षिणः ॥३०॥
अराजके समुत्पन्ने लोकेऽत्याहितशंसिनि ॥
प्रयत्नो विफलस्त्वासीत्सृष्टेः सृष्टिकृतस्तदा ॥३१॥
चिंतामवाप महती जगद्योनिः प्रजाक्षयात् ॥
प्रजासु क्षीयमाणासु क्षीणा यज्ञादिकाः क्रियाः ॥३२॥
तासु क्षीणासु संक्षीणाः सर्वे यज्ञभुजोऽभवन् ॥
ततश्चिंतयता स्रष्ट्रा दृष्टो राजर्षिसत्तमः ॥३३॥
अविमुक्ते महाक्षेत्रे तपस्यन्निश्चलेंद्रियः ॥
मनोरन्वयजो वीरः क्षात्रो धर्म इवोदितः ॥३४॥
रिपुंजय इति ख्यातो राजा परपुरंजयः ॥
अथ ब्रह्मा तमासाद्य बहुगौरवपूर्वकम् ॥३५॥
उवाच वचनं राजन्रिपुंजय महामते ॥
इलां पालय भूपाल ससमुद्राद्रिकाननाम् ॥३६॥
नागकन्यां नागराजः पत्न्यर्थं ते प्रदास्यति ॥
अनंगमोहिनीं नाम्ना वासुकिः शीलभूषणाम् ॥३७॥
दिवोपि देवा दास्यंति रत्नानि कुसुमानि च ॥
प्रजापालनसंतुष्टा महाराज प्रतिक्षणम् ॥३८॥
दिवोदास इति ख्यातमतो नाम त्वमाप्स्यसि ॥
मत्प्रभावाच्च नृपते दिव्यं सामर्थ्यमस्तु ते ॥३९॥
परमेष्ठिवचः श्रुत्वा ततोसौ राजसत्तमः ॥
वेधसं बहुशः स्तुत्वा वाक्यं चेदमुवाच ह ॥४०॥
॥राजोवाच ॥
पितामह महाप्राज्ञ जनाकीर्णे महीतले ॥
कथं नान्ये च राजानो मां कथं कथ्यते त्वया ॥४१॥
॥ ब्रह्मोवाच ॥
त्वयि राज्यं प्रकुर्वाणे देवो वृष्टिं विधास्यति॥
पापनिष्ठे च वै राज्ञि न देवो वर्षते पुनः ॥४२॥
॥ राजोवाच ॥
पितामह महामान्य त्रिलोकी करणक्षम॥
महाप्रसाद इत्याज्ञां त्वदीयां मूर्ध्न्युपाददे ॥४३॥
किंचिद्विज्ञप्तुकामोहं तन्मदर्थं करोषि चेत् ॥
ततः करोम्यहं राज्यं पृथिव्यामसपत्नवत् ॥४४॥
॥ ब्रह्मोवाच ॥
अविलंबेन तद्ब्रूहि कृतं मन्यस्व पार्थिव ॥
यत्ते हृदि महाबाहो तवादेयं न किंचन ॥४५॥
॥ राजोवाच ॥
यद्यहं पृथिवीनाथः सर्वलोकपितामह ॥
तदादिविष(प?)दो देवा दिवि तिष्ठंतु मा भुवि ॥४६॥
देवेषु दिवितिष्ठत्सु मयि तिष्ठति भूतले ॥
असपत्नेन राज्येन प्रजासौख्यमवाप्स्यति ॥४७॥
तथेति विश्वसृक्प्रोक्तो दिवोदासो नरेश्वरः ॥
पटहं घोषयांचक्रे दिवं देवा व्रजंत्विति ॥४८॥
मा गच्छंत्विह वै नागा नराः स्वस्था भवंत्वितः ॥
मयि प्रशासति क्षोणीं सुराः स्वस्था भवंत्विति ॥४९॥
एतस्मिन्नंतरे ब्रह्मा विश्वेशं प्रणिपत्य ह ॥
यावद्विज्ञप्तुकामोभूत्तावदीशोब्रवीद्विधिम् ॥५०॥
लोकेश्वर समायाहि मंदरो नाम भूधरः ॥
कुशद्वीपादिहागत्य तपस्तप्येत दुष्करम् ॥५१॥
यावस्तस्मै वरं दातुं बहुकालं तपस्यते ॥
इत्युक्त्वा पार्वतीनाथो नंदिभृंगिपुरोगमः ॥५२॥
जगाम वृषमारुह्य मंदरो यत्र तिष्ठति ॥
उवाच च प्रसन्नात्मा देवदेवो वृषध्वज ॥५३॥
उत्तिष्ठोत्तिष्ठ भद्रं ते वरं ब्रूहि धरोत्तम ॥
सोथ श्रुत्वा महेशानं देवदेवं त्रिलोचनम्॥ ५४॥
प्रणम्य बहुशो भूमावद्रिरेतद्व्यजिज्ञपत् ॥
लीलाविग्रहभृच्छंभो प्रणतैक कृपानिधे ॥५५॥
सर्वज्ञोपि कथं नाम न वेत्थ मम वांछितम् ॥
शरणागतसंत्राण सर्ववृत्तांतकोविद ॥५६॥
सर्वेषां हृदयानंद शर्वसर्वगसर्वकृत् ॥
यदि देयो वरो मह्यं स्वभावादृषदात्मने ॥५७॥
याचकायातिशोच्याय प्रणतार्तिप्रभंजक ॥
ततोऽविमुक्तक्षेत्रस्य साम्यं ह्यभिलषाम्यहम् ॥५८॥
 कुशद्वीप उमा सार्धं नाथाद्य सपरिच्छदः ॥
मन्मौलौ विहितावासः प्रयात्वेष वरो मम ॥५९॥
सर्वेषां सर्वदः शंभुः क्षणं यावद्विचिंतयेत् ॥
विज्ञातावसरो ब्रह्मा तावच्छंभुं व्यजिज्ञपत्॥
प्रणम्याग्रेसरो भूत्वा मौलौ बद्धकरद्वयः ॥६०॥
॥ ब्रह्मोवाच ॥
विश्वेश जगतांनाथ पत्या व्यापारितोस्म्यहम् ॥
कृतप्रसादेन विभो सृष्टिं कर्तुं चतुर्विधाम् ॥६१॥
प्रयत्नेन मया सृष्टा सा सृष्टिस्त्वदनुज्ञया ॥
अवृष्ट्या षष्टिहायिन्या तत्र नष्टाऽप्रजा भुवि ॥६२॥
अराजकं महच्चासीद्दुरवस्थमभूज्जगत् ॥
ततो रिपुंजयो नाम राजर्षिर्मनुवंशजः ॥६३॥
मयाभिषिक्तो राजर्षिः प्रजाः पातुं नरेश्वरः ॥
चकार समयं सोपि महावीर्यो महातपाः ॥६४॥
तवाज्ञया चेत्स्थास्यंति सर्वे दिविषदो दिवि ॥
नागलोके तथा नागास्ततो राज्यं करोम्यहम् ॥६५॥
तथेति च मया प्रोक्तं प्रमाणीक्रियतां तु तत् ॥
मंदराय वरो दत्तो भवेदेवं कृपानिधे ॥६६॥
तस्य राज्ञः प्रजास्त्रातुं भूयाच्चैष मनोरथः ॥
मम नाडीद्वयं राज्यं तस्यापि च शतक्रतोः ॥६७॥
मर्त्यानां गणना क्वेह निमेषार्ध निमेषिणाम्॥
देवोपि निर्मलं मत्वा मंदरं चारुकंदरम् ॥६८॥
विधेश्च गौरवं रक्षंस्तथोरी कृतवान्हरः ॥
जंबूद्वीपे यथा काशी निर्वाणपददा सदा ॥६९॥
तथा बहुतिथं कालं द्वीपोभूत्सोपि मंदरः ॥
यियासुना च देवेन मंदरं चित्रकंदरम् ॥७०॥
निजमूर्तिमयं लिंगमविज्ञातं विधेरपि ॥
स्थापितं सर्वसिद्धीनां स्थापकेभ्यः समर्पितुम् ॥७१॥
विपन्नानां च जंतूनां दातुं नैःश्रेयसीं श्रियम् ॥
सर्वेषामिह संस्थानां क्षेत्रं चैवाभिरक्षितुम् ॥७२॥
मंदराद्रिगतेनापि क्षेत्रं नैतत्पिनाकिना ॥
विमुक्तं लिंगरूपेण अविमुक्तमतः स्मृतम् ॥७३॥
पुरा नंदवनं नाम क्षेत्रमेतत्प्रकीर्तितम्॥
अविमुक्तं तदारभ्य नामास्य प्रथितं भुवि ॥७४॥
नामाविमुक्तमभवदुभयोः क्षेत्रलिंगयोः ॥
एतद्द्वयं समासाद्य न भूयो गर्भभाग्भवेत् ॥७५॥
अविमुक्तेश्वरं लिंगं दृष्ट्वा क्षेत्रेऽविमुक्तके ॥
विमुक्त एव भवति सर्वस्मात्कर्मबंधनात् ॥७६॥
अर्चंति विश्वे विश्वेशं विश्वेशोर्चति विश्वकृत् ॥
अविमुक्तेश्वरं लिंगं भुविमुक्तिप्रदायकम् ॥७७॥
पुरा न स्थापितं लिंगं कस्यचित्केनचित्क्वचित् ॥
किमाकृति भवेल्लिंगं नैतद्वेत्त्यपि कश्चन ॥७८॥
आकारमविमुक्तस्य दृष्ट्वा ब्रह्माच्युतादयः ॥
लिंगं संस्थापयामासुर्वसिष्ठाद्यास्तथषर्यः ॥७९॥
आदिलिंगमिदं प्रोक्तमविमुक्तेश्वरं महत् ॥
ततो लिंगांतराण्यत्र जातानि क्षितिमंडले ॥८०॥
अविमुक्तेश नामापि श्रुत्वा जन्मार्जितादघात् ॥
क्षणान्मुक्तो भवेन्मर्त्यो नात्र कार्या विचारणा ॥८१॥
अविमुक्तेश्वरं लिंगं स्मृत्वा दूरगतोपि च ॥
जन्मद्वयकृतात्पापात्क्षणादेव विमुच्यते ॥८२॥
अविमुक्ते महाक्षेत्रेऽविमुक्तमवलोक्य च ॥
त्रिजन्मजनितं पापं हित्वा पुण्यमयो भवेत् ॥८३॥
यत्कृतं ज्ञानविभ्रंशादेनः पंचसु जन्मसु ॥
अविमुक्तेश संस्पर्शात्तत्क्षयेदेव नान्यथा ॥८४॥
अर्चयित्वा महालिंगमविमुक्तेश्वरं नरः ॥
कृतकृत्यो भवेदत्र न च स्याज्जन्मभाक्कुतः ॥८५॥
स्तुत्वा नत्वार्चयित्वा च यथाशक्ति यथामति ॥
अविमुक्ते विमुक्तेशं स्तूयते नम्यतेऽर्च्यते ॥८६॥
अनादिमदिदं लिंगं स्वयं विश्वेश्वरार्चितम् ॥
काश्यां प्रयत्नतः सेव्यमविमुक्तं विमुक्तये ॥८७॥
संति लिंगान्यनेकानि पुण्येष्वायतनेषु च ॥
आयांति तानि लिंगानि माघीं प्राप्य चतुदर्शीम्॥ ८८॥
कृष्णायां माघभूतायामविमुक्तेश जागरात् ॥
सदा विगतनिद्रस्य योगिनो गतिभाग्भवेत् ॥८९॥
नानायतनलिंगानि चतुर्वर्गप्रदान्यपि ॥
माघकृष्णचतुर्दश्यामविमुक्तमुपासते ॥९०॥
किं बिभेति नरो धीरः कृतादघशिलोच्चयात् ॥
अविमुक्तेश लिंगस्य भक्ति वज्रधरो यदि ॥९१॥
क्वाविमुक्तं महालिंगं चतुर्वर्गफलोदयम् ॥
क्व पापि पापशैलोऽल्पो यःक्षयेन्नामसंभृतः ॥९२॥
अविमुक्ते महाक्षेत्रे विश्वेशसमधिष्ठिते ॥
यैर्न दृष्टं विमूढास्तेऽविमुक्तं लिंगमुत्तमम् ॥९३॥
द्रष्टारमविमुक्तस्य दृष्ट्वा दंडधरो यमः ॥
दूरादेव प्रणमति प्रबद्धकरसंपुटः ॥९४॥
धन्यं तन्नेत्रनिर्माणं कृतकृत्यौ तु तौ करौ ॥
अविमुक्तेश्वरं येन याभ्यामैक्षिष्ट यः स्पृशेत् ॥९५॥
त्रिसंध्यमविमुक्तेशं यो जपेन्नियतः शुचिः ॥
दूरदेशविपन्नोपि काशीमृतफलं लभेत् ॥९६॥
अविमुक्तं महालिंगं दृष्ट्वा ग्रामांतरं व्रजेत्॥
लब्धाशुकार्यसंसिद्धिं क्षेमेण प्रविशेद्गृहम् ॥९७॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशी खंडे पूर्वार्द्धे अविमुक्तेशाविर्भावोनामैकोनचत्वारिंशोध्यायः ॥३९॥

N/A

References : N/A
Last Updated : November 25, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP