काशीखण्डः - अध्याय ७५
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ अगस्त्य उवाच ॥
श्रुत्वोंकारकथामेतां महापातकनाशिनीम् ॥
न तृप्तोस्मि विशाखाथ ब्रूहि त्रैविष्टपीं कथाम् ॥१॥
कथं च कथिता देव्यै देवदेवेन षण्मुख ॥
आविर्भूतिर्महाबुद्धे पुण्या त्रैलोचनी परा ॥२॥
स्कंद उवाच ॥
आकर्णय मुने वच्मि कथां श्रमनिवारिणीम् ॥
यथा देवेन कथितां त्रिविष्टपसमुद्भवाम् ॥३॥
विरजाख्यं हि तत्पीठं तत्र लिंगं त्रिविष्टपम् ॥
तत्पीठदर्शनादेव विरजा जायते नरः ॥४॥
तिस्रस्तु संगतास्तत्र स्रोतस्विन्यो घटोद्भव ॥
तिस्रः कल्मषहारिण्यो दक्षिणे हि त्रिलोचनात् ॥५॥
स्रोतोमूर्तिधराः साक्षाल्लिंगस्नपनहेतवे ॥
सरस्वत्यथ कालिंदी नर्मदा चातिशर्मदा ॥६॥
तिस्रोपि हि त्रिसंध्यं ताः सरितः कुंभपाणयः ॥
स्नपयंति महाधाम लिंगं त्रैविष्टपं महत् ॥७॥
लिंगानि परितस्ताभिः स्वनाम्नास्थापि तान्यपि ॥
तेषां संदर्शनात्पुंसां तासां स्नानफलं भवेत् ॥८॥
सरस्वतीश्वरं लिंगं दक्षिणेन त्रिविष्टपात् ॥
सारस्वतं पदं दद्याद्दृष्टं स्पृष्टं च जाड्यहृत् ॥९॥
यमुनेशं प्रतीच्यां च नरैर्भक्त्या समर्चितम् ॥
अपि किल्बिषवद्भिश्च यमलोकनिवारणम् ॥१०॥।
दृष्टं त्रिलोचनात्प्राच्यां नर्मदेशं सुशर्मदम् ॥
तल्लिंगार्चनतो नृणां गर्भवासो निषिध्यते ॥११॥
स्नात्वा पिलिपिला तीर्थे त्रिविष्टपसमीपतः ॥
दृष्ट्वा त्रिलोचनं लिंगं किं भूयः परिशोचति ॥१२॥
त्रिविष्टपस्य लिंगस्य स्मरणादपि मानवः ॥
त्रिविष्टप पतिर्भूयान्नात्र कार्या विचारणा ॥१३॥
त्रिविष्टपस्य द्रष्टारः स्रष्टारः स्युर्न संशयः ॥
कृतकृत्यास्त एवात्र त एवात्र महाधियः ॥१४॥
आनंदकानने लिंगं प्रणतं यैस्त्रिविष्टपम् ॥
त्रिलोचनस्य नामापि यैः श्रुतं शुद्धबुद्धिभिः ॥१५॥
सप्तजन्मार्जितात्पापात्ते पूता नात्र संशयः ॥
पृथिव्यां यानि लिंगानि तेषु दृष्टेषु यत्फलम् ॥१६॥
तत्स्यात्रिविष्टपे दृष्टे काश्यां मन्ये ततोधिकम् ॥
काश्यां त्रिविष्टपे दृष्टे दृष्टं सर्वं त्रिविष्टपम् ॥१७॥
क्षणान्निर्धूत पापोसौ न पुनर्गर्भभाग्भवेत ॥
स स्नातः सर्वतीर्थेषु सर्वावभृथवान्स च ॥१८॥
यो वै पिलिपिला तीर्थे स्नात्वोत्तरवहांभसि ॥
सरित्त्रयं महापुण्यं यत्र साक्षाद्वसेत्सदा ॥१९॥
तत्र श्राद्धादिकं कृत्वा गयायां किं करिष्यति ॥
स्नात्वा पिलिपिला तीर्थे कृत्वा वै पिंडपातनम् ॥२०॥
दृष्ट्वा त्रिविष्टपं लिंगं कोटितीर्थफलं लभेत् ॥
यदन्यत्रार्जितं पापं तत्काशी दर्शनाद्व्रजेत् ॥२१॥
काश्यां तु यत्कृतं पापं तत्पैशाचपदप्रदम् ॥
प्रमादात्पातकं कृत्वा शंभोरानंदकानने ॥२२॥
दृष्ट्वा त्रिविष्टपं लिंगं तत्पापमपि हास्यति ॥
सर्वस्मिन्नपि भूपृष्ठे श्रेष्ठमानंदकाननम् ॥२३॥
तत्रापि सर्वतीर्थानि ततोप्योंकारभूमिका ॥
ओंकारादपि सल्लिंगान्मोक्षवर्त्म प्रकाशकात् ॥२४॥
अतिश्रेष्ठतरं लिंगं श्रेयोरूपं त्रिलोचनम् ॥२५॥
तेजस्विषु यथा भानुर्दृश्येषु च यथा शशी ॥
तथा लिंगेषु सर्वेषु परं लिंगं त्रिलोचनम् ॥२६॥
त्रिलोचनार्चकानां सा पदवी न दवीयसी ॥
परं निर्वाणपद्माया महासौख्यैकशेवधेः ॥२७॥
सकृत्त्रिलोचनार्चातो यच्छ्रेयः समुपार्ज्यते ॥
न तदा जन्मसंपूंज्य लिंगान्यन्यानि लभ्यते ॥२८॥
काश्यां त्रिलोचनं लिंगं येर्चयंति महाधियः ॥
तेर्च्यास्त्रिभुवनौकोभिर्ममप्रीतिमभीप्सुभिः ॥२९॥
कृत्वापि सर्वसंन्यासं कृत्वा पाशुपतव्रतम् ॥
नियमेभ्यः स्खलित्वापि कुतो बिभ्यति मानवाः ॥३०॥
विद्यमाने महालिंगे महापापौघहारिणि॥
त्रिविष्टपे पुण्यराशौ मोक्षनिक्षेपसद्मनि ॥३१॥
समभ्यर्च्य महालिंगं सकृदेव त्रिलोचनम् ॥ऽ
मुच्यते कलुषैः सर्वैरपिजन्मशतार्जितैः॥। ३२॥
ब्रह्महापि सुरापो वा स्तेयी वा गुरुतल्पगः ॥
तत्संयोग्यपि वा वर्षं महापापी प्रकीर्तितः ॥३३॥
परदाररतश्चापि परहिंसा रतोपि वा ॥
परापवादशीलोपि तथा विस्रंभघातकः ॥३४ ।
कृतघ्नोपि भ्रूणहापि वृषलीपतिरेव वा ॥
मातापितृगुरुत्यागी वह्निदो गरदोपि वा ॥३५॥
गोघ्नः स्त्रीघ्नोपि शूद्रघ्नः कन्यादूषयितापि च ॥
क्रूरो वा पिशुनो वापि निजधर्मपराङ्मुखः ॥३६॥
निंदको नास्तिको वापि कूटसाक्ष्यप्रवादकः॥
अभक्ष्यभक्षको वापि तथाऽविक्रेय विक्रयी ॥३७॥
इत्यादि पापशीलोपि मुक्त्वैकं शिवनिंदकम ॥
पापान्निष्कृतिमाप्नोति नत्वा लिंगं त्रिलोचनम् ॥३८॥
शिवनिंदारतो मूढः शिवशास्त्रविनिंदकः ॥
तस्य नो निष्कृतिर्दृष्टा क्वापि शास्त्रेपि केनचित् ॥३९॥
आत्मघाती स विज्ञेयः सदा त्रैलोक्यघातकः ॥
शिवनिंदां विधत्ते यः स नाभाष्योऽधमाधमः ॥४०॥
शिवनिंदारता ये च शिवभक्तजनेष्वपि॥
ते यांति नरके घोरे यावच्चंद्रदिवाकरौ ॥४१॥
शैवाः पूज्याः प्रयत्नेन काश्या मोक्षमभीप्सुभिः॥
तेष्वर्चितेष्वपि शिवः प्रीतो भवत्यसंशयः ॥४२॥
सर्वेषामिह पापानां प्रायश्चित्तचिकीर्षया ॥
निःशंकैरेव वक्तव्यं प्रमाणज्ञैरिदं वचः ॥४३॥
पुरश्चरणकामश्चेद्भीतोसि यदि पापतः ॥
मन्यसे यदि नः सत्यं वाक्यशास्त्रप्रमाणतः ॥४४॥
ततः सर्वं परित्यज्य कृत्वा मनसि निश्चयम् ॥
आनंदकाननं याहि यत्र विश्वेश्वरः स्वयम् ॥४५॥
यत्र क्षेत्रप्रविष्टानां नराणां निश्चितात्मनाम् ॥
न बाधतेऽघनिचयः प्राप्येत च परोवृषः ॥४६॥
तत्राद्यापि महातीर्थं त्रिस्रोतस्यतिनिर्मले ॥
पुण्ये पिलिपिलानाम्नि त्रिसरित्परिसेविते ॥४७॥
त्रिलोचनाक्षिविक्षेप परिक्षिप्त महैनसि ॥
स्नात्वा गृह्योक्तविधिना तर्पणीयान्प्रतर्प्य च ॥४८॥
दत्त्वा देयं यथाशक्ति वित्तशाठ्यविवर्जितः ॥
दृष्ट्वा त्रिविष्टपं लिंगं समभ्यर्च्यातिभक्तितः ॥४९॥
गंधाद्यैर्विविधैर्माल्यैः पंचामृतपुरःसरैः ॥
धूपैर्दीपैः सनैवेद्यैर्वासोभिर्बहुभूषणैः ॥५०॥
पूजोपकरणैर्द्रव्यैर्घंटादर्पणचामरैः ॥
चित्रध्वजपताकाभिर्नृत्यवाद्यसुगायनैः ॥५१॥
जपैः प्रदक्षिणाभिश्च नमस्कारैर्मुदायुतैः ॥
परिचारकसंतोषैः कृत्वेति परिपूजनम् ॥५२॥
ब्राह्मणान्वाचयेत्पश्चान्निष्पापोहमिति ब्रुवन् ॥
एवं कुर्वन्नरः प्राज्ञो निरेना जायते क्षणात् ॥५३॥
ततः पंचनदे स्नात्वा मणिकर्णी ह्रदे ततः ॥
ततो विश्वेशमभ्यर्च्य प्राप्नोति सुकृतं महत् ॥५४॥
प्रायश्चित्तमिदं प्रोक्तं महापापविशोधनम् ॥
नास्तिके न प्रवक्तव्यं काशीमाहात्म्य निंदके ॥५५॥
ददच्च द्रव्यलोभेन प्रायश्चित्तमिदं शुभम्॥
दाता नरकमाप्नोति सत्यंसत्यं घटोद्भव ॥५५॥
क्षमां प्रदक्षिणीकृन्य यत्फलं सम्यगाप्यते ॥
प्रदोषे तत्फलं काश्यां सप्तकृत्वस्त्रिलोचने ॥५७॥
भुजंगमेखलं लिंगं काश्यां दृष्ट्वा त्रिविष्टपम् ॥
जन्मांतरेपि मुक्तः स्यादन्यत्र मरणे सति ॥५८॥
अन्यत्र सर्वलिंगेषु पुण्यकालो विशिष्यते ॥
त्रिविष्टपे पुण्यकालः सदा रात्रिदिवं नृणाम् ॥५९॥
लिंगान्योंकारमुख्यानि सर्वपापप्रकृंत्यलम् ॥
परं त्रैलोचनी शक्तिः काचिदन्यैव पार्वति ॥६०॥
यतः सर्वेषु लिंगेषु लिंगमेतदनुत्तमम् ॥
तत्कारणं शृण्व पर्णे कर्णे कुरु वदाम्यहम् ॥६१॥
पुरा मे योगयुक्तस्य लिंगमेतद्भुवस्तलात् ॥
उद्भिद्य सप्तपातालं निरगात्पुरतो महत् ॥६२॥
अस्मिँल्लिगे पुरा गौरि सुगुप्तं तिष्ठता मया ॥
तुभ्यं नेत्रत्रयं दत्तं निरैक्षिष्ठास्तथोत्तमम् ॥६३॥
तदा प्रभृति देवेशि लिंगमेतत्त्रिलोचनम ॥
विष्टपत्रितयांतस्थैर्गीयते ज्ञानदृष्टिदम् ॥५४॥
त्रिलोचनस्य ये भक्तास्तेपि सर्वे त्रिलोचनाः ॥
मम पारिषदास्ते तु जीवन्मुक्ताऽस्त एव हि ॥६५॥
त्रिलोचनस्य लिंगस्य महिमानं न कश्चन ॥
सम्यग्वेत्ति महेशानि मयैव परिगोपितम् ॥६६॥
शुक्लराधतृतीयायां स्नात्वा पैलिपिले ह्रदे ॥
उपोषणपरा भक्त्या रात्रौ जागरणान्विताः ॥६७॥
त्रिलोचनं पूजयित्वा प्रातः स्नात्वापि तत्र वै ॥
पुनर्लिंगं समभ्यर्च्य दत्त्वा धर्मघटानपि ॥६८॥
सान्नान्सदक्षिणान्देवि पितॄनुद्दिश्य हर्षिताः ॥
विधाय पारणं पश्चाच्छिवभक्तजनैः सह ॥६९॥
विसृज्य पार्थिवं देहं तेन पुण्येन नोदिताः ॥
भवंति देवि नियतं गणा मम पुरोगमाः ॥७०॥
तावद्धमंति संसारे देवा मर्त्या महोरगाः ॥
गौरि यावन्न पश्यंति काश्यां लिंगं त्रिलोचनम् ॥७१॥
सकृत्त्रिविष्टपं दृष्ट्वा स्नात्वा पैलिपिले ह्रदे ॥
न जातुः मातुस्तनपो जायते जंतुरत्र हि ॥७२॥
प्रतिमासं सदाष्टम्यां चतुर्दश्यां च भामिनि ॥
आयांति सर्वतीर्थानि द्रष्टुं देवं त्रिविष्टपम् ॥७३॥
त्रिविष्टपाद्दक्षिणतः स्नातः पैलिपिलेंऽभसि ॥
तत्र संध्यामुपास्यैकां राजसूयफलं लभेत् ॥७४॥
पादोदकाख्यस्तत्रैव कूपः पापविनाशकः ॥
प्राश्य तस्योदकं मर्त्यो न मर्त्यो जायते पुनः ॥७५॥
तस्य लिंगस्य पार्श्वे तु संति लिंगान्यनेकशः ॥
कैवल्यदानि तान्यत्र दर्शनात्स्पर्शनादपि ॥७६॥
तत्र शांतनवं लिंगं गंगातीरे प्रतिष्ठितम् ॥
तद्दृष्ट्वा शांतिमाप्नोति नरः संसारतापितः ॥७७॥
तद्दक्षिणे महालिंगं मुने भीष्मेश संज्ञितम् ॥
कलिः कालश्च कामश्च बाधंते न तदीक्षणात् ॥७८॥
तत्प्रतीच्यां महालिंगं द्रोणेश इति कीर्तितम् ॥
यल्लिंगपूजनाद्द्रोणो ज्योतीरूपं पुनर्दधौ ॥७९॥
अश्वत्थामेश्वरं लिंगं तदग्रे चातिपुण्यदम् ॥
यदर्चनवशाद्द्रौणिर्न बिभेत्यपि कालतः ॥८०॥
द्रोणेशाद्वायु दिग्भागे वालखिल्येश्वरं परम् ॥
तल्लिंगं श्रद्धया दृष्ट्वा सर्वक्रतुफलं लभेत् ॥८१॥
तद्वामे लिंगमालोक्य वाल्मीकेश्वरसंज्ञितम् ॥
तस्य संदर्शनादेव विशोको जायते नरः ॥८२॥
अन्यच्चात्रैव यद्वृत्तं तद्ब्रवीमि घटोद्भव ॥
त्रिविष्टपस्य माहात्म्यं देव्यै देवेन भाषितम् ॥८३॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे पंचसप्ततितमोऽध्यायः ॥७५॥
N/A
References : N/A
Last Updated : November 27, 2024
TOP