संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|काशीखण्ड| अध्याय ८९ काशीखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० विषयानुक्रमणिका काशीखण्डः - अध्याय ८९ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ८९ Translation - भाषांतर ॥ स्कंद उवाच ॥पुनः स नारदोऽगस्त्य देव्याः प्राक्समुपागतः ॥तद्वृत्तांतमशेषं च हरायावेदितुं ययौ ॥१॥दृष्ट्वा स नारदः शंभुं नंदिना सह संकथाम् ॥कांचित्तर्जनिविन्यास पूर्वं कुर्वंतमानमत् ॥२॥उपाविशच्च शैलादि विसृष्टासनमुत्तमम् ॥वैलक्ष्यं नाटयन्किंचित्क्षणं जोषं समास्थितः ॥३॥आकारेणैव सर्वज्ञस्तद्वृत्तांतं विवेद ह॥अवादीच्च मुनिं शंभुः कुतो मौनावलंबनम् ॥४॥शरारिणां स्थितिरियमुत्पत्तिप्रलयात्मिका ॥दिव्यान्यपि शरीराणि कालाद्यांत्येवमेव हि ॥५॥दृश्यं विनश्वरं सर्वं विशेषाद्यदनीश्वरम् ॥ततोऽत्र चित्रं किं ब्रह्मन्कंकालः कालयेन्न वै ॥६॥अभाविनो हि भावस्य भावः क्वापि न संभवेत् ॥भाविनोपि हि नाभावस्ततो मुह्यंति नो बुधाः ॥७॥शंभूदीरितमाकर्ण्य स इत्थं मुनिपुंगवः ॥प्रोक्तवान्सत्यमेवैतद्यद्देवेन प्रभाषितम् ॥८॥अवश्यमेव यद्भाव्यं तद्भूतं नात्र संशयः ॥परं मां बाधतेत्यंतं चिंतैका चित्तमाथिनी ॥९॥नापचीयेत ते किंचिन्नोपचीयेत तत्त्वतः ॥अव्ययत्वाच्च पूर्णत्वाद्धानिवृद्धी कृतस्त्वयि ॥१०॥अहो वराकः संसारः क्व भविष्यत्यनीश्वरः ॥आरभ्याद्यदिनं न त्वामर्चयिष्यंति केपि यत् ॥११॥यतः प्रजापतिर्दक्षो न त्वामाहूतवान्क्रतौ ॥तेनाद्यरीढि तं दृष्ट्वा देवर्षिमनुजा अपि॥ १२॥तव रीढां करिष्यंति किमैश्वर्येण रीढिनाम् ॥प्राप्तावहेडना लोके जितकालभया अपि ॥अथैश्वर्येण संपन्नाः प्रतिष्ठाभाजनं किमु ॥१३॥महीयसायुषा तेषां वसुभिर्भूरिभिश्च किम् ॥येऽभिमानधनानेह लब्धरीढाः पदेपदे ॥१४॥अचेतनाश्च सावज्ञा जीवंतोपि न कीर्तये ॥अभिमानधना धन्या वरं योषित्सुसासती ॥१५॥या त्वद्विनिंदाश्रवणात्तृणीचक्रे स्वजीवितम्॥इत्याकर्ण्य महाकालः सम्यग्ज्ञात्वा सतीव्ययम् ॥१६॥सत्यं मुने सती देवी तृणीचक्रे स्वजीवितम् ॥जोषं स्थिते मुनौ तत्र तन्महाकालसाध्वसात् ॥१७॥रुद्रश्चातीवरुद्रोभूद्बहुकोपाग्निदीपितः ॥ततस्तत्कोपजाद्वह्निराविरासीन्महाद्युतिः ॥१८॥प्रत्यक्षः प्रतिमाकारः कालमृत्युप्रकंपनः ॥उवाच च प्रणम्येशं भुशुंडीं महतीं दधत् ॥१९॥आज्ञां देहि पितः किं ते करवै दास्यमुत्तमम्॥ब्रह्मांडमेककवलं करवाणि त्वदाज्ञया ॥२०॥पिबामि चार्णवान्सप्ताप्येकेन चुलुकेन वै ॥रसातलं वा पातालं पातालं वा रसातलम् ॥२१॥त्वदाज्ञया नयामीश विनिमय्य स्वहेलया ॥सलोकपालमिंद्रं वा धृत्वा केशैरिहानये ॥२२॥अपि वैकुंठनाथश्चेत्तत्साहाय्यं करिष्यति ॥तदा तं कुंठितास्त्रं च करिष्यामि त्वदाज्ञया ॥२३॥दनुजा दितिजाः के वै वरा कारणदुर्बलाः ॥तेषु चोत्कटतां कोपि धत्ते तं प्रणिहन्म्यहम् ॥२४॥कालं बध्नामि वा संख्ये मृत्योर्वा मृत्युमर्थये ॥स्थावरेषु चरेष्वत्र मयि कुद्धे रणांगणे ॥२५॥त्वद्बलेन महेशान न कोपि स्थैर्यमेष्यति ॥ममपादतलाघातादेतद्वै क्षोणिमंडलम् ॥२६॥कदलीदलवद्वाताद्वेपते सरसातलम् ॥चूर्णीकरोमि दोर्दंडघाताच्चैतान्कुलाचलान् ॥२७॥किं बहूक्तेन देह्याज्ञां ममासाध्यं न किंचन ॥त्वत्पादबलमासाद्य कृतं विद्ध्यद्यचिंतितम् ॥२८॥इति प्रतिज्ञां तस्येशः श्रुत्वा कृतममन्यत ॥कृतकृत्यमिवात्यंतं तं मुदा प्रत्युवाच च ॥२९॥महावीरोसि रे भद्र मम सर्वगणेष्विह ॥वीरभद्राख्यया त्वं हि प्रथितिं परमां व्रज ॥३०॥कुरु मे सत्वरं कार्यं दक्षयज्ञं क्षयं नय ॥ये त्वां तत्रावमन्यंते तत्साहाय्यविधायिनः ॥३१॥ते त्वयाप्यवमंतव्या व्रज पुत्र शुभोदय ॥इत्याज्ञां मूर्ध्नि चाधाय स ततः पारमेश्वरीम् ॥३२॥हरं प्रदक्षिणीकृत्य जग्मिवानतिरंहसा ॥ततस्तदनुगाञ्शंभुः स्वनिःश्वाससमुद्गतान् ॥३३॥शतकोटिमितानुग्रान्गणानन्न्यानवासृजत् ॥ते गणा वीरभद्रं तं यांतं केचित्पुरोगताः ॥३४॥केचित्तदनुगा जाताः केचित्तत्पार्श्वगा ययुः॥अंबरं तैः समाक्रांतं तेजोवीजित भास्करैः ॥३५॥शृंगाग्राणि गिरीणां च कैश्चिदुत्पाटितानि वै ॥आचूडमूलाः कैश्चिच्च विधता वै शिलोच्चयाः ॥३६॥उत्पाट्य महतो वृक्षान्केचित्प्राप्ता मखांगणम् ॥कैश्चिदुत्पाटिता यूपाः केचित्कुंडान्यपूपुरन् ॥३७॥मंडपं ध्वंसयामासुः केचित्क्रोधोद्धुरागणाः ॥अचीखनन्वै वेदीश्च केचिद्वै शूलपाणयः ॥अभक्षयन्हवींष्यन्ये पृषदाज्यं पपुः परे ॥३८॥दध्वंसुरन्नराशींश्च केचित्पर्वतसन्निभान् ॥केचिद्वै पायसाहाराः केचिद्वै क्षीरपायिनः ॥३९॥केचित्पक्वान्नपुष्टांगा यज्ञपात्राण्यचूर्णयन् ॥अमोटयन्स्रुचादंडान्केचिद्दोर्दंडशालिनः ॥४०व्यभजञ्छकटान्केचित्पशून्केचिदजीगिलन् ॥अग्निं निर्वापयामासुः केचिदत्यग्नितेजसः ॥४१॥स्वयं परिदधुश्चान्ये दुकूलानि मुदा युताः ॥जगृहुः केचन पुरा रत्नानां पर्वतं कृतम् ॥४२॥एकेन च भगो देवः पश्यंश्चक्रे विलोचनः ॥पूष्णो दंतावलीमन्यः पातयामास कोपितः ॥४३॥यज्ञः पलायितो दृष्टः केनचिन्मृगरूपधृक् ॥शिरोविरहितश्चक्रे तेन चक्रेण दूरतः ॥४४॥एकः सरस्वतीं यांतीं दृष्ट्वा निर्नासिकां व्यधात् ॥अदितेरोष्ठपुटकौ छिन्नावन्येन कोपिना ॥४५॥अर्यम्णो बाहुयुगलं तथोत्पाटितवान्परः॥अग्नेरुत्पाटयामास कश्चिज्जिह्वां प्रसह्य च ॥४६॥चिच्छेद वायोर्वृषणं पार्षदोन्यः प्रतापवान् ॥पाशयित्वा यमं कश्चित्को धर्म इति पृष्टवान् ॥४७॥यत्र धर्मे महेशो न प्रथमं परिपूज्यते ॥नैर्ऋतं संगृहीत्वान्यः केशेष्वातो्ल्यचासकृत् ॥४८॥अनीश्वरं हविर्भुक्तं त्वयेत्या ताडयत्पदा ॥कुबेरमपरो धृत्वा पादयोरधुनोद्बलात् ॥४९॥वामयामास बहुशो भक्षिता ह्यध्वराहुतीः ॥एकादशाऽपि ये रुद्रा लोकपालैकपंक्तयः ॥५०॥रुद्राख्या धारणवशात्प्रमथैस्तेऽवहेलिताः ॥वरुणोदरमापीड्य प्रमथोन्यो बलेनहि ॥५१॥बहिरुद्गिरयामास यद्दत्तं चेशवर्ज्जितम् ॥मायूरीं तनुमासाद्य सहस्राक्षो महामतिः ॥५२॥उड्डीय गिरिमाश्रित्यच्छन्नः कौतुकमैक्षत ॥ब्राह्मणान्प्रमथा नत्वा यातयातेतिचाब्रुवन् ॥५३॥प्रमथाः कालयामासुरन्यानपि च याचकान् ॥इत्थं प्रमथिते यागे प्रमथैः प्रथमागतैः ॥वीरभद्रः स्वतः प्राप्तः प्रमथानीकिनी वृतः ॥५४॥यज्ञवाटं श्मशानाभं दृष्ट्वा तैः प्रमथैः पुरा ॥अतिशोच्यां दशां नीतं वीरभद्रस्ततो जगौ ॥५५॥गणाः पश्यत दुर्वृत्तैः प्रारब्धानां च कर्मणाम् ॥अनीश्वरैरवस्थेयं कुतो द्वेषो महेश्वरे ॥५६॥ये द्विषंति महादेवं सर्वकर्मैकसाक्षिणम् ॥धर्मकार्ये प्रवृत्तास्तु ते प्राप्स्यंतीदृशं दशाम् ॥५७॥क्व स दक्षो दुराचारः क्व च यज्ञभुजः सुराः ॥धृत्वा सर्वानानयत यात द्रुततरं गणाः ॥५८॥इत्याज्ञा वीरभद्रस्य प्राप्य ते प्रमथा द्रुतम्॥यावद्यांत्यग्रतस्तावदृष्टः कुद्धो गदाधरः ॥५९॥तेन ते प्रमथाः सर्वे महाबलपराक्रमाः ॥शुष्कपर्णतृणावस्थां प्रापिता वात्ययेव हि ॥६०॥अथ नष्टेषु सर्वेषु प्रमथेषु हरेर्भयात् ॥चुकोप वीरभद्रः स प्रलयानलसंनिभः ॥६१॥ददर्श शार्ङ्गिणं चाग्रे स्वगणैश्च परिष्टुतम् ॥चतुर्भुजैरसंख्यातैर्जितदैत्यमहाबलैः ॥६२॥चक्रिभिर्गदिभिर्जुष्टं खड्गिभिश्चापि शार्ङ्गिभिः ॥वीरभद्रस्ततः प्राह दृष्ट्वा तं दैत्यसूदनम् ॥६३॥त्वं तु यज्ञपुमानत्र महायज्ञप्रवर्तकः ॥रक्षिता निजवीर्येण दक्षस्य त्र्यक्षवैरिणः ॥६४॥किं वा दक्षं समानीय देहि युध्यस्व वा मया ॥न दास्यसि च चेद्दक्षं ततस्तं रक्ष यत्नतः ॥६५॥प्रायशः शंभुभक्तेषु यतस्त्वं प्रोच्यसेऽग्रणीः ॥एकोनेऽब्जसहस्रेप्राग्ददौ नेत्रांबुजं भवान् ॥६६॥तुष्टेन शंभुना दत्तं तुभ्यं चक्रं सुदर्शनम् ॥यत्साहाय्यमवाप्याजौ त्वं जयेर्दनुजाधिपान् ॥६७॥इत्याकर्ण्य वचस्तस्य वीरभद्रस्य चोर्जितम्॥जिज्ञासुस्तद्बलं विष्णुर्वीरभद्रमुवाच ह ॥६८॥त्वं शंभोः सुत देशीयो गणानां प्रवरोस्यहो ॥राजादेशमनुप्राप्य ततोप्यतिबलो महान् ॥६९॥योसि सोस्यहमप्यत्र दक्षरक्षणदक्षधीः ॥पश्यामि तव सामर्थ्यं कथं दक्षं हरिष्यसि ॥७०॥इत्युक्तो वीरभद्रः स तेन वै शार्ङ्गधन्वना ॥प्रमथान्दृष्टिभंग्यैव प्रेरयामास संगरे ॥७१॥अथ तैः प्रमथैर्विष्णोरनुगा गदिता रणे ॥आददानास्तृणं वक्त्रे णापिताः पाशवीं दशाम् ॥७२॥ततस्तार्क्ष्यरथः क्रुद्धस्त्वेकैकं रणमूर्धनि ॥सहस्रेणसहस्रेण बाणानां हृद्यताडयत् ॥७३॥ते भिन्नवक्षसः सर्वे गणा रुधिरवर्षिणः ॥वासंतीं कैंशुकीं शोभां परिप्रापूरणाजिरे ॥७४॥क्षरंत इव मातंगाः स्रवंत इव पर्वताः ॥मदेन धातुरागेण मिश्रैः शुशुभिरे गणाः ॥७५॥ततः प्रहस्य गणपोऽब्रवीद्वै कुंठनायकम् ॥हे शार्ङ्गधन्वञ्जाने त्वां त्वं रणांगण पंडितः ॥७६॥परं युध्यसि दैत्येंद्रैर्दानवेंद्रैर्न पार्षदैः ॥इत्युक्ता वीरभद्रेण भुशुंडीकलिताकरे ॥७७॥गदिनाऽथ गदा तूर्णं दैत्येंद्रगिरिरेणुकृत् ॥ततः प्रहतवान्वीरो भुशुंड्या तं गदाधरम् ॥७८॥तदंगसंगमासाद्य विदद्रे शतधा तया ॥कौमोदकी प्रहारेण वीरभद्रं प्रतापिनम् ॥७९॥ जघान वासुदेवोपि तरसाऽज्ञातवेदनम् ॥ततः खट्वांगमादाय गदाहस्तं गदाधरम् ॥८०॥आताड्य सव्यदोर्दंडे गदां भूमावपातयत् ॥कुपितोयं मधुद्वेषी चक्रेणाताडयच्च तम् ॥८१॥स च चक्रं समागच्छद्दृष्ट्वा सस्मार शंकरम् ॥शंकरस्मरणाच्चक्रं मनाग्वक्रत्वमाप्य च ॥कंठमासाद्यवीरस्य सम्यग्जातं सुदर्शनम् ॥८२॥तेन चक्रेण शुशुभे नितरां स गणेश्वरः ॥वीरलक्ष्म्यावृत इव समरे विजयस्रजा ॥८३॥ततः सुदर्शनं दृष्ट्वा तत्कंठाभरणं हरिः ॥मनाक्स चकितं स्मित्वा ततो जग्राह नंदकम् ॥८४॥सनंदकं करं तस्य प्रोद्यतं मधुविद्विषः ॥पश्यतां दिविसिद्धानां स्तंभयामास हुंकृता ॥८५॥अभ्यधावच्च वेगेन गृहीत्वा शूलमुज्ज्वलम् ॥यावज्जिघांसति हरिं तावदाकाशवाचया ॥८६॥वारितो गणराजः स मा कार्षीः साहसं त्विति ॥ततस्तमपहायाशु वीरभद्रो गणोत्तमः ॥८७॥प्राप्य दक्षं विनद्योच्चैर्धिक्त्वामीश्वरनिंदकम् ॥यस्येदृगस्ति संपत्तिर्यत्रदेवाः सहायिनः ॥स कथं सेश्वरं कर्म न कुर्याद्दक्षतांदधत् ॥८८॥येनास्येन पवित्रेण भवता निंदितः शिवः ॥चूर्णयामि तदास्यं ते चपेटाभिः समंततः ॥८९॥इत्युक्त्वा तस्य दक्षस्य हरपारुष्यभाषिणः ॥चिच्छेद वदनं वीरश्चपेटशतघातनैः ॥९०॥ततस्त्वदितिमुख्यानां मिलितानां महोत्सवे ॥त्रोटयामास कर्णादीन्यंगप्रत्यंगकानि च ॥९१॥वेणीदंडाश्च कासांचित्तेनच्छिन्ना महारुषा ॥कासांचिच्च कराश्छिन्ना कासांचित्कर्तितास्तनाः ॥९२॥नासापुटांस्तथान्यासां पाटयामास पार्षदः ॥चिच्छेद चांगुलीश्चापि तथान्यासां शिवप्रियः ॥९३॥ये ये निनिंदुर्देवेशं ये ये च शुश्रुवुस्तदा ॥तेषां जिह्वाश्रुतीः कोपादच्छिनच्चाकरोद्द्विधा ॥९४॥केचिदुल्लंबिता यूपे पाशयित्वा दृढं गले ॥अधोमुखायै देवेशं विहायात्तं महाहविः ॥९५॥द्विजराजश्च धर्मश्च भृगुमारीचिमुख्यकाः ॥अत्यंतमपमानस्य भाजनं तेन कारिताः ॥९६॥एते जामातरस्तस्य यतो दक्षस्य दुर्धियः ॥हित्वा महेश्वरममून्सोपश्यदधिकाञ्शिवात् ॥९७॥तानि कुंडानि ते यूपास्ते स्तंभाः स च मंडपः ॥तावेद्यस्तानि पात्राणि तानि हव्यान्यनेकधा ॥९८॥ते च वै यज्ञसंभारास्ते ते यज्ञप्रवर्तकाः ॥ते रक्षपालास्तेमंत्रा विनेशुर्हेलयाऽखिलाः ॥९९॥स्तोकेनैव हि कालेन यथर्धिः परवंचनात् ॥अर्जिता नश्यति क्षिप्रं दक्षसंपद्गताऽशिवा ॥१००॥नीते महाक्रतौ तेन सगणेनेदृशीं दशाम् ॥विधिर्विधि विलोपाच्च हरं विज्ञाप्य चानयत् ॥१॥तत्र यत्र मखः सोभूदीदृक्षः शिववर्जितः ॥आयातेथ महादेवे वीरभद्रोतिलज्जितः ॥२॥नत्वा न किंचिदवदद्देवः सर्वमवैत्स्वयम् ॥प्रसाद्य देवदेवेशं सुरज्येष्ठोऽब्रवीत्पुनः ॥३॥अपराध्यप्ययं दक्षः संप्रसाद्यः कृषानिधे ॥यथापूर्वं पुनरमून्सर्वान्कारय शंकर ॥४॥यथाविधिः प्रवर्तेत वैदिकः पुनरेव हि ॥तथाज्ञा दीयतां शंभो कर्मसिद्ध्यति सेश्वरम् ॥५॥अनीश्वरासु सर्वासु क्रियासु परमेश्वर ॥एवमेव भवत्येव विघ्रजाताः सहस्रशः ॥६॥विचारतो वराकोयम दक्षो भक्ततरस्तव ॥कुर्वन्योऽनीश्वरम कर्म परदृष्टांततां गतः ॥७॥अन्योपि यो महेशानं हित्वा कर्म करिष्यति ॥तस्य तत्कर्मसंसिद्धिर्दक्षस्येव भविष्यति ॥८॥अतो न कश्चित्किंचिच्च क्वचित्कर्म विना शिवम् ॥विधास्यति निशम्यास्य दक्षत्येदृक्ष चेष्टितम् ॥९॥विधीरितमिति श्रुत्वा स्मित्वा देवो महेश्वरः ॥वीरमाज्ञापयामास यथापूर्वं प्रकल्पय ॥११०॥वीरभद्रोपि तत्सर्वं शर्वाज्ञां प्रतिपद्य च ॥विना दक्षस्य वदनं यथापूर्वमकल्पपयत् ॥११॥ईश्वरं ये विनिंदंति ते मूकाः पशवो ध्रुवम् ॥ततो मेषमुखं दक्षं वीरभद्रो गणो व्यधात् ॥१२॥देवो ब्रह्माणमापृच्छय धर्माद्गार्हस्थ्यतश्च्युतः ॥सपापं दोहिमप्रस्थं जगाम तपसे ततः ॥१३॥अनाश्रमवता पुंसा यतः कालो मनागपि ॥मुधा कलयितव्यो न तस्माच्छ्रेयः सदा श्रम ॥१४॥अतः स सर्वं तपसां फलदाता महेश्वरः ॥तपश्चचार सगणो ब्रह्मा दक्षं त्वशिक्षयत् ॥१५॥हरनिंदा समुद्भूत पापपंकं सुदुस्त्यजम् ॥यदि क्षालयितुं कांक्षा तदा वाराणसीं व्रज ॥१६॥प्राप्य वाराणसीं पुण्यां महापापौघहारिणीम् ॥कुरु लिंगप्रतिष्ठां त्वं तेन शंभुः स तुष्यति ॥१७॥तुष्टे महेश्वरे तुष्टं जगदेतच्चराचरम् ॥नान्यत्र पापं ते गंतृ विना वाराणसीं पुरीम् ॥१८॥ब्रह्महत्यादि पापानां प्रायश्चित्तं मनीषिभिः ॥प्रोक्तं न हरनिंदायास्तत्र काश्येव केवलम ।१९॥काश्यां लिंगप्रतिष्ठायैः कृताऽत्र सुकृतात्मभिः ॥सर्वे धर्माः कृतास्तैस्तु त एव पुरुषार्थिनः ॥१२०॥इत्याकर्ण्य विधेर्वाक्यं दक्षः प्राप्याथ सत्वरम् ॥अविमुक्तं महाक्षेत्रं तताप परमं तपः ॥२१॥संस्थाप्य लिंगं विधिवल्लिंगाराधनतत्परः ॥न वेत्ति लिंगादपरं स किंचिज्जगतीतले ॥२२॥दिवानिशं महेशानं परिष्टौति समर्चति ॥नमति ध्यायतीक्षेत दक्षो दक्षप्रजापतिः ॥२३॥एकचित्तस्य दक्षस्य ध्यायतो लिंगमैश्वरम् ॥समाः सहस्रमगमन्मितं द्वादशसंख्यया ॥।२४॥।मेनां यावत्सती प्राप्य हिमाचलपतिव्रताम् ॥उमारूपाति तपसा पतिं प्राप पिनाकिनम् ॥२५॥तावत्स दक्षस्तपसि निश्चलो लिंगमार्चयत् ॥ततः काशीं समासाद्य सह भर्त्रा गिरींद्रजा ॥२६॥दृष्ट्वा तं निश्चलहृदं शिवलिंगार्चने रतम् ॥हरं व्यजिज्ञपद्देवी क्षीणोयं तपसा विभो ॥२७॥प्रसादय कृपासिंधो वरणैनं प्रजापतिम् ॥इत्युक्तोऽपर्णया शंभुः प्राह तं दक्षमीशिता ॥२. ॥वरं ब्रूहि महाभाग दास्यामि मनसेप्सितम् ॥इतीशोदितमाकर्ण्य प्रणम्य बहुशो हरम् ॥२९॥स्तुत्वा नानाविधैः स्तोत्रैः प्रसन्नं वीक्ष्य शंकरम् ॥प्रोवाच देवदेवेशं यदि देयो वरो मम ॥१३०॥तत्त्वदीय पदद्वंद्वे निर्द्वंद्वा भक्तिरस्तु मे ॥इदं च ते महालिंगं यन्मयाऽत्र प्रतिष्ठितम् ॥अस्मिँल्लिंगे त्वया नाथ स्थातव्यं सर्वदैव हि ॥३१॥।मयापराद्धं यद्देव तत्क्षंतव्यं कृपानिधे ॥एत एव वराः संतु क्रिमन्यैरुत्तमैर्वरैः ॥३२॥इति श्रुत्वा महादेवः प्रसन्नोतितरां भवः ॥प्रोवाच च यदुक्तं ते तत्तथास्तु न चान्यथा ॥३३॥अन्यच्च ते वरं दद्यां तच्छृणुष्व प्रजापते ॥यत्त्वया स्थापितं लिंगमेतद्दक्षेश्वराभिधम् ॥३४॥अस्य संसेवनात्पुंसामपराधसहस्रकम्॥क्षमिष्येहं न संदेहस्तस्मात्पूज्यमिदं जनैः ॥३५॥त्वं तु लिंगार्चनादस्मात्सर्वमान्यो भविष्यसि ॥परार्धद्वितयप्रांते ततो मोक्षमवाप्स्यसि ॥३६॥इत्युक्त्वा देवदेवेशस्तस्मिँल्लिंगे लयं ययौ ॥दक्षोपि गतवान्गेहं परिप्राप्तमनोरथः ॥३७॥॥ स्कंद उवाच ॥इत्यगस्त्य समाख्यातो दक्षेश्वरसमुद्भवः ॥यं श्रुत्वा मुच्यते जंतुरपराध शतैरपि ॥।३५॥श्रुत्वाख्यानमिदं पुण्यं दक्षेश्वरसमुद्भवम् ॥नरो न लिप्यते पापैरपराधालयोपि हि ॥१३९॥इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे दक्षेश्वरप्रादुर्भावोनाम नवाशीतितमोऽध्यायः ॥८९॥ N/A References : N/A Last Updated : November 27, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP