संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|काशीखण्ड| अध्याय ८८ काशीखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० विषयानुक्रमणिका काशीखण्डः - अध्याय ८८ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ८८ Translation - भाषांतर अगस्त्य उवाच ॥शिवलोकं समासाद्य मुनिना ब्रह्मसूनुना ॥किं चक्रे ब्रूहि षड्वक्त्र कथां कौतुकशालिनीम् ॥१॥स्कंद उवाच ॥शृणु कुंभज वक्ष्यामि नारदेन महात्मना ॥यत्कृतं तत्र गत्वाशु कैलासं शंकरालयम् ॥२॥मुनिर्गगनमार्गेण प्राप्य तद्धाम शांभवम्॥दृष्ट्वा शिवौ प्रणम्याथ शिवेन विहितादरः ॥३॥तदुद्दिष्टासनं भेजे पश्यंस्तत्क्रीडनं परम्॥क्रीडंतौ तौ तु चाक्षाभ्यां यदा न च विरमेतुः ॥४॥तदौत्सुक्येन स मुनिः प्रेर्यमाण उवाच ह ॥॥ नारद उवाच ॥देवदेव तव क्रीडाखिलं ब्रह्मांडगोलकम् ॥मासा द्वादश ये नाथ ते सारिफलके गृहाः ॥५॥कृष्णाः कृष्णेतरा या वै तिथयस्ताश्च सारिकाः ॥द्विपंचदशमासे यास्त्वक्षयुग्मं तथायने ॥६॥सृष्टिप्रलय संज्ञौ द्वौ ग्लहौ जयपराजयौ ॥देवीजये भवेत्सृष्टिरसृष्टिर्धूर्जटेर्जये ॥७॥भवतोः खेलसमयो यः सा स्थितिरुदाहृता॥इत्थं क्रीडैव सकलमेतद्ब्रह्मांडमीशयोः ॥८॥न देवी जेष्यति पतिं नेशः शक्तिं विजेष्यति ॥किंचिद्विज्ञप्तुकामोस्मि तन्मातरवधार्यताम् ॥९॥देवः सर्वज्ञनाथोपि न किंचिदवबुध्यति ॥मानापमानयोर्यस्मादसौ दूरे व्यवस्थितः ॥१०॥लीलात्मा गुणवानेष विचारादतिनिर्गुणः ॥कुर्वन्नपि हि कर्माणि बाध्यते नैव कर्मभिः ॥११॥मध्यस्थोपि हि सर्वस्य माध्यस्थ्यमवलंबतै ॥सर्वत्रायं महेशानो मित्राऽमित्रसमानदृक् ॥१२॥त्वं शक्तिरस्य देवस्य सर्वेषां मान्यभूः परा ॥दक्षस्यापि त्वया मानो दत्तो पत्यनिमित्तकः ॥१३॥परं त्वं सर्वजगतां जनयित्र्येकिका ध्रुवम् ॥त्वत्त आविर्भवंत्येव धातृकेशववासवाः॥ १४॥त्वमात्मानं न जानासि त्र्यक्षमायाविमोहिता ॥अतएव हि मे चित्तं दुनोत्यतितरां सति ॥१५॥अन्या अपि हि याः सत्यः पातिव्रत्यपरायणाः ॥ता भर्तृचरणौ हित्वा किंचिदन्यन्न मन्वते ॥१६॥अथवास्तामियं वार्ता प्रस्तुतं प्रब्रवीम्यहम् ॥अद्य नीलगिरेस्तस्माद्धरिद्वारसमीपतः ॥१७॥अपूर्वमिव संवीक्ष्य परिप्राप्तस्तवांतिकम् ॥अत्याश्चर्यविषादाभ्यां किचिद्वक्तुमिहोत्सुकः ॥१८॥आश्चर्यहेतुरेवायं यत्पुंजातं त्रयीतले ॥तद्दृष्टं सकलत्रं च दक्षस्याध्वरमंडपे ॥१९॥सालंकारं समानं च सानंदमुखपंकजम् ॥विस्मृताखिलकार्यं च दक्षयज्ञप्रवर्तकम् ॥२०॥विषादे कारणं चैतद्यतो जातमिदं जगत् ॥यस्मिन्प्रवर्तते यत्र लयमेष्यति च ध्रुवम् ॥२१॥तदेव तत्र नो दृष्टं भवद्वंद्वं भवापहम् ॥प्रायो विषादजनकं भवतोर्यददर्शनम् ॥२२॥तदेव नाभवत्तत्र समभूदन्यदेव हि ॥तच्च वक्तुं न शक्येत तद्वक्ता दक्ष एव सः ॥२३॥तानि वाक्यानि चाकर्ण्य द्रुहिणेन ययेततः ॥महर्षिणा दधीचेन धिक्कृतो नितरां हि सः ॥२४॥शप्तश्च वीक्षमाणानां देवर्षीणां प्रजापतिः ॥मया च कर्णौ पिहितौ श्रुत्वा तद्गर्हणा गिरः ॥२५॥दधीचिना समं केचिद्दुर्वासः प्रमुखा द्विजाः ॥भवनिंदां समाकर्ण्य कियतोपि विनिर्ययुः ॥२६॥प्रावर्तत महायागो हृष्टपुष्टमहाजनः ॥तथा द्रष्टुं न शक्नोमि तत आगतवानिह ॥२७॥भगिन्योपि च या देवि तव तत्र सभर्तृकाः ॥तासां गौरवमालोक्य न किंचिद्वक्तुमुत्सहे ॥२८॥इति देवी समाकर्ण्य सती दक्षकुमारिका ॥करादक्षौ समुत्सृज्य दध्यौ किंचित्क्षणं हृदि ॥२९॥उवाच च भवत्वेवं शरणं भव एव मे ॥संप्रधार्येति मनसि सती दाक्षायणी ततः ॥३०॥द्रुतमेव समुत्तस्थौ प्रणनाम च शंकरम् ॥मौलावंजलिमाधाय देवी देवं व्यजिज्ञपत् ॥३१॥॥ देव्युवाच ॥विजयस्वांधकध्वंसिं त्र्यंबक त्रिपुरांतक ॥चरणौ शरणं ते मे देह्यनुज्ञा सदाशिव ॥३२॥मा निषेधीः प्रार्थयामि यास्यमि पितुरंतिकम् ॥उक्त्वेति मौलिमदधादंधकारि पदांबुजे ॥३३॥अथोक्ता शंभुना देवी मृडान्युत्तिष्ठ भामिनि ॥किमपूर्णं तवास्त्यत्र वदसौ भाग्यसुंदरि ॥३४॥लक्ष्म्या अपि च सौभाग्यं ब्रह्माण्यै कांतिरुत्तमा ॥शच्यै नित्यनवीनत्वं भवत्या दत्तमीश्वरि ॥३५॥त्वया च शक्तिमानस्मि महदैश्वर्यरक्षणे ॥त्वां च शक्तिं समासाद्य स्वलीलारूपधारिणीम् ॥३६॥एतत्सृजामि पाम्यद्मि त्वल्लीलाप्रेरितोंगने ॥कुतो मां हातुमिच्छेस्त्वं मम वामार्धधारिणि ॥३७॥शिवा शिवोदितं चेति श्रुत्वाप्याह महेश्वरम् ॥जीवितेश विहाय त्वां न क्वापि परियाम्यहम् ॥३८॥मनो मे चरणद्वंद्वे तव स्थास्यति निश्चलम् ॥क्रतुं द्रष्टुं पितुर्यामि नैक्षि यज्ञो मया क्वचित् ॥३९॥शंभुः कात्यायनीवाक्यामिति श्रुत्वा तदाब्रवीत् ॥क्रतुस्त्वया नेक्षितश्चेदाहरामि ततः क्रतुम् ॥४०॥मच्छक्ति धारिणी त्वं वा सृजैवान्यां क्रतुक्रियाम् ॥अन्यो यज्ञपुमानस्तु संत्वन्ये लोकपालकाः ॥४१॥अन्यानाशु विधेहि त्वमृषीनार्त्विज्यकर्मणि ॥पुनर्जगाद देवीति श्रुत्वा शंभोरुदीरितम् ॥४२॥पितुर्यज्ञोत्सवो नाथ द्रष्टव्योऽत्र मया ध्रुवम् ॥देह्यनुज्ञां गमिष्यामि मा मे कार्षीर्वचोन्यथा ॥४३॥कः प्रतीपयितुं शक्तश्चेतो वा जलमेव वा ॥निम्नायाभ्युद्यतं नाथ माद्य मां प्रतिषेधय ॥४४॥निशम्येति पुनः प्राह सर्वज्ञो भूतनायकः ॥ मा याहि देवि मां हित्वा गता च न मिलिष्यसि ॥४५॥अद्य प्राचीं यियासुं त्वां वारयेत्पंगुवासरः ॥नक्षत्रं च तथा ज्येष्ठा तिथिश्च नवमी प्रिये ॥४६॥अद्य सप्तदशो योगो वियोगोद्य तनोऽशुभः ॥धनिष्ठार्ध समुत्पन्ने तव ताराद्य पंचमी ॥४७॥मा गा देवि गताद्य त्वं नहि द्रक्ष्यसि मां पुनः ॥पुनर्देवी बभाषे सा यदि नाम्नाप्यहं सती ॥४८॥तदा तन्वंतरेणापि करिष्ये तव दासताम् ॥ततो भवः पुनः प्राह को वा वारयितुं प्रभुः ॥४९॥परिक्षुब्धमनोवृत्तिं स्त्रियं वा पुरुषं तु वा ॥पुनर्न दर्शनं देवि मया सत्यं ब्रवीम्यहम् ॥५०॥परं न देवि गंतव्यं महामानधनेच्छुभिः ॥अनाहूत तया कांते मातापितृगृहानपि ॥५१॥यथा सिंधुगता सिंधुर्न पुनः परिवर्तते ॥तथाद्य गंत्र्या नो जातु तवागमनमिष्यते ॥५२॥॥ देव्युवाच ॥अवश्यं यद्यहं रक्ता तव पादाबुंजद्वये ॥तथा त्वमेव मे नाथो भविष्यसि भवांतरे ॥५३॥इत्युक्त्वा निर्ययौ देवी कोपांधीकृतलोचना ॥यियासुभिश्च कार्यार्थं यत्कर्तव्यं न तत्कृतम् ॥५४॥न ननाम महादेवं न च चक्रे प्रदक्षिणम् ॥अतएव हि सा देवी न गता पुनरागता ॥५५॥अप्रणम्य महेशानमकृत्वापि प्रदक्षिणम् ॥अद्यापि न निवर्तंते गताः प्राग्वासरा इव ॥५६॥तया चरणचारिण्या राज्ञ्या त्रिभुवनेशितुः ॥अपि तत्पावनं वर्त्म मेनेति कठिनं बहु ॥५७॥देवोपि तां सतीं यांतीं दृष्ट्वा चरणचारिणीम् ॥अतीव विव्यथे चित्ते गणांश्चाथ समाह्वयत् ॥५८॥गणा विमानं नयत मनःपवनचक्रिणम् ॥पंचास्यायुतसंयुक्तं रत्नसानुध्वजोच्छ्रितम् ॥५९॥महावातपताकं च महाबुद्ध्यक्षलक्षितम् ॥नर्मदालकनंदा च यत्रेषादंडतांगते ॥६०॥रथोपरि टिप्पणीछत्रीभूतौ च यत्रस्तः सूर्याचंद्रमसावपि ॥यस्मिन्मकरतुंडं च वाराहीशक्तिरुत्तमा ॥६१॥धूः स्वयं चापि गायत्री रज्जवस्तक्षकादयः ॥सारथिः प्रणवो यत्र क्रेंकारः प्रणवध्वनिः ॥६२॥अंगानि रक्षका यत्र वरूथश्छंदसां गणः ॥इत्याज्ञप्ता गणास्तूर्णं रथं निन्युर्हराज्ञया ॥६३॥देव्या सनाथं तं कृत्वा विमानं पार्षदा दिवि ॥अनुजग्मुर्महादेवीं दिव्यां तेजोविजृंभिणीम्॥ ६४॥सा क्षणं त्र्यक्षरमणी वीक्ष्य दक्षसभांगणम्॥नभोंऽगणाद्विमानस्थानतो वेगादवातरत् ॥६५॥अविशद् यज्ञवाटं च चकितंरक्षि वीक्षिता ॥कृतमंगलनेपथ्यां प्रसूं दृष्ट्वा किरीटिनीम्॥ ६६॥सभर्तृकाश्च भगिनीर्नवालंकृतिशालिनीः ॥साश्चर्याश्च सगर्वाश्च सानंदाश्च ससाध्वसाः ॥६७॥अचिंतिता त्वनाहूता विमानाद्धरवल्लभा ॥कथमेषा परिप्राप्ता क्षणमित्थं प्रपश्यतीः॥ ६८॥असंभाष्या पिताः सर्वा गता दक्षांतिकं सती ॥पित्रा पृष्टा तु मात्रापि भद्रं जातं त्वदागमे ॥६९॥॥ सत्युवाच ॥यदि भद्रं जनेतर्मे समागमनतो भवेत् ॥कथं नाहं समाहूता यथैता मे सहोदराः ॥७०॥॥ दक्ष उवाच ॥अयि कन्ये महाधन्ये ह्यनन्ये सर्वमंगले ॥अयं ते न मनाग्दोषो दोष एष ममैव हि ॥७१॥तादृग्विधाय यत्पत्ये मया दत्ताज्ञबुद्धिना ॥यदहं तं समाज्ञास्यमीश्वरोसौ निरीश्वरः ॥७२॥तदा कथमदास्यं त्वां तस्मै मायास्वरूपिणं ॥अहं शिवाख्यया तुष्टो न जाने शिवरूपिणम् ॥७३॥पितामहेन बहुधा वर्णितोसौ ममाग्रतः ॥शंकरोयमयं शभुरसौ पशुपतिः शिवः ॥७४॥श्रीकंठोसौ महेशोऽसौ सर्वज्ञोसौ वृषध्वजः ॥अस्मै कन्यां प्रयच्छ त्वं महादेवाय धन्विने ॥७५॥वाक्याच्छतधृतेस्तस्मात्तस्मै दत्ता मयानघे ॥न जाने तं विरूपाक्षमुक्षगं विषभक्षिणम् ॥७६॥पितृकाननसंवासं शूलिनं च कपालिनम् ॥द्विजिह्वसंगसुभगं जलाधारं कपर्दिनम् ॥७७॥कलंकिकृतमौलिं च धूलिधूसरचर्चितम् ॥क्वचित्कौपीनवसनं नग्नं वातूलवत्क्वचित् ॥७८॥क्वचिच्च चर्मवसनं क्वचिद्भिक्षाटनप्रियम् ॥विटंकभूतानुचरं स्थाणुमुग्रं तमोगुणम् ॥७९॥रुद्रं रौद्रपरीवारं महाकालवपुर्धरम् ॥नृकरोटीपरिकरं जातिगोत्रविवर्जितम् ॥८०॥न सम्यग्वेत्ति तं कश्चिज्जानानोपि प्रतारितः ॥किं बहूक्तेन तनये समस्त नयशालिनि ॥८१॥क्व पांसुलपटच्छन्नो महाशंखविभूषणः ॥प्रबद्धसर्पकेयूरः प्रलंबित जटासटः ॥८२॥डमड्डमरुकव्यग्र हस्ताग्रः खंडचंद्रभृत् ॥तांडवाडंबररुचिः सर्वामंगल चेष्टितः ॥८३॥मृडानि सहरः क्वाऽयमध्वरो मंगलालयः ॥अतएव समाहूता नेह त्वं सर्वमंगले ॥८४॥दुकूलान्यनुकूलानि रत्नालंकृतयः शुभाः ॥प्रागेव धारितास्तेत्र पश्यागत्य गृहाण च ॥८५॥इह मंगलवेशेषु देवेंद्रेषु स शूलधृक् ॥कथमर्हो भवेच्चेति मंगले विषमेक्षणः ॥८६॥इत्याकर्ण्य सती साध्वी जनेतुरुदितं तदा ॥अत्यंतदूनहृदया वक्तुं समुपचक्रमे ॥८७॥सत्युवाच ॥नाकर्णितं मया किंचित्त्वयि प्रब्रुवति प्रभो ॥पदद्वयीं समाकर्ण्य तां च ते कथयाम्यहम् ॥८८॥न सम्यग्वेत्ति तं कश्चिज्जानानोपि प्रतारितः ॥एतत्सम्यक्त्वयाख्यायि कस्तं वेत्ति सदाशिवम्॥ ८९॥त्वं तु प्रतारितः पूर्वमधुनापि प्रतारितः ॥कृत्वा तेन च संबंधमसंबद्धप्रलापभाक् ॥९०॥यादृशं वक्षितं शंभुं तादृशं यद्यमन्यथाः ॥कुतो मामददास्तस्मै यं च कश्च न वेद न ॥९१॥अथवा तेन संबंधे न हेतुर्भवतो मतिः ॥तत्र हेतुरभूत्तात मम पुण्यैकगौरवम् ॥९२॥अथोक्त्वैवं बहुतरं त्वं जनेतास्य वर्ष्मणः ॥श्रुतानेन च देहेन पत्युः परिविगर्हणा ॥९३॥पुरश्चरणमेवैतद्यदस्यैव विसर्जनम् ॥सुश्लाघ्यजन्मया तावत्प्राणितव्यं सुयोषिता ॥यावज्जीवितनाथस्याश्रवणीया विगर्हणा ॥९४॥इत्युक्त्वा क्रोधदीप्ताग्नौ महादेवस्वरूपिणि ॥जुहाव देहसमिधं प्राणरोधविधानतः ॥९५॥ततो विवर्णतां प्राप्ताः सर्वे देवाः सवासवाः ॥नाग्निर्जज्वाल च तथा यथाज्याहुतिभिः पुरा ॥९६॥मंत्राः कुंठितसामर्थ्यास्तत्क्षणादेव चाभवन् ॥अहो महानिष्टतरं किमेतत्समुपस्थितम् ॥९७॥केचिदूचुर्द्विजवरा मिथः परियियासवः ॥महाझंझानिलः प्राप्तः पर्वतांदोलनक्षमः ॥९८॥मखमंडप भूस्तेन क्षणतः स्थपुटीकृता ॥अकांडं तडिदापातो जातोभूद्भूप्रकपनः ॥९९॥दिवश्चोल्काः प्रपतिताः पिशाचा नृत्यमादधुः ॥आतापिगृध्रैरुपरि गगने मंडलायितम् ॥१००॥रवेरधस्तादशिवं शिवास्तत्राप्यरारिषुः ॥मेघारुधिरविपुड्भिस्तत्र वृष्टिं व्यधुः पराम् ॥१॥निर्घातनिःस्वनो भूमेरुत्थितो हृत्प्रकंपनः ॥दिव्यायुधानि च मिथो युध्यंति स्मातिभीषणम् ॥२॥हवनीयं महद्रव्यं दूषितं क्रोष्टुभिः श्वभिः ॥चकोराः करटास्तत्र विचेरुर्यज्ञमंडपे ॥३॥श्मशानवाटवज्जातो यज्ञवाटः स वै क्षणात॥यद्यत्रावस्थितं सर्वं तत्तत्रैव परिष्ठितम् ॥४॥चित्रन्यस्तमिवासीच्च वस्तुजातमशोभि च ॥स्थगिता इव संवृत्तास्तत्र चक्रधरादयः ॥५॥दक्षोपि वदनग्लानिमवाप्य सपरिच्छदः ॥पुनर्यथाकथंचिच्च यज्ञं प्रावर्तयन्द्विजाः ॥१०६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे सतीदेहविसर्जनं नामाष्टाशीतितमोऽध्यायः ॥८८॥ N/A References : N/A Last Updated : November 27, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP