संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|काशीखण्ड|
अध्याय ८१

काशीखण्डः - अध्याय ८१

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ अगस्त्य उवाच ॥
धर्मतीर्थस्य माहात्म्यं कीदृग्देवेन शंभुना ॥
स्कंद देव्यै समाख्यातं तदाख्याहि कृपां कुरु ॥१॥
॥ स्कंद उवाच ॥
विंध्योन्नतिहृदाख्यामि धर्मतीर्थसमुद्भवम् ॥
आकर्णय महाप्राज्ञ यथा देवेन भाषितम् ॥२॥
वृत्रं निहत्य वृत्रारिर्ब्रह्महत्यामवाप्तवान् ॥
अनुतप्तोथ पप्रच्छ प्रायश्चित्तं पुरोहितम् ॥३॥
॥ बृहस्पतिरुवाच ॥
यदि त्वं देवराजेमां ब्रह्महत्यां सुदुस्त्यजाम् ॥
अपानुनुत्सुस्तद्याहि काशीं विश्वेशपालिताम् ॥४॥
नान्यत्किंचित्क्वचिद्दृष्टं ब्रह्महत्यामहौषधम् ॥
राजधानीं परित्यज्य शक्र विश्वेशितुः पराम् ॥५॥
भैरवस्यापिहस्ताग्रादपतद्वैधसं शिरः ॥
यत्रानंदवने तत्र वृत्रशत्रो व्रज द्रुतम् ॥६॥
सीमानमपि संप्राप्य शक्रानंदवनस्य हि ॥
ब्रह्महत्या पलायेत वेपमाना निराश्रया ॥७॥
अन्येषामपि पापानां महापापजुषामपि ॥
नाशयित्री परा काशी विश्वेश समधिष्ठिता ॥८॥
महापातकतो मुक्तिः काश्यामे व शतक्रतो ॥
महासंसारतो मुक्तिः काश्यामेव न चान्यतः ॥९॥
निर्वाणनगरी काशी काशी सर्वाघसंघहृत् ॥
विश्वेशितुः प्रिया काशी द्यौः काशी सदृशी नहि ॥१०॥
ब्रह्महत्याभयं यस्य यस्य संसारतो भयम्॥
जातुचित्तेन न त्याज्या काशिका मुक्तिकाशिका ॥११॥
जंतूनां कर्मबीजानां यत्र देहविसर्जने ॥
न जातुचित्प्ररोहोस्ति हरदृष्ट्याप्तशुष्मणाम् ॥१२॥
तां काशीं प्राप्य वृत्रारे वृत्रहत्यापनुत्तये ॥
समाराधय विश्वेशं विश्वमुक्तिप्रदायकम् ॥१३॥
बृहस्पतेरिति वचो निशम्य स सहस्रदृक् ॥
आयाद्द्रुततरं काशीं महापातकघातुकाम् ॥१४॥
स्नात्वोत्तरवहायां च धर्मेशं परितः स्थितः ॥
आराधयन्महादेवं ब्रह्मद्वत्याप नुत्तये ॥१५॥
महारुद्रजपासक्तः सुत्रामाथ त्रिलोचनम् ॥
ददर्श लिंगमध्यस्थं स्वभासा दीपितांबरम् ॥१६॥
पुनस्तुष्टाव वेदोक्तै रुद्रसूक्तैरनेकधा ॥
विनिष्क्रम्य ततो लिंगादाविर्भूय भवोवदत् ॥१७॥
शचीपते प्रसन्नोस्मि वरं वरय सुव्रत ॥
किं देयं द्रुतमाख्याहि धर्मपीठकृतास्पद ॥१८॥
श्रुत्वेति देवदेवस्य स प्रेमवचनं हरिः ॥
सर्वज्ञ किंतेऽविदितं तमुवाचेति वृत्रहा ॥१९॥
ततस्तत्कृपयानुन्नो धर्मपीठनिषेवणात् ॥
निष्पाद्य तीर्थं तत्रेशोऽत्र स्नाहींद्रेति चाब्रवीत् ॥२०॥
तत्रेंद्रः स्नानमात्रेण दिव्यगंधोऽभवत्क्षणात् ॥
अवाप च रुचिं चारुं प्राक्तनीं शातयाज्ञिकीम् ॥२१॥
तदाश्चर्यमथो दृष्ट्वा मुनयो नारदादयः ॥
परिसस्नुर्मुदायुक्ता धर्मतीर्थेऽघहारिणि ॥२२॥
अतर्पयन्पितॄन्दिव्यान्व्यधुः श्राद्धानि श्रद्धया ॥
धर्मेशं स्नापयामासुस्तत्तीर्थाम्बुभृतैर्घटैः ॥२३॥
तदा प्रभृति तत्तीर्थं धर्मांधुरिति विश्रुतम् ॥
ब्रह्महत्यादि पापानामक्लेशं क्षालनं परम् ॥२४॥
यत्फलं तीर्थराजस्य स्नानेन परिकीर्त्यते ॥
सहस्रगुणितं तत्स्याद्धर्मांधु स्नानमात्रतः ॥२५॥
गंगाद्वारे कुरुक्षेत्रे गंगासागरसंगमे ॥
यत्फलं लभते मर्त्यो धर्मतीर्थे तदाप्नुयात् ॥२६॥
नर्मदायां सरस्वत्यां गौतम्यां सिंहगे गुरौ ॥
स्नात्वा यत्फलमाप्येत धर्मकूपे तदाप्नुयात् ॥२७॥
मानसे पुष्करे चैव द्वारिके सागरे तथा ॥
तीर्थे स्नात्वा फलं यत्स्यात्तत्स्याद्धर्मजलाशये ॥२८॥
कार्तिक्यां सूकरक्षेत्रे चैत्र्यां गौरीमहाह्रदे ॥
शंखोद्धारे हरिदिने यत्फलं तत्फलं त्विह ॥२९॥
तीर्थद्वयं प्रतीक्षंते सिस्नासून्पितरो नरान् ॥
गंगायां धर्मकूपे च पिंडनिर्वपणाशया ॥३०॥
पितामहसमीपे वा धर्मेशस्याग्रतोथ वा ॥
फल्गौ च धर्मकूपे च माद्यंति प्रपितामहाः ॥३१॥
धर्मकूपे नरः स्नात्वा परितर्प्य पितामहान् ॥
गयां गत्वा किमधिकं कर्ता पितृमुदावहम् ॥३२॥
यथा गयायां तृप्ताः स्युः पिंडदाने पितामहाः ॥
धर्मतीर्थे तथैव स्युर्न न्यूनं नैव चाधिकम् ॥३३ ।
ते धन्याः पितृभक्तास्ते प्रीणितास्तैः पितामहाः॥
पैत्रादृणाद्धर्मतीर्थे निष्कृतिर्यैः कृता सुतैः ॥३४॥
तत्तीर्थस्य प्रभावेण निष्पापोभूत्क्षणेन च ॥
प्रणम्य देवदेवेशमिंद्रोऽगादमरावतीम् ॥३५॥
अपारो महिमा तस्य धर्मतीर्थस्य कुंभज ॥
तत्कूपे स्वं निरीक्ष्यापि श्राद्धदानफलं लभेत् ॥३६॥
तत्रापि काकिणी मात्रं यच्छेत्पितृमुदे नरः ॥
अक्षयं फलमाप्नोति धर्मपीठप्रभावतः ॥३७॥
तत्र यो भोजयेद्विप्रान्यतिनोथ तपस्विनः ॥
सिक्थे सिक्थे लभेत्सोथ वाजपेयफलं स्फुटम् ॥३८॥
प्राप्यामरावतीं शक्रस्ततो दिविषदां पुरः ॥
धर्मपीठस्य माहात्म्यं महत्काश्यामवर्णयत् ॥३९॥
आगत्य पुनरप्यत्र शंभोरानंदकानने ॥
मुनिवृंदारकैः सार्धं लिंगमस्थापयद्धरिः ॥४०॥
तारकेशात्पश्चिमत इंद्रेश्वरमितीरितम् ॥
तस्य संदर्शनात्पुंसामैंद्रलोको न दूरतः ॥४१॥
तद्दक्षिणे शचीशश्च स्वयं शच्या प्रतिष्ठितः ॥
शचीशार्चनतः स्त्रीणां सौभाग्यमतुलं भवेत् ॥४२॥
तत्समीपेस्ति रंभेशो बहुसौख्यसमृद्धिदः ॥
इंद्रेश्वरस्य परितो लोकपालेश्वरो परः ॥४३॥
तदर्चनात्प्रसीदंति लोकपालाः समृद्धिदाः ॥
धर्मेशात्पश्चिमाशायां धरणीशः प्रकीर्तितः ॥
तद्दर्शनेन धैर्यं स्याद्राज्ये राजकुलादिषु ॥४४॥
धर्मेशाद्दक्षिणे पूज्यं तत्त्वेशाख्यं परं नरैः ॥
तत्त्वज्ञानं प्रवर्तेत तल्लिंगस्य समर्चनात् ॥४५॥
धर्मेशात्पूर्वदिग्भागे वैराग्येशं समर्चयेत् ॥
निवृत्तिश्चेतसस्तस्य लिंगस्य स्पर्शनादपि ॥४६॥
ज्ञानेश्वरं तथैशान्यां ज्ञानदं सर्वदेहिनाम् ॥
ऐश्वर्येशमुदीच्यां च लिंगाद्धर्मेश्वराच्छुभात् ॥४७॥
तद्दर्शनाद्भवेन्नृणामैश्वर्यं मनसेप्सितम् ॥
पंचवक्त्रस्य रूपाणि लिंगान्येतानि कुंभज ॥४८॥
एतान्यवश्यं संसेव्य नरः प्राप्नोति शाश्वतम् ॥
अन्यत्तत्रैव यद्वृत्तं तदाख्यामि मुने शृणु ॥४९॥
यच्छ्रुत्वापि नरो घोरे संसाराब्धौ न मज्जति ॥
कदंबशिखरो नाम विंध्यपादो महानिह ॥५०॥
दमस्य पुत्रस्तत्रासीद्दुर्दमो नाम पार्थिवः ॥
पितर्युपरते राज्यं संप्राप्याविजितेंद्रियः ॥५१॥
हरेत्पुरंध्रीः प्रसभं पौराणां काममोहितः ॥
असाधवः प्रियास्तस्य साधवोऽप्रियतां ययुः ॥५२॥
अदंड्यान्दंडयांचक्रे दंड्येष्वासीत्पराङमुखः ॥
सदैव मृगयाशीलः सोऽभून्मृगयु संगतः ॥५३॥
विवासिताः स्वविषयात्तेन सन्मतिदायिनः ॥
धर्माधिकारिणः शूद्रा ब्राह्मणाः करदीकृताः ॥५४॥
परदारेषुसंतुष्टः स्वदारेषु पराङ्मुखः ॥
आनर्च जातुचिन्नैव देवौ दुःखांतकारिणौ ॥५५॥
हारिणौ सर्वपापानां सर्ववांछितदायिनौ ॥
सर्वेषां जगतीसारौ श्रीकंठश्रीपतीपती ॥५६॥
स्वप्रजास्वेक उदितो धूमकेतुरिवापरः ॥
दुर्दमो नाम भूपालः क्षयाया कांड एव हि ॥५७॥
स कदाचिन्मृगयुभिः पापर्धि व्यसनातुरः ॥
सार्धं विवेशारण्यानि गृष्टिपृष्ठानुगो हयी ॥५८॥
एकाकी दैवयोगेन दुर्दमः सोऽवनीपतिः ।
धन्वी तुरंगमारुढोऽविशदानंदकाननम् ॥५९॥
स विलोक्याथ सर्वत्र पादपा नवकेशिनः ॥
सुच्छायांश्च सुविस्तारान्गतश्रम इवाभवत् ॥६०॥
सुगंधेन सुशीतेन सुमदेन सुवायुना ॥
क्षणं संवीजितो राजा पल्लवव्यजनैः कुजैः ॥६३॥
केवलं मृगया जातस्तत्खेदो न व्यपाव्रजत् ॥
आजन्मजनितः खेदो निरगात्तद्वनेक्षणात् ॥६२॥
मध्ये वनं स चापश्यत्प्रासादं चुंबितांबरम् ॥
महारत्नशलाकानां रम्यमेकमिवाकरम् ॥६३॥
अथावरुह्य तुरगात्स भूपालोतिविस्मितः ॥
धर्मेशमंडपं प्राप्य स्वात्मानं प्रशशंस ह ॥६४॥
धन्योस्म्यहं प्रसन्नोस्मि धन्ये मेद्य विलोचने ॥
धन्यमद्यतनं चाहर्यदपश्यमिमां भुवम् ॥६५॥
पुनर्निनिंद चात्मानं धर्मपीठ प्रभावतः ॥
धिङ्मां दुर्जनसंसर्गं त्यक्तसज्जनसंगमम् ॥६६॥
जंतूद्वेगकरं मूढं प्रजापीडनपंडितम् ॥
परदारपरद्रव्यापहृत्यासुखमानिनम् ॥६७॥
अद्ययावन्मम गतं वृथाजन्माल्पमेधस ॥
धर्मस्थानानीदृशानि यद्दृष्टानि न कुत्रचित् ॥६८॥
एवं बहु विनिंद्य स्वं नत्वा धर्मेश्वरं विभुम् ॥
आरुह्याश्वं ययौ राजा दुर्दमो विषयं स्वकम् ॥६९॥
ततोमात्यान्समाहूय क्रमायातांश्चिरंतनान् ॥
नवीनान्परिनिर्वास्य पौरांश्चापि समाह्वयत् ॥७०॥
ब्राह्मणांश्चनमस्कृत्य तेभ्यो वृत्तीः प्रदाय च ॥
पुत्रे राज्यं समारोप्य प्रजाधर्मे निवेश्य च ॥७१॥
परिदंड्य च दंडार्हान्साधूंश्च परितोष्य च ॥
दारानपि परित्यज्य विषयेषु पराङ्मुखः ॥७२॥
समागच्छदथैकाकी काशीं श्रेयोविकासिनीम् ॥
धर्मेश्वरं समाराध्य कालान्निर्वाणमाप्तवान् ॥७३॥
धर्मेशदर्शनान्नित्यं तथाभूतः स दुर्दमः ॥
बभूव दमिनां श्रेष्ठः प्रांते मोक्षं च लब्धवान् ॥७४॥
इत्थं धर्मेश माहात्म्यं मया स्वल्पं निरूपितम् ॥
धर्मपीठस्य माहात्म्यं सम्यक्को वेद कुंभज ॥७९॥
इदं धर्मेश्वराख्यानं यः श्रोष्यति नरोत्तमः ॥
आजन्मसंचितात्पापात्स मुक्तो भवति क्षणात् ॥७६॥
श्राद्धकाले विशेषेण धर्मेशाख्यानमुत्तमम्॥
श्रावयेद्ब्राह्मणान्धीमान्पितॄणां तृप्तिकारणम् ॥७७॥
धर्माख्यानमिदं शृण्वन्नपि दूरस्थितः सुधीः ॥
सर्वपापर्विनिर्मुक्तो गंतांते शिवमंदिरम् ॥७८॥
इति श्रीस्कांदे महापुराणे एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे उत्तरार्धे धर्मेश्वराख्याननामैकाशीतितमोध्यायः ॥८१॥

N/A

References : N/A
Last Updated : November 27, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP