काशीखण्डः - अध्याय ६८
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ स्कंद उवाच ॥
अन्यच्च शृणु विप्रेंद्र वृत्तातं तत्र संभवम् ॥
महाश्चर्यप्रजननं महापातकहारि च ॥१॥
इत्थं कथां प्रकुर्वाणे रत्नशेस्य महेश्वरे ॥
कोलाहलो महानासीत्त्रातत्रातेति सर्वतः ॥२॥
महिषासुरपुत्रोसौ समायाति गजासुरः ॥
प्रमथन्प्रमथान्सर्वान्निजवीर्य मदोद्धतः ॥३॥
यत्रयत्र धरायां स चरणं प्रमिणोति हि ॥
अचलोल्लोलयांचक्रे तत्रतत्रास्य भारतः ॥४॥
ऊरुवेगेन तरवः पतंति शिखरैः सह ॥
यस्य दोर्दंडघातेन चूर्णाः स्युश्च शिलोच्चयाः ॥५॥
यस्य मौलिजसंघर्षाद्घ(?)नाव्योम त्यजंत्यपि॥
नीलिमानं न चाद्यापि जह्युस्तक्लेशसंगजम् ॥६॥
यस्य निःश्वाससंभारैरुत्तरंगा महाब्धयः ॥
नद्योप्यमंदकल्लोला भवंति तिमिभिः सह ॥७॥
योजनानां सहस्राणि नवयस्य समुच्छ्रयः ॥
तावानेव हि विस्तारस्तनोर्मायाविनोस्य हि ॥८॥
यन्नेत्रयोः पिंगलिमा तथा तरलिमा पुनः ॥
विद्युता नोज्झ्यतेऽद्यापि सोयमायाति सत्वरः ॥९॥
यांयां दिशं समभ्येति सोयं दुःसह दानवः ॥
सासा समी भवेदस्य साध्वसादिव दिग्ध्रुवम् ॥१०॥
ब्रह्मलब्धवरश्चायं तृणीकृतजगत्त्रयः ॥
अवध्योहं भवामीति स्त्रीपुंसैः कामनिर्जितैः ॥११॥
ततस्त्रिशूलहेतिस्तमायांतं दैत्यपुंगवम् ॥
विज्ञायावध्यमन्येन शूलेनाभिजघान तम् ॥१२॥
प्रोतस्तेन त्रिशूलेन स च दैत्यो गजासुरः ॥
छत्रीकृतमिवात्मानं मन्यमानो जगौ हरम् ॥१३॥
॥ गजासुर उवाच ॥
त्रिशूलपाणे देवेश जाने त्वां स्मरहारिणम् ॥
तव हस्ते मम वधः श्रेयानेव पुरांतक ॥१४॥
किंचिद्विज्ञप्तुमिच्छामि अवधेहि ममेरितम्॥
सत्यं ब्रवीमि नासत्यं मृत्युंजय विचारय ॥१५॥
त्वमेको जगतां वंद्यो विश्वस्योपरि संस्थितः ॥
अहं त्वदुपरिष्टाच्च स्थितोस्मी ति जितं मया ॥१६॥
धन्योस्म्यनुगृहीतोस्मि त्वत्त्रिशूलाग्रसंस्थितः ॥
कालेन सर्वैर्मर्तव्यं श्रेयसे मृत्युरीदृशः ॥१७॥
इति तस्य वचः श्रुत्वा देवदेवः कृपानिधिः ॥
प्रोवाच प्रहसञ्छंभुर्घटोद्भव गजासुरम् ॥१८॥
॥ ईश्वर उवाच॥
गजासुर प्रसन्नोस्मि महापौरुषशेवधे ॥
स्वानुकूल वरं ब्रूहि ददामि सुमतेऽसुर ॥१९॥
इत्याकर्ण्य स दैत्येंद्रः प्रत्युवाच महेश्वरम् ॥
॥ गजासुर उवाच ॥
यदि प्रसन्नो दिग्वासस्तदा नित्यं वसान मे ॥२०॥
इमां कृत्तिं विरूपाक्ष त्वत्त्रिशूलाग्निपाविताम् ॥
स्वप्रमाणां सुखस्पर्शां रणांगणपणीकृताम् ॥२१॥
इष्टगंधिः सदैवास्तु सदैवास्त्वतिकोमला ॥
सदैव निर्मला चास्तु सदैवास्त्वतिमंडनम् ॥२२॥
महातपोऽनलज्वालाः प्राप्यापि सुचिरं विभो ॥
न दग्धा कृत्तिरेषा मे पुण्यगंधनिधिस्ततः ॥२३॥
यदि पुण्यवती नैषा ममकृत्तिर्दिगंबर ॥
तदा त्वदंगसंगोस्याः कथं जातो रणांगणे ॥२४॥
अन्यं च मे वरं देहि यदि तुष्टोसि शंकर ॥
नामास्तु कृत्तिवासास्ते प्रारभ्याद्यतनं दिनम् ॥२५॥
इति तस्य वचः श्रुत्वा तथेत्युक्त्वा च शंकरः ॥
पुनःप्रोवाच तं दैत्यं भक्तिनिर्मलमानसम् ॥२६॥
॥ ईश्वर उवाच ॥॥
शृणु पुण्यनिधे दैत्य वरमन्यं सुदुर्लभम् ॥
अविमुक्ते महाक्षेत्रे रण त्यक्त कलेवर ॥२७॥
इदं पुण्यशरीरं ते क्षेत्रेस्मिन्मुक्तिसाधने ॥
मम लिंगं भवत्वत्र सर्वेषांमुक्तिदायकम् ॥२८॥
कृत्तिवासेश्वरं नाम महापातकनाशनम् ॥
सर्वेषामेव लिंगानां शिरोभूतमिदं वरम् ॥२९॥
यावंति संति लिंगानि वाराणस्यां महांत्यपि ॥
उत्तमं तावतामेतदुत्तमांगवदुत्तमम् ॥३०॥
मानवानां हितायात्र स्थास्येहं सपरिग्रहः ॥
दृष्टेनानेन लिंगेन पूजितेन स्तुतेन च॥
कृतकृत्यो भवेन्मर्त्यः संसारं न विशेत्पुनः ॥३१॥
रुद्राः पाशुपताः सिद्धा ऋषयस्तत्त्वचिंतकाः ॥
शांता दांता जितक्रोधा निर्द्वंद्वा निष्परिग्रहाः ॥३२॥
अविमुक्ते स्थिता ये तु मम भक्ता मुमुक्षवः ॥
मानापमानयोस्तुल्याः समलोष्टाश्मकांचनाः ॥३३॥
कृत्तिवासेश्वरे लिंगे स्थास्येहं तदनुग्रहे ॥
दशकोटिसहस्राणि तीर्थानि प्रतिवासरम् ॥३४॥
त्रिकालमागमिष्यंति कृत्तिवासे न संशयः ॥
कलिद्वापरसंभूता नराः कल्मषबुद्धयः ॥३५॥
सदाचारविनिर्मुक्ताः सत्यशौचपराङ्मुखाः ॥
मायया दंभलोभाभ्यां मोहाहंकृतिसंयुताः ॥३६॥
शूद्रान्नसेविनो विप्रा जिह्वाला अतिलालसाः ॥
संध्यास्नानजपेज्यासु दूरीकृत मनोधियः ॥३७॥
कृत्तिवासेश्वरं प्राप्य सर्वपापविवर्जिताः ॥
सुखेन मोक्षमेष्यंति यथा सुकृतिनस्तथा ॥३८॥
कृत्तिवासेश्वरं लिंगं सेव्यं काश्यां ततो नरैः ॥
जन्मांतरसहस्रेषु मोक्षोन्यत्र सुदुर्लभः ॥३९॥
कृत्तिवासेश्वरे लिंगे लभ्यस्त्वेकेन जन्मना ॥
पृर्वजन्मकृतं पापं तपोदानादिभिः शनैः ॥
नश्येत्सद्यो विनश्येत कृत्तिवासे श्वरेक्षणात् ॥४०॥
कृत्तिवासेश्वरं लिंगं येर्चयिष्यंति मानवाः ॥
प्रविष्टास्ते शरीरे मे तेषां नास्ति पुनर्भवः ॥४१॥
अविमुक्तेऽत्र वस्तव्यं जप्तव्यं शतरुद्रियम्॥
कृत्तिवासेश्वरो देवो द्रष्टव्यश्च पुनःपुनः ॥४२॥
सप्तकोटिमहारुद्रैः सुजप्तैर्यत्फलं भवेत् ॥
तत्फलं लभ्यते काश्यां पूजनात्कृत्तिवाससः ॥४३॥
माघ कृष्णचतुर्दश्यामुपोष्य निशि जागृयात् ॥
कृत्तिवासेशमभ्यर्च्य यः स यायात्परां गतिम्॥ ४४॥
शुक्लायां पंचदश्यां यश्चैत्र्यां कर्ता महोत्सवम्॥
कृत्तिवासेश्वरे लिंगे न स गर्भं प्रवक्ष्येते ॥४५॥
कथयित्वेति देवेशस्तत्कृत्तिं परिगृह्य च ॥
गजासुरस्य महतीं प्रावृणोद्धरिदंबरः ॥४६॥
महामहोत्सवो जातस्तस्मिन्नहनि कुंभज ॥
कृत्तिवासत्वमापेदे यस्मिन्देवो दिगंबरः ॥४७॥
यत्रच्छत्रीकृतो दैत्यः शूलमारोप्य भूतले ॥
तच्छूलोत्पाटनाज्जातं तत्र कुंडं महत्तरम् ॥४८॥
तस्मिन्कुंडे नरः स्नात्वा कृत्वा च पितृतर्पणम् ॥
कृत्तिवासेश्वरं दृष्ट्वा कृतकृत्यो नरो भवेत् ॥४९॥
स्कंद उवाच ॥
तस्मिंस्तीर्थे तु यद्वृत्तं तदगस्ते निशामय ॥
काका हंसत्वमापन्नास्तत्तीर्थस्य प्रभावतः ॥५०॥
एकदा कृत्तिवासे तु चैत्र्यां यात्राऽभवत्पुरा ॥
अन्नं राशीकृतं तत्र ह्युपहारसमुद्भवम् ॥५१॥
बहुदेवलकैर्विप्र तं दृष्ट्वा पक्षिणो मिलन् ॥
परस्परं तदन्नार्थं युध्यंतो व्योमवर्त्मनि ॥५२॥
बलिपुष्टैरपुष्टांगा रटतः करटाः कटु ॥
वलिभिश्चातिपुष्टांगैरबलाश्चंचुभिर्हताः ॥५३॥
ते हन्यमाना न्यपतंस्तस्मिन्कुंडे नभोंगणात् ॥
आयुःशेषेण संत्राता हंसीभूतास्तु वायसाः ॥५४॥
आश्चर्यवंतस्तत्रत्या यात्रायां मिलिता जनाः ॥
ऊचुरंगुलिनिर्देशैरहो पश्यत पश्यत ॥५५॥
अस्मासु वीक्षमाणेषु काकाः कुंडेत्र ये पतन् ॥
धार्तराष्ट्रास्तु ते जातास्तीर्थस्यास्य प्रभावतः ॥५६॥
हंसतीर्थं तदारभ्य कृत्तिवास समीपतः ॥
नाम्ना ख्यातमभूल्लोके तत्कुंडं कलशोद्भव॥ ५७॥
अतीव मलिनात्मानो महामलिन कर्मभिः ॥
क्षणान्निर्मलतां यांति हंसतीर्थकृतोदकाः ॥५८॥
काश्यां सदैव वस्तव्यं स्नातव्यं हंसतीर्थके ॥
द्रष्टव्यः कृत्तिवासेशः प्राप्तव्यं परमं पदम् ॥५९॥
काश्यां लिंगान्यनेकानि मुने संति पदेपदे ॥
कृत्तिवासेश्वरं लिंगं सर्वलिंगशिरः स्मृतम् ॥६०॥
कृत्तिवासं समाराध्य भक्तियुक्तेन चेतसा ॥
सर्वलिंगाराधनजं फलं काश्यामवाप्यते ॥६१॥
जपो दानं तपो होमस्तर्पणं देवतार्चनम् ॥
समीपे कृत्तिवासस्य कृतं सर्वमनंतकम् ॥६२॥
तीर्थं त्वनादिसंसिद्धमेतत्कलशसंभव ॥
पुनर्देवस्य सान्निध्यादाविरासीन्महेशितुः ॥६३॥
एतानि सिद्धलिंगानिच्छन्नानि स्युर्युगेयुगे ॥
अवाप्य शंभुसान्निध्यं पुनराविर्भवंति हि ॥६४॥
हंसतीर्थस्य परितो लिंगानामयुतं मुने ॥
प्रतिष्ठितं मुनिवरैरत्रास्ति द्विशतोत्तरम् ॥६५॥
एकैकं सिद्धिदं नृणामविमुक्तनिवासिनाम् ॥
लिंगं कात्यायनेशादि च्यवनेशां तमेव हि ॥६६॥
लोमशेशं महालिंगं लोमशेन प्रतिष्ठितम् ॥
कृत्तिवासः प्रतीच्यां तु तद्दृष्ट्वा क्वांतकाद्भयम् ॥६७॥
मालतीशं शुभं लिंगं कृत्तिवासोत्तरे महत् ॥
सपर्ययित्वा तल्लिंगं राजा गजपतिर्भवेत् ॥६८॥
अंतकेश्वर संज्ञं च लिंगं तद्रुद्रदिक्स्थितम् ॥
अतिपापोपि निष्पापो जायते तद्विलोकनात् ॥६९॥
जनकेशं महालिंगं तत्पार्श्वे ज्ञानदं परम् ॥
तल्लिंग वरिवस्यातो ब्रह्मज्ञानमवाप्यते ॥७०॥
तदुत्तरे महामूर्तिरसितांगोस्ति भैरवः ॥
तस्य दर्शनतः पुंसां न भवेद्यमदर्शनम् ॥७१॥
शुष्कोदरी च तत्रास्ति देवी विकटलोचना ॥
कृत्तिवासादुदीच्यां तु काशीप्रत्यूह भक्षिणी ॥७२॥
अग्निजिह्वोस्ति वेतालस्तस्या देव्यास्तु नैर्ऋते ॥
ददाति वांछितां सिद्धिं सोर्चितो भौमवासरे ॥७३॥
वेतालकुंडं तत्रास्ति सर्वव्याधिविघातकृत् ॥
तत्कुंडोदकसंस्पर्शाद्व्रणविस्फोटरुग्व्रजेत् ॥७४॥
वेतालकुंडे सुस्नातो वेतालं प्रणिपत्य च ॥
लभेत वांछितां सिद्धिं दुर्लभां सर्वदेहिभिः ॥७५॥
गणोस्ति तत्र द्विभुजश्चतुष्पात्पंचशीर्षकः ॥
तस्य संवीक्षणादेव पापं याति सहस्रधा ॥७६॥
तदुत्तरे मुने रुद्रश्तुःशृंगोस्ति भीषणः ॥
त्रिपादस्तु द्विशीर्षा च हस्ताः स्युः सप्त एव हि ॥।७७॥
रोरूयते वृषाकारस्त्रिधा बद्धः स कुंभज ॥
काशीविघ्रकरा ये च ये काश्यां पापबुद्धयः ॥७८॥
तेषां च संछिदां कर्तुमहं धृतकुठारकः ॥
ये काश्यां विघ्नहर्तारो ये काश्यां धर्मबुद्धयः ॥७९॥
सुधाघटकरश्चाहं तद्वंशपरिषेककृत् ॥
तं दृष्ट्वा वृषरुद्रं वै पूजयित्वा तु भक्तितः ॥८०॥
महामहोपचारैश्च न विघ्नैरभिभूयते ॥
मणिप्रदीपो नागोऽस्ति तस्माद्रुद्रादुदग्दिशि ॥८१॥
मणिकुंडं तदग्रे तु विषव्याधिहरं परम् ॥
तस्मिन्कुंडे कृतस्नानस्तं नागं परिवीक्ष्य च ॥८२॥
मणिमाणिक्यसंपूर्ण गजाश्वरथसंकुलम् ॥
स्त्रीरत्नपुत्ररत्नैश्च समृद्धं राज्यमाप्नुयात् ॥८३॥
कृत्तिवासेश्वरं लिंगं काश्यां यैर्न विलोकितम् ॥
ते मर्त्यलोके भाराय भुवो भूता न संशयः ॥८४॥
॥ स्कंद उवाच ॥
कृत्तिवासः समुत्पत्तिं ये श्रोष्यंतीह मानवाः ॥
तल्लिंगदर्शनाच्छ्रेयो लप्स्यंते नात्र संशयः ॥८५॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तराधें कृत्तिवासः समुद्भवो नामाष्टषष्टितमोऽप्यायः ॥६८॥
N/A
References : N/A
Last Updated : November 27, 2024
TOP